अष्टाशीतितमः सर्गः
[रामशय्यादिवीक्षणम्] ॥ २।८८।१ ॥
तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः।
इङ्गुदीमूलमागम्य रामशय्या १मवेक्ष्य ताम् ॥ १ ॥
एवं गुहात् रामशयनस्थलादिकमवगत्य ताश्च जननीभ्यः प्रदर्श्य बहुविलप्य रामकर्तव्यं व्रतं स्वयं कर्तुमध्यवस्यति। तच्छ्रुत्वेत्यादि ॥
निपुणंसावधानमित्यर्थःगो।
१मवैक्षतङ।
॥ २।८८।१ ॥ ॥ २।८८।२ ॥
अब्रवीज्जननीः सर्वाः, इह तेन महात्मना।
शर्वरी शयितां भूमौ इदमस्य विमर्दितम् ॥ २ ॥
शर्वरी शयिताऽ इति निष्ठयाऽधिकरणस्याभिहितत्वात् इदमेषामासितंऽ इतिवत् शर्वरीशब्दात् प्रथमा, शर्वर्यां शयनक्रियाऽभूदित्यर्थः। इदमस्य विमर्दितमित्यत्राप्यधिकरणे निष्ठा। क्तस्य च वर्तमानेऽ इति कर्तरि षष्ठी।
अस्येति। अस्मिन् एतत्कर्तृकं विमर्दनमित्यर्थः ॥ २ ॥
॥ २।८८।२ ॥ ॥ २।८८।३,४ ॥
महाभागकुलीनेन १महाभागेन धीमता।
जातो २दशरथेनोर्व्यां न रामः स्वप्तुमर्हति ॥ ३ ॥
अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये।
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले? ॥ ४ ॥
अजिनरूपेणकदलीचमूर्वादिराजार्हमृगाजिनविशेषरूपेण उत्तरेणमञ्चोत्तरच्छदेन संस्तीर्णं तथा। एतादृशास्तरणवत् तल्पं उष्णकाले शैत्याय। तथा कालान्तरेवरास्तरणसञ्चये बर्हिषि, बहुव्रीहिः, सः अन्यपदार्थः पर्यङ्कः। तूलकल्पकार्पासवस्त्ररत्नकम्बलादीनि वरास्तरणानि, शैत्यानुरोधेनौष्ण्यार्थं तद्बाहुल्यम्, उक्तरूपशयनविशेषेषु शयित्वाऽसौ कथं महीतले शेते? ॥ ४ ॥
१महाराजेनङ।
दशरथेनेति पञ्चम्यर्थे तृतीयागो।
२दशरथादुर्व्याङ।
॥ २।८८।३,४ ॥ ॥ २।८८।५९ ॥
प्रासादाग्रविमानेषु वलभीषु च सर्वदा।
हैमराजत १भौमेषु वरास्तरणशालिषु ॥ ५ ॥
पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु।
पाण्डुराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ॥ ६ ॥
प्रासादवर २वर्येषु ३शीतवत्सु सुगन्धिषु।
उषित्वा ४मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥ ७ ॥
गीतवादित्रनिर्घोषैः वराभरणनिःस्वनैः।
मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥ ८ ॥
वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः।
गाथाभिरनुरूपाभिः स्तुतिभिश्च परन्तपः ॥ ९ ॥
अथ प्रासादाग्रविमानेषुप्रासादाग्रवर्तिशिरोगृहेषु उच्यमानविशेषणकेषु उषित्वा कथं भूमौ शेते? तथा गीतवादित्राद्युपेतस्तुतिभिः बोध्यमानः कथं भूमौ केवलं शेते? इत्यन्वयः। वलभीगृहभेदः, कृटागारं तु वलभीऽ इति वैजयन्ती। हेमादिविकारजाःहैमराजतभौमाः, तेषु। प्रासादवराणामपि वर्याःश्रेष्ठाः ॥ ९ ॥
