०८९ भरतादीनां प्रयागवनगमनम्

एकोननवतितमः सर्गः

[गङ्गासन्तरणम्] ॥ २।८९।१ ॥

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः।

भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ १ ॥

अथ भरतस्य च गङ्गातरणपूर्वकं भरद्वाजाश्रमप्राप्तिः। व्युष्येति। व्युषित्वाउषित्वा। काल्यं प्रत्युषोऽहर्मुखं काल्यंऽ, तदुचितकृत्यमित्यर्थः ॥ १ ॥

तत्रैवयत्र रामोऽशयिष्ट, तत्रैवगो।

॥ २।८९।१ ॥ ॥ २।८९।२,३ ॥

शत्रुघ्नोत्तिष्ठ किं शेषे? निषादाधिपतिं गुहम्।

शीघ्रमानय, भद्रं ते, तारयिष्यति वाहिनीम् ॥ २ ॥

जागर्मि नाहं स्वपिमि १तमेवार्यं विचिन्तयन्।

इत्येवमब्रवीत् २भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः ॥ ३ ॥

कार्यं विचिन्तयन्नहं तथैव जागर्मि। यथा आवां शयनात् पूर्वं तथैव मध्ये क्षणमपि मे निद्रा नास्तीत्यर्थः। नाहं स्वपिमीति। रुधादित्वादिट्। इत्येवमब्रवीदिति। नाहमपि स्वपिमीत्युक्तवानित्यर्थः ॥ ३ ॥

वाहिनींगङ्गाम्, अस्मानित्यर्थसिद्धम्गो।

एवं भ्रात्रा प्रचोदितः शत्रुघ्नोऽपि तमेवार्यं विचिन्तयन्नहं जागर्मि नाहं स्वपिमिऽ इत्येवमब्रवीदित्यन्वयः।

१तथैवार्यंच।

२भ्राताच।

॥ २।८९।२,३ ॥ ॥ २।८९।४,५ ॥

इति संवदतोरेवं अन्योन्यं नरसिंहयोः।

आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥ ४ ॥

कच्चित्सुखं नदीतीरेऽवात्सीः, काकुत्स्थ शर्वरीम्।

कच्चित्ते सहसैन्यस्य १तावत्सर्वमनामयम् ॥ ५ ॥

अवात्सीः शर्वरींऽ इति अत्यन्तसंयोगे द्वितीया ॥ ५ ॥

सुखं अवात्सीः कच्चिदिति क्रियाविशेषणम्।

१तव सर्वङ।

॥ २।८९।४,५ ॥ ॥ २।८९।६ ॥

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम्।

रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥ ६ ॥

रामस्यानुवशःरामाधीनः ॥ ६ ॥

सुखमवात्सीः कच्चित्ऽ इति गुहेन प्रश्ने, रात्रावनुभूतसङ्कटादिनिवेदनादिना कालयापनमनिच्छन्, रामदर्शनैकचित्तः, पुनः प्रश्नप्रतिवचनादिकं यथा न स्यात् तथा प्रश्नस्योत्तरं देयमिति मत्वा उत्तरकार्यचिन्तयैव सुखा नः शर्वरीऽ इत्यवदद्भरतः, न तु वस्तुगत्या सुखत्वं शर्वर्याःइति बोधयितुमाह कविःरामस्यानुवश इति।

