०८४ गुह-भरतसंवादः

चतुरशीतितमः सर्गः

[भरतगुहसमागमः] ॥ २।८४।१ ॥

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्।

निषादराजो दृष्ट्वैव ज्ञातीन् १सन्त्वरितोऽब्रवीत् ॥ १ ॥

अथ भरतस्य गुहेन सङ्गमः। तत इत्यादि ॥ १ ॥

स्वैः आश्रितां गङ्गानदीं अनु निविष्टांइति वाऽर्थः। अथ वा ७ श्लोके गङ्गामन्वाश्रिताःऽ इति दाशविशेषणवत् अत्रापि गङ्गामन्वाश्रिताःऽ इति निषादराजविशेषणतया पाठः स्यात्।

१स परितोङ।च।

॥ २।८४।१ ॥ ॥ २।८४।२ ॥

महतीयमितः सेना सागराभा प्रदृश्यते।

नास्यान्तमधिगच्छामि मनसाऽपि विचिन्तयन् ॥ २ ॥

इतःइह गङ्गातीरे। नास्यान्तमिति। आर्षः सन्धिः ॥ २ ॥

॥ २।८४।२ ॥ ॥ २।८४।३ ॥

१यदा तु खलु दुर्बुद्धिः भरतः स्वयमागतः।

स एष हि महाकायः कोविदारध्वजो रथे ॥ ३ ॥

यदा तु खलुयस्माद्धेतोः। दुर्बुद्धिरिति। रामपीडार्थं प्रवृत्त इत्याशयेन अयं वादाः। भरत एव स्वयमागतः, तत एव महती सेना प्रदृश्यत इत्यन्वयः। कुतो भरत आगत इति विज्ञायते? इत्यत्राह स एष इत्यादि। महाकायःमहाप्रमाणः। कोविदारध्वजःइक्ष्वाकुकुलचिह्नभूतो रथोऽस्ति कोविदारे चमरिकःऽ – ॥ ३ ॥

यथा तु खलुध्रुवमित्यर्थःगो।

१यथा तु खलुङ।

॥ २।८४।३ ॥ ॥ २।८४।४ ॥

बन्धयिष्यति वा १दाशान् अथ वाऽस्मान् वधिष्यति।

२अनु दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ ४ ॥

आयातु वा भरतः, किमस्माकम्? इत्यत्राहबन्धयिष्यतीत्यादि। स्वामात्यैरिति शेषः। वधिष्यतीति। वधिः प्रकृत्यन्तरम्। अनु दाशरथिंदाशरथिसंहारानन्तरमित्यर्थः ॥ ४ ॥

१पाशैःच।

अथ दाशरथिंऽ इति पाठे अर्धत्रयमेकं वाक्यम्। तस्य राज्ञःरामस्य सुदुर्लभां श्रियं अन्विच्छन्स्वायत्तीकर्तुमिच्छन्निति भावः, दाशरथिं रामं हन्तुं समधिगच्छतीत्यन्वयः।

२अथङ।

॥ २।८४।४ ॥ ॥ २।८४।५ ॥

१सम्पन्नां श्रियमन्विच्छन् तस्य राज्ञः सुदुर्लभाम्।

भरतः केकयीपुत्रः हन्तुं २समधिगच्छति ॥ ५ ॥

ननु रामसंहारोद्योगो वा किमर्थोऽस्य? इत्यत्राहसम्पन्नामित्यादि। सम्पूर्णांकालान्तरेऽपि रामप्राप्त्या विच्छेदरहिताम्। तस्य राज्ञःरामस्येत्यर्थः। यदि कालान्तरे आयाति तदा दायादित्वात् राज्यैकदेशं, प्राबल्यतः सर्वं राज्यं हरिष्यतीति भीत्या इदानीं तापसावस्थायां रामं हन्तुं समधिगच्छतिप्राप्नोतीव ॥ ५ ॥

१सम्पूर्णांङ।

२समुपगच्छतिङ।

॥ २।८४।५ ॥ ॥ २।८४।६ ॥

भर्ता चैव सखा चैव रामो दाशरथिर्मम।

तस्यार्थकामाः सन्नद्धाः १गङ्गाऽनूपे प्रतिष्ठत ॥ ६ ॥

भवतु तावता का भीतिरस्माकम्? इत्यत्राहभर्तेत्यादि तथा च तत्पक्ष्यत्वात् अस्माकमुक्तप्रसङ्ग इत्युक्तं भवति। अस्माभिस्तु सख्यू रामस्येष्टं कर्तव्यं, अतः नास्माभिरियं सेना तारयितव्या। अतो यूयं तस्य अर्थकामाः तस्य रामस्य प्रयोजनाभीप्सवन्तः सन्नद्धाः अत्र गङ्गानूपे अस्मत्समीपे परिबृढास्तिष्ठत ॥ ६ ॥

गङ्गानूपेगङ्गातीरेगो।

१गङ्गाकूलेऽत्र तिष्ठतङ।

॥ २।८४।६ ॥ ॥ २।८४।७,८ ॥

तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम्।

जालयुक्ता नदीरक्षाः मांसमूलफलाशनाः ॥ ७ ॥

नावां शतानां पञ्चानां कैवर्तानां शतं शतम्।

सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ ८ ॥

सर्वे च मामका दाशास्तु गङ्गानदीमेवान्वाश्रिता जालयुक्ता यावदेतन्निर्गमनं एतद्भीत्या तीरस्य दुरारोहतः नावारोपितमांसमूलफलाशनास्सन्तः नदीरक्षाःनदीसन्तारमार्गं विघ्नन्तः सन्तः पञ्चशतीनौकानामेकैकंकैवर्तानां यूनां युद्धार्हाणां सन्नद्धानां शतं शतमारुह्य तिष्ठन्त्वित्यभ्यचोदयत् ॥ ७८ ॥

