०८५ गुहकृतं मार्गदर्शनम्

पञ्चाशीतितमः सर्गः

[भरतगुहसंवादः] ॥ २।८५।१ ॥

एवमुक्तस्तु भरतः निषादाधिपतिं गुहम्।

प्रत्युवाच महाप्राज्ञः वाक्यं हेत्वर्थ १संयुतम् ॥ १ ॥

अथ गुहस्य भरतविस्रंभः। एवमित्यादि। हेत्वर्थाभ्यांउपपत्तिप्रयोजनाभ्यां संयुतं तथा ॥ १ ॥

१संहितम्ङ।च।

॥ २।८५।१ ॥ ॥ २।८५।२ ॥

ऊर्जितः खलु ते कामः कृतः, मम गुरोः सखे

यो मे त्वमीदृशीं सेनां अभ्यर्चयितुमिच्छसि ॥ २ ॥

ऊर्जितःस्थिरनिष्पादनेच्छोस्ते कामःअस्मत्सत्काराभिलाषः, स तु मम कृत एव खलु। कथमित्यतःयो म इत्यादि ॥ २ ॥

स्वस्य रामविषयकभक्तिं द्योतयितुंमम गुरोः सखेत्युक्तम्गो।

॥ २।८५।२ ॥ ॥ २।८५।३ ॥

॥ २।८५।४ ॥

इत्युक्त्वा स महातेजाः गुहं वचन १मुत्तमम्।

अब्रवीत् भरतः श्रीमान् २निषादाधिपतिं पुनः ॥ ३ ॥

कतरेण गमिष्यामि भरद्वाजाश्रमं ३पथा।

गहनोऽयं भृशं देशः गङ्गानूपे दुरत्ययः ॥ ४ ॥

गहनःदुष्प्रवेशः ॥ ४ ॥

१मर्थवत्ङ।

पन्थानं दर्शयन् (पा।)गन्तव्यपथि संमुखं हस्तं कुर्वन्ति।

२पन्थानं दर्शयन्च।

पूर्वमेव ५७ सर्गारम्भे, रामस्य भरद्वाजाश्रमगमनपूर्वकचित्रकूटप्राप्तिपर्यन्तवृत्तान्तस्य सुमन्त्रेणावगतत्वकथनात्, तन्मुखावगतवृत्तान्तः भरतोऽपि भरद्वाजाश्रममार्गं पृच्छति।

३गुहङ।

॥ २।८५।३,४ ॥ ॥ २।८५।५ ॥

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।

अब्रवीत् प्राञ्जलिर्भूत्वा गुहो गहनगोचरः ॥ ५ ॥

गहनंवनं गोचरःदेशः यस्य स तथा ॥ ५ ॥

॥ २।८५।५ ॥ ॥ २।८५।६ ॥

दाशा १स्त्वाऽनुगमिष्यन्ति २देशज्ञाः सुसमाहिताः।

अहं ३चानुगमिष्यामि, राजपुत्र ४महाबल ॥ ६ ॥

अहं च त्वाऽनुगमिष्यामि। अतो गहनविषयको न कश्चन विचार इति शेषः ॥ ६ ॥

१स्त्वनुङ।

२धन्विनःङ।

३त्वाऽनुङ।

४महायशःङ।

॥ २।८५।६ ॥ ॥ २।८५।७ ॥

कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः।

इयं ते महती सेना शङ्कां जनयतीव मे ॥ ७ ॥

अपि तु अक्लिष्टकर्मणो रामस्य विषये दुष्टःदुष्टभावो भूत्वा न व्रजसि कच्चित्? ननु का ते दोषशङ्केत्यत्राहइयमित्यादि। रामसन्दर्शनार्थगमने तु एतावत्सन्नाहस्य व्यर्थत्वात् अयमेव सन्नाहः मे शङ्कां जनयतीव ॥ ७ ॥

इवशब्दः शङ्काया ईषत्त्वं द्योतयतिगो।

॥ २।८५।७ ॥ ॥ २।८५।८ ॥

॥ २।८५।९ ॥

तमेवमभिभाषन्तं आकाश इव निर्मलः।

भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ ८ ॥

मा भूत् स कालो यत् कष्टं, न मां शङ्कितुमर्हसि।

राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः ॥ ९ ॥

मा भूदिति। यत्ऽ इत्यव्ययम्, यस्मिन् काले कष्टंपरस्परोपमर्दलक्षणं भ्रातृकश्मलं भवति तादृशः स कालःतादृशदुष्प्रवृत्तिसाधनभूतकालशङ्का मा भूत्न कर्तव्य इत्यर्थः। कुत इत्यतःराघव इत्यादि। पितृसम इतितद्बुद्ध्यास्पदभूतः ॥ ९ ॥