॥ २।८९।६ ॥ ॥ २।८९।७ ॥

सुखा नः शर्वरी, १राजन् पूजिताश्चापि ते वयम्।

गङ्गां तु नौभिः बह्वीभिः दाशाः सन्तारयन्तु नः ॥ ७ ॥

ते पूजिता इति। त्वया पूजिता इति यावत्, क्तस्य च वर्तमानेऽ इति षष्ठी ॥ ७ ॥

१धीमन्च।

॥ २।८९।७ ॥ ॥ २।८९।८ ॥

ततो गुहः १संत्वरितं श्रुत्वा भरतशासनम्।

प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ ८ ॥

प्रतिप्रविश्यप्रतिनिवृत्त्य ॥ ८ ॥

संत्वरितं प्रतिप्रविश्येत्यन्वयः।

१सन्त्वरितःच।

॥ २।८९।८ ॥ ॥ २।८९।९,१० ॥

उत्तिष्ठत प्रबुद्ध्यध्वं भद्रमस्तु च वः सदा।

नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ ९ ॥

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात्।

पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥ १० ॥

नावां पञ्चशतानि समानिन्युरिति योजना ॥ १० ॥

॥ २।८९।९,१० ॥ ॥ २।८९।११ ॥

अन्याः स्वस्तिकविज्ञेयाः महाघण्टाधराधराः।

शोभमानां १पताकाभिः युक्त २वाताः ३सुसंयताः ॥ ११ ॥

अन्याःपञ्चशतीनौकाभ्योऽन्याः स्वस्तिकविज्ञेयाःस्वस्तिकाख्यया प्रसिद्धाः, राजाधिष्ठानार्हनौकाभेदः स्वस्तिकाख्यः। तथात्वमेव तस्य प्रदर्श्यतेमहाघण्टेत्यादि। महाघण्टां धारयन्तीति महाघण्टाधराः घण्टालम्बनाधारतिर्यग्दण्डाः तास्तथा धारयन्तीति तथा छान्दसो दीर्घः। पृथक्पदमपिमहत्यःबृहत्यः घण्टाः यासां तास्तथा। धरायांधारणशक्तिविषये अधराः याभ्यस्तास्तथा। शोभमानाःरुक्मादिरूषितचित्रप्रतिमादिशोभासाधनैः शोभमानाः। युक्तवाताःउचितगतयः, गत्यर्थवातेः भावे निष्ठा।

सुसंयताःदृढसन्धिबन्धाः ॥ ११ ॥

अन्याःक्षुद्राभ्यः पञ्चशतनौभ्योऽन्याः। स्वस्तिकविज्ञेयाः स्वस्तिकः सर्वतोभद्रःऽ इत्युक्तस्वस्तिकाकारावयवरचनाविशेषविशिष्टतया निर्मितत्वात् स्वस्तिका इति विज्ञेयः, ताश्च नौद्वयसङ्घटनेन सम्पद्यन्ते। चतुर्षु कोणेषु महाघण्टाधराः। वराःराजार्हतया श्रेष्ठाः। शोभमानाःकनकरूषिततया शोभमानाः। युक्तवाताःफलककुड्यकरणेन मध्येमध्ये गवाक्षनिर्माणेन च महावातनिवारणादुचितवाताः। सुसंहताःराजारोहणस्थानत्वेनायसकीलादिभिः दृढसन्धिबन्धाःगो। पताकिन्यः बह्लरित्रवत्यः अरित्रं नावाकर्षणदण्डः युक्तवाहाःनौवहने नाविकवत्यःति। युक्तवाहाःपर्याप्तकर्णधारयुक्ताःती।

१पताकिन्यःच

२वाहाःच।

३सुसंहताःङ। च।

॥ २।८९।११ ॥ ॥ २।८९।१२ ॥

ततः स्वस्तिकविज्ञेयां पाण्डकम्बलसंवृताम्।

सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ॥ १२ ॥

पाण्डुकम्बलःमृदुकम्बलभेदः। सनन्दिरघोषां उपरिप्रतिष्ठितमङ्गलवादकक्रियमाणमङ्गलवादित्रघोषसहिताम्। गुहो नावमुपाहरदिति। राजाधिरोहणार्थं प्रथमत इति शेषः ॥ १२ ॥

सनन्दिघोषांहर्षजनककिङ्किण्यादिघोषयुक्ताम्गो। ती।

॥ २।८९।१२ ॥ ॥ २।८९।१३,१४ ॥

तामारुरोह भरतः शत्रुघ्नश्च १महाबलः।

कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ॥ १३ ॥

पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये।

अनन्तरं राजदाराः तथैव शकटापणाः ॥ १४ ॥

तत्पूर्वमिति। समादृकभरतारोहणात् पूर्वं नावान्तरेष्वारुरुहुरिति शेषः। अनन्तरंभरतारोहणानन्तरम्। राजदाराःअनुचरप्रभुस्त्रियः। शकटानि आपणाःपण्यानि च तथा, आरोपिता इति शेषः ॥ १३१४ ॥