॥ २।८४।७,८ ॥ ॥ २।८४।९ ॥

१यदि तुष्टस्तु भरतः रामस्येह भविष्यति।

इयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ ९ ॥

एवं सन्नद्धतयाऽवस्थाने सति पश्चादागतस्याभिप्रायानुरोधेन कार्यं कर्म कुर्मः इत्याहयदीत्यादि। यदि तुष्टो रामविषये, तदेयं सेना स्वस्तिमती तरिष्यति। अन्यदा तु नौकासु परपारे स्थित्वा सर्वानारुरुक्षून्निहन्म इत्यर्थः ॥ ९ ॥

१यदाऽदुष्टस्तुङ।

॥ २।८४।९ ॥ ॥ २।८४।१० ॥

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च।

अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ १० ॥

अभिचक्रामेति। दर्शनार्थमिति शेषः ॥ १० ॥

भरतभावपरिज्ञानार्थं भरताभिमुखं स्वयं जगाम।

॥ २।८४।१० ॥ ॥ २।८४।११,१२ ॥

तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान्।

भरतायाचचक्षेऽथ १समयज्ञो विनीतवत् ॥ ११ ॥

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः।

कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ १२ ॥

स्थपतिःप्रभुः। दण्डकारण्ये कुशल इति। निग्रहानुग्रहसमर्थ इत्यर्थः ॥ १२ ॥

१विनयज्ञोङ

॥ २।८४।११,१२ ॥ ॥ २।८४।१३ ॥

तस्मात् पश्यतु, काकुत्स्थ त्वां निषादाधिपो गुहः।

असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ १३ ॥

अपि चानेन प्रयोजनमस्तीत्याहअसंशयमित्यादि ॥ १३ ॥

यतोऽयं दण्डकारण्ये कुशली, ते भ्रातुश्च सखा, तस्मात्।

॥ २।८४।१३ ॥ ॥ २।८४।१४,१५ ॥

एतत्तु वचनं श्रुत्वा सुमन्त्रात् भरतः शुभम्।

उवाच वचनं १शीघ्रं गुहः पश्यतु मामिति ॥ १४ ॥

लब्ध्वाऽनुज्ञां सम्प्रहृष्टः ज्ञातिभिः परिवारितः।

आगम्य भरतं प्रह्वः गुहो वचनमब्रवीत् ॥ १५ ॥

ज्ञातिभिःप्राक् गङ्गानूपस्थापितैः ॥ १५ ॥

मां शीघ्रं पश्यत्वित्यन्वयः।

१श्रीमान्ङ।

॥ २।८४।१४,१५ ॥ ॥ २।८४।१६ ॥

निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्।

१निवेदयाम ते सर्वं स्वके २दाशगृहे वस ॥ १६ ॥

निष्कुट इति। अयं दण्डकारण्यदेशः युष्माकं निष्कुटःगृहारामकल्पः, नात्राटवीशङ्काप्रसङ्ग इत्यर्थः। ते वयं त्वद्दासवर्गभूताः वञ्चिताःप्रस्थानोद्योगसमय एवाप्रेषितनियोगसन्देशा इत्यर्थः। इयमुपचारोक्तिः। सर्वं रामविषयकं वृत्तान्तं ते निवेदयाम्, लोट्। वस, अद्येति शेषः ॥ १६ ॥

यद्यपि पूर्वं जाह्नवीं तु समासाद्यऽ (८०२१) इति गङ्गापर्यन्तं मार्गसंस्कार उक्तः, परन्त्वत्रभरतस्य तदानीमागमनं तेन न प्रतीक्षितमासीदिति एवमुक्तिः।

निवेदयामस्ते सर्वेतेत्वदीयाः सर्वे वयं त्वदीयेऽस्मिन् दाशगृहे वसेति निवेदयाम इति भाव इतिगो।

१निवेदयामस्ते सर्वेङ।

२दासगृहेङ।

॥ २।८४।१६ ॥ ॥ २।८४।१७ ॥

अस्ति मूलफलं चैतत् निषादैः १स्वयमार्जितम्।

आर्द्रं शुष्कं यथा मांसं वन्यं चोच्चावचं तथा ॥ १७ ॥

वन्यंनीवारश्यामाकं प्रियङ्ग्वादिधान्यम् ॥ १७ ॥

निषादादिसङ्करजातीनां परद्रव्यापहारादेरपि सम्भावितत्वात्, प्रकृते द्रव्यशुद्धिसूचनाय स्वयमार्जितंऽ इत्युक्तं स्यात्।

३ समुपाहृतम्,समुपार्जितम्ङ।

॥ २।८४।१७ ॥ ॥ २।८४।१८ ॥

आशंसे स्वाशिता सेना १वत्स्यत्येनां विभावरीम्।

अर्चितो विविधैः कामैः श्वः ससैन्यो २गमिष्यसि ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुरशीतितमः सर्गः

आशंसेप्रार्थयामि। स्वाशितासम्यक् भुक्तिमती। वत्स्यतीत्याशंस इति योजना। दया(१८)मानः सर्गः ॥ १८ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे चतुरशीतितमः सर्गः

१वसत्वेनांङ।

२गमिष्यतिङ।

॥ २।८४।१८ ॥