०८७ रामचरितप्रस्तावः

सप्ताशीतितमः सर्गः

[रामशयनादिप्रश्नः] ॥ २।८७।१ ॥

गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्।

ध्यानं जगाम तत्रैव यत्र तत् श्रुतमप्रियम् ॥ १ ॥

एवं भ्रात्रोर्जटाधारणश्रवणपरितप्तः कौसल्यासमाश्वासितो भरतः पुनश्च गुहमुखादशेषवृत्तान्तमवगच्छतिगुहस्येत्यादि। भृशमप्रियंजटाधारणादिरूपम्। यत्र तत्रैवेति। यत्र क्षणे तत्र क्षण एवेत्यर्थः ॥ १ ॥

यत्र तत्रैवयत्र क्षणे अप्रियं श्रुतं, तत्रैवेत्यर्थः। यद्वा यत्र विषये अप्रियं श्रुतं, तत्रैव ध्यानं जगाम स्वाभिलषितकार्यसङ्कटं जातमिति चिन्तापारवश्यं प्राप्त इत्यर्थःगो। जटाधारणात् रामप्रत्यावृत्तौ संशयो जात इति भावः।

॥ २।८७।१ ॥ ॥ २।८७।२ ॥

सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः।

पुण्डरीकविशालाक्षः तरुणः प्रियदर्शनः ॥ २ ॥

ध्यानं जगामऽ इत्युक्तं तस्यैवैतदभिनयःसुकुमार इत्यादि। प्रियदर्शनः कथं जटादिकं धृतवान्?ऽ इति चिन्तां जगामेत्यन्वयः ॥ २ ॥

सुकुमार इत्यादिश्लोकद्वयमेकान्वयम्। प्रत्याश्वस्य मुहूर्तं कालं परमदुर्मनाः सन् सहसा पपात। ससादेति वा पाठःगो। ती। सुकुमारत्वादिगुणेन जटादिकं धृतम्, अतो निवृत्तिर्दुर्लभेति चिन्तां जगामति। अथ वा ध्यानंरामविषयकचिन्तां जगामऽ इत्यस्यैव विवरणम्सुकुमार इत्यादि। अतिसङ्कटेन आत्मगतं वाक्यमिदंसुकुमार इत्यादि। सङ्कटाधिक्यादेव वाक्यापरिसमाप्त्यादि। एवं सहसा मूर्छामन्तरा क्षणकालचिन्तनमपि आश्चर्यावहं इति भावेनानन्तरार्धं प्रवृत्तम्।

॥ २।८७।२ ॥ ॥ २।८७।३ ॥

प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः।

१ससाद सहसा तोत्रैः २हृदि विद्ध इव द्विपः ॥ ३ ॥

ततो मुहूर्तकालं चिन्तया परमदुर्मनाः परमखिन्नः प्रत्याश्वस्य तु पुनश्च सहसा दुःखवेगेन ससादअवशोऽभूत्। तोत्रं । हृदिहृदयदेशेमर्मस्थले ॥ ३ ॥