आकाश इव निर्मलःऽ इत्यनेन तच्छङ्कितदोषस्य तत्र प्रसक्तिरेव नास्तीत्युच्यतेगो।

॥ २।८५।८,९ ॥ ॥ २।८५।१० ॥

तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम्।

बुद्धिरन्या न ते कार्या, गुह सत्यं ब्रवीमि ते ॥ १० ॥

अतो न दुश्शङ्कावकाश इत्याहतं निवर्तयितुमित्यादि ॥ १० ॥

॥ २।८५।१० ॥ ॥ २।८५।१११३ ॥

स तु संहृष्ट १वदनः श्रुत्वा भरतभाषितम्।

पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ ११ ॥

धन्यस्त्वं न त्वया तुल्यं पश्यामि २जगतीतले।

अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ १२ ॥

शाश्वती खलु ते कीर्तिः लोकाननु चरिष्यति।

यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ १३ ॥

चरिष्यतिप्रचरिष्यति ॥ १३ ॥

संहृष्टवदनःप्रसन्नवदनःगो। अन्तः हृष्टत्वात् संहृष्टवदन इति।

१हृदयःङ।

२जगतीपतेङ।

॥ २।८५।१११३ ॥ ॥ २।८५।१४ ॥

एवं सम्भाषमाणस्य गुहस्य भरतं तदा।

बभौ नष्टप्रभः सूर्यः रजनी चाभ्यवर्तत ॥ १४ ॥

नष्यप्रभ इति। मन्दीभूतरश्मिरित्यर्थः। १४ ॥

एवं भरतं सम्भाषमाणस्यप्रशंसतः गुहस्यगुहे प्रशंसतीति यावत्।

॥ २।८५।१४ ॥ ॥ २।८५।१५ ॥

सन्निवेश्य स तां सेनां गुहेन १परिरक्षितः।

शत्रुघ्नेन सह श्रीमान् शयनं पुनरागमत् ॥ १५ ॥

गुहेन परिरक्षितस्सन्परिद्रुताटविकचोरबाधस्सन् ॥ १५ ॥

१परितोषितःच।

अत्र पुनश्शब्देन, गुहागमनात् पूर्वं श्रान्तः शयने स्थित इति गम्यते। समुपागमदिति वा पाठः। पुनः परितोषितः (पा।) इति वा सम्बन्धःगो।

॥ २।८५।१५ ॥ ॥ २।८५।१६ ॥

रामचिन्तामयः शोकः भरतस्य महात्मनः।

उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ १६ ॥

अनर्हस्येति। दुःखानर्हस्येत्यर्थः ॥ १६ ॥

शयनं प्राप्तस्यापि निद्रा नाजगामेत्युच्यतेरामेत्यादिना।

॥ २।८५।१६ ॥ ॥ २।८५।१७ ॥

अन्तर्दाहेन दहनः सन्तापयति राघवम्।

वनदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम् ॥ १७ ॥

दहनःशोकाग्निः। वनदाहकोऽग्निःवनदाहाग्निःदावाग्निरिति यावत्, तेन सन्तप्तंशुष्कमिति यावत्। गूढोऽग्निःकोटरान्तर्गतः ॥ १७ ॥

॥ २।८५।१७ ॥ ॥ २।८५।१८ ॥

प्रसृतः सर्वगात्रेभ्यः १स्वेदं शोकाग्नि २सम्भवम्।

यथा सूर्यांशुसन्तप्तः हिमवान् प्रसृतो हिमम् ॥ १८ ॥

हिमं प्रसृत इति। कर्तरि निष्ठा, गत्यर्थत्वात् ॥ १८ ॥

हिमं प्रसृतो हिमवान्ऽ इतिवत् स्वेदं प्रसृतः भरतःऽ इत्यन्वयः।

१स्वेदःङ।

२सम्भवःङ।

॥ २।८५।१८ ॥ ॥ २।८५।१९,२० ॥

ध्याननिर्दरशैलेन विनिश्वसितधातुना।

दैन्यपादपसङ्घेन शोकायासाधिशृङ्गिणा ॥ १९ ॥

प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना।

आक्रान्तो दुःखशैलेन १मज्जता कैकयीसुतः ॥ २० ॥

ध्यानेत्यादिना दुःखस्य पर्वतसमाधिः। रामविषयकध्यानान्येव निर्दरशैलाःविदीर्णशिलासमूहाः यस्मिन् स तथा। धातुः गैरिकादिः। दैन्यंदीनता, करणानां स्वस्वविषयप्रवृत्तिवैमुख्यरूपा, सा एव पादपसङ्घः यस्मिन्। शोकजः यः आयासःचित्तश्रान्तिः सैवाधिरूपाणि शृङ्गाणि यस्य स तथा। सत्त्वंआटविकप्राणिजातम्। सन्तापाःअन्तर्बहिःकरणपरितापा एव ओषधयः वेणवश्च यस्मिन्। मज्जताअन्तर्भावितणिः, मग्नं कुर्वता, सकरणग्राममात्मानमधो नयता। एवंरूपेण दुःखशैलेनाक्रान्तोऽभूत् ॥ १९२० ॥

