नवतितमः सर्गः
[भरद्वाजसमागमः] ॥ २।९०।१ ॥
भरद्वाजाश्रमं १दृष्ट्वा क्रोशादेव नरर्षभः।
२बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ १ ॥
अथ भरतस्य भरद्वाजदर्शनम्। भरद्वाजेत्यादि। दृष्ट्वा जगामेति सम्बन्धः। क्रोशात्तावद्दूरात् परत इत्यर्थः। अवस्थाप्येति। आश्रमोपरोधनिवृत्त्यर्थमिति शेषः ॥ १ ॥
श्लोकद्वयमेकान्वयम्गो।
१गत्वाच।
२जनच।
॥ २।९०।१ ॥ ॥ २।९०।२ ॥
पद्भ्यामेव हि धर्मज्ञः न्यस्तशस्त्रपरिच्छदः।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २ ॥
पद्भ्यामित्यादिकं विनयप्रदर्शनार्थम् ॥ २ ॥
परिच्छदःआभरणादिकं, भृङ्गाराद्युपकरणजातं च। वसानो वाससी क्षौमे भरद्वाजसेवार्थं
उष्णीषकञ्चुकादिकमपहाय परिधानमुत्तरीयं च धृत्वा गत इत्यर्थः। ननु पूर्वं जटाचीराणि धारयन्ऽ (८८२६) इत्युक्तम्। जटिलं चीरवसनंऽ (१००१) इति च वक्ष्यति। कथमत्र क्षौमवासस्त्वमुच्यतेनैष दोषः। पूर्वं प्रतिज्ञामात्रं कृतम्, भरद्वाजाश्रमात्परं जटाधारणमितिगो। परन्तु तत्र (८८२६) अद्य प्रभृतिऽ इति स्पष्टमुक्तत्वात्, उत्तरत्र जटाधारणस्य अकथनाच्च पूर्वमेव जटाचीरधारणमिति प्रतिभाति। वसानो वाससी क्षौमेऽ इत्यपि न राजार्हवस्त्रधारणमाह, किन्तु आश्रमप्रवेशानुगुणधौतधारणमेवेति। शिरस्स्नानादिकरणेन जटाया अस्पष्टत्वात्, ज्ञातत्वेऽपि इङ्गितज्ञत्वाद्वा भरद्वाजेन नैतद्विषये प्रश्नः कृतः। अथवानन्दिग्रामवासकाल एवजटादिधारणम्। तत्पूर्वं तु प्रतिज्ञामात्रम्। जटिलंऽ (१००१) इति केशसंस्काराभावकृतं जटिलत्वमेवाहइत्यपि केचित्।
पुरोधायपुरस्कृत्य।
॥ २।९०।२ ॥ ॥ २।९०।३ ॥
ततः सन्दर्शने तस्य भरद्वाजस्य राघवः।
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ ३ ॥
ततः सन्दर्शन इति। आश्रमप्रवेशनानन्तरं ऋषिसन्दर्शनावसर इत्यर्थः। अनुपुरोहितंपश्चादर्थेऽनोरव्ययीभावः, पुरोहितस्य पश्चादित्यर्थः ॥ ३ ॥
॥ २।९०।३ ॥ ॥ २।९०।४ ॥
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः।
सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥ ४ ॥
शिष्यानर्घ्यमिति ब्रुवन्निति। शिष्यान् प्रति अर्घ्यमानयतऽ इति ब्रुवन्नित्यर्थः ॥ ४ ॥
त्वरातिशयात् एवं अपूर्णोक्तिः लोकेऽपि प्रसिद्धा।
॥ २।९०।४ ॥ ॥ २।९०।५ ॥
समागम्य वसिष्ठेन भरतेनाभिवादितः।
अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥ ५ ॥
अबुध्यतेति। वसिष्ठेन सहागमनाद्धेतोरिति शेषः ॥ ५ ॥
समागम्येति। सवयस्कत्वान्नमस्काराभावःगो। वसिष्ठेन समागम्य वसिष्ठेन सहागत्य भरतेन अभिवादित इति वाऽन्वयः।