१पपातङ।

२ह्यतिविद्धङ।

॥ २।८७।३ ॥ ॥ २।८७।४,५ ॥

भरतं मूर्छितं दृष्ट्वा विवर्णवदनो गुहः।

बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥ ४ ॥

तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः।

परिष्वज्य रुरोदोच्चैः विसंज्ञः शोककर्शितः ॥ ५ ॥

तदवस्थंविचेतनावस्थम्। अनन्तरस्थितःसमीपस्थितः ॥ ५ ॥

अयं श्लोकः ङ। पुस्तके कुण्डलितः।

॥ २।८७।४,५ ॥ ॥ २।८७।६,७ ॥

ततः सर्वाः समापेतुः मातरो भरतस्य ताः।

उपवासकृशा दीना भर्तुर्व्यसनकर्शिताः ॥ ६ ॥

ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्।

कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥ ७ ॥

अनुसृत्यसमीपं प्राप्य ॥ ७ ॥

॥ २।८७।६,७ ॥ ॥ २।८७।८ ॥

वत्सला स्वं यथा वत्सं १उपगूह्य तपस्विनी।

परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ ८ ॥

स्वं वत्संस्वीयं पुत्रं यथा, तथा ॥ ८ ॥

उपगूह्यपरिष्वज्यगो।

१उपगृह्य मनस्विनीङ।

॥ २।८७।८ ॥ ॥ २।८७।९ ॥

पुत्र व्याधिर्न ते कच्चित् शरीरं १प्रति वाधते।

अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥ ९ ॥

हे पुत्र ते शरीरं व्याधिःपरमपित्तप्रकोपलक्षणः न बाधते कच्चित्? अन्यथा एवं भ्रममूर्छाप्रलापनानि न स्युः ॥ ९ ॥

न हि भरतस्य व्याधिश्चातुर्थिकः, अपि तु रामविरह एव (पुत्रव्याधिरित्येकं पदं) रामविरहः ते शरीरं (न) बाधते कच्चित् इत्यर्थः। अद्येतिरामो वनं गतः, चक्रवर्तीं तु संस्थितः, अतस्त्वमेवेदानीं अस्माकं रक्षक इति नार्थः किन्तु, रामः भवतो मुखवैवर्ण्यं दृष्ट्वा न पुनरागतो भवेत्। अवश्यमागमिष्यतीत्येतदवेक्ष्य वयं जीवामः। भवान्नास्तीति श्रुतं चेत् क इमां दिशमवलोकयेदित्यर्थःगो। परन्त्वत्र उत्तरश्लोका विलोकनीयाः।

१परिबाधतेङ।

॥ २।८७।९ ॥ ॥ २।८७।१०,११ ॥

त्वां दृष्ट्वा, पुत्र जीवामि रामे सभ्रातृके गते।

वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ १० ॥

१कच्चिन्न लक्ष्मणे, पुत्र श्रुतं ते किञ्चिदप्रियम्।

पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ ११ ॥

अथ उक्तभ्रममूर्छाप्रलापानां हेत्वन्तरं पृच्छतिकच्चिन्नेत्यादि। लक्ष्मणेतद्विषये। अप्रियंप्राणात्ययरूपम् ॥ ११ ॥

ततस्सर्वाः समापेतुर्मातरःऽ (६) इत्यनेन भरतमूर्छाप्तिकाले कौसल्यादीनामसन्निहितत्वात्, भरतमूर्छाहेत्वपरिज्ञानात्, अतिस्नेहः पापशङ्कीऽ इति न्यायेन रामलक्ष्मणयौर्विपत्त्यादिश्रवणादेव भरतो मूर्छित इति भावनया कौसल्या पृच्छति कच्चिदित्यादि ॥

१कच्चिन्नुङ।

॥ २।८७।१०,११ ॥ ॥ २।८७।१२ ॥

स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः।

कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ १२ ॥

स मुहूर्तं समाश्वस्यऽ इति। मुहूर्तं विसंज्ञः पश्चात् समाश्वास्येत्यर्थः। कौसल्यां परिसान्त्व्येति। न मे रोगः, नापि भ्रात्रोरपायः। अपि तु तयोः जटाधारणं श्रुत्वा तद्दुःखेन मूर्छितोऽस्मिऽ इत्युक्त्वेत्यर्थः ॥

॥ २।८७।१२ ॥ ॥ २।८७।१३ ॥

॥ २।८७।१४ ॥

भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः?

