पञ्चनवतितमः सर्गः
[मन्दाकिनीसौन्दर्यम्] ॥ २।९५।१ ॥
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ॥
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ १ ॥
अथ नदीप्रदर्शनेन सीताया उपलालनम्। अथेत्यादि। शैलाद्विनिष्क्रम्येति। एतावत्कालमनुभावितात् पर्वतात् निष्क्रम्यअपसृत्य ॥ १ ॥
॥ २।९५।१ ॥ ॥ २।९५।२ ॥
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम्।
विदेहराजस्य सुतां रामो राजीवलोचनः ॥ २ ॥
वरारोहांउत्तमस्त्रीम् ॥ २ ॥
॥ २।९५।२ ॥ ॥ २।९५।३ ॥
विचित्रपुलिनां रम्यां हंससारससेविताम्।
१सुकुमैरुप २सम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ ३ ॥
कुसुमैःपद्मादिकुसुमैः ॥ ३ ॥
पुलिनस्य विचित्रत्वं नवोलपालङ्कृतत्वात्गो। वस्तुतस्तु विचित्रजलप्रवाहैर्विचित्रितत्वादिति युक्तम्।
१कमलैःङ।
२संछन्नांङ।
वृक्षेभ्यः पतितैश्च।
॥ २।९५।३ ॥ ॥ २।९५।४ ॥
नानाविधैस्तीररुहैः वृतां पुष्पफलद्रुमैः।
राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ ४ ॥
तीरे रोहन्तीति तीररुहाः, इगुपधात् कः। राजराजस्य नलिनी सौगन्धिकसरसी ॥ ४ ॥
॥ २।९५।४ ॥ ॥ २।९५।५ ॥
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्।
तीर्थानि रमणीयानि १रतिं सञ्जनयन्ति मे ॥ ५ ॥
मृगयूथनिपीतानि, अत एव साम्प्रतं कलुषाम्भांसि। तीर्थंजलावतारः ॥ ५ ॥
रतिंअवगाहनविषयां प्रीतिम्गो।
१मैथिलि प्रतिभान्ति मेङ।
॥ २।९५।५ ॥ ॥ २।९५।६,७ ॥
जटाजिनधराः काले वल्कलोत्तरवाससः।
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं, प्रिये ॥ ६ ॥
आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः।
एतेऽपरे, विशालाक्षि मुनयः संशितव्रताः ॥ ७ ॥
उपतिष्ठन्त इति। उपान्मन्त्रकरणेऽ इत्यात्मनेपदम् नियमात् हेतोः संशितव्रताः अपरे एते मुनयः प्रकाशन्ते, जपपरा इति शेषः ॥ ७ ॥
॥ २।९५।६,७ ॥ ॥ २।९५।८ ॥
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः।
पादपैः पत्र पुष्पाणि सृजद्भिरभितो नदीम् ॥ ८ ॥
प्रनृत्तःआदिकर्मणि क्तः, नृत्तं कर्तुमुपक्रान्त इवेत्यर्थः ॥
मारुतैः उद्धतानि शिखराणिअग्राणि येषां ते, तादृशैः पादपैः।
॥ २।९५।८ ॥ ॥ २।९५।९ ॥
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम्।
क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ ९ ॥
मणिःमुक्तादिः। उदभाव आर्षः ॥ ९ ॥
मणिनिकाशोदामित्यत्र उदकशब्दस्य इति शेषः।
॥ २।९५।९ ॥ ॥ २।९५।१० ॥
निर्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान्।
पोप्लूयमानानपरान् १पश्येहाचलमध्यमे ॥ १० ॥
अम्भसि पोप्लूयमानान्पुनःपुनः प्लवमानान् पुष्पसञ्चयान् पश्य। अचलमध्यमेकृशत्वात् चलनाशक्तमध्यमवति। १० ॥
वायुना निर्धूतान् विततान्तीरे व्याप्तान् पुष्पसञ्चयान् पश्य। जलमध्यगान् पोप्लूयमानान् भृशं पुनःपुनर्वा प्लवमानान् अपरान् पुष्पसञ्चयांश्च त्वं पश्यगो।
१पश्य त्वं जलमध्यगान्ङ। पश्य त्वं तनुमध्यमेच।
॥ २।९५।१० ॥ ॥ २।९५।११ ॥