॥ २।९०।५ ॥ ॥ २।९०।६ ॥
ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च।
आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ ६ ॥
अयोध्यायां बले कोशे मित्रेष्वषि च १मन्त्रिषु।
ताभ्यांभरतशत्रुघ्नाभ्याम्, वसिष्ठस्यार्घ्यादिदानानन्तरमिति शेषः। तदेव दर्शितंआनुपूर्व्याच्चेति। आनुपूर्व्याद्दत्त्वा आनुपूर्व्यात् पप्रच्छेत्यग्रेण सम्बन्धः। कुलेगृहे ॥ ६ ॥
१बन्धुषुङ।
॥ २।९०।६ ॥ ॥ २।९०।७ ॥
जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ ७ ॥
दशरथं वृत्तमिति। अतीतमिति यावत्। अत एव न राजानमुदाहरदिति। राजानं प्रति कुशलप्रश्नमिति शेषः ॥ ७ ॥
॥ २।९०।७ ॥ ॥ २।९०।८ ॥
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम्।
शरीरेऽग्निषु शिष्येषु वृक्षेषु मृगपक्षिषु ॥ ८ ॥
शरीरादित्रयस्य यथायोगमन्तरङ्गबहिरङ्गतया तपस्साधनत्वात् तदनामयप्रश्नः। मृगपक्षिणामभयावस्थानदानद्वारा धर्मसाधनत्वम्, शिष्यवत् प्रियत्वाच्चानामयप्रश्नः ॥ ८ ॥
वसिष्ठ इत्यादिश्लोकद्वयं कुत्रचिन्नास्तिझ।
॥ २।९०।८ ॥ ॥ २।९०।९ ॥
तथेति तु प्रतिज्ञाय भरद्वाजो महातपाः।
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ।। ९ ॥
तथेति तु प्रितज्ञायेति। अनामयमित्युक्त्वेति यावत् ॥ ९ ॥
राघवस्नेहबन्धनात्राघवविषये स्नेहानुबन्धनात्, न तु भरते दोषदर्शनात्गो। महर्षिरपि सन् तत्तादृशं भरतं कथं मर्मोक्तिभिरपीडयदिति संकायां हेतुःराघवेत्यादि। रामे भगवति अतिशयप्रेम्णातदेव बन्धरूपंपाशरूपं जातमिति अतिस्नेहः पापशङ्कीऽ इत्यादिवत्, विषयान्तरचिन्तादीनामप्रसक्त्या एवं मर्मोक्तिरिति भावः।
॥ २।९०।९ ॥ ॥ २।९०।१० ॥
किमिहागमने कार्यं तव राज्यं प्रशासतः।
एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः ॥ १० ॥
मे मनो न शुध्यत इति। न विश्वसतीति यावत् ॥ १० ॥
॥ २।९०।१० ॥ ॥ २।९०।११ ॥
सुषुवे यममित्रघ्नं कौसल्या १नन्दवर्धनम्।
भ्रात्रा सह सभार्यो यः चिरं प्रव्राजितो वनम् ॥ ११ ॥
किं विषयकोऽयमविश्वासः? इत्यतःसुषुव इत्यादि। कौसल्या यं सुषुव इत्यन्वयः ॥ ११ ॥
सुषुवेऽ इत्यादि श्लोकत्रयमेकान्वयम्। चिरं प्रव्राजितःचिरकालमुद्दिश्य प्रव्राजितःगो।
१नन्दिवर्धनम्ङ।
॥ २।९०।११ ॥ ॥ २।९०।१२,१३ ॥
नियुक्तः १स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः।
वनवासी भवेतीह समाः किल चतुर्दश ॥ १२ ॥
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि?
