०९२ भरतप्रस्थानम्

द्विनवतितमः सर्गः

[भरद्वाजमन्त्रणम्] ॥ २।९२।१ ॥

ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः।

१कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ १ ॥

अथ भरद्वाजाश्रमात् भरतनिर्याणम्। तत इत्यादि। व्युष्यउषित्वा। सपरिच्छदःसपरिवारः, परिवारः परिकरः परिष्कन्दः परिग्रहःऽ ॥ १ ॥

१कृतातिथ्यंङ।

कामात्रामप्राप्तीच्छयागो। तदाह्वानात् पूर्वं स्वस्येच्छयेति वाऽर्थः।

॥ २।९२।१ ॥ ॥ २।९२।२ ॥

तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम्।

हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥ २ ॥

अत एवाश्रमादुपनिष्क्रान्तं तं ऋषिरुवाचेति ॥ २ ॥

एतद्दृष्ट्या आश्रमादुपनिष्क्रान्तंऽ इति तृतीयपादः स्यादिति भाति। तंऽ इत्यस्य विवरणरूपं वाआश्रमादुपनिष्क्रान्तंइति। ४श्लोकगतपादसांकर्यं वेदम्।

॥ २।९२।२ ॥ ॥ २।९२।३ ॥

कच्चिदत्र सुखा रात्रिः तवास्मद्विषये गता।

समग्रस्ते जनः कश्चित् आतिथ्ये शंस मेऽनघ ॥ ३ ॥

अस्मद्विषयेअस्मदाश्रमे। समग्रःसम्यक्तृप्तिकः ॥ ३ ॥

आतिथ्ये विषये समग्रःसम्पूर्णतृप्त इति यावत्। अनघेत्यनेन पूर्वं भरताशयपरीक्षणार्थमेवातिथ्यकरणमिति द्योतितम्गो।

॥ २।९२।३ ॥ ॥ २।९२।४,५ ॥

तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च।

१आश्रमादभिनिष्क्रान्तं ऋषिमुत्तमतेजसम् ॥ ४ ॥

सुखोषितोऽस्मि, भगवन् समग्रबलवाहनः।

२तर्पितः सर्वकामैश्च सामात्यो बलवत् त्वया ॥ ५ ॥

बलवत्अत्यन्तम् ॥ ५ ॥

आभिनिष्क्रान्तमित्यनेन कौसल्यादिसर्वजनदर्शनार्थं भरतागमनकाल एव बहिर्निर्गतवान् ऋषिरिति व्यञ्जितम्गो। जनसमूहस्य बहुत्वात् सर्वेषां स्वदर्शनेन कृतकृत्यत्वायाश्रमान्निष्क्रान्तम्ति। आदरसौलभ्यादिना वा निष्क्रान्तम् ॥

१आश्रमादुपच।

२बलवत्तर्पितश्चाहं बलवान् भगवंस्त्वयाङ।

॥ २।९२।४,५ ॥ ॥ २।९२।६ ॥

अपेतक्लमसन्तापाः १सुभिक्षाः सुप्रतिश्रयाः।

अपि प्रेष्यनुपादाय सर्वे स्म २सुसुखोषिताः ॥ ६ ॥

क्लमःग्लानिः। सन्तापःदेहौष्ण्यम्। प्रेष्यानपि उपादायआरभ्य। सुभिक्षाःसमृद्धान्नपानाः। सुप्रतिश्रयाःशोभनावासस्थाः ॥ ६ ॥

१सुभक्षाःङ।

२सुसुखोचिताःङ।

॥ २।९२।६ ॥ ॥ २।९२।७ ॥

आमन्त्रयेऽहं, भगवन् कामं त्वां, ऋषिसत्तम

समीपं प्रस्थितं भ्रातुः मैत्रेणेक्षस्व चक्षुषा ॥ ७ ॥

आमन्त्रयेआपृच्छे। कामंअभ्यधिकम्। मैत्रेण चक्षुषेति। स्निग्धचक्षुषेत्यर्थः ॥ ७ ॥

पूर्वं कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि। अकण्टकं भोक्तुमनाः राज्यं तस्यानुजस्य चऽ (९०१३) इति भरद्वाजोक्त्या वा प्रार्थयतिमैत्रेणेत्यादि ॥