अस्वपच्छयने कस्मिन् किं भुक्त्वा, गुह शंस मे ॥ १३ ॥

सोऽब्रवीत् भरतं हृष्टः निषादाधिपतिर्गुहः।

यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ १४ ॥

हृष्ट इति। लक्ष्मणवत् परिपूर्णभ्रातृभक्तिदर्शनेन सन्तुष्टः। रामे भरतविमतिशङ्काहीनश्चेत्यर्थः। यद्विधंयद्यत्प्रकारकं व्यवहारं रामे प्रियहितेऽतिथौ प्रतिपेदेप्राप्तवान् तमब्रवीदित्यन्वयः ॥ १४ ॥

हृष्टःरामवृत्तान्तकीर्तनस्यावकाशो लब्ध इति सञ्जातहर्षःगो।

॥ २।८७।१४ ॥

॥ २।८७।१३ ॥ ॥ २।८७।१५ ॥

अन्नमुच्चावचं १भक्षाः फलानि विविधानि च।

रामायाभ्यवहारार्थं २बहु चोपहृतं मया ॥ १५ ॥

वचनप्रकारःअन्नमित्यादि ॥ १५ ॥

१भक्ष्यंङ।

२बहुशोह्याङ।

॥ २।८७।१५ ॥ ॥ २।८७।१६ ॥

तत्सर्वं १प्रत्यनुज्ञासीत् रामः सत्यपराक्रमः।

न हि तत् प्रत्यगृह्णात् सः क्षत्त्रधर्ममनुस्मरन् ॥ १६ ॥

प्रत्यनुज्ञासीत्मदनुग्रहार्थं केवलमङ्गीचकार। क्षत्त्रधर्मंदानमेव क्षत्त्रियस्य, न त्वादानमिति स्मरन् न हि तत् प्रत्यगृह्णात्अभ्यवहाराय न स्वीकृतवान् ॥ १६ ॥

प्रत्यनुज्ञासीत्प्रत्यन्वज्ञासीत्पुनर्नीयतामित्यनुज्ञातवान्। अत्र हीनजातिपरिग्रहत्वात् तत्प्रत्याखह्यानं, ऋषिभ्यस्तु स्वीकरिष्यतीत्याहुःगो। इदमत्रावधेयम्अत्र क्षत्त्रधर्ममनुस्मरन्ऽ इत्याद्युक्तिः गुहस्यैव। तत्र तु (५० सर्गे) स्वागतं ते महाबाहो१ तवेयमखिला महीऽ (३८) भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम्। शयनानि च मुख्यानिऽ (४०) इत्यादिगुहकृतराजौपचारं शृण्वन् हि रामः सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे। कुशचीराजिनधरं फलमूलाशिनं च माम्। विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्ऽ (४४) इत्येवाह ॥

१प्रत्यनुज्ञाप्यङ।

॥ २।८७।१६ ॥ ॥ २।८७।१७ ॥

न ह्यस्माभिः प्रतिग्राह्यं, सखे देयं तु सर्वदा।

इति तेन वयं, १राजन् अनुनीता महात्मना ॥ १७ ॥

स एव उक्तधर्मः विव्रियतेन ह्यस्माभिरित्यादि। यद्येवं कथमृषिभ्यो भरद्वाजादिभ्यः पूजा प्रतिगृह्यते? न्याय्यत्वादेव। गोमधुपर्कादिना राजा ब्राह्मणेन पूजनीयः। सा च पूजा राज्ञा अभ्युदयाय ग्राह्या। यथान्यायप्राप्तः षड्भागः करः स्वदेशात्। गुहस्तु निषादः, नास्मात् पूजा ग्राह्या यथाविधिपूजानधिकारात्। नापि करत्वेन, अस्वदेशत्वात्२ ॥ १७ ॥

१सर्वेङ।

२यद्यपि गुहस्य तत्त्वज्ञत्वेन अस्त्येव भगवत्पूजाधिकारः, तथाऽपि व्रतस्थत्वात्तदभोजनमिति तत्त्वम्ति।

