०९१ भरद्वाजकृतातिथ्यम्

एकनवतितमः सर्गः

[भरद्वाजातिथ्यम्] ॥ २।९१।१ ॥

कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा।

भरतं कैकयीपुत्रं आतिथ्येन न्यमन्त्रयत् ॥ १ ॥

अथ भरद्वाजेन भरतस्यातिथ्यकरणम्। कृतबुद्धिमित्यादि। निश्चितबुद्धिमित्यर्थः। आतिथ्येनविशिष्टभोजनोपेतातिथिसत्कारहेतवे न्यमन्त्रयत्प्रार्थितवान् ॥ १ ॥

रामदर्शनेऽतीव त्वरमाणस्य भरतस्य एकरात्रिविलम्बोऽपि अनिरीक्षितः महान् विषयः इति भावेन तत्रैवऽ इत्युक्तम्।

॥ २।९१।१ ॥ ॥ २।९१।२ ॥

अब्रवीत् भरतस्त्वेनं नन्विदं भवता कृतम्।

पाद्यमर्घ्यं तथाऽऽतिथ्यं वने यदुपपद्यते ॥ २ ॥

वने यदुपपद्यते, तेनातिथ्य कृतं ननु इत्युवाच ॥ २ ॥

॥ २।९१।२ ॥ ॥ २।९१।३ ॥

अथोवाच भरद्वाजः भरतं प्रहसन्निव।

जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ ३ ॥

प्रहसन्निवेति। इतोऽभ्यधिकातिथ्यसम्पादने मम सामर्थ्यं नास्तीति किलायं मन्यत इत्याशयेन प्रहासः। जान इति। त्वं येन केनचिदपि सन्तुष्येःतुष्टो भवेरिति, तथा कृतेन वन्यसाधनातिथ्येन प्रीतियुक्तमित्यपि जाने ॥ ३ ॥

मुनिः इतः परं किं करिष्यतीति भरताशयज्ञानेन हासःगो।

एतेन नन्विदं भवता कृतम्ऽ इति भरतवचनं, प्रीतिविनयसङ्कोचादिप्रयुक्तमेव, न तु गर्वादिप्रयुक्तमिति सूचितम्। अत्र विश्वामित्रं प्रति वसिष्ठातिथ्यप्रार्थनाप्रकरणगतानि (बाल। ५२ सर्ग) कृतमित्यब्रवीत् राजाऽ, एवं ब्रुवन्तं राजानंऽ इत्यादिवाक्यानि स्मरणीयानि ॥

॥ २।९१।३ ॥ ॥ २।९१।४ ॥

सेनायास्तु १तवैतस्याः कर्तुमिच्छामि भोजनम्।

मम प्रीतिर्यथारूपा २तथा तां, मनुजाधिप ॥ ४ ॥

अथापिसेनाया इत्यादि। मम प्रीतिःममेच्छा यथारूपायादृक्प्रकारा, तथारूपां तां त्वमनुविधातुमर्हसीति शेषः ॥ ४ ॥

१तवैवास्याःच।

ऽत्वमर्हो मनुजाधिपऽ इति गो। ती। ति। पाठः। मम प्रीतिः यथारूपायादृशप्रकारा, तथा त्वमर्हःतथा त्वं प्रीतो भवितुमर्हःगो।

२त्वमर्हःङ। च। झ।

॥ २।९१।४ ॥ ॥ २।९१।५ ॥

किमर्थं चापि निक्षिप्य दूरे बलमिहागतः।

कस्मान्नेहोपयातोऽसि सबलः, पुरुषर्षभ ॥ ५ ॥

बलं दूरे निक्षिप्यागत इति। एकाकीति शेषः। अस्यैवार्थस्य व्यतिरेकमुखेन समर्पणंकस्मान्नेत्यादि ॥ ५ ॥

॥ २।९१।५ ॥ ॥ २।९१।६ ॥

भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम्।

१ससैन्यो नोपयातोऽस्मि, भगवन् भगवद्भयात् ॥ ६ ॥

अथ केवलागमनकारणप्रश्ने तद्धेतुमाहभरत इत्यादि। भगवद्भ्यादिति। भगवदाश्रमपीडाप्रसङ्गभयादित्यर्थः ॥ ६ ॥

१न सैन्येनोच।

भगवद्भयात्भवान् कुप्येदिति भयात्गो।

॥ २।९१।६ ॥ ॥ २।९१।७ ॥

राज्ञा च, भगवन् नित्यं राजपुत्रेण वा १सदा।

यत्नतः परिहर्तव्याःविषयेषु तपस्विनः ॥ ७ ॥

भेतव्यमेव च क्षत्त्रियेणेत्याहराज्ञेत्यादि। आश्रमेषु तद्वर्तिवृक्षोदकादिबाधाप्रसङ्गनिमित्तं परिहर्तव्याःअनुपरोध्या इत्यर्थः ॥ ७ ॥

१तथाच।

राज्ञा राजपुत्रेण वा विषयेषुस्वदेशेषु तपस्विनः सदा यत्नतः परिहर्तव्याः तपस्विषु अपचारसम्भावनाभीत्या तैः सदा जागरूकैर्भाव्यमिति भावः।

॥ २।९१।७ ॥ ॥ २।९१।८१० ॥

वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः।

प्रच्छाद्य, भगवन् भूमिं महतीमनुयान्ति माम् ॥ ८ ॥

ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा।

न हिंस्युरिति तेनाहं एक एव समागतः ॥ ९ ॥

आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा।

ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ १० ॥

परमर्षिणेति। श्रुतबलानानयनहेतुनेति शेषः। समुपागमंसमीपानयनमित्यर्थः ॥ १० ॥

॥ २।९१।८१० ॥ ॥ २।९१।११ ॥

अग्निशालां प्रविश्याथ पीत्वाऽपः परिमृज्य च।

आतिथ्यस्य क्रियाहेतोः विश्वकर्माणमाह्वयत् ॥ ११ ॥

अपः पीत्वा परिमृज्येति। हृदयंगमाभिरद्भिः त्रिरोष्ठौ परिमृजेत्। सकृदुपस्पृशेत्ऽ इत्युच्यमानरीत्या यथाविधि ब्राह्मं शुद्धाचमनं कृत्वेत्यर्थः। क्रियाहेतोःसम्पादननिमित्तम् । विश्वकर्मास्रष्टृमूर्तिभेदः ॥ ११ ॥

