षडशीतितमः सर्गः
[लक्ष्मणश्लाघनम्] ॥ २।८६।१ ॥
आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः।
भरतायाप्रमेयाय गुहो गहनगोचरः ॥ १ ॥
अथ प्राप्तविस्रंभेन गुहेन रामलक्ष्मणवृत्तान्तबोधनम्। आचचक्ष इत्यादि। सद्भावंसाधुभावम् ॥ १ ॥
अथभरतस्वभावज्ञानानन्तरंगो।
॥ २।८६।१ ॥ ॥ २।८६।२ ॥
तं जाग्रतं गुणैर्युक्तं १शरचापासिधारिणम्।
भ्रातृगुप्त्यर्थमत्यन्तं अहं लक्ष्मणमब्रवम् ॥ २ ॥
तत्प्रकार एवतं जाग्रतमित्यादि। भ्रातृगुप्त्यर्थं जाग्रतं–निर्निद्रम्। गुणैःभ्रातृस्नेहसौशील्यादिगुणैः सहजक्षत्त्रधर्मैश्च युक्तम् ॥
भरतस्य रामविषयकस्नेहमभिवर्धयितुं लक्ष्मणस्य ज्येष्ठानुवर्तनरूपं पूर्ववृत्तान्तमाहतं जाग्रतमित्यादिनामो।
१वरचापेषुङ।
॥ २।८६।२ ॥ ॥ २।८६।३ ॥
इयं, तात १सुखा शय्या त्वदर्थमुपकल्पिता।
प्रत्याश्वसिहि शेष्वास्यां सुखं, राघवनन्दन ॥ ३ ॥
अथ इयं तातऽ इत्यादिरुक्तानुवादः। सोऽसौ प्रथमोपदेशस्थले प्रपञ्च्य व्याकृतचरः ॥ ३ ॥
१शुभाङ।
५१ सर्गे साध्वस्यां, राजपुत्र यथासुखम्ऽ इति पाठः।
पूर्वं ५१ सर्गे वृत्तोऽयं वृत्तान्त इति भावः। प्रायः उभयोः सर्गयोः आनुपूर्वीसाम्यात् विशिष्यात्र न व्याक्रियत इति भावः। अथापि दृश्यते तत्र तत्रानुपूवींभेदः।
॥ २।८६।३ ॥ ॥ २।८६।४२६ ॥
उचितोऽयं जनः सर्वः दुःखानां, त्वं सुखोचितः।
१धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥ ४ ॥
न हि रामात् प्रियतरः ममास्ति भुवि कश्चन।
मोत्सुको भूः ब्रवीम्येतत् अप्यसत्यं तवाग्रतः ॥ ५ ॥
अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः।
धर्मावाप्तिं च विपुलां २अर्थावाप्तिं च केवलाम् ॥ ६ ॥
सोऽहं प्रियसखं रामं शयानं सह सीतया।
रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैः ज्ञातिभिस्सह ॥ ७ ॥
३न हि मेऽविदितं किञ्चित् वनेऽस्मिंश्चरतः सदा।
चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ॥ ८ ॥
एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना।
अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ ९ ॥
कथं दाशरथौ भूमौ शयाने सह सीतया।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ १० ॥
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि।
तं पश्य, गुह संविष्टं तृणेषु सह सीतया ॥ ११ ॥
महता तपसा लब्धः विविधैश्च परिश्रमैः।
एको ४दशरथस्यैषः पुत्रः सदृशलक्षणः ॥ १२ ॥
अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति।
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १३ ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः।
निर्घोषोपरतं ५नैनं अद्य राजनिवेशनम् ॥ १४ ॥
कौसल्या चैव राजा च तथैव जननी मम।
नाशंसे यदि ६जीवेयुः सर्वे ते शर्वरीमिमाम् ॥ १५ ॥
जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया।
दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ १६ ॥
अतिक्रान्तमतिक्रान्तं अनवाप्य मनोरथम्।
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १७ ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ १८ ॥
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्।
हर्म्यप्रसादसम्पन्नां सर्वरत्नविभूषिताम् ॥ १९ ॥
गजाश्वरथसम्बाधां तूर्यनादविनादिताम्।
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ २० ॥
आरामोद्यान ७सम्पूर्णां समाजोत्सवशालिनीम्।
सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २१ ॥
अपि जीवेद्दशरथः वनवासात् पुनर्वयम्।
प्रत्यागम्य महात्मानं अपि पश्येम सुव्रतम् ॥ २२ ॥
अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्।
निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ २३ ॥
परिदेवयमानस्यतस्यैवं सुमहात्मनः।
तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २४ ॥
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ।
अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ॥ २५ ।
जटाधरौ तौ द्रुमचीरवाससौ
८महाबलौ कुञ्जरयूथपोपमौ।
वरेषुचापासिधरौ परन्तपौ
९व्यवेक्षमाणौ सह सीतया गतौ ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षडशीतितमः सर्गः
तरु(२६)मानः सर्गः ॥ २६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षडशीतितमः सर्गः
क्लेशानांऽ इति ५१ सर्गे पाठः।
गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्ऽ इति ५१ सर्गे पाठः।
१धर्मात्मंस्तवङ।
हे लक्ष्मण उत्सुकः मा भूः। तवाग्रतः एतत्एतदधिकृत्य असत्यं ब्रवीम्यपि? इति काकुः। असत्यमपि ब्रवीमि? इति वा काकुः। एतत्स्थाने ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपेऽ इति ५१ सर्गे पाठः। कुत्रचित्अत्रापि तथैव पाठःङ।
२अर्थकामौ च केवलम्, अर्थावाप्तिं च पुष्कलाम्ङ।
सर्वतःऽ इति ५१ सर्गे पाठः।
३स्वभावविहितंङ।
वनेऽस्मिन्निरतःऽ इति ५१ सर्गे पाठः।
५१ सर्गे सुमहत् प्रसहेमहिऽ इति पाठः।
एतत्स्थाने लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयाऽनघ। नात्र भीता वयं सर्वे धर्ममेवानुपश्यताऽ इति ५१ सर्गे पाठः।
यो मन्त्रतपसा लब्धःऽ इति ५१ सर्गे पाठः
४दशरथस्येष्टःङ।
५तात मन्येङ।
६जीवन्तिङ। च।
तद्दुःखं यत्तु कौसल्याऽ इति ५१ सर्गे पाठः। एतदर्धानन्तरं “अनुरक्तजनाकीर्णा सुखा लोकप्रियावहा। राजव्यसनसंसृष्टा सा पुरी विनशिष्यति।। कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः। शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ विनष्टे नृपतौ पश्चात् कौसल्या विनशिष्यति। अनन्तरं च माताऽपि मम नाशमुपैष्यति ॥ " इति श्लोकत्रयं ५१सर्गे अधिकम्।
गणिकावरशोभिताम्ऽ इति ५१ सर्गे पाठः।
७सम्पन्नांङ।
दुःखार्तस्यऽ इति ५१ सर्गे पाठः।
एतच्छ्लोकद्वयं तु ५२ सर्गसङ्ग्रहरूपम्।
८महारथौङ।
९व्यपेक्षमाणौङ।
॥ २।८६।४२६ ॥