॥ २।८७।१७ ॥ ॥ २।८७।१८ ॥

लक्ष्मणेन समानीतं पीत्वा वारि महायशाः।

औपवास्यं तदाऽकार्षीत् राघवः सह सीतया ॥ १८ ॥

औपवास्यं तूपवासःऽ, स्वार्थिकः ष्यञ् ॥ १८ ॥

उपवासंङ।

॥ २।८७।१८ ॥ ॥ २।८७।१९ ॥

ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा।

वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ १९ ॥

अकरोदिति। पानक्रियामिति शेषः ॥ १९ ॥

ननु पूर्वं पुरोवादे ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्। जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम्ऽ इत्युक्तम्। कथमत्रानुवादे प्रथमं जलादानं पश्चातसन्ध्योपासनं चोच्यतेसत्यम्तथैव क्रमः। इह तु गुहानीतान्नाङ्गीकारे किं भुक्तवान् रामः?ऽ इत्याकाङ्क्षायां लक्ष्मणेन यद्वार्यानीतं तत्पीतंऽ इति प्रसङ्गसङ्गत्या जलपानं प्रथममुक्त्वा अथ सन्ध्योपासनमुक्तमिति न दोषःगो।

संहिताःसहिता इति वा।

॥ २।८७।१९ ॥ ॥ २।८७।२० ॥

सौमित्रिस्तु ततः पश्चात् अकरोत् स्वास्तरं शुभम्।

स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात् ॥ २० ॥

ततः पश्चादिति। सन्ध्यावन्दनानन्तरमित्यर्थः। बर्हींषि–दर्भान् ॥ २० ॥

॥ २।८७।२० ॥ ॥ २।८७।२१ ॥

तस्मिन् समाविशत् रामः स्वास्तरे सह सीतया।

प्रक्षाल्य च तयोः पादौ व्यपाक्रामत् स लक्ष्मणः ॥

व्यपाक्रामदिति। शयनप्रदेशात् बहु दूरमिति शेषः ॥ २१ ॥

॥ २।८७।२१ ॥ ॥ २।८७।२२,२३ ॥

एतत्तदिङ्गुदीमूलं इदमेव च तत्तृणम्।

१यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥

नियम्य पृष्ठे तु तलाङ्गुलित्रवान्

शरैः सुपूर्णाविषुधी परन्तपः।

महद्धनुः सुज्यमुपोह्य लक्ष्मणः

निशामतिष्ठत् २परितोऽस्य केवलम् ॥ २३ ॥

नियम्यबद्धा। पृष्ठेपश्चादभागे। तलयोःकरतलयोः अङ्गुलित्रमस्यास्तीति तथा। उपोह्यधृत्वा ॥ २३ ॥

गुहः दूरे हस्तेन दर्शयन् वदतिएतदित्यादि। तत्समीपगमनं तु अनन्तरसर्गे कथ्यते।

१अस्मिन्ङ।

पृष्ठेपश्चाद्भागे इषुधीतूणीरद्वयं नियम्यबद्धा। शूराणां सव्यापसव्यप्रयोगार्थं इषुधिद्वयधारणमस्ति। तलाङ्गुलित्रवान् तलं ज्याघातवारणम्ऽ इत्यमरःगो। एवञ्च करयोः ज्याघर्षणवारणं तलं, ज्याऽऽकर्षणपीडावारणं अङ्गुल्योःअङ्गुलित्रं, तदुभयवानित्यर्थः।

२त्वरितोङ।

॥ २।८७।२२,२३ ॥ ॥ २।८७।२४ ॥

ततस्त्वहं चोत्तमबाणचापधृत्

स्थितोऽभवं तत्र स तत्र लक्ष्मणः।

अतन्द्रिभिः ज्ञातिभिः आत्तकार्मुकैः

महेन्द्रकल्पं १परिपालयं तदा ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्ताशीतितमः सर्गः

परिपालयंपर्यपालयमिति यावत्। वीर(२४)मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्ताशीतितमः सर्गः

१परिपालयंस्तदाङ।

॥ २।८७।२४ ॥