अग्निशालाप्रवेशः पावनत्वार्थः, देवतासन्निधानस्थलत्वात्गो।

॥ २।९१।११ ॥ ॥ २।९१।१२ ॥

आह्वये विश्वकर्माणं अहं त्वष्टारमेव च।

आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १२ ॥

आह्वयदित्युक्तं, तस्यैव प्रकारःआह्वय इत्यादि। आह्वय इत्यात्मनेपदमपि। त्वष्टारं विश्वकर्माणमेव, तक्षणादिव्यापारोपेतं विश्वकर्माणमेव, न तु संवत्सरो विश्वकर्मा। संवत्सरः प्रजापतिःऽ इति श्रुतौ, विश्वंसर्वं जगत्कर्म यस्य स विश्वकर्मेति समग्रयोगप्रवृत्तविश्वकर्मवाच्यभगवत्प्रजापतिरित्यर्थः। तत्र मे संविधीयतां मदपेक्षितातिथ्ये यत् त्वष्टृसाध्यं नानाविधगृहमपेक्षितं तत् तेन संविधीयताम् ॥ १२ ॥

विश्वकर्मा सर्वशिल्पकर्ता, त्वष्टा तु तक्षणेन गृहादिनिर्माता। यद्वात्वष्टारमेव चेत्यवधारणेन असुरविश्वकर्मा मयो व्यावर्त्यतेगो।

॥ २।९१।१२ ॥ ॥ २।९१।१३ ॥

आह्वये लोकपालांस्त्रीन् देवान् १शक्रमुखांस्तथा।

आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १३ ॥

अतः परंआह्वये लोकपालानित्यर्धं प्रक्षिप्तमिति परो व्याकरोत्तदसत्आहूयमानविश्वकर्मादीनामिव किञ्चित्कृत्ये महर्षिणा लोकपालत्रयस्यापि नियोजनात् ॥ १३ ॥

वक्ष्यमाणान्नपानादिरक्षणाय लोकपालानाह्वयतिआह्वय इति। शक्रमुखान्इन्द्रप्रधानान्, शक्रस्य पृथङ्निर्देशात्। त्रीन् लोकपालान्यमवरुणकुबोरान्। देवानित्यग्न्यादय उच्यन्ते। संविधीयतांपालनं क्रियताम्गो।

१अग्निमुखांस्तथाङ। शक्रपुरोगमान्च।

॥ २।९२।१३ ॥ ॥ २।९१।१४ ॥

प्राक्स्रोतसश्च या नद्यः १प्रत्यक्स्रोतस एव च।

पृथिव्यामन्तरिक्षे च २सहायान्त्वद्य सर्वशः ॥ १४ ॥

अन्तरिक्षे नदी आकाशगङ्गा ॥ १४ ॥

१तिर्यक्स्रोच।

२समायान्त्वद्यच।

॥ २।९१।१४ ॥ ॥ २।९१।१५ ॥

अन्याः स्रवन्तु मैरेयं सुरामन्ये १सुनिष्ठिताम्।

अपराश्चोदकं शीतं इक्षु २काण्डरसोपमम् ॥ १५ ॥

तासां कृत्यमाहअन्याः स्रवन्त्वित्यादि। मैरेयंमद्यभेदः, मैरेयं माधवे धात्री धातकी गुडवारिभिःऽ इति वैजयन्ती। सुरा तु गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुराऽ इति स्मृता। मैरेयं उक्तव्यतिरिक्तोपादानमन्यत्। सुनिष्ठितांसुनिष्पादिताम् ॥ १५ ॥

१सुनिष्ठिताःङ।

२खण्डङ।

॥ २।९१।१५ ॥ ॥ २।९१।१६ ॥

आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून्।

तथैवाप्सरसो देवीः गन्धर्वीश्चापि सर्वशः ॥ १६ ॥

विश्वावसून्, हहाहुहूनिति छन्दोवशात् ह्रस्वः। ब्रह्माणमिति। बृहस्पतिमिति यावत्। याश्चोपतिष्ठन्तीत्यनुकर्षः ॥ १६ ॥

॥ २।९१।१६ ॥ ॥ २।९१।१७,१८ ॥

घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम्।

१नागदन्तां च हेमां च २हिमामद्रिकृतस्थलाम् ॥ १७ ॥

शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च ३योषितः।

सर्वास्तुम्बुरुणा सार्धं आह्वये सपरिच्छदाः ॥ १८ ॥

सपरिच्छदाःनृत्तगीताद्यपेक्षितपरिकरोपेताः ॥ १८ ॥

१नागदत्तांच।

पुनश्च हेमांऽ इति पाठे पूर्वोक्तहेमापेक्षया अस्या व्यावृत्तिमाहअद्रिकृतस्थलामिति। अद्रौमहेन्द्रे मयेन कृतनिवासांस्वयंप्रभाबिलस्थामित्यर्थः। हिमामिति पाठे हिमवच्छीतलाङ्गी। यद्वा हिममस्या अस्तीति हिमा। अद्रिकृतस्थला चान्यागो।

२हेमाङ। सोमाच।

शक्रं या उपतिष्ठन्तिरम्भोर्वशीमेनकादयः। ब्रह्माणंचतुर्मुखं तल्लोकेऽप्यप्सरसः सन्ति, तं पञ्चशतान्यप्सरसां प्रतिधावन्तिऽ इति श्रुतेःगो।

३भामिनीःच।

॥ २।९१।१७,१८ ॥ ॥ २।९१।१९ ॥

वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत्।

दिव्यनारीफलं शश्वत् तत्कौबेरमिहैतु च ॥ १९ ॥

अथ चैत्ररथवनाह्वानंवनमित्यादि। कुरुषुउत्तरकुरुषु वनं चैत्ररथाख्यं, तच्चोत्तरकुरुदेशे वर्तते। दिव्यंदेवार्हम्। दिव्यत्वमेव तस्य दर्शयतिवास इत्यादि। यद्वृत्तिवृक्षाणां वासोभूषणान्येव पत्राणि अस्मिन् सन्तीति वासोभूषणपत्रवत्। शश्वत्सर्वदा दिव्यनार्य एव फलानि यस्मिन् तत् तथा। तथैवंभूतं यत् कौबेरमस्ति तत् इहवने एतुआगच्छतु। उत्तरदिक्पालत्वेन कुबेराधिष्ठितत्वात् कौबेरमित्युक्तम्। तद्देवताधिष्ठानादिदं वनं तथा भवत्वित्यर्थः। इयं च कुबेरं प्रत्येवोक्तिः। नदीनामिव वनस्याह्वानं तदधिष्ठातृदेवताद्वारा ॥ १९ ॥