अकण्टकं भोक्तुमनाः राज्यं २तस्यानुजस्य च ॥ १३ ॥
वनवासी भवऽ इति नियुक्तः इति योजना। इहेति। यद्वनं प्रव्राजितः इह वन इत्यर्थः। तस्य अनुजस्यलक्ष्मणस्य च पापं कर्तुमिहेच्छसीत्यन्वयः। तत्र हेतुःअकण्टकमिति। असपत्नमिति यावत् ॥ १२१३ ॥
१स्त्रीनिमित्तेनच।
२तस्याग्रजस्य चङ।
॥ २।९०।१२,१३ ॥ ॥ २।९०।१४ ॥
एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह।
पर्यश्रुनयनो दुःखात् वाचा संसज्जमानया ॥ १४ ॥
संसज्जमानयास्खलन्त्या ॥ १४ ॥
॥ २।९०।१४ ॥ ॥ २।९०।१५ ॥
हतोऽस्मि यदि मामेवं १भगवानभि मन्यते।
मत्तो न दोषमाशङ्के २नैवं मामनु ३शाधि हि ॥ १५ ॥
यदियस्मात् भगवान् मामभिमां प्रति एवं मन्यतेपापप्रसक्तं मन्यते अतो हतोऽस्मिव्यर्थजन्मास्मीत्यर्थः। कथमेवमित्यतःमत्त इत्यादि। दोषंवनप्रव्राजनदोषं मत्तःमन्निमित्ततः नेति आशङ्केस्वानुभवेन जानामि, अतो हि मामेवं अनुशाधिअनुगृहाण ॥ १५ ॥
१भगवानपिच।
रामप्रव्राजनहेतुभूतं दोषं, मत्तःमन्मूलं इति, नाशङ्के रामप्रव्राजनस्य त्वं न हेतुरिति भावयामिऽ इति मां प्रति मुनिः न वदति किल, सोऽपि मन्निमित्तमेव रामप्रव्राजनं मनुते किल। अतः हतोऽस्मिइत्यर्थः। मत्तो न दोषमाशङ्केऽ इत्यत्र त्वत्तःऽ इति वक्तव्यत्वेऽपि, पूर्णानुवादरूपत्वाभावात्, शोकवैय्याकुल्या वा एवमुक्तिः। परन्तु सर्वज्ञो भरद्वाजः मां निर्दोषं जानीयादेवऽ इति प्रत्ययवन्तं भरतं प्रति भरद्वाजेन तथा प्रश्नात् भगवान् वा मां निर्दोषं जानीयात्ऽ इति खलु अबावयम्। सोऽपि यद्येवं वक्ति, ततो मरणमेव मे वरमिति भरताशयः प्रतिभाति।
२मैवंच।
३शास्तिङ।
॥ २।९०।१५ ॥ ॥ २।९०।१६ ॥
न चैतदिष्टं माता मे यदवोचन्मदन्तरे।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ १६ ॥
कथमनुभवापलापः क्रियते? इत्यत्राहन चेत्यादि। मदन्तरेमदसन्निधौ मे माता यदवोचत् मदभिषेकरामवनवासविषयकं न चैतत् ममेष्टम्। इदमेव विव्रियतेनाहमित्यादि। एतेनमातृकृतव्यापारेण न च तद्वचनमाददे इदानीमिति शेषः ॥ १६ ॥
॥ २।९०।१६ ॥ ॥ २।९०।१७ ॥
अहं तु तं नरव्याघ्रं उपयातः प्रसादकः।
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ १७ ॥
भवत्वेवमपापः, अथापीह प्रवृत्तिः किमर्था? इत्यत्राहअहं त्वित्यादि। प्रसादक इति। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्ऽ इति ण्वुल्, प्रीतिं कारयिष्यन्नित्यर्थः ॥ १७ ॥
प्रसादकस्सन् उपयातःप्रसादनार्थमागत इति यावत्। प्रसादकः, अयोध्यां प्रति नेतुं, तस्य पादावभिवन्दितुं च उपयातः।
॥ २।९०।१७ ॥ ॥ २।९०।१८ ॥
१त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि।
शंस मे, २भगवन् रामः क्व संप्रति महीपतिः? ॥
