त्र्यशीतितमः सर्गः
[भरतचित्रकूटयात्रा] ॥ २।८३।१ ॥
ततः समुत्थितः काल्यं आस्थाय स्यन्दनोत्तमम्।
प्रययौ भरतः शीघ्रं रामदर्शन १काङ्क्षया ॥ १ ॥
अथ सबलस्य भरतस्यागङ्गं प्रस्थानम्। तत इत्यादि। काल्यमास्थायउषस्यनुष्ठानं कृत्वा, स्यन्दनोत्तमं चास्थाय ॥ १ ॥
काल्यंप्रातःकालेती। काल्यंअहर्मुखं प्राप्येति शेषःगो।
१काम्ययाच।
॥ २।८३।१ ॥ ॥ २।८३।२,३ ॥
अग्रतः प्रययुस्तस्य सर्वे मन्त्रि १पुरोधसः।
अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ॥ २ ॥
नवनागसहस्राणि कल्पितानि यथाविधि।
अन्वयुर्भरतं यान्तं इक्ष्वाकुकुलनन्दनम् ॥ ३ ॥
कल्पितानिसज्जितानि। यथाविधियथारुचि ॥ ३ ॥
१पुरोहिताःच।
अत्र सर्वाणिऽ इत्यनुक्त्वा संख्याग्रहणात् नगरस्थगजेषु तावन्त एव प्रस्थिता इति ज्ञायत इति गोविन्दारजः।
॥ २।८३।२,३ ॥ ॥ २।८३।४,५ ॥
षष्टी रथसहस्राणि धन्विनो विविधायुधाः।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४ ॥
शतं सहस्राण्यश्वानां समारूढानि राघवम्।
अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥ ५ ॥
समारूढानिसादिभिरिति शेषः ॥ ५ ॥
॥ २।८३।४,५ ॥ ॥ २।८३।६ ॥
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी।
रामानयनसंहृष्टाः ययुर्याने भास्वता ॥ ६ ॥
कैकेयी च ययाविति। स्वप्रवृत्तेः पुत्राहितस्य सम्पन्नत्वात्, किं कृतम्ऽ इति खिन्ना लोकसङ्ग्रहाय राजस्त्र्यन्तरेण सह ययौ ॥ ६ ॥
अत्र कैकेय्याः प्रथमग्रहणात्, पश्चात्तापातिशयात् तस्याः त्वरातिशयः सूच्यत इव।
यानेनेत्येकवचनं प्रत्येकापेक्षया। सौहार्दादेकयानेनैव तिसृ़णां गमनं वाति।
॥ २।८३।६ ॥ ॥ २।८३।७ ॥
प्रयाताश्चार्यसङ्घाताः रामं द्रष्टुं सलक्ष्मणम्।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ ७ ॥
आर्याणां त्रैवर्णिकानां सङ्घातास्तथा ॥ ७ ॥
॥ २।८३।७ ॥ ॥ २।८३।८१० ॥
मेघश्यामं महावाहुं स्थिरसत्त्वं दृढव्रतम्।
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ ८ ॥
दृष्ट एव हि नः शोकं अपनेष्यति राघवः।
तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ ९ ॥
इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः।
परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ १० ॥
परिष्वजानाःपरिष्वजमाना इति यावत्। नगरे चरन्तीति नागरिकाः, चरतिऽ इति ठक् ॥ १० ॥
॥ २।८३।८१० ॥ ॥ २।८३।११ ॥
ये च तत्रापरे सर्वे १सम्मता ये च नैगमाः।
रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तथा ॥ ११ ॥