भोगोपकरणान्याहूय भोगस्थानान्याह्वयतिवनमितिगो।

॥ २।९१।१९ ॥ ॥ २।९१।२०२२ ॥

इह मे भगवान् सोमः विधत्तामन्नमुत्तमम्।

भक्ष्यं भोज्यं च १चोष्यं च लेह्यं च विविधं बहु ॥ २० ॥

विचित्राणि च माल्यानि पादपप्रच्युतानि च।

सूरादीनि च पेयानि मांसानि विविधानि च ॥ २१ ॥

एवं समाधिना युक्तः तेजसाऽप्रतिमेन च।

शीक्षास्वरसमायुक्तं २तपसा चाब्रवीन्मुनिः ॥ २२ ॥

शीक्षेति। शीक्षाप्रतिपाद्यवर्णोच्चारणलक्षणोपेतम्, तथा व्याकरणोपदिश्यमानप्रकृतिप्रत्ययभाषास्वरोपेतं च तथा। एवं च एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुक् भवतिऽ इति प्रसिद्धार्थः महर्षेस्तपोबलादिहेव सिद्धः यथाप्रयुक्तवचनमात्रादित्युक्तं भवति। अब्रवीदिति। प्रागुक्तदेवताऽऽह्वानवाक्यमित्यनुकर्षः ॥ २२ ॥

एवं कुब्रेरं प्रत्युक्त्वा अन्नपतिं चन्द्रं प्रत्याहइहेतिगो।

भक्ष्यंखाद्यमपूपादि। भोज्यंओदनादि। चोष्यंपायसादि। लेह्यंरसायनादि ॥

१पेयंङ।

माल्यानामपि स्वयंसिद्धत्वस्फोरणायपादपप्रच्युतानीति।

समाधिनायोगेन, तपसाज्ञानेन, यद्वा अनशनादिकायक्लेशरूपेण। अत एव तेजसाअनागमने दण्डनसामर्थ्येन च युक्तः मुनिःगो।

२सुव्रतःच।

॥ २।९१।२०२२ ॥ ॥ २।९१।२३ ॥

१मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः।

आजग्मुस्तानि सर्वाणि देवतानि पृथक् पृथक् ॥ २३ ॥

तानीति। आहूतदैवतानीत्यर्थः ॥ २३ ॥

१तपसाङ।

॥ २।९१।२३ ॥ ॥ २।९१।२४ ॥

मलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः।

उप १स्पृश्य ववौ २युक्त्या सुप्रियात्मा शिवः सुखम् ॥ २४ ॥

मलयं दर्दुरं चैवचन्दनपर्वतौ। उपस्पृश्यस्पृष्ट्वा। ततःतस्मादारभ्य स्वेदनुदः, इगुपधेऽति कः। स्वेदस्य नुदः स्वेदनुदः। युक्त्या शैत्यसौरभ्यमान्द्यधर्मयोगेन। सुप्रियात्मासुप्रियस्वरूपः, अत एव शिवःशुभः अनिलः सुखं ववौ ॥ २४ ॥

मलयःचन्दनालयः, दर्दुरःतत्समीपस्थः चन्दनोत्पत्तिस्थानभूतो गिरिः। तदुभयमुपस्पृश्य सुप्रियात्मा सुप्रियस्वभावः, सुगन्ध इत्यर्थः, अत एव सुखःसुखकरः, शिवःशीतलः, युक्त्याअङ्गस्पर्शेनगो।

१स्पृश्याययौङ।

२युक्तःङ।

॥ २।९१।२४ ॥ ॥ २।९१।२५ ॥

ततोऽभ्य १वर्तन्त घनाः दिव्याः कुसुमवृष्टयः।

२दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २५ ॥

घनाःनिबिडाः ॥ २५ ॥

१वर्धन्तच।

२देवच।

॥ २।९१।२५ ॥ ॥ २।९१।२६ ॥

प्रववुश्चोत्तमा वाताः ननृतुश्चाप्सरोगणाः।

प्रजगुर्देवगन्धर्वाः वीणाः प्रमुमुचुः स्वरान् ॥ २६ ॥

वीणाश्चेति। वाद्यमाना इति शेषः। स्वरान्षड्जादीन् सान्तरभेदान् ॥ २६ ॥

॥ २।९१।२६ ॥ ॥ २।९१।२७ ॥

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च।

विवेशो १च्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ २७ ॥

लयःनृत्तगीतानुगततालप्रमाणः ॥ २७ ॥

१च्चावचःच।

॥ २।९१।२७ ॥ ॥ २।९१।२८ ॥

१तस्मिन्नुपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम्।

ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २८ ॥

भरतः विश्वकर्मणो विधानं ददर्श ॥ २८ ॥

१तस्मिन्नेवंगतेच।

अत्र यथाश्रुतव्याख्यानुरोधे, मूले ददर्श भरतः सर्वंऽ इत्येवंरीत्या पाठः स्यात्। अथ वा भरतस्येदंभारतं सैन्यं विश्वकर्मणो विधानं ददर्शऽ इत्येव व्याख्याऽपि स्यात्।

॥ २।९१।२८ ॥ ॥ २।९१।२९ ॥

बभूव हि समा भूमिः समन्तात् पञ्चयोजना।

शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्यसन्निभैः ॥ २९ ॥

तदेव प्रकाश्यतेबभूवेत्यादि। छन्ना बभूवेति योजना। शाद्वलशब्देन कोमलतृणान्युच्यन्ते। नीलस्यइन्द्रनीलस्य वैडूर्यस्य च सन्निभास्तथा ॥ २९ ॥