१महायशाःङ।

तत्पूर्वंतासां पूर्वंगो।

॥ २।८९।१३,१४ ॥ ॥ २।८९।१५ ॥

आवासमादीपयतां तीर्थं चाप्यवगाहताम्।

भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ १५ ॥

आवासंउषितावासं आदीपयतांअग्निसात्कुर्वताम्, अयं राजधर्मः। तीर्थःनद्यवतारः। तदवगाहतांअहमहमिकया प्रविशताम्। भाण्डानिसर्वोपकरणानि ॥ १५ ॥

आवासंसेनानिवेशं, आदीपयतांअग्निना ज्वलयतां, राजभटा हि निर्गमनकाले श्रीसमागमार्थं आवासं दहन्तीति प्रसिद्धिःगो। प्रातरेव प्रस्थानात् दीपारोहणादीनां नात्र प्रसक्तिः ॥

॥ २।८९।१५ ॥ ॥ २।८९।१६ ॥

पताकिन्यस्तु ता नावः २स्वयं दाशैरधिष्ठिताः।

वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥ १६ ॥

आशु गच्छन्तीत्याशुगाः ॥ १६ ॥

पताकिन्यःवाय्वाकर्षणाय कृतपताकाः स्वयं सम्पेतुःआशुगत्वेन दाशाधिष्ठानमात्रेणानायासेन जग्मुरित्यर्थःगो।

१स्वस्वङ।

॥ २।८९।१६ ॥ ॥ २।८९।१७ ॥

नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम्।

काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ १७ ॥

नारीणामभिपूर्णा इति। रसस्य पूर्णा इत्यादौ सर्वप्रसिद्धा पूर्णयोगे तृतीयार्थे षष्ठी। यानानिरथशकटादीनि, युग्यानिअश्वाश्वतरबलीवर्दादीनि, महाधनंजीवाजीवरूपनानाप्रकारम् ॥ १७ ॥

महाधनंबहुमूल्यं बहुमूल्यं महाधनम्ऽ इत्यमरःगो।

॥ २।८९।१७ ॥ ॥ २।८९।१८ ॥

ताः स्म गत्वा परं तीरं अवरोप्य च त जनम्।

निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ १८ ॥

धनमवरोप्य निवृत्ताः ता नावः समारुह्य दाशबन्धुभिः क्रीडार्थं काण्डचित्राणि, काण्डोऽस्त्री दण्डबाणार्वगर्वावसरवारिषुऽ, जलेषु चित्र गमनानि लघुत्वात् क्रियन्ते स्मेत्यर्थः ॥ १८ ॥

दाशबन्धुभिः दाशाभासैः, दाशस्यगुहस्य बन्धुभिरिति वा। भाराभावकृतलाघवातिशयेन निवर्तनकालिकदाशलीलोच्यतेगो। (दाशबन्दुभिःदाशश्रेष्ठैःती।) दाशाश्च ते बन्धवश्चदाशबन्धवः इति वा। प्रीत्यतिशयात्तथोक्तिः ॥

॥ २।८९।१८ ॥ ॥ २।८९।१९ ॥

सवैजयन्तास्तु गजाः गजारोहप्रचोदिताः।

तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ १९ ॥

सवैजयन्ताःसध्वजाः, “वैजयन्ते गृहे शत्रुप्राकारध्वजयोरपि” ॥ १९ ॥

सवैजयन्ताःसपताकाः, सगृहा वा राजानो हि गजोपरि गृहाणि निर्माय गच्छन्ति। सध्वजाःसगमनाः, ध्वज गतौऽ जङ्गमपर्वता इव प्रकाशन्त इत्यर्थःगो।

॥ २।८९।१९ ॥ ॥ २।८९।२० ॥

नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथा परे।

अन्ये कुम्भघटैस्तेरुः अन्ये तेरुश्च बाहुभिः ॥ २० ॥

वेणुतृणादिनिर्मिताःप्लवाः, उडुपं तु प्लवः कोलःऽ,। कुम्भाःकूपोदकोद्धारणोचितपरिमाणाः कलशभेदाः। घटाःअनेककुम्भजलग्राहिणः । तैर्यथोचितं केचित् तेरुः ॥ २० ॥

