०९४ चित्रकूटे सीतारामसंवादः

चतुर्नवतितमः सर्गः

[चित्रकूटसौन्दर्यम्] ॥ २।९४।१,२ ॥

दीर्घकालोषितस्तस्मिन् गिरौ गिरि १वनप्रियः

वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् ॥ १ ॥

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्।

भार्याममरसङ्काशः शचीमिव पुरन्दरः ॥ २ ॥

अथ कविः रामस्य चित्रकूटप्राप्तिमुपवर्ण्य पुनर्भरतानयनादिचित्रकूटप्राप्तिपर्यन्तवृत्तान्तमुपवर्ण्य अथ परमप्रकृतं रामवृत्तान्तमुपवर्णयतिदीर्घेत्यादि। दैर्घ्यस्य सापेक्षत्वात् द्विदिनापेक्षया मासोऽपि दीर्घकाल इत्युच्यते। वैदेह्याः प्रियंसन्तोषं आकाङ्क्षन्स्वैकालम्बनतया घोरं वनमागतवत्यास्तद्दुःखस्य नानाप्रकारत उपशमनीयत्वात् चित्रकूटरमणीयताप्रदर्शनेन तस्याश्चित्तं उपलालयन्। स्वं च चित्तं विलोभयन्निति। स्वचित्तस्यापि प्राप्ताभिषेकनिवर्तनहान्यादिखिन्नत्वात् तदप्युपलालयन्नित्यर्थः ॥ १२ ॥

१वरप्रियःच।

अथप्रातः कर्तव्यकर्मानुष्ठानानन्तरं৷৷৷৷৷৷।दीर्घकालोषितः–मासमात्रमुषितोऽपिगो।

भार्यां चित्रकूटं अदर्शयत्।

॥ २।९४।१,२ ॥ ॥ २।९४।३ ॥

न राज्यात् भ्रंशनं, भद्रे न सुहृद्भिर्विनाभवः।

मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ ३ ॥

विनाभवःऋदोरप् छान्दसः, विप्रयोग इति यावत् ॥ ३ ॥

॥ २।९४।३ ॥ ॥ २।९४।४ ॥

पश्येममचलं, भद्रे नानाद्विजगणायुतम्।

शिखरैः खमिवोद्विद्धैः धातुमद्भिर्विभूषितम् ॥ ४ ॥

खमुद्विद्धैरिति। शीलितादिवत् क्रतरि निष्ठा, वेधकैरिति यावत्, अभ्रंलिहैरित्यर्थः ॥ ४ ॥

॥ २।९४।४ ॥ ॥ २।९४।५ ॥

केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः।

पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ ५ ॥

क्षतजंरक्तम्। पीतवर्णा माञ्जिष्ठवर्णाश्च तथाए द् मंगाडिवीळा ।ए। ५ ॥

मणिवरप्रभाःइन्द्रनीलप्रभाःगो।

॥ २।९४।५ ॥ ॥ २।९४।६ ॥

पुष्यार्क १केतकाभाश्च केचिज्ज्योतीरसप्रभाः।

विराजन्तेऽचलेन्द्रस्य देशा २धातुविभूषिताः ॥ ६ ॥

पुष्यःपुष्यरागः। अर्कःस्फटिकः, अर्कः स्फटिकसूर्ययोःऽ । ज्योतिःनक्षत्रम्। रसःपारदः ॥ ६ ॥

१कनकाङ।

२स्सानुङ।

॥ २।९४।६ ॥ ॥ २।९४।७ ॥

नानामृग १गणद्वीपितरक्ष्वृक्षगणैर्वृतः।

अदुष्टैर्भात्ययं शैलः बहुपक्षि २समायुतः ॥ ७ ॥

द्वीपीए द्खोडिप्पुलि ए। तरक्षुः द्वेंगैप्पुली। अदुष्टैःहिंसादिदोषरहितैः तपस्विनां वैभवादिति शेषः ॥ ७ ॥