॥ २।९१।२९ ॥ ॥ २।९१।३० ॥

तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः।

आमलक्यो १बभूवुश्च चूताश्च फल २भूषणाः ॥ ३० ॥

तस्मिन्पञ्चयोजनायामप्रदेशे। बीजपूरःमातुलङ्गकः। फलभूषणत्वं साधारणम् ॥ ३० ॥

१ऽथ जम्बूश्च बभूवुःङ।

२भूषिताःच।

इतरवृक्षाणामपि साधारणमित्यर्थः।

॥ २।९१।३० ॥ ॥ २।९१।३१ ॥

उत्तरेभ्यः कुरुभ्यश्च वनंदिव्योपभोहवत्।

आजगाम नदी १सौम्या तीरजैर्बहुभिर्वृता ॥ ३१ ॥

दिव्योपभोगवत् वनमाजगामेत्यन्वयः। सौम्या नदीजम्बूनदी ॥ ३१ ॥

दिव्योपभोगवत्दिव्योपभोगार्हंगो।

१ दिव्याङ।

॥ २।९१।३१ ॥ ॥ २।९१।३२३५ ॥

चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनाम्।

हर्म्यप्रासाद १सम्बाधाः तोरणानि शुभानि च ॥ ३२ ॥

सितमेघनिभं चापि राजवेश्म सुतोरणम्।

२शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ ३३ ॥

चतुरश्रं असम्बाधं शयनासनयानवत्।

दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ॥ ३४ ॥

उपकल्पितसर्वान्नं धौतनिर्मलभाजनम्।

क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ॥ ३५ ॥

सितमेघनिभं सुधालेपेन। शुक्लमाल्यैः कृतः आकारःअलङ्कारः यस्य स तथा। समुक्षितंसिक्तम्। यानंशिबिकादि। धौतत्वात्प्रक्षालितत्वात् निर्मलानि भाजनानिपात्राणि यस्मिन् तत्तथा ॥ ३३३५ ॥

१संयुक्तच।

तोरणानिबन्धनमालाः, बन्धी बन्धनमाला तु तोरणं परिकीर्तितम्ऽ इति हलायुधःगो।

२दिव्यङ।

असम्बाधंविशालम्।

क्लृप्तसर्वासनंऽ इत्यत्र, स्नानभोजनाद्यासनान्युच्यन्ते। शयनासनऽ इत्यत्र राजाऽऽसनं तत्साहचर्यात् शयनं च महाशयनम्। स्वास्तीर्णशयनोत्तमम्ऽ इत्यत्र निद्रार्थशयनम्गो।

॥ २।९१।३२३५ ॥ ॥ २।९१।३६,३७ ॥

प्रविवेश महाबाहुः अनुज्ञातो महर्षिणा।

वेश्म तत् रत्नसम्पूर्णं भरतः केकयीसुतः ॥ ३६ ॥

अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः।

बभूबुश्च मुदा युक्ताः दृष्ट्वा तं वेश्मसंविधिम् ॥ ३७ ॥

वेश्मनः संविधिःविधानं तथा ॥ ३७ ॥

॥ २।९१।३६३७ ॥ ॥ २।९१।३८ ॥

तत्र राजाऽऽसनं दिव्यं व्यजनं छत्रमेव च।

भरतो मन्त्रिभिः सार्धं अभ्यवर्तत राजवत् ॥ ३८ ॥

राजाऽऽसनंसिंहासनं राजवदभ्यवर्तत ॥ ३८ ॥

राजवत्राजार्हम्। राजार्हमासनादिकं सर्वं प्रदक्षिणं चकारेत्यर्थःती। राजासनंराजार्हासनं अभ्यवर्ततअभितोऽवर्तिष्टप्रदक्षिणं कृतवानिति यावत्। राजवत्राजतुल्यंराममिवेत्यर्थःगो। राजवत्राजयोग्यम्ती।

॥ २।९१।३८ ॥ ॥ २।९१।३९ ॥

आसनं पूजयामास रामायाभिप्रणम्य च।

वालव्यजनमादाय न्यषीदत् सचिवासने ॥ ३९ ॥

न तु तत्रोपविष्ट इत्याहआसनं पूजयामासेत्यादि। रामभद्रीयमिति बुद्ध्येति शेषः। रामायाभिप्रणम्य चेति। आसनोपरि रामं प्रतिष्ठितं ध्यात्वेति शेषः। वालव्यजनंतालवृन्तम्। रामसेवाशेषतयेति शेषः। सचिवासनेसचिवोपक्लृप्तासने सिंहासनाधस्तने ॥

आसनं पूजयामासेत्यत्र राजवदित्यनुकर्षः। रामायआसनोपरिस्थितत्वेन भावितायगो। एतत्प्रकरणे समापततां आशङ्कानां विषये व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम्ऽ (७८) इति वक्ष्यमाणं वचनं विमर्शनीयम्। तिलके तुआसनं पूजयामासेति। रामचन्द्रीयमेतदिति बुद्ध्या रामाय प्रणम्य, आसनोपरि प्रतिष्ठितं रामं ध्यात्वेति शेषः। अत्रेदं बोध्यम्भरतेन वाचोक्तमपि राज्यानभिलाषं लोका न श्रद्दध्युः। अतः क्रिययाऽपि सर्वलोकप्रत्यायनाय महर्षिणा तपोव्ययेनापीदृशमातिथ्यकरणम्। किञ्च पुष्पादिभिः पूजेव इयमपि क्रिया विष्णोरंशभूतभरततुष्टये इति तत्करणम्। किञ्च भरतं प्रति त्वं दुष्टबुद्ध्याऽऽगतोऽसि किम्?ऽ इति प्रश्ने तस्य ऋषेरसर्वज्ञत्वासामर्थ्यादिशङ्कावारणाय स्वसामर्थ्यदर्शनम्। अपि च भगवदेकचित्तानां स्वर्गसुखमिहापि भवतीति भगवद्रामप्रीतिमाहात्म्यं प्रदर्शयितुं तद्दर्शनेन तेषां तत्राधिकां प्रीतिमुत्पादयितुं तथाकरणं मुनेरिति दिक्ति।