कुम्भघटैःकुम्भरूपघटैः, सूक्ष्मवदना घटाःकुम्भाः, ते हि तरणसाधनानि, न घटमात्रम्गो।

॥ २।८९।२० ॥ ॥ २।८९।२१ ॥

सा १पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम्।

मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥ २१ ॥

मैत्रे मुहूर्त इति। रौद्रः सार्पः तथा मैत्रःऽ इत्यनुक्रान्तः उदयमारभ्य तृतीयो मुहूर्तः, द्वे तु नाड्यौ मुहूर्तोऽस्त्रीऽ इति वैजयन्ती ॥ २१ ॥

पुण्यागङ्गास्नानादिना पूतागो।

१पुण्यां ध्वजिनी गङ्गांच।

मैत्रे मुहूर्तेदिवसस्य पञ्चदशभागेषु घटिकाद्वयात्मके तृतीये मुहूर्ते, द्वे तु नाड्यौ मुहूर्तोऽस्त्रीऽ इति वैजयन्ती৷৷। घटिकाषट्क एव गङ्गातरणमिति भावः। यद्वा मैत्रे प्रयागवनं ययावित्यन्वयः। तत्र आतिथ्येन निरवधिकभोगलाभात् मुहूर्तविशेषोक्तिःगो।

॥ २।८९।२१ ॥ ॥ २।८९।२२ ॥

आश्वासयित्वा च चमूं महात्मा

निवेशयित्वा च यथोपजोषम्।

द्रष्टुं भरद्वाजमृषिप्रवर्यं

ऋत्विग्वृतः सन् भरतः प्रतस्थे ॥ २२ ॥

आश्वासयित्वाविश्रम्य। यथोपजोषंयथासुखं निवेशयित्वा च, तूष्णीमर्थे सुखे जोषंऽ इति वैजयन्ती ॥ २२ ॥

इदं श्लोकद्वयं आगामिकथासङ्ग्रहरूपम्।

तादृशस्य ऋषेः विनीतवेषदर्शनीयत्वेन ऋत्विग्भिःवसिष्ठादिभिः वृतस्सन् प्रतस्थेपद्भ्यामेव जगामगो।

॥ २।८९।२२ ॥ ॥ २।८९।२३ ॥

स ब्राह्मणस्याश्रममभ्युपेत्य

महात्मनो देवपुरोहितस्य।

ददर्श रम्योटजवृक्षषण्डं

महद्वनं १विप्रवरस्य रम्यम् ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोननवतितमः सर्गः

स ब्राह्मणस्येति। बृहस्पतिर्ब्रह्मा, तस्यापत्यं ब्राह्मणः। अत एव देवपुरोहितस्येत्युक्तम्। आत्मा वै पुत्रनामाऽसिऽ इति श्रुतेः। भरद्वाजो ह्युचथ्यभार्यायां बृहस्पतेर्जात इति भागवते प्रसिद्धम्। गिरि(२३)मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोननवतितमः सर्गः ब्राह्मणस्यब्रह्मवेदः, तदधीतेब्राह्मणःअधीतबहुवेदस्येत्यर्थः। भरद्वाजो ह त्रिभिरायुर्भिः ब्रह्मचर्यमुवासऽ इत्यादिना काठके तथाऽभिधानात्। ब्राह्मणस्य, ब्रह्मपमात्मानं वेत्तीति ब्राह्मणः यद्वा ब्रह्म बृहस्पतिःऽ इति श्रुत्या ब्रह्मणःबृहस्पतेः अपत्यं ब्राह्मणःगो। बृहस्पतिः उचथ्यभार्यायां ममतायां पुत्रमुत्पादयामास। भर्तुः भिया तं पुत्रं परित्यक्तुकामां तां देवा ऊचुः, उचथ्यस्य क्षेत्रजत्वेन बृहस्पतेरौरसत्वेन भरद्वाजममुं भरेति, तस्मात् भरद्वाज इतिती। एतत्कथा भागवतनवमस्कन्धे, विष्णुपुराणचतुर्थांशे च वर्तते।

१प्रीतिकरं सुरम्यम्ङ।

॥ २।८९।२३ ॥