॥ २।९२।७ ॥ ॥ २।९२।८ ॥

आश्रमं तस्य, धर्मज्ञ धार्मिकस्य महात्मनः।

आचक्ष्व १कतमो मार्गः कियानिति च शंस मे ॥ ८ ॥

तस्येति। रामस्येत्यर्थः। कियान्कियद्दूरपरिमाणः ॥ ८ ॥

रामाश्रमप्रदेशाभिज्ञेषु गुहज्ञातिषु विद्यमानेषु मुनिं प्रति प्रश्नः तस्य पूजार्थम्गो। अथवा भरद्वाजाभिगमनं प्रयागे च सभाजनम्। आगिरेर्गमनंऽ (५७२) इत्यनेन भरद्वाजाभिगमनादेव रामस्य चित्रकूटप्रस्थानस्य सुमन्त्रेणावगमात्, स विषयः भरद्वाजेनैव सम्यज्ज्ञातः स्यात्, मुनिकल्पस्य रामस्य वृत्तान्तादिकं हि मुनय एव सम्यग्जानीयुरिति बुद्ध्या भरद्वाजं प्रति प्रश्नः स्यात्।

१कतरोङ।

॥ २।९२।८ ॥ ॥ २।९२।९,१० ॥

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम्।

प्रत्युवाच महातेजाः भरद्वाजो महातपाः ॥ ९ ॥

भरतार्धतृतीयेषु योजनेष्वजने वने।

चित्रकूटो गिरिस्तत्र रम्यनिर्दर १कन्दरः ॥ १० ॥

अर्धं तृतीयं येषां तानि अर्धतृतीयानि, तेषु सार्धयोजनद्वितयोष्विति शेषः। निर्दराःविदीर्णपाषाणाः, कन्दराःगुहाः, निर्दरकन्दरा इति बहुव्रीहिः। गिरिस्तत्र रम्ये वने वर्तत इति योजना ॥ १० ॥

अर्धतृतीयेषुअर्धयुक्ततृतीयेषु इत्यर्थः। सार्धयोजनद्वये वाती। अर्धतृतीयेषुअर्धमेव तृतीयं यस्मिन्, सार्धद्वयमित्यर्थः। तस्यैकशेषेण कपिञ्जलाधिकरणन्यायेन सार्धसप्तेत्यर्थःरा। पूर्वं दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसिऽ (५४२८) इत्युक्त्याएकयोजनस्य चतुःक्रोशात्मकत्वप्रसिद्धिप्राचुर्यात् सार्धद्वययोजन इत्यर्थः स्वरसः ॥

१काननःच।

॥ २।९२।९,१० ॥ ॥ २।९२।११ ॥

उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी।

पुष्पितद्रुम १सञ्छन्ना रम्यपुष्पितकानना ॥ ११ ॥

मन्दाकिनी नाम काचन नदी, न तु गङ्गा। तस्य चित्रकूटस्योत्तरं पार्श्वमासाद्यप्राप्य तिष्ठतीति शेषः ॥ ११ ॥

१सम्पन्नाङ।

॥ २।९२।११ ॥ ॥ २।९२।१२ ॥

अनन्तरं तत्सरितः चित्रकूटं च पर्वतम्।

तयोः पर्णकुटी, तात तत्र तौ वसतो ध्रुवम् ॥ १२ ॥

तत्सरितः अनन्तरं समीपे चित्रकूटं च पर्वतं द्रक्ष्यसीति शेषः। तयोः चित्रकूटमन्दाकिन्योः मध्ये तयोःरामलक्ष्मणयोः पर्णकुटी। हे तात तत्र तौ वसतःपर्णकुटीर एव निवासे ध्रुवं वसत इति शेषः ॥ १२ ॥

॥ २।९२।१२ ॥ ॥ २।९२।१३ ॥

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा।

गजवाजिरथाकीर्णां वाहिनीं, वाहिनीपते ॥ १३ ॥

वाहयस्व, १महाभाग ततो द्रक्ष्यसि राघवम्।

दक्षिणेनैव मार्गेणयमुनाया दक्षिणतीरस्थेन मार्गेणैव गत्वा कियद्दूरं गतः, पश्चात् सव्यदक्षिणमेव चतस्य मार्गस्य शाखामार्गयोः सव्यभागवतो यो दक्षिणदिग्गामी मार्गोऽस्ति तमेव मार्गं वाहिनीं वाहयस्व, न त्वन्यं शाखामार्गम् ॥ १३ ॥

