त्रिनवतितमः सर्गः
[चित्रकूटागमनम्] ॥ २।९३।१ ॥
तया महत्या १यायिन्या ध्वजिन्या वनवासिनः।
अर्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ॥ १ ॥
अथ भरतेन चित्रकूटे रामाश्रमसमीपे सेनानिवेशनम्। तयेत्यादि। यायिन्यागच्छन्त्या। यूथनाथस्तु यूथपःऽ ॥ १ ॥
१गच्छन्त्याङ।
॥ २।९३।१ ॥ ॥ २।९३।२ ॥
ऋक्षाः पृषत १सङ्घाश्च रुरवश्च समन्ततः।
दृश्यन्ते २वनराजीषु गिरिष्वपि नदीषु च ॥ २ ॥
पृषतःद्पुळ्ळिमान्। रुरुः ॥ २ ॥
१मुख्याश्चच।
दृश्यन्तेअदृश्यन्तगो।
२वनवाटेषुच।
॥ २।९३।२ ॥ ॥ २।९३।३ ॥
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः।
वृतो महत्या १नादिन्या सेनया चतुरङ्गया ॥ ३ ॥
नादिन्याघोषवत्या ॥ ३ ॥
१यायिन्याङ।
॥ २।९३।३ ॥ ॥ २।९३।४ ॥
सागरौघनिभा सेना भरतस्य महात्मनः।
महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः ॥ ४४ ॥
द्यांआकाशम् ॥ ४ ॥
॥ २।९३।४ ॥ ॥ २।९३।५ ॥
तुरङ्गौघैरवतता वारणैश्च १महाजवैः।
अनालक्ष्या चिरं कालं तस्मिन् काले बभूव २भूः ॥ ५ ॥
अवतताव्याप्ता ॥ ५ ॥
१महाबलैःच।
२साच। (साचमूःति।)
॥ २।९३।५ ॥ ॥ २।९३।६ ॥
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः।
उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ ६ ॥
मन्त्रिणांमन्त्रविदां वरंवरिष्ठम् ॥ ६ ॥
औचित्यात् मन्त्रशब्दः कार्यविचारे वर्ततेगो। पुरोहितोऽपि सन् वसिष्ठः मन्त्रिप्रधानोऽपीति बालकाण्डोपक्रम एवोक्तम्।
॥ २।९३।६ ॥ ॥ २।९३।७ ॥
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया।
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजोयमब्रवीत् ॥ ७ ॥
यादृशमित्यादि। भरद्वाजः यं देशंचित्रकूटदेशं यादृशमब्रवीत्, मया च यथा श्रुतं तस्मात्, तथैवैतद्देशस्य रूपं स्वरूपं लक्ष्यतेअनुभूयते। तस्मात् व्यक्तंनिश्चितं देशंचित्रकूटदेशं प्राप्ताः स्म, छान्दसः सकारलोपः ॥ ७ ॥
॥ २।९३।७ ॥ ॥ २।९३।८ ॥ अयं गिरिश्चित्रकूटः इयं मन्दाकिनी नदी।
एतत् प्रकाशतेऽदूरात् नीलमेघनिभं वनम् ॥ ८ ॥
प्राप्तिमेव विवृणोतिअयमित्यादि। अपरोक्षतयाऽनुभूयमान इत्यर्थः। अदूरादिति पदम् ॥ ८ ॥
॥ २।९३।८ ॥ ॥ २।९३।९ ॥
गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति।
वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ ९ ॥
प्रथमदर्शनत्वात् अवमृद्यन्तेपीड्यन्त इति यावत् ॥ ९ ॥
॥ २।९३।९ ॥ ॥ २।९३।१० ॥
मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु।
नीला इवातपापाये तोयंतोयधरा घनाः ॥ १० ॥
अत एवैते नगाःवृक्षाः पर्वतसानुषु कुसुमानि मुञ्चन्ति। आतपापायेवर्षाकाले घना इव स्थिता नगा इत्यन्वयः ॥ १० ॥
शरत्कालिकमेघस्यापि घनपदवाच्यत्वात् तद्व्यावृत्तये तोयधरा इति।