नानाविधानां मृगाणां गणैःमृगाणां बाहुल्यात् प्रत्येकमत्रापि गणपदप्रयोगः स्यात्।

१गणैःच।

२समाकुलःच।

॥ २।९४।७ ॥ ॥ २।९४।८ ॥

आम्रजम्बवसनैः लोध्रैः प्रियालैः पनसैर्धवैः।

अङ्कोलैर्भव्य १तिनिशैः बिल्वतिन्दुकवेणुभिः ॥ ८ ॥

पीतसारोऽसनो मतःऽ द्वेंगै। राजादनं प्रियालःए द्मुऱळि।द् धवोऽश्वयुधुरःऽ द्नमै। अङ्कोलःए भव्यो न्युब्जःऽ द्तम्मात्तै। तिनिशःस्यन्दनः द्कुमिग ॥

अस्य सर्वस्यापि एवमादिभिराकीर्णःऽ इत्युत्तरत्रान्वयः।

१तिमिशैःङ।

॥ २।९४।८ ॥ ॥ २।९४।९ ॥

काश्मर्यरिष्ट १वरुणैः मधूकैस्तिलकैस्तथा।

बदर्यामलकैर्नीपैः वेत्रधन्वनबीजकैः ॥ ९ ॥

अरिष्टःपिचुमन्दः द्वेंबु । वरुणःवारुणसेतुःद्माविलंकै। धन्वनाःइन्द्रवृक्षाःए द्मरुदु । बीजकाःबीजपूराः दाडिमादयः ॥ ९ ॥

१वरणैःङ।

॥ २।९४।९ ॥ ॥ २।९४।१० ॥

पुष्पवद्भिः फलोपेतैः छायावद्भिर्मनोरमैः।

एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ १० ॥

पुष्यतिवर्धयति ॥ १० ॥

॥ २।९४।१० ॥ ॥ २।९४।११,१२ ॥

शैलप्रस्थेषु रम्येषु पश्येमान् १रोमहर्षणान्।

किन्नरान् द्वंद्वशः, भद्रे रममाणान् मनस्विनः ॥ ११ ॥

शाखावसक्तान् खड्गांश्च प्रवराण्यम्बराणि च।

पश्य विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ १२ ॥

खड्गानिति। किन्नराणामिति शेषः ॥ १२ ॥

१कामहर्षणान्ङ। च।

खड्गादीनि विद्याधराणामेवगो।

विद्याधरस्त्रीणां क्रोडोद्देशान्।

॥ २।९४।११,१२ ॥ ॥ २।९४।१३ ॥

जलप्रपातैरुद्भेदैः निष्यन्दैश्च १क्वचित् क्वचित्।

स्रवद्भिर्यात्ययं शैलः स्रवन्मद इव द्विपः ॥ १३ ॥

जलप्रपातैः, उन्नतगिरिप्रदेशादिति शेषः। उद्भेदैःभुवमुद्भिद्य प्रवर्तमानैःद्ऊ़ऱ्ऱु। निष्यन्दैः द्अरुवि। स्रवद्भिःप्रवहद्भिः, साधारणमिदम् ॥ १३ ॥

पृथक्पृथक्ङ।

॥ २।९४।१३ ॥ ॥ २।९४।१४ ॥

गुहासमीरणो गन्धान् नानापुष्प १भवान् वहन्।

घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ १४ ॥

गुहाद्वारप्रवृत्तः समीरणःगुहासमीरणः, गवाक्षवायुवत्। वहन्निति हेतौ शतृप्रत्ययः। अत एव हेतोः घ्राणतर्पणं