॥ २।९१।३९ ॥ ॥ २।९१।४० ॥

आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः।

ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ ४० ॥

प्रशास्तापुररक्षकः ॥ ४० ॥

प्रशास्ताशिबिरनियन्तागो।

॥ २।९१।४० ॥ ॥ २।९१।४१४३ ॥

ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः।

उपातिष्ठन्त भरतं भरद्वाजस्य १शासनात् ॥ ४१ ॥

तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः।

रम्याश्चावसथा दिव्याः २ब्रह्मणस्तु प्रसादजाः ॥ ४२ ॥

तेनैव च मुहूर्तेन दिव्याभरणभूषिताः।

आगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः ॥ ४३ ॥

आगुःआगतवत्यः। ब्रह्मणाबृहस्पतिना, पुत्रकार्यसिद्ध्यर्थम् ॥ ४३ ॥

१तेजसाङ।

पाण्डुमृत्तिकलेपनाःसुधालिप्ताःगो।

ब्रह्मणःभरद्वाजस्यगो।

२ब्राह्मणस्यच।

ब्रह्मणाचतुर्मुखेनगो।

॥ २।९१।४१४३ ॥ ॥ २।९१।४४,४५ ॥

सुवर्णमणि १मुक्तेन प्रवालेन च शोभिताः।

आगुर्विंशतिसाहस्राः कुबेर २प्रहिताः स्त्रियः ॥ ४४ ॥

याभिर्गृहीतः पुरुषः सोन्माद इव ३लक्ष्यते।

आगुर्विंशतिसाहस्राः नन्दनादप्सरोगणाः ॥ ४५ ॥

सोन्माद इति। गन्धर्वाप्सरसो वा एतमुन्मादयन्ति, य उन्माद्यतिऽ इति श्रत्येति शेषः। उद्भूतो मादःसन्तोषःउन्मादः, मुदहर्षे, भावे घञ्, उद्भूतसन्तोषसहिता इत्यर्थः ॥ ४५ ॥

सुवर्णानिसुवर्णमयाभरणानि, मणयःरत्नानि, मुक्ताश्चसुवर्णमणिमुक्तंतेनगो।

१युक्तेनङ।

२सहिताःङ।

गृहीतःआलिङ्गितः। एतदर्धस्य पूर्वेणान्वयःगो। दर्शनादिनाऽऽत्मवशीकृतःति।

३चोद्यतेङ।

॥ २।९१।४५,४५ ॥ ॥ २।९१।४६ ॥

नारदस्तुम्बुरु १र्गोपः प्रभया सूर्यवर्चसः।

एते गन्धर्वराजानः भरतस्याग्रतो जगुः ॥ ४६ ॥

नारदादयो गन्धर्वराजानः। प्रभया सूर्यवर्चसःतस्य समानतेजस्काः ॥ ४६ ॥

१र्गोप्ताङ।

॥ २।९१।४६ ॥ ॥ २।९१।४७,४८ ॥

अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामना।

उपानृत्यंस्तु १भरतं भरद्वाजस्य शासनात् ॥ ४७ ॥

यानि माल्यानि देवेषु यानि चैत्ररथे वने।

प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ ४८ ॥

प्रयागेक्षेत्रे ॥ ४८ ॥

१तास्सर्वाःङ।

भरद्वाजस्य शासनादुपानृत्यन्नित्यनेन, भरतस्य रामे वृत्तिविशेषं आतिथ्यव्याजेन परीक्षितवानृषिरिति गम्यते। एवं भरतस्य रामशेषतयैवावस्थानं, न तु भोगलौल्येनेत्युक्त्वा सेवाभोगं प्रपञ्चयतियानीत्यादिनागो।

॥ २।९१।४७,४८ ॥ ॥ २।९१।४९ ॥

बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः।

अश्वत्था नर्तकाश्चासन् भरद्वाजस्य १शासनात् ॥ ४९ ॥

बिल्वाःबिल्ववृक्षाः। मार्दङ्गिकाःमृदङ्गवादनशिल्पमस्य, तदस्य शिल्पम्ऽ इति ठक्, मार्दङ्गिका मौरजिकाःऽद्कूडविळयाडिवासिप्पार्। विभीतकाः द्ताऩत्ति। शम्याग्राहाः शम्या यज्ञायुधे ताले मशके च क्रियान्तरेऽ ॥ ४९ ॥

शम्याग्राहाःतालग्राहकाःगो।

१तेजसाच।

॥ २।९१।४९ ॥ ॥ २।९१।५० ॥

ततः सरलतालाश्च तिलका १नागमालकाः।

प्रहृष्टाः तत्र सम्पेतुः कुब्जा भूत्वाऽथ वामनाः ॥ ५० ॥

सरलःदेवदारुविशेषः। तालः प्रसिद्धः। तिलकःद्मञ्चक्काडि। नागमालकाःद्नागमरं। कुब्जाःस्थगुमन्तः ॥ ५० ॥

१नागमल्लिकाःङ। सतमालकाःच।

विहारार्हत्वाय एवम्भावः।

॥ २।९१।५० ॥ ॥ २।९१।५१ ॥

शिंशुपाऽऽमलकी जम्बुः याश्चान्याः १काननेषु ताः।

मालती मल्लिका जातिः याश्चान्याः कानने लताः ॥ ५१ ॥

प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे २ऽवसन्।

शिंशुपाद्तरुविडि। जम्बूरिति पृथक्पदं जातिवाचकम्। लताः मल्लिकादयः। ननु लतादिभिरेव स्त्र्यादिसाध्यव्यवहारः, किं तदावाहनेन? लतादेः दिव्यस्त्र्यादितापत्तिसामर्थ्याय तदधिष्ठानार्थमिति वदामः। वनलतादेः स्त्र्यादिताऽपत्तिश्च ॥ ५१ ॥

स्त्रीलिङ्गवृक्षाणां स्त्रीभावपरिग्रहमाहशिंशपेत्यादि।

१कानने लताःच।

२ऽवदन्ङ।

॥ २।९१।५१ ॥ ॥ २।९१।५२,५३ ॥

१सुराः सुरापाः पिबत पायसं च बुभुक्षिताः।

मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ ५२ ॥

२उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु।

अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ ५३ ॥

उच्छाद्यउद्वर्तनं कृत्वा। एकमेकमिति। एकं बहुव्रीहिवत्ऽ इति बहुव्रीहिवद्भावाभाव आर्षः ॥ ५३ ॥