॥ २।९३।१० ॥ ॥ २।९३।११,१२ ॥
किन्नरा १चरितं देशं पश्य, शत्रुघ्न २पर्वतम्।
३मृगैः समन्तादाकीर्णं मकरैरिव सागरम् ॥ ११ ॥
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः।
वायुप्रविद्धाः शरदि मेघ ४राजिरिवाम्बरे ॥ १२ ॥
प्रचोदिता इति। सैनिकैरिति शेषः। वायुना प्रविद्धाःक्षिप्ताः ॥ १२ ॥
किन्नराचरितदेशरूपं पर्वतमित्यन्वयः।
१चरितोद्देशंङ।
२पर्वतेच।
३हयैःच।
४जाला इवाच।
॥ २।९३।११,१२ ॥ ॥ २।९३।१३ ॥
कुर्वन्ति कुसुमापीडान् १वाजिनः सुरभीनमी।
मेघप्रकाशैः फलकैः दाक्षिणात्याः २शशिप्रभान् ॥ १३ ॥
कुर्वन्तीत्यादि। दाक्षिणात्याःदक्षिणदण्डकारण्यभवाः। मेघप्रकाशैःअतिनिबिडोपचितप्रत्यग्रपलाशभूयिष्ठतया मेघवदवभासमानैः फलकैःमहास्कन्धशाखिभिरुपलक्षिता अमी वाजिनःवाजःफलादि, तदस्त्येषां अस्मिन्निति वावृक्षा इति यावत्। वृक्षवर्णनप्रकरणाच्चायमर्थः सिद्धः। अत एते शशिप्रभान् सुरभीन् कुसुमापीडान्स्तबकशेखरान् कुर्वन्तिवहन्तीति यावत्। आपीडशेखरोत्तंसाऽवतंसाः शिरसि स्रजःऽ हरिः। नानाऽन्य इहाहतदसङ्गतम् ॥ १३ ॥
दक्षिणादिग्भवा नराः मेघप्रकाशैःऋक्षादिनीलचर्मपिनद्धतया नीलमेघतुल्यैः फलकैः साधनभूतैः शिरस्सु कुसुमापीडान् कुसुमसमूहान् यथा कुर्वन्ति यथा धारयन्ति, तथैव अमी वृक्षाः कुसुमापीडान्कुसुमस्तबकान् शिरस्सु धारयन्ति। दाक्षिणात्या हि फलकान् ऋक्षादिचर्मपिनद्धान् कृत्वा तेषु पुष्पाणि विकीर्य शिरस्सु धारयन्तीति प्रसिद्धिः। यद्वाअमी भटाः मेघप्रकाशैः फलकैरुपलक्षिताः सन्तः दाक्षिणात्या नरा इव कुसुमापीडान्कुसुमशेखरान् शिरस्सु कुर्वन्तिती। अमी भटाः मेघप्रकाशैः फलकैःकेशबन्धविशेषैः वनसञ्चारार्थं कल्पितैः उपलक्षिताः सन्तः दाक्षिणात्या यथा नराःदाक्षिणात्या नरा इव शिरस्सु कुसुमापीडान् कुर्वन्ति। दाक्षिणात्या हि केशानुद्धृत्य बध्वा कुसुमापीडैरलङ्कुर्वन्तिगो। अत्र गोविन्दराजयोजना स्वरसा। परन्तु तत्रापि अमीवृक्षाःऽ इति व्याख्यानं युक्तम्। भटानां तथा शेखरधारणं तु तद्देशीयानां असम्भवि। अतः पुष्पितान् वृक्षान् दृष्ट्वेयमुक्तिः स्यात्। भटानां शिरस्सु पतितानि पुष्पाणि वीक्ष्य वा तथोक्तिः स्यात् ॥
१शिरस्सु सुरभीनमीङ। च। झ। शिरस्सुसुरभीनगाःङ।
२यथा नराःङ। च। झ।
॥ २।९३।१३ ॥ ॥ २।९३।१४ ॥
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्।
अयोध्येव १जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ १४ ॥
निष्कूजंनिश्शब्दं इव ॥ १४ ॥
पुरा एवंभूतं सम्प्रति असंख्ययोधपूर्णत्वात् जनाकीर्णायोध्येव मामां प्रति भाति ॥
१समाकीर्णांङ।
॥ २।९३।१४ ॥ ॥ २।९३।१५ ॥
१खुरैरुदीरितो रेणुः २दिवं प्रच्छाद्य तिष्ठति।
तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ १५ ॥