एवंगतंएवं बुद्धिं प्राप्तवन्तम्। क्व कस्मिन् प्रदेशे ॥
१तंच।
२भगवान्ङ।
स्वस्य राज्येऽभिलाषाभावं प्रकटयितुंरामं महीपतिःऽ इत्याह भरतः।
॥ २।९०।१८ ॥ ॥ २।९०।१९ ॥
वसिष्ठादिभिर्ऋत्विग्भिः याचितो भगवांस्ततः।
उवाच तं भरद्वाजः प्रसादात् भरतं वचः ॥ १९ ॥
ऋत्विग्भिरिति। ऋत्विग्भिश्चेति शेषः। प्रसादात्प्रीत्या ॥ १९ ॥
याचितःभरताय प्रसन्नो भवेति प्रार्थितःगो।
॥ २।९०।१९ ॥ ॥ २।९०।२० ॥
त्वय्येतत्, पुरुषव्याघ्र युक्तं राघववंशजे।
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २० ॥
त्वयीत्यादि। हे पुरुषव्याघ्र एतत्उक्तरूपमेव वचः शंसितुं त्वयि युक्तंतवोचितमित्यर्थः। त्वयि तु युक्तमित्येतदेव समर्थयितुमाहगुरुवृत्तिरित्यादि। गुरुवृत्तिःगुरुसेवा। अनुयायिताअनुवर्तनम् ॥ २० ॥
गुरुवृत्तिःज्येष्ठानुवर्तनम्गो।
॥ २।९०।२० ॥ ॥ २।९०।२१ ॥
जाने चैतन्मनस्स्थं ते दृढीकरणमस्त्विति।
अपृच्छं त्वां १तवात्यर्थं कीर्तिं समभिवर्धयन् ॥ २१ ॥
जान इति। तवास्तीति शेषः। तर्हि पापशङ्का कथं मयि भवद्भिः कृता? इत्यत्राहएतदित्यादि। यदेतत्ते मनस्स्थंशुभाभिप्रायजातं तस्यास्य दृढीकरणमस्त्वित्येव धिया अपृच्छम्। अस्य च फलमाहतवेत्यादि। या तव कीर्तिःविहाय च राज्यं धर्ममेवाशिश्रयदिति, तां अत्यर्थं समभिवर्यन्, हेतौ शता, कीर्त्यभिवृद्धिहेतवे अपृच्छमित्यर्थः ॥ २१ ॥
१तथाऽत्यर्थंङ।
लोके इतोऽपि सम्यक् प्रकटीकर्तुमिति भावः।
॥ २।९०।२१ ॥ ॥ २।९०।२२ ॥
जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम्।
१असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २२ ॥
अथ ऽक्व सम्प्रति महीपतिः?ऽ इति भरतप्रश्नस्योत्तरमाहजान इत्यादि ॥ २२ ॥
रामं जानेदेशविशेषस्थितं रामं जान इत्यर्थःगो।
१अयंच।
॥ २।९०।२२ ॥ ॥ २।९०।२३ ॥
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः।
एतं मे कुरु, सुप्राज्ञ कामं, कामार्थकोविद ॥ २३ ॥
कामार्थकोविदकामितार्थप्रदानसमर्थ ॥ २३ ॥
॥ २।९०।२३ ॥ ॥ २।९०।२४ ॥
ततस्तथेत्येव मुदारदर्शनः
प्रतीतरूपो भरतोऽब्रवीद्वचः।
चकार बुद्धिं च तदा तदाश्रमे
निशानिवासाय नराधिपात्मजः ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे नवतितमः सर्गः
प्रतीतंप्रसिद्धं रूपं यशः यस्य स तथा। रूपं यशस्याभिरूप्ये वर्णे चैव निरूपणेऽ। तस्याश्रमःतदाश्रमः, तस्मिन्। वारि(२४)मानः सर्गः ॥ २४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे नवतितमः सर्गः
कामार्थकोविदत्वं रूपमेवाहेति वदतिउदारदर्शन इति।
प्रतीतरूपःप्रकर्षेण हृष्टःगो।
निशानिवासायतद्दिननिशां तत्रैव नेतुम्। प्रातैव हि भरद्वाजाश्रमप्राप्तिः पूर्वमुक्ता।
॥ २।९०।२४ ॥