अस्मादाश्रमात् दक्षिणेन मार्गेण किञ्चिद्दूरं गत्वा, ततः सव्यदक्षिणं नैर्ऋतदिग्भागो यथा भवति तथा वाहिनीं वाहयस्व। किञ्चिद्दूरं दक्षिण एको मार्गः, ततः शाखामार्गेण नैर्ऋतदिग्भागगामिना गन्तव्यमिति भावः। कान्तारमार्गस्य सूक्ष्मत्वात् यथायोग्यं मार्गस्य वामतो दक्षिणतश्च विरलप्रदेशे वाहिनीं प्रापयस्वेत्यर्थ इत्यप्याहुःगो।

१महाबाहोङ।

॥ २।९२।१३ ॥ ॥ २।९२।१४ ॥

प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः।

हित्वा यानानि यानार्हाः ब्राह्मणं पर्यवारयन् ॥ १४ ॥

ब्राह्मणंब्रह्मपुत्रं भरद्वाजं पर्यवारयन्, नमस्कारार्थमिति शेषः ॥ १४ ॥

इति तत् प्रयाणं श्रुत्वाप्रस्थानं अतिसन्निहितं ज्ञात्वेत्यर्थः।

ब्राह्मणंब्रह्मविदम्गो।

॥ २।९२।१४ ॥ ॥ २।९२।१५,१६ ॥

वेपमाना कृशा दीना सह देव्या सुमित्रया।

कौसल्या १तत्र जग्राह कराभ्यां चरणौ मुनेः ॥ १५ ॥

असमृद्धेन कामेन सर्वलोकस्य गर्हिता।

कैकेयी २तस्य जग्राह चरणौ सव्यपत्रपा ॥ १६ ॥

असमृद्धेनयथाऽभिलषितमप्राप्तेन कामेन, उपलक्षितेति शेषः ॥ १६ ॥

१तस्यङ।

२तत्रङ।

॥ २।९२।१५,१६ ॥ ॥ २।९२।१७ ॥

त प्रदक्षिणमागम्य भगवन्तं महामुनिम्।

अदूरात् भरतस्यैव तस्थौ दीनमनास्तदा ॥ १७ ॥

दीनमना इति । कैकेयीति शेषः ॥ १७ ॥

लज्जावशादेव कौसल्यादिभिः सह मुनेः पुरतः स्थातुमशक्ता प्रदक्षिणव्याजेन भरतं गतेत्याहतमित्यादिनागो।

॥ २।९२।१७ ॥ ॥ २।९२।१८२१ ॥

ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः।

विशेषं ज्ञातुमिच्छामि मातृ़णां तव, राघव ॥ १८ ॥

एवमुक्तस्तु भरतः भरद्वाजेन धार्मिकः।

उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ १९ ॥

यामिमां, भगवन् दीनां शोकानशनकर्शिताम्।

पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २० ॥

एषा तं पुरुषव्याघ्रं १व्याघ्रविक्रान्तगामिनम्।

कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २१ ॥

शोकानशनेति। शोकः, तद्वशप्राप्तं अनशनंयथोचितयथाकालान्नस्वीकाराभावश्च तथा। यां पश्यसि, एषेति योजना। व्याघ्रस्य विक्रान्तःगमनं, तद्वद्गामिनंगमनशीलम्। घातारंउपेन्द्रम्। धाताप्रजापतिः, तस्यापरमूर्तित्वात् तद्वाच्य उपेन्द्रः ॥ २०२१ ॥

दृढव्रत इत्यनेन सर्वज्ञत्वं लक्ष्यते। सर्वज्ञोऽपि कैकेयीशिक्षार्थं पप्रच्छेत्यर्थः। विशेषंसंज्ञासंज्ञिसम्बन्धादिविशेषम्गो। इयं का, इयं काऽ इत्येवंरूपं विशेषम्ती।