मम प्रियं कुर्वन्निवेति। चित्रकूटदेशदर्शननिरोधनिवर्तकत्वादित्याशयः ॥ १५ ॥
१खुरैरुद्दीपितोङ।
२दावंङ।
रामाश्रमदर्शनप्रदानादिति भावःगो।
॥ २।९३।१५ ॥ ॥ २।९३।१६ ॥
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान्।
एतान् सम्पततः शीघ्रं पश्य, शत्रुघ्न कानने ॥ १६ ॥
शीघ्रं पतत इति। गच्छत इत्यर्थः। काननभुवः कठिनत्वादित्याशयः ॥ १६ ॥
वक्ष्यमाणत्रासहेतुत्वेनाहस्यन्दनानितिगो।
॥ २।९३।१६ ॥ ॥ २।९३।१७,१८ ॥
एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान्।
१एतमाविशतः शीघ्रं अधिवासं २पतत्त्रिणः ॥ १७ ॥
अतिमात्रमयं देशः मनोज्ञः प्रतिभाति ३मा।
तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥ १८ ॥
व्यक्तंस्पष्टम्। स्वर्गपथःस्वर्गप्रदेश इत्यर्थः ॥ १८ ॥
एतं अधिवासंवासस्थानं शीघ्रं आविशतः।
१एवमापततः शैलंच।
२पतत्त्रिणाम्च।
अतिमात्रं मनोज्ञः।
३मेच।
॥ २।९३।१७,१८ ॥ ॥ २।९३।१९ ॥
मृगा मृगीभिः सहिताः बहवः पृषता वने।
मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ १९ ॥
पृषतानां सबिन्दुत्वात् कुसुमैः चित्रिता इवेति ॥ १९ ॥
पृषता मृगाः इत्यन्वयः।
॥ २।९३।१९ ॥ ॥ २।९३।२० ॥
साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २० ॥
साधुसम्यक्यथोचितम्, साधुस्त्रिषूचिते सौम्येऽ इति वैजयन्ती। प्रतिष्ठन्तांप्रस्थापनं कुर्वन्ताम्। किमर्थमित्यतःविचिन्वन्त्वित्यादि। चिञ् द्विकर्मकः ॥ २० ॥
साधुऽ इति प्रत्येकं पदं तृप्तिसूचकम्। सैन्याः प्रतिष्ठन्तांअत्रैव प्रतिष्ठिता भवन्तु इति वा ॥
॥ २।९३।२० ॥ ॥ २।९३।२१,२२ ॥
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः।
१विविशुस्तद्वनं शूराः २धूमाग्रं ददृशुस्ततः ॥ २१ ॥
ते समालोक्य धूमाग्रं ऊचुर्भरतमागताः।
नामनुष्ये भवत्यग्निः व्यक्तमत्रैव राघवौ ॥ २२ ॥
धूमाग्रंधूमशिखां आलोक्य तेन अग्निं तत्साधकत्वेन सामान्यतो राघवौ चानुमाय भरतमूचुः। किमूचुरित्यतः नामनुष्य इत्यादि। विमतो धूमःकारणपूर्वकःकार्यत्वात्, अनेवंत्वे एवंत्वातिपात इत्यनुमानेन अनुभूतधूमबलसिद्धः योऽयमग्निरस्ति विशिष्टः, असौ मनुष्यकारणक एव भवितुमर्हति, अग्निविशेषत्वात्। मनुष्यरूपकारणाभावे तु नायमग्निर्भवितुमर्हति। यश्च तत्कारणं मनुष्यः तौ रामलक्ष्मणावेव व्यक्तं भवितुमर्हतः ॥ २२ ॥
१व्यचिन्वंस्तद्वनंङ।
२धूमं चङ।
धूमाग्रमित्यनेन दावानलधूमो व्यावर्त्यते। तेन च नामनुष्ये भवत्यग्निःऽ इति समर्थनं युक्तमेव।
॥ २।९३।२१,२२ ॥ ॥ २।९३।२३ ॥
१अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ।
२अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ २३ ॥