१तांश्चातिवल्गुवचसः रथाङ्गाह्वयना द्विजाः।
अधिरोहन्ति, कल्याणि विकूजन्तः शुभा गिरः ॥ ११ ॥
रथाङ्गाह्वयनाःचक्राह्वयाः द्विजाःचक्रवाकाः तान्पुष्पसञ्चयान् अधिरोहन्तिशयनमारोहन्तीत्यर्थःगो। रथाङ्गंचक्रं, तद्वाचकः शब्दः आह्वयनेनामनि येषामिति विग्रहः। अधिरोहन्ति, पुलिनानीति शेषःति।
१पश्येतान्ङ।
॥ २।९५।११ ॥ ॥ २।९५।१२ ॥
दर्शनं चित्रकूटस्य मन्दाकिन्याश्च, शोभने
अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ १२ ॥
तव दर्शनाच्च अधिकंअधिकसुखावहम् ॥ १२ ॥
तव दर्शनात् अधिकं मन्ये, भवत्या असन्निषाने तु न तथेति भावः। चकारः एवकारार्थको वा, तव दर्शनादेव अधिकं मन्ये।
॥ २।९५।१२ ॥ ॥ २।९५।१३,१४ ॥
विधूतकल्मषैः सिद्धैः तपोदमशमान्वितैः।
नित्यविक्षोभितजलां विगाहस्व मया सह ॥ १३ ॥
सखीव चावगाहस्व, सीते मन्दाकिनीं नदीम्।
कमलान्यवमज्जन्तीपुष्कराणि च, भामिनि ॥ १४ ॥
सखीवेति। मन्दाकिन्या इति शेषः। कमलपुष्करेरक्तसितपद्मे। अवमज्जन्तीअवक्षिपन्ती सती अवगाहस्वेत्यन्वयः ॥ १४ ॥
सङ्कोचादिकं विहाय अवगाहस्व, इति तात्पर्येण वा सखीवेत्युक्तिः।
अवमज्जन्तीअवमज्जयन्तीगो।
॥ २।९५।१३,१४ ॥ ॥ २।९५।१५ ॥
त्वं पौरजनवत् व्यालान् अयोध्यामिव पवर्तम्।
मन्यस्व, वनिते नित्यं सरयूवदिमां नदीम् ॥ १५ ॥
पौरजनवत्कैकेय्यादिजनवत् व्यालान्सर्पान् मन्यस्व ॥
त्वं व्यालान् वनचरजन्तून् पौरजनवत् पश्य, पौरजनप्रीतिं व्यालेषु कुर्वित्यर्थः। एवमुत्तरत्रापि। अतः पौरजनाद्यनवलोकनक्लेशो न कार्य इति भावःगो।
॥ २।९५।१५ ॥ ॥ २।९५।१६ ॥
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः।
त्वं चानुकूला, वैदेहि प्रीतिं जनयतो मम ॥ १६ ॥
जनयतःसम्पादयतः ॥ १६ ॥
सौभ्रात्रं, अनुकूलभार्यात्वं च सौख्यरसायनमिति भावःगो।
॥ २।९५।१६ ॥ ॥ २।९५।१७,१८ ॥
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः।
नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥ १७ ॥
इमां हि रम्यां १मृगयूथशालिनीं
निपीततोयां गजसिंहवानरैः।
२सुपुष्पितैः पुष्पवनैरलङ्कृतां
न सोऽस्ति यः स्यादगतक्लमः सुखी ॥ १८ ॥
पुष्पवनैरलङ्कृतामिमां अवगाह्य यो गतक्लमः सुखी च न स्यात्, स नास्तीति योजनीयम् ॥ १८ ॥
त्वया सह त्रिषवणमुपस्पृशन्इत्यन्वयः। अयोध्यायै न स्पृहयेअयोध्यागमनं नापेक्ष इति भावः।
अत्र उपस्पृशन्ऽ इत्यनुषज्यतेगो।
१मृगयूथलोलितांङ। गजयूथलोडितांच।
२सुपुष्पितां पुष्पफलैङ। सुपुष्पितां पुष्पभरैच।
॥ २।९५।१७,१८ ॥ ॥ २।९५।१९ ॥
इतीव रामो बहु सङ्गतं वचः
प्रियासहायः सरितं प्रति ब्रुवन्।
चचार रम्यं नयनाञ्जनप्रभं
स चित्रकूटं रघुवंशवर्धनः ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चनवतितमः सर्गः
बहु ब्रुवन्नित्युक्ते असङ्गताव्यावृत्त्यासङ्गतमिति। नयनयोरञ्जनं नयनाञ्जनं, तद्वन्नीलप्रभमित्यर्थः। चित्रकूटं चचारचित्रकूटे विहृतवानित्यर्थः। धन्य(१९)मानः सर्गः ॥ १९ ॥
सङ्गतंप्रसक्तानुप्रसक्तंगो।
॥ २।९५।१९ ॥