हैमानि राजतानिभौमानिभूतलानि येषु तेषुगो।
१वर्णेषुङ।
प्रासादवराणामुत्तमेषुगो।
२रम्येषुङ।
३गीतवत्सुङ।
४मेघकल्पेषुङ।
कथं भूमौ केवलायां शेते, कथं श्वापदरवैः प्रतिबोध्यते, कथमेकाकी तिष्ठतीति चोपस्कार्यम्गो।
॥ २।८८।५,९ ॥ ॥ २।८८।१० ॥
अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा।
मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥ १० ॥
इदंतादृशस्य रामस्य भूशयनं लोकेअत्रत्यजने श्रुतं अश्रद्धेयमेव। तस्यैव विवरणंन सत्यं मामां प्रति प्रतिभाति। अथवायतः मे भावः, खलु प्रसिद्धौ, मुह्यते, अतो मे मोहो वेति शेषः। अथवा अयं प्रसङ्गः स्वप्न एव भवितुमर्हतीति मे मतिः। तत्र किल असम्भावितमपि सम्भाव्यते ॥ १० ॥
॥ २।८८।१० ॥ ॥ २।८८।११ ॥
न नूनं दैवतं किञ्चित् कालेन बलवत्तरम्।
यत्र दाशरथी रामो १भूमावेव शयीत सः ॥ ११ ॥
अथ वास्तवीमुपपत्तिं परामृशतिन नूनमित्यादि। बलवत्तरंस्वातन्त्र्यादर्थप्रापकं दैवमिति किञ्चिद्वस्तु नास्तीति नूनंनिश्चितम् यत्रयस्मात् स रामोऽपि कालेन बलीयसा भूमावेव शयीत। अतो दैवस्यादृष्टपर्यायस्यापि कालस्यैव प्रवर्तकत्वात् काल एव प्रारब्धमुपस्थाप्यभूशयनादिदुःखं प्रापयतीत्यर्थः ॥ ११ ॥
कालेनकालतः बलवत्तरं किञ्चित्किमपि दैवतं नास्तीति नूनं मन्येति। सर्वंकालाधीनमेव, न तु तदपेक्षया सर्वज्ञत्वसर्वशक्तत्वादिगुणकं दैवं नाम किञ्चिदस्ति नूनंइति भावः।
१भूमावेवमशेतच।
॥ २।८८।११ ॥ ॥ २।८८।१२१४ ॥
विदेहराजस्य सुता सीता च प्रियदर्शना।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ १२ ॥
इयं शय्या मम भ्रातुः इदं हि परिवर्तितम्।
स्थण्डिले कठिने सर्वं १गात्रैर्विमृदितं तृणम् ॥ १३ ॥
मन्ये साभरणा सुप्ता सीताऽस्मिन् २शयनोत्तमे।
तत्र तत्र हि दृश्यन्ते ३सक्ताः कनकबिन्दवः ॥ १४ ॥
कनकबिन्दवःभूषणावयवकनकशकलानि (?) ॥ १४ ॥
शयिताशयितवती, हन्तेति शेषःगो। यद्वाकालप्राबल्य एव निदर्शनान्तरंविदेहराजस्य सुतेत्यादि। सीता च भूमौ शयिता, अतःन नूनं दैवतं किञ्चिदित्यन्वयः।ऽ
१गात्रं विमृदितं तृणैःङ।
२शयने शुभे, शयने शुभाङ।
३सिक्ताःङ।
कनकाभरणसम्मर्दाधीनतच्छायापत्तिकृतो वाऽयं निर्देशः स्यात्।
॥ २।८८।१२१४ ॥ ॥ २।८८।१५१६ ॥
उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा।
तथा ह्येते प्रकाशन्ते सक्ताः १कौशेयतन्तवः ॥ १५ ॥