अथ पुरुषान्तरमूलकत्वस्याग्नेः सम्भवात्, राजनि च सर्वथा राघवमूलकःऽ इति भीत्या वक्तुमशक्नुवन्तः पक्षान्तरमुपाददतेअथेत्यादि। अत्रअनुमिताग्निविषये राजपुत्रौ यदि कारणं न भविष्यतः, तदा अन्ये रामोपमास्तपस्विन एवात्र सन्तीति व्यक्तं रामस्त्वत्रैव प्रदेशेऽ इत्याप्तवाक्यात् सिद्धम्। स चानुमिताग्निमूलतपस्विमुखाद्वा सुबोधः आश्रमविशेषो रामस्य इत्युक्तवन्त इत्यर्थः ॥ २३ ॥
१अथवा तौङ।
२मन्येङ।
रामस्यात्राभावेऽपि अत्रत्यतपस्विजनानां विचारणे रामावासस्थानं ज्ञास्येतैवेत्याशयः। अत एव रामोपमाःऽ इति।
॥ २।९३।२३ ॥ ॥ २।९३।२४ ॥
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम्।
सैन्यानुवाच १सर्वांस्तान् अमित्रबलमर्दनः ॥ २४ ॥
साधुसम्मतमिति। न्यायवित्सम्मतं तेषां तद्वचनं श्रुत्वा तत्र प्रदेशे रामावस्थितिं निश्चित्य सर्वांस्तान् सैन्यानुवाच ॥ २४ ॥
प्रियं हितं चऽ इतिवत् साधु सम्मतंऽ इति प्रत्येकं पदं वा।
१सर्वान् स्वान्ङ।
॥ २।९३।२४ ॥ ॥ २।९३।२५ ॥
यत्ता भवन्तः तिष्ठन्तु नेतो गन्तव्यमग्रतः।
अहमेव गमिष्यामि सुमन्त्रो १धृतिरेव च ॥ २५ ॥
किमित्यतःयत्ता इत्यादि। यत्ताःसावधानाः भयभक्तियुक्ताः कोलाहलमकुर्वन्तः तिष्ठन्तु, नेतोऽग्रतो गन्तव्यमिति। धृतिरिति अशोकमन्त्रिणो नामान्तरम् ॥ २५ ॥
अहमेव राजस्सु, मन्त्रिषु सुमन्त्र एव, ऋत्विक्षु वसिष्ठ एव। धृतिरिति पाठे सुमन्त्र एवोच्यतेगो। ९९ सर्गे शत्रुघ्नमनुदर्शयन्ऽ (१), शत्रुघ्नश्चापि रामस्य ववन्दे चरणौऽ (४०) इति कथनात् शत्रुघ्नोऽपि सह गत इति गम्यते। एवं सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यतऽ (३), शत्रुघ्नं चाब्रवीत् हृष्टः तानमत्यांश्च सर्वशःऽ (८), ततः सुमन्त्रेण गुहेन चैवऽ (४१), इति दर्शनात् सुमनत्रादयोऽपि केचन गता इति गम्यते। ऋषिं वसिष्ठं सन्दिश्य मातृ़र्मे शीघ्रमानय। इति त्वरितमग्रे स जगामऽ (२), वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च। अभिचक्राम तं देशंऽ (१०३१) इति दर्शनात् अन्ते वसिष्ठः कौसल्यादिभिस्सहाऽऽययौ इति गम्यते। जनास्तु यथावकाशं यथाबलं आगताः इति रामं ददर्श सहसा जनःऽ (१०२४५) इति कथनात् गम्यते।
१गुरुरेव चङ।
॥ २।९३।२५ ॥ ॥ २।९३।२६,२७ ॥
एवमुक्तास्तत १स्सर्वे तत्र तस्थुः समन्ततः।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २६ ॥
व्यवस्थिता या भरतेन सा चमूः
निरीक्षमाणाऽपि च २धूममग्रतः।
बभूव हृष्टा नचिरेण ३जानती
प्रियस्य रामस्य समागमं तदा ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिनवतितमः सर्गः
व्यवस्थिताव्यवस्थापितस्थितिका। सार(२७)मानः सर्गः ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिनवतितमः सर्गः
१स्सैन्याःच।
२भूमिमग्रतःच।
नचिरेणशीघ्रमेव रामस्य समागमं जानतीप्रतीक्षन्ती।
३जानकीङ।
॥ २।९३।२६,२७ ॥