अभ्येत्यप्राप्य स्थितं कं नरंकं पुरुषं अयं गिरिः न प्रहर्षयेत् ॥

१भरान् बहून्ङ।

घ्राणतर्पणमिति क्रियाविशेषणम्गो।

॥ २।९४।१४ ॥ ॥ २।९४।१५ ॥

यदीह शरदोऽनेकाः त्वया सार्धं, अनिन्दिते

लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ १५ ॥

शरदःसंवत्सराः ॥ १५ ॥

॥ २।९४।१५ ॥ ॥ २।९५।१६,१७ ॥

बहुपुष्पफले रम्ये नानाद्विजगणायुते।

विचित्रशिखरे ह्यस्मिन् रतवानस्मि, भामिनि ॥ १६ ॥

अनेन वनवासेन मया प्राप्तं फलद्वयम्।

पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ १७ ॥

धर्मेसत्यपरिपालनलक्षणे ॥ १७ ॥

॥ २।९४।१६,१७ ॥ ॥ २।९४।१८ ॥

वैदेहि रमसे कच्चित्? चित्रकूटे मया सह।

पश्यन्ती विविधान् भावान् मनोवाक्काय १संयता ॥

मन आदयः संयताः यस्याः सा तथा ॥ १८ ॥

१भावान्विभावान्। यद्वा भावाःकिन्नरमृगादीनां चेष्टाःगो।

२रमणस्य केवलैन्द्रियिकत्वव्यावृत्तयेमनोवाक्कायसंयतेति।

३सम्मतान्च।

॥ २।९४।१८ ॥ ॥ २।९४।१९ ॥

इदमेवामृतं प्राहुः, राज्ञि राजर्षयः परे।

वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ १९ ॥

भवार्थायेति। संसारक्लेशनिवृत्त्यर्थमितत्यर्थः ॥ १९ ॥

वनवासंवनवासरूपं इदं अमृतंअमृतवद्भोग्यं वस्तु, मे प्रपितामहाःमत्पितृवंश्याः परेपूर्वे राजर्षयः प्रेत्यप्रारब्धशरीरवियोगं प्राप्य भवार्थायसंसारविनाशायेत्यर्थः, तमसे दीपःऽ, मशकार्थो धूपःऽ इत्यादिवन्निर्देशः, प्राहुःप्रोचुः। यद्वाइतमिति लिङ्गव्यत्यय आर्षः। इमं वनवासंवानप्रस्थोचितनियमसहितं वनवासं अमृतंमोक्षसाधनं प्राहुःगो। वनवासं प्रेत्य एतच्छरीरत्यागोत्तरं भवार्थायभवः शिवःहिरण्यगर्भः, तल्लोकप्राप्तिरूपायार्थायप्रयोजनायेत्येकेति। हे राज्ञि भवार्थायलोककल्याणाय, प्रवृत्ता इति शेषः, परे उत्कृष्टाः राजर्षयः मे प्रपितामहाःमनुप्रभृतयः प्रेत्यविचार्य इदं सनियमं वनवासं अमृतं प्राहुः। सर्वनाम्नां उद्देश्यविषेयान्यतरलिङ्गतेति नियमात् क्लीवतारा। भवःसंसारः, तस्य अर्थायनिवृत्तये, अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषुऽ इत्यप्यन्ये ॥

॥ २।९४।१९ ॥ ॥ २।९४।२० ॥

शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः।

बहुला बहुलैर्वर्णैः नीलपीतसितारुणैः ॥ २० ॥

अभित इति पदम्। अरुणैरुपलक्षिताः शैलाः शोभन्त इत्यन्वयः ॥ २० ॥

॥ २।९४।२० ॥ ॥ २।९४।२१ ॥

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव।

ओषध्यः स्वप्रभालक्ष्याः भ्राजमानाः सहस्रशः ॥ २१ ॥

ओषध्यो भान्तीत्यन्वयः ॥ २१ ॥

लक्ष्म्याच।

॥ २।९४।२१ ॥ ॥ २।९४।२२ ॥

केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः।

केचिदेकशिला भान्ति पर्वतस्यास्य, भामिनि ॥ २२ ॥

क्षयनिभाःगृहसदृशाः, अतिनिबिडबहुपलाशवृक्षकत्वादिति शेषः। उद्यानसन्निभा इति। चम्पकपुन्नागादिवृक्षबाहुल्यात्। एकशिलाःअनेकजनावस्थानक्षमसमतलैकशिलायुक्ता इत्यर्थः ॥ २२ ॥