एवमूचुरिति शेषःति इत्यवदन्ऽ (पूर्वश्लोके पाठान्तरम्) इति सम्बन्धःगो।

१सुरांच।

२उच्छोद्यच।

वल्गुषुमनोज्ञेषु।

॥ २।९१।५२,५३ ॥ ॥ २।९१।५४ ॥

संवाहन्त्यः समापेतुः नार्यो १रुचिरलोचनाः।

परिमृज्य २तथाऽन्योन्यं पाययन्ति वराङ्गनाः ॥ ५४ ॥

संवाहन्त्य इति। संवाहयन्त्य इति यावत्। संवाहनंपादमर्दनादि। समापेतुःसङ्गता बभूवुः। परिमृज्यस्नात्वा। पाययन्तीति। मद्यभेदानिति शेषः ॥ ५४ ॥

१विपुलच।

परिमृज्यजलार्द्रमङ्ग वस्त्रादिना परिमृज्य, अलङ्कृत्येति वाऽर्थःगो।

२यथान्याय्यंङ। तदाऽन्योऽन्यंच।

॥ २।९१।५४ ॥ ॥ २।९१।५५ ॥

हयान् गजान् खरानुष्ट्रान् तथैव सुरभेः सुतान्।

अभोजयन् वाहनपाः तेषां भोज्यं यथाविधि ॥ ५५ ॥

सुरभिसुताःबलीवर्दाः ॥ ५५ ॥

तदारोहाःङ।

॥ २।९१।५५ ॥ ॥ २।९१।५६ ॥

इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान्।

इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ ५६ ॥

इक्ष्वाकुवरयोधानां वाहनान् चोदयन्तःरक्षणाय प्रेरयन्तः सन्तः इक्ष्वादीन् भोजयन्ति स्म ॥ ५६ ॥

॥ २।९१।५६ ॥ ॥ २।९१।५७ ॥

नाश्वबन्धोऽश्वमाजानात् न गजं कुञ्जरग्रहः।

मत्तप्रमत्तमुदिता सा चमूस्तत्र सम्बभौ ॥ ४७ ॥

अत एवनाश्वबन्ध इत्यादि। अश्वान् बध्नातीत्यश्वबन्धः। मत्ताः मदकरद्रव्यसेवया, प्रमत्ताः मधुपानेन, मुदिताः स्रक्चन्दनवनितादिभोगेन ॥ ५७ ॥

नाजानात्न ज्ञातवान्गो।

॥ २।९१।५७ ॥ ॥ २।९१।५८ ॥

तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः।

अप्सरोगणसंयुक्ताः सैन्या वाचमुदीरयन् ॥ ५८ ॥

सैन्याःसेनायां समवेताः। वाचंक्रीडावाचं उदीरयन्उदैरयन्निति यावत्। ताभिरप्सरोभिस्सहेति शेषः ॥ ५८ ॥

॥ २।९१।५८ ॥ ॥ २।९१।५९ ॥

नैवायोध्यां गमिष्यामः न गमिष्याम दण्डकान्।

कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ ५९ ॥

कां वाचमुदीरयन्नित्यतःनैवेत्यादि। न गमिष्यामेति। छान्दसः सकारलोपः। भरतस्य कुशलमस्तु, भूमौ स्वर्गसुखप्रदत्वादित्याशयः ॥ ५९ ॥

॥ २।९१।५९ ॥ ॥ २।९१।६० ॥

इति पादातियोधाश्च हस्त्यश्वारोहबन्धकाः।

अनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन् ॥ ६० ॥

पादाभ्यां अदन्तिगच्छन्ति इति पादातयः ते चैते योधास्तथा। चकारतोऽधिकसमुच्चयः। हस्त्यश्वानामारोहाःसादिनः, हस्त्यादिबन्धकाः तद्भृत्याश्च तथा। तं विधिंतं सत्कारं लब्द्वा अनाथाः अपरतन्त्रा इवइत्येतां वाचमुदीरयन्निति सम्बन्धः ॥ ६० ॥

पदात्यादयः खलु ताः। अतःएतावता कालेन एतादृशातिथ्याद्यनुभवगतिरहिताःइत्येवंरीत्या लोकोक्तिर्वा अनाथा इति। तेन चातिथ्यप्रशंसनम्।

॥ २।९१।६० ॥ ॥ २।९१।६१ ॥

संप्रहृषह्टा विनेदुस्तं नरास्तत्र सहस्रशः।

भरतस्यानुयातारः स्वर्गोऽयमिति चाब्रुवन् ॥ ६१ ॥

विनादःशूराणां प्रहृष्टानां शब्दविशेषः ॥ ६१ ॥

॥ २।९१।६१ ॥ ॥ २।९१।६२,६३ ॥

नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः।

समन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ ६२ ॥

ततो भुक्तवतां तेषां तदन्नममृतोपमम्।

दिव्यानुद्वीक्ष्य भक्ष्यांस्तान् अभवद्भक्षणे मतिः ॥ ६३ ॥

अभवद्भक्षणे मतिरिति। परितृप्तत्वेऽपि भक्ष्यसौष्ठवात् पुनश्चाकाङ्क्षाऽभूदित्यर्थः ॥ ६३ ॥

माल्योपेताःमाल्याद्यलङ्कृता इति यावत्।

॥ २।९१।६२,६३ ॥ ॥ २।९१।६४ ॥

प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्च सहस्रशः।

बभूवुस्ते भृशं १तृप्ताः सर्वे चाहतवाससः ॥ ६४ ॥

प्रेष्याःकिङ्कराः। चेट्यःदास्यः। बलेसेनायां तिष्ठन्तीति तथा। अहतवासस इति। नूतनवस्त्रपरिधाना इत्यर्थः ॥ ६४ ॥

१दृप्ताःङ। प्रीताःच।

अहतवाससःनूतनवस्त्राः। यद्वा, आहतवाससःनिर्णिक्तवाससःगो।

॥ २।९१।६४ ॥ ॥ २।९१।६५ ॥

कुञ्जराश्च खरोष्ट्राश्च १गोऽश्वाश्च मृगपक्षिणः।

बभूवुः सुभृतास्तत्र २नान्यो ह्यन्यमकल्पयत् ॥ ६५ ॥

खरोष्ट्रा इत्यादौ सर्वो द्वन्द्वो विभाषाऽ इत्येकत्वाभावः। मृगपक्षिणः क्रीडार्थाः। सुभृताःसुपुष्टाः। तत्रसेनायाम्। अन्यः अन्यं प्रति अन्नादिकं नाकल्पयत्, ऋषिकृतमेव सर्वमुपयुक्तवन्त इत्यर्थः ॥ ६५ ॥