१सिंहङ। च। झ।

॥ २।९२।१८२१ ॥ ॥ २।९२।२२,२३ ॥

अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः १।

कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २२ ॥

एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ।

उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २३ ॥

कर्णिकारः द्कोंगु। देववर्णिनौदेवतुल्यरूपौ ॥ २२२३ ॥

वामभुजं श्लिष्टाकौसल्याया वेपमानाङ्गत्वात् तद्धारणार्थं तद्वामभुजमर्ध्यस्थितेत्यर्थःगो। दयाप्रीत्यादितः तां स्पृशन्तीवातिसमीपे वामभागे स्थितामिति वाऽर्थः।

१एतदनन्तरंइयं सुमित्रा दुःखार्ता देवी राज्ञश्च मध्यमाइत्यधिकंङ। च।

देववर्णिनौअश्विनीदेवतुल्यौगो।

महर्षिणाकौसल्यादिनाम्नां, तत्पुत्ररामादिनाम्नां रामादीनां च पूर्वमेव परिचितत्वात्, विशिष्य तादृशसंज्ञावाच्यभूतव्यक्तिपरिचयार्थमेव प्रश्नकरणेन, सुमित्रेति नामनिर्देशाभावेऽपि तत्पुत्रलक्ष्मणशत्रुघ्नद्वारैव परिचयकरणम्। ऋषिरपि विशेषं ज्ञातुमिच्छामिऽ इति खलु पप्रच्छ।

॥ २।९२।२२,२३ ॥ ॥ २।९२।२४२६ ॥

यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ।

राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः ॥ २४ ॥

क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम्।

ऐश्वर्यकामां कैकेयीं अनार्यामार्यरूपिणीम् ॥ २५ ॥

ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्।

यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥ २६ ॥

जीवनाशंप्राणपीडान्तदुःखम्। इतःदण्डकारण्ये। अकृतप्रज्ञांअशिक्षितबुद्धिम्। आर्यरूपिणींसात्त्विकीमिव प्रतिभासमानां इदानीम् ॥ २४२६ ॥

राक्षसभूयिष्ठं दण्डकारण्यं प्रति विवासनात् जीवस्य जीवस्य नाशंगो। सजीववधो जातःऽ इति लोके व्यवहारवत् जीवन्तावेव नाशं गतौ इति वाऽर्थः।

स्वसौन्दर्यादिमत्तां सौभाग्यमदगर्विताऽ (अयो।९५५) इति खलूक्तम्।

॥ २।९२।२४२६ ॥ ॥ २।९२।२७,२८ ॥

इत्युक्त्वा १नरशार्दूलः २बाष्पगद्गदया गिरा।

स निशश्वास ताम्राक्षः नागः क्रुद्ध इव श्वसन् ॥ २७ ॥

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा।

प्रत्युवाच महाबुद्धिः ३इदं वचनमर्थवत् ॥ २८ ॥

ब्रुवन्तमिति। मातरि सकोपं ब्रुवन्तमित्यर्थः ॥ २८ ॥

१नृपशार्दूलःङ।

२बाष्पोपहतयाङ।

महाबुद्धिःभाविज्ञःगो

॥ २।९२।२७,२८ ॥ ॥ २।९२।२९ ॥

न दोषेणावगन्तव्या कैकेयी, भरत त्वया।

रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २९ ॥

दोषेणदुष्टकृत्ययुक्तत्वेनेत्यर्थः। कुतो नावगन्तव्येत्यतःरामेत्यादि ॥ २९ ॥

दोषेणदोषवत्तया, नावगन्तव्या तस्याः देवप्रेरितत्वात्गो। रावणवधादिकं जानन् ऋषिरेवमवोचत्। इदं अनन्तरश्लोके स्पष्टम्।

॥ २।९२।२९ ॥ ॥ २।९२।३० ॥

देवानां दानवानां च ऋषीणां १भावितात्मनाम्।

हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ ३० ॥

हितमेव भविष्यदिति। हियस्मात् इहवने रामप्रव्राजनात् हितमेवलोकहितमेव सर्वथा भविष्यत्शत्रन्तम्,

विजानीहीति शेषः। एवंवाद ऋषीणां नापूर्वः ॥ ३० ॥

सकललोकहितत्वात् दानवानामपि हितमेव रावणवधादि।

१च महात्मनाम्ङ।

॥ २।९२।३० ॥ ॥ २।९२।३१ ॥

अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्।

आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् ॥ ३१ ॥

अभिवाद्य तु अत एव संसिद्धःप्राप्ताशीर्वादानुग्रहः। युज्यतांसन्नह्यताम्, गमनायेति शेषः ॥ ३१ ॥