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी।
सुकुमारी सती दुःखं न विजानाति मैथिली ॥ १६ ॥
भर्तुः शय्या यादृशी तादृश्यपि सुखासुखसाधनभूतेति मन्ये। स्त्रीणामिति शेषः। कुत इत्यतःसुकुमारीत्यादि ॥ १६ ॥
१कनकतन्तवःङ।
॥ २।८८।१५,१६ ॥ ॥ २।८८।१७ ॥
१हाहन्ताऽस्मि नृशंसोऽहं २यत् सभार्यः कृते मम।
ईदृशीं राघवः शय्यां अधिशेते ह्यनाथवत् ॥ १७ ॥
मम कृत इति। कैकेयीप्रवृत्तेः स्वज्ञानस्वानुमतिराहित्येऽपि स्वमुद्दिश्यैव प्रवृत्तत्वादित्याशयः ॥ १७ ॥
हाहन्तेति एकनिपातः खेदार्थःगो।
१हाहतोऽस्मिच।
२यः पितुः सदृशो ममङ।
॥ २।८८।१७ ॥ ॥ २।८८।१८२० ॥
सार्वभौमकुले जातदः १सर्वलोकस्य सम्मतः।
२सर्वलोकप्रियः त्यक्त्वा राज्यं ३सुखमनुत्तमम् ॥ १८ ॥
कथमिन्दीवरश्यामः रक्ताक्षः प्रियदर्शनः।
सुखभागी न दुःखार्हः शयितो भुवि राघवः? ॥ १९ ॥
धन्यः खलु ४महाभागः लक्ष्मणः शुभलक्षणः।
भ्रातरं विषमे काले यो राममनुवर्तते ॥ २० ॥
विषमे कालेसङ्कटकाले ॥ २० ॥
१सर्वलोकसुखावहःच।
२सर्वप्रियकरःच।
३प्रियच।
४महाबाहुःङ।
॥ २।८८।१८२० ॥ ॥ २।८८।२१ ॥
सिद्धार्था खलु वैदेही पतिं याऽनुगता वनम्।
वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ २१ ॥
संशयिताःसंशयापन्नरामसेवकाः। कालान्तरप्रार्थनीयसेवात्वादिदानीमस्माकं सेवा अनुमन्यते न वेति संशयितसेवासिद्धिमन्त इत्यर्थः ॥ २१ ॥
तेन महात्मना हीनाःपरित्यक्ताः वयं, अत एव संशयिताःजीवनसंशयमेवापन्नाः। एतदेवोच्यते अनन्तरश्लोके शून्याऽ इति पदेन। न च सीता त्वया हीना न चाहमपि राघव। मुहूर्तमपि जीवावःऽ इतिवदिति भावः।
॥ २।८८।२१ ॥ ॥ २।८८।२२ ॥
अकर्णधारा पृथिवी शून्येव प्रतिभाति मा।
गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ॥ २२ ॥
अकर्णधारेति। नौरिवेति शेषः। शून्येवप्रवृत्तिशून्येवेत्यर्थः ॥ २२ ॥
॥ २।८८।२२ ॥ ॥ २।८८।२३ ॥
न च प्रार्थयते कश्चित् मनसाऽपि वसुन्धराम्।
वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ २३ ॥
कश्चिदिति। मादृश इत्यर्थः ॥ २३ ॥
अनायकत्वे कथं राज्यं निरुपद्रवं? तत्राहन चेति। कश्चित्सामन्तः। न प्रार्थयतेआक्रमितुं नेच्छतिगो। पूर्वश्लोके अकर्णधाराऽ इत्याद्यभिधानादेवं व्याख्यानम्।
॥ २।८८।२३ ॥ ॥ २।८८।२४,२५ ॥
शून्यसंवरणारक्षां अयन्त्रितहयद्विपाम्।
१अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ २४ ॥
अप्रहृष्ट २बला मूनां विषमस्थामनावृताम्।
शत्रवो ३नाभिमन्यन्ते ४भक्षान् विषकृतानिव ॥ २५ ॥