१गावश्चङ।

एते परस्परं उपचारादिकं नाकुर्वन् महर्षिप्रेषितपरिचारकैरेवेष्टसम्पत्त्या परस्परापेक्षा नासीदिति भावः।

२नातोच।

॥ २।९१।६५ ॥ ॥ २।९१।६६,६७ ॥

नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा।

रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ ६६ ॥

आजैश्चापि च वाराहैः निष्ठानवरसञ्चयैः।

फलनिर्व्यूहसंसिद्धैः १सूपैर्गन्धरसान्वितैः ॥ ६७ ॥

आजैरित्यादि। आजादिपदार्थैः पूर्णाः। आजैःअजमांसैः। तथा वाराहैः। निष्ठानं व्यञ्जनं ज्ञेयम्ऽ इति हरिः, व्यञ्जनश्रेष्ठानां सञ्चयास्तथा। निर्व्यूहःक्वाथरसः, द्वर्यापीडे क्वाथरसे निर्व्यूहो नागदन्तकेऽ। सिद्धैःभावे निष्ठा, सिद्धिः पाक इति यावत्, पनसाम्रादिफलक्वाथरसपाकभेदैरित्यर्थः। अपि च फलनिर्व्यूहसन्निहिततया सिद्धैःपक्वैः सूपैरिति सूपविशेषणमपि। तादृशसूपः केरलप्रसिद्धः। गन्धरसान्वितैरिति साधारणं विशेषणम्। गन्धःभर्जनादिसंस्कारादिजो गन्धविशेषः, तथा रसविशेषोऽपि ॥ ६७ ॥

१धूपैङ।

॥ २।९१।६६,६७ ॥ ॥ २।९१।६८ ॥

पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य १ चाभितः।

ददृशुर्विस्मितास्तत्र नरा लौहीस्सहस्रशः ॥ ६८ ॥

पुष्पवत्यः ध्वजवत्यश्च तथा, इदमलङ्कारार्थं गन्धार्थं च। पूर्णयोगे षष्ठी सर्वत इति प्रागेवोक्तम्। लौहीःस्वर्णरजतमयपात्रीः ददृशुरित्यन्वयः। लोहशब्दः पञ्चलोहसाधारणः ॥ ६८ ॥

१चोच्छ्रिताःङ।

सर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देन उच्यतेगो।

॥ २।९१।६८ ॥ ॥ २।९१।६९ ॥

बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः।

ताश्च कामदुघा गावः द्रुमाश्चासन् १मधुस्त्रुतः ॥ ६९ ॥

वनपाश्वेषुचैत्ररथवनवत् प्रतिभातवनप्रदेशेषु पञ्चयोजनपरिमितेष्वित्यर्थः। ताश्च तद्वनवर्तिन्यो गाश्च कामदुघा आसन्, दुहः क्विप्, घश्च। वनप्रदेशेष्वेवं भोगसाधनसम्पादनं अपाङ्क्तेयाटविकवननिषादादिबलाद्यर्थम् ॥ ६९ ॥

१मधुच्यतःच।

॥ २।९१।६९ ॥ ॥ २।९१।७० ॥

वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः।

प्रतप्त १पैठरैश्चापि मार्गमायूरकौक्कुटैः ॥ ७० ॥

प्रतप्तपैठरैःपिठरःकपालःद् ओडुतेषु संस्कृताः पक्वाःपैठराः, संस्कृतं भक्षाःऽ इत्यण्, प्रतापमात्रतः संस्कार्याःप्रतप्ताः पैठराश्च तथा। मृगादिसम्बद्धमांसाःमार्गादयः ॥ ७० ॥

निषादादिबलतृप्त्यर्थं प्रतापमात्रेण संस्कार्याःप्रतप्ताः, तथा पिठरःकपालं, तेषु संस्कृताःपक्वाःपैठराःति। प्रतप्तपिठरैःप्रतप्तपिठरसंस्कृतैःगो।

१पिठरैङ।

॥ २।९१।७० ॥ ॥ २।९१।७१ ॥

पात्रीणां च सहस्राणि स्थालीनां नियुतानि च।

न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ ७१ ॥

पात्रीणांअन्नपानीयपात्रीणांद्मिडाक्कळ्।स्थालीनां व्यञ्जनस्थालीनां द्चों बुक्कळ्। नियुतंलक्षम्। न्यर्बुदानिशतकोट्यः। पात्राणिभोजनपात्राणिद्वट्टिल् ॥ ७१ ॥

पात्रीणांऽ इत्यारभ्य सञ्चयाःऽ इत्यन्तमेकं वाक्यम्गो।

॥ २।९१।७१ ॥ ॥ २।९१।७२ ॥

स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः।

यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ ७२ ॥

स्थाल्यःद्तालम्। कुम्भ्यःद्तोंडिकळ्। दधिपूर्णत्वं कुम्भविशेषणम्। करम्भ्यःदधिमन्तनस्थाल्यः। यौवनस्थस्यन अपक्वस्य नातिपक्वस्य, मध्यमसुपरिपाकस्येत्यर्थः। गौरस्यसुपक्वत्वादेव पीतवर्णस्य, पीतो गौरो हरिद्राभःऽ उक्तविशेषणकपित्थस्य——–सम्बन्धिसुगन्धवतः ॥ ७२ ॥

॥ २।९१।७२ ॥ ॥ २।९१।७३ ॥

हृदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे।

बभूवुः १पायसस्यान्ये २शर्कराणां च सञ्चयाः ॥ ७३ ॥

रसालस्यतक्रविशेषस्य, अपक्वतक्रं सव्योषं चतुर्जातं गुडार्द्रकम्। सजीरकं रसालं स्यात् मज्जिका शिखरिण्यपिऽ इति वैजयन्ती। पायसस्यान्य इति। पूर्णा ह्रदा इत्यनुकर्षः। शर्कराणां सञ्चयाःराशयश्च, पायसोपयुक्ता बभूवुरित्यनुकर्षः ॥ ७३ ॥