॥ २।९२।३१ ॥ ॥ २।९२।३२,३३ ॥

ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान्।

अध्यारोहत् १प्रयाणार्थी बहून् बहुविधो जनः ॥ ३२ ॥

गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः।

जीमूता इव २घर्मान्ते सघोषाः सम्प्रतस्थिरे ॥ ३३ ॥

गजकन्याःकरेणवः। सघोषा इति। घण्टाघोषसहिता इत्यर्थः ॥ ३३ ॥

१प्रयाणार्थंच।

हेमकक्ष्याःहेममयबन्धनरज्जवः। सघोषाःघण्टाघोषयुक्ताःगो।

२घर्मान्तेवर्षर्तौ।

॥ २।९२।३२,३३ ॥ ॥ २।९२।३४ ॥

विविधान्यपि यानानि महान्ति च लघूनि च।

प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ ३४ ॥

सुमहार्हाणि यानान्याहुह्य तद्यौग्याः प्रययुः। पदातयस्तु पादैरेव प्रययुः ॥ ३४ ।

यद्वा यानानीति तत्स्था लक्ष्यन्तेगो।

यानैः समं ययुरिति भावःगो।

॥ २।९२।३४ ॥ ॥ २।९२।३५ ॥

अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः।

रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा ॥ ३५ ॥

प्रवेकानुत्तमोत्तमाःऽ ॥ ३५ ॥

॥ २।९२।३५ ॥ ॥ २।९२।३६ ॥

१चन्द्रार्कतरुणाभासां २नियुक्तां शिबिकां शुभाम्।

आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥ ३६ ॥

नियुक्तां, वाहकैरिति शेषः ॥ ३६ ॥

चन्द्रार्कतरुणाभासांतरुणचन्द्रार्ककान्तिम्। नियुक्तांवसिष्ठादिभिराज्ञप्तांगो। चन्द्रार्कवरुणाभासांतरुणचन्द्रार्कसदृशी, क्वचिद्भागे स्फटिकादिनिर्मितां, क्वचिद्भागे पद्मरागादिनिर्मितामिति यावत्ति। निर्युक्तांसज्जीकृतांती।

१स चार्कङ।

२निर्युक्तांङ।

॥ २।९२।३६ ॥ ॥ २।९२।३७,३८ ॥

सा प्रयाता महासेना गजवाजि १रथाकुला।

दक्षिणां दिशमावृत्त्य महामेघ इवोत्थितः ॥ ३७ ॥

वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः।

गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥ ३८ ॥

गङ्गायाः परवेलायांप्रयागे दक्षिणप्रवाहायाः पश्चिमतीरे स्थिता सा सेना वनानि व्यतिक्रम्य प्रयाता बभूवेति योजनीयम् ॥ ३८ ॥

१समाकुलाङ। च।

गङ्गायाः दक्षिणवाहिन्याः परवेलायांपश्चिमभागे, स्थितेति शेषः। महासेना वनानि व्यतिक्रम्य, गिरिषु नदीषु च विश्रम्येति शेषः, ৷৷৷৷৷৷। यद्वामहासेना गिरिषु नदीषु च वनानि व्यतिक्रम्येति वाऽन्वयःगो। गिरिष्वपि नदीषु च प्रयातेति वाऽन्वयः।

॥ २।९२।३७,३८ ॥ ॥ २।९२।३९ ॥

सा संप्रहृष्ट १द्विपवाजियोधा

२वित्रासयन्ती मृगपक्षिसङ्घान्।

महद्वनं तत् ३प्रतिगाहमाना

रराज सेना भरतस्य तत्र ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विनवतितमः सर्गः।

धरा(२९)मानः (?) सर्गः ॥ ३९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विनवतितमः सर्गः

भरतस्य सेना सम्प्रहृष्टद्विजवाजियोधा रराज।

१द्विजवाजियोधाङ। द्विपवाजियूथाच।

२विवासयन्तीङ।

३प्रविगाहमानाच।

॥ २।९२।३९ ॥