वेश्मङ।

॥ २।९४।२२ ॥ ॥ २।९४।२३,२४ ॥

भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः।

चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः १शुभः ॥ २३ ॥

कुष्ठपुन्नागस्थगरभूर्जपत्रोत्तरच्छदान् ।

कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ २४ ॥

व्याधिः कुष्ठं पारिभाव्यम्ऽ ए द्तोडति। स्थगरःपुत्रकः द्तगरं। कुशेशयंपद्मम् ॥ २४ ॥

१शिवःङ।

कुष्ठादीनां पत्राणि उत्तरच्छदाःउपर्यास्तरणानि येषां तेतादृशान् ॥

॥ २।९४।२३,२४ ॥ ॥ २।९४।२५,२६ ॥

मृदिताश्चापविद्धाश्च दृश्यन्ते कमल स्रजः।

कामिभिः, वनिते पश्य फलानि विविधानि च ॥ २५ ॥

वस्वोकसारां नलिनीं अत्येतीवोत्तरान् कुरून्।

पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥ २६ ॥

वस्वोकसाराअलका। नलिनीशक्रपुरी, वस्वोकसारा श्रीदस्य शक्रस्य नलिनी पुरीऽहरिः ॥ २६ ॥

फलानीत्यत्रापि मृदितानि, अपविद्धानि इति योज्यम्गो।

वस्वौकसारापूर्वदिगवस्थिता शक्रपुरी, वस्वौकसारा शक्रस्य पूर्वस्यां दिशि संस्थिताऽ इति विष्णुपुराणवचनात्। यद्वावस्वौकसाराकुबेरपुरी, पुरी वस्वौकसारा स्यात् विमानं पुष्पकोऽस्त्रियाम्ऽ इति यादवः। नलिनींमानससरसीं, सौगन्धिकाख्यसरसीं वागो।

॥ २।९४।२५,२६ ॥ ॥ २।९४।२७ ॥

१इमं तु कालं, वनिते विजह्रिवान्

त्वया च, सीते सह लक्ष्मणेन।

रतिं प्रपत्स्ये कुलधर्मवर्धनीं

सतां पथि स्वैर्नियमैः परैः स्थितः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्नवतितमः सर्गः

इममित्यादि। हे वनितेसीते परैःश्रेष्ठैः स्वैः नियमैः सह सतां पथि स्थितः सन् इमं कालंचतुर्दशसमासम्मितकालं त्वया लक्ष्मणेन च सह इहचित्रकूटे विजह्रिवान्हरतेर्लिटः क्वसुः, इडार्षःप्राप्तविहारवानहं कुलधर्मवर्धनीं त्वां इहापि प्राप्य इह रतिंसौख्यं प्रपत्स्ये। दारु(२८)मानः सर्गः ॥ २७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्नवतितमः सर्गः

१एवं तु कालंङ।

एवं कालंचतुर्दशवर्षावधिकालं सतांराजर्षीणां स्वैर्नियमैः सह स्थितस्सन् त्वया लक्ष्मणेन च सह विजह्रिवान् यदि तदा कुलधर्मवर्धनींसत्यप्रतिपालनरूपधर्मवर्धनीं रतिं प्रीतिं प्रपत्स्येती। ति। इहचित्रकूटे विजह्रिवान्विहृतवान्। पश्चात् कुलधर्मवर्धनींकुलधर्मः प्रजापालनं, तद्वर्धनीं रतिंराज्यसुखं प्रपत्स्येगो।

अष्टाविंशतिश्लोका अत्रेति कतकःति।

॥ २।९४।२७ ॥