शून्या संवरणानांप्राकाराणां आरक्षाआसमन्तात् रक्षणं यस्याः सा तथा। अप्रहृष्टेति बलादिना हेतुना। ऊनांक्षीणबलां। नाभिमन्यन्तेस्वीकर्तुं नेच्छन्ति। अतः तादृशमहिमा स एव राज्यार्हः, तमेवानेष्यामि ॥ २५ ॥
रामवीर्यं विना रक्षकान्तरशून्यत्वमाहशून्यसंवरणेत्यादिगो।
१अनावृतपुरद्वारांच। अनावृतगृहद्वारांङ।
२बलां शून्यांच। बलान्यूनांङ।
न्यूनांसाधनविहीनांगो।
३नानुमन्यन्तेङ।
४भक्ष्यान्च।
॥ २।८८।२४,२५ ॥ ॥ २।८८।२६ ॥
अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा।
फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ २६ ॥
यदि व्रतभङ्गोपाधिं वक्ष्यति, तदाऽहं तत्प्रतिनिधिः तद्व्रतमनुष्ठास्य इत्याहअद्यप्रभृतीत्यादि ॥ २६ ॥
उक्तसर्वानर्थस्य आत्ममूलकतया तत्प्रायश्चित्तमाहअद्येत्यादि। श्लोकद्वयमेकान्वयम्गो।
॥ २।८८।२६ ॥ ॥ २।८८।२७ ॥
१तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने।
२तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ २७ ॥
तस्यार्थंतस्य व्रतपरिपालनार्थं उत्तरं कालंभाविचतुर्दशवर्षपर्यन्तं, अत्यन्तसंयोगे द्वितीया, तं प्रतिश्रवंतदीयव्रताभ्युपगमं आमुच्यस्वयं गृहीत्वा वने वत्स्यामीति पूर्वेणान्वयः। एवं सति नास्य मिथ्या भविष्यति, प्रतिश्रव इति शेषः ॥ २७ ॥
तस्यार्थंरामार्थमित्यर्थःगो।
१तस्याहच।
२तत् प्रतिश्रुतमार्यस्य नैव मिथ्याच।
॥ २।८८।२७ ॥ ॥ २।८८।२८३० ॥
वसन्तं भ्रातुरर्थाय शत्रुघ्नो माऽनुवत्स्यति।
लक्ष्मणेन सह त्वार्यो ह्ययोध्यां पालयिष्यति ॥ २८ ॥
अभिषेक्ष्यन्ति काकुत्स्थं अयोध्यायां द्विजातयः।
अपि मे देवताः कुर्युः इमं सत्यं मनोरथम् ॥ २९ ॥
प्रसाद्यमानः शिरसा मया स्वयं
बहुप्रकारं यदि १न प्रपत्स्यते।
ततोऽनुवत्स्यामि चिराय राघवं
वने २वसन्नार्हति मामुपेक्षितुम् ॥ ३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टाशीतितमः सर्गः
न प्रपत्स्यत इति। निवृत्तिविषयकप्रसादादिति शेषः। उपेक्षितुं नार्हतीति। भक्तवत्सलत्वादित्याशयः। घरा(२९)मानः(?) सर्गः ॥ ३० ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टाशीतितमः सर्गः
भरतस्यापि शत्रुघ्नः लक्ष्मणावरजो हि सः। प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियःऽ (बाल। १८३१) इति ह्युक्तम्।
१नाभिपत्स्यतेङ।
यदि राघवः मत्प्रार्थनां नाङ्गीकुर्यात्, तदा अहमपि वने वसन् चिराय राघवं अनुवत्स्यामि राघवानुग्रहप्राप्तिपर्यन्तमिति भावः।
२चिरं नार्हतिङ।
॥ २।८८।२८३० ॥