१पयसश्चान्येच।

पात्रीणांऽ इत्यारभ्य सञ्चयाःऽ इत्यन्तमेकं वाक्यम्गो।

२शर्करायावसञ्चयाःङ।

॥ २।९१।७३ ॥ ॥ २।९१।७४ ॥

कल्कां श्चूर्णकषायांश्च स्नानानि विविधानि च।

ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ ७४ ॥

उक्तह्रदान् कल्कादींश्च ददृशुरित्यन्वयः। कल्कान्आमलक्यादिकल्कतैलान् चूर्णकषायांश्चस्नानचूर्णक्वाथतकषायांश्च ददृशुरिति सम्बन्धः। तथा विविधानि स्नानानिस्वान्त्यनेनेति स्नानानिउष्णोदकानि ॥ ७४ ॥

चूर्णानिमाषादिचूर्णानि, कषायाः क्वथितानिगो।

सरितां तीर्थेषुनद्या अवतारस्थलेषु।

॥ २।९१।७४ ॥ ॥ २।९१।७५ ॥

शुक्लानंशुमतश्चपि दन्तधावनसञ्चयान्।

शुक्लांश्चन्दनकल्काश्च समुग्देष्ववतिष्ठतः ॥ ७५ ॥

शुक्लान्निर्मलान्। अंशुमतःअग्रे कूर्चवतः, दन्तधावनायेति यावत्। चन्दनकल्कान्घृष्टचन्दनान्। समुद्गःसंपुटःए द् ॥ ७५ ॥

॥ २।९१।७५ ॥ ॥ २।९१।७६ ॥

दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान्।

पादुको १पानहं चैव युग्मानि च सहस्रशः ॥ ७६ ॥

पादुकाद्मरवुरि। उपानत्द्चेरुप्पु। पादुकापानहमिति। द्वन्द्वाच्चुदषहान्तात्समाहारेऽ इति टच् समासान्तः। युग्मान्उभयपादार्थं युग्मरूपान् ॥ ७६ ॥

परिमृष्टान्निर्मलीकृतान्गो।

पादुकाःदारुनिर्मिताः, उपानहःचर्मनिर्मिताःगो।

१पानहश्चापिङ।

॥ २।९१।७६ ॥ ॥ २।९१।७७ ॥

आञ्जनीः कङ्कतान् कूर्चान् १शस्त्राणि च धनूंषि च।

२मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ ७७ ॥

आञ्जन्यःद्मैक्कुंडु। कङ्कतःकेशमार्जनम्द् चीप्पु। कूर्चाःश्मश्रुप्रसाधकाः द्पाणीपण्णुवार्। मर्मत्राणंकवचम् ॥ ७७ ॥

१छत्राणिच।

२तनुत्राणि चङ।

॥ २।९१।७७ ॥ ॥ २।९१।७८ ॥

प्रतिपानहृदान् पूर्णान् खरोष्ट्रगजवाजिनाम्।

अवगाह्यसुतीर्थांश्च हृदान् सोत्पलपुष्करान् ॥ ७८ ॥

प्रतिपानंभुक्तजीर्णार्थं यत् पीयते तत् प्रतिपानम्द्कुडिनीर्। अवगाह्यसुतीर्थानिति। अवगाहितुं योग्याः सुखावताराश्चेत्यर्थः। पुष्करं पङ्कजे व्योम्निऽ इति विश्वः ॥ ७८ ॥

रथङ।

॥ २।९१।७८ ॥ ॥ २।९१।७९ ॥

आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखाप्लवान्।

नीलवैडूर्यवर्णांश्च मृदून् यवससञ्चयान् ॥ ७९ ॥

निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः।

आकाशवर्णप्रतिमानिति। नीलवर्णान्, उपाधिभेदादिति शेषः। सुखेन आप्लवःस्नानं येषां ते तथा। यवसानां सञ्चयस्तथा, यवसं तृणमर्जुनम्ऽ। निर्वापार्थंभक्षणार्थम् ॥ ७९ ॥

आकाशवर्णप्रतिमान्आकाशवन्निर्मलानित्यर्थःगो।

॥ २।९१।७९ ॥ ॥ २।९१।८० ॥

व्यस्मयन्त मनुष्यास्ते १स्वप्नकल्पं तदद्भुतम्।

दृष्ट्वाऽऽतिथ्यं कृतं तादृक् २भरतस्य महर्षिणा ॥ ८० ॥

स्वप्नकल्पमिति। द्रागुत्पन्नसुदुष्प्रापविचित्रपदार्थत्वात् ॥ ८० ॥

१स्वर्गकल्पंङ।

स्वप्नकल्पत्वोक्तिः अयत्नसिद्धत्वात्, अपूर्वत्वात्, आश्चर्यकरत्वाच्चगो। स्वप्नकल्पंमर्त्यदुर्लभम्ति।

२भरद्वाजच।

॥ २।९१।८० ॥ ॥ २।९१।८१८३ ॥

१इत्येवं रममाणानां देवानामिव नन्दने।

भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तते ॥ ८१ ॥

प्रतिजग्मुश्च ता नद्यः गन्धर्वाश्च यथाऽऽगतम्।

भरद्वाजमनुप्राप्य ताश्च सर्वा वराङ्गनाः ।। ८२ ॥

तथैव मत्ता मदिरोत्कटा नराः

तथैव दिव्यागरुचन्दनोक्षिताः।

तथैव दिव्याः विविधाः स्रगुत्तमाः

पृथक् २प्रकीर्णा मनुजैः प्रमर्दिताः ॥ ८३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकनवतितमः सर्गः

अथ स्वप्नादिवत् ऋषिकृतमातिथ्यं किं मिथ्या? इति शङ्कां व्यावर्तयितुमाहतथैव मत्ता इत्यादि। मत्ताःदृप्ताः। मदिरया उत्कटाःमदिरोत्कटाः। मत्ते शौण्डोत्कटक्षीबाःऽ। तथैवेति। यथा सार्वभौमाश्वमेधयागतृप्तजनस्य भुक्तवस्तु परिपाकपर्यन्तं सत्यं, तथैवात्रापि सत्य एव भोगोऽभूदित्यर्थः। स्रगुत्तमाःस्रक्षूत्तमाः प्रकीर्णाः प्रमर्दितदाश्च, उपभोगवशादिति शेषः। गज(८३)मानः सर्गः ॥ ८३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकनवतितमः सर्गः

१इत्येषांङ।

भरद्वाजात् अनुमतिं प्राप्येत्यर्थः।

पृथक्पूर्वस्रग्भ्यो विलक्षणाःगो।

२विकीर्णाङ।

॥ २।९१।८१८३ ॥