ध्याननिर्दरशैलेन। दरःगर्गः, तस्मान्निर्गतंनिर्दरं शिलानां समूहः शैलम् रामविषयध्यानमेव निर्दरशैलं यस्मिन्, तेन। ध्यानस्य निरन्तरत्वेन दरीविदीर्णशिलापङ्क्तिसाम्यम्। विविधं निश्वसितंविनिश्वसितं, तदेव धातुः यस्मिन् विविधत्साम्यात्। दैन्यंकरणानां स्वस्वविषयप्रवृत्तिवैमुख्यं, तस्य पादपसाम्यं अबोधरूपतया। शोकायासाधिशृङ्गिणाशोकादय एव शृङ्गिणःकृष्णसारादयः यस्मिन् तेन। यद्वा शोकायासाधिभिः शृङ्गिणा– श्रृङ्गवता दृढत्व(दुरारोहत्व)साम्यात्। प्रमोहानन्तसत्त्वेनप्रमोहा एव अनन्तानि सत्त्वानि जन्तवः यस्मिन्, तेन द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषुऽ इत्यमरः प्राणभयशङ्काकरत्वात्। सन्तापौषधिवेणुनासन्तापा एव ओषधयो वेणवश्च यस्मिन्, तेन ओषधिवेणुसाम्यं दुष्प्रवेशत्वात्। आक्रान्तः, अभूदिति शेषः। महताअतिगुरुणा। मज्जताऽ इति पाठेअवयवेषु प्रविशतागो।

१महताङ।

॥ २।८५।१९,२० ॥ ॥ २।८५।२१ ॥

विनिःश्वसन् वै १भृशदुर्मनास्ततः

प्रमूढसंज्ञः परमापदं गतः।

शमं न लेभे हृदयज्वरार्दितः

नरर्षभो २यूथहतो यथर्षभः ॥ २१ ॥

प्रकर्षेण मूढा संज्ञाचेतना यस्य स तथा प्रमूढसंज्ञः। यूथहतःयूथविभ्रष्टः ॥ २१ ॥

१भृशदुःखितःङ।

अयूथगतः(पा।)यूथात् भ्रष्ट इत्यर्थः। यूथहत इति पाठेहतयूथ इत्यर्थःगो।

२ऽयूथगतोङ।

॥ २।८५।२१ ॥ ॥ २।८५।२२ ॥

गुहेन सार्धं भरतः समागतः

महानुभावः सजनः समाहितः।

सुदुर्मनास्तं भरतं तदा पुनः

१गुहः समाश्वासयदग्रजं प्रति ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः

अग्रजं प्रति सुदुर्मना बभूव। तादृशं तं गुहः पुनराश्वासयदिति योजना। रात्रि(२२)मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चाशीतितमः सर्गः

अथ गुहः समागत इत्याहगुहेनेति। सजनःसपरिवारः समाहितःएकाग्रचित्तः भरतः गुहेन सार्धंसह समागतःसङ्गतः। अथ गुहः सुदुर्मनाःभरतक्लेशदर्शनेन भरतादपि भृशं दुर्मनाः सन् भरतं अग्रजं प्रतिअग्रजं लक्षीकृत्य समाश्वासयत्गो। अग्रजं प्रति समागतः भरतः गुहेन सार्धं सुदुर्मनाःसुदुःखितः, अभूदिति शेषः। तं भरतं गुहःपुनः गुहस्तु समाश्वासयदिति सम्बन्धःती। अथवायत्तदोर्नित्यसम्बन्धात्, अग्रजं प्रति सुदुर्मनाः यः भरतःइतिपर्यन्तं वृत्तानुवादः तदा पुनः तं गुहः समाश्वासयदितिउत्तरसर्गसङ्ग्रहः। रामे निरतिशयप्रेमवतः तदीयकथाश्रवणं परमाश्वास एव। अथवा पूर्वसर्गादारभ्य पञ्चानां सर्गाणां सङ्ग्रहरूपोऽयं निष्कृष्टः श्लोकः। अत एव ८९सर्गारम्भे व्युष्य रात्रिंऽ इत्युपक्रमः। भरते गुहस्य प्रत्ययात्, गुहः रामविषयककथां सर्वां कथयामास। तेन च भरतः सुदुर्मना बभूव। तं गुहः समाश्वास्य स्वगृहं गतः। पुनः प्रातरागतवान् गुह इति प्रतीयते। ८९ सर्गस्य ४ श्लोकोऽत्रावधेयः।

१शनैःङ।

॥ २।८५।२२ ॥