तत्र नगरे सम्मताः प्रसिद्धाः नैगमाःवणिजः। प्रकृतयःपौरश्रेणयः ॥ ११ ॥
सम्मताः, रामस्यगो
१समेता, समस्ताङ।
॥ २।८३।११ ॥ ॥ २।८३।१२ ॥
मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः।
सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ १२ ॥
विविच्य प्रदर्श्यन्तेमणिकाराश्चेत्यादि। मणिकाराःशाणायां मणिशोधनादिकर्तारः। सूत्रेणतन्तुना पटकुटकादिकं कुर्वन्तीति तन्तुवायाः तन्तुसीवकाः। शस्त्रनिर्माणेनोपजीविनःशस्त्रोपजीविनः ॥ १२ ॥
परन्तु८० सर्गाद्यश्लोकव्याख्याने इदं पदं अन्यथा विवृतम्।
॥ २।८३।१२ ॥ ॥ २।८३।१३ ॥
मायूरकाः क्राकचिकाः रोचका वेधकास्तथा।
दन्तकाराः १सुधाकाराः तथा गन्धोपजीविनः ॥ १३ ॥ १३ ॥
मायूरकाःमयूरग्राहिणः, इदमुपलक्षणं शुकादिग्राहिणाम्। क्राकचिकाः क्रकचः करपत्रं स्यात्ऽ क्रकचेन जीवन्तीति तथा। रोचकाःकाचकुप्यादिकर्तारः। वेधकाःमण्यादिवेधकाः। दन्तकाराःदन्तेन समुद्गकादिकर्तारः। सुधाकाराःवज्रलेपकर्तारः। गन्धोपजीविनःगन्धद्रव्यविक्रयिकाः ॥ १३ ॥
मायूरकाःमयूरपिञ्छैः छत्रव्यजनादिकारिणः। रोचकाःदन्तकुड्यवेदिकादिषु कान्त्युत्पादकाःगो।
१सूपकाराःङ।
॥ २।८३।१३ ॥ ॥ २।८३।१४ ॥
सुवर्णकाराः प्रख्याताः तथा १रङ्गोपजीविनः।
स्नापको २च्छेदका वैद्याः धूपकाः शौण्डिकास्तथा ॥
रङ्गोपजीविनःनटाः। स्नापकाःउष्णोदकस्नापकाः, उच्छेदकाःअङ्गमर्दकाः, उच्छेदनं समुल्लेखोद्वाहनोद्वर्तनेषु चऽ इति विश्वः। धूपकाःधूपद्रव्यविक्रयिकाः। शौण्डिकाःमद्यकराः, शुण्डा करिकरे मद्येऽ इति वैजयन्ती ॥ १४ ॥
१कम्बलधावकाःङ। कम्बलकारकाःच।
२ष्णोदकाच। च्छादकाङ।
धूपकाःगृहादिषु धूपवासकाःगो।
॥ २।८३।१४ ॥ ॥ २।८३।१५ ॥
रजका १स्तुन्नवायाश्च घोषग्राममहत्तराः।
शैलूषाश्च सह स्त्रीभिः ययुः कैवर्तकारवः ॥ १५ ॥
तुन्नवायाःसौचिकाः। घोषःआभीरपल्ली, ग्राममहत्तराः घोषमहत्तराश्च तथापरिबृढाः। कैवर्तःधीवरःदाशःवलधरः। कारवःकर्मकराः ॥ १५ ॥
१स्तन्तुवायाश्चङ।
यद्यपि रङ्गोपजीविनःऽ इत्यनेनैव शैलूषा अपि गृहीताः, तथापि रङ्गोपजीविन इति शैलूषव्यतिरिक्तविषयमिति भावः। सन्त्यन्येऽपि खलु बहवो रङ्गोपजीविनः।
॥ २।८३।१५ ॥ ॥ २।८३।१६,१७ ॥
समाहिता वेदविदः ब्राह्मणा १वृत्तसम्मताः।
गोरथैर्भरतं यान्तं अनुजग्मुः सरस्रशः ॥ १६ ॥
सुवेषाः शुद्धवसनाः ताम्रमृष्टानुलेपनाः।
सर्वे ते २विविधैर्यानैः शनैर्भरतमन्वयुः ॥ १७ ॥
गोरोचनाकुङ्कुमादिवस्तुसम्बन्धतः ताम्रवर्णं मृष्टंसम्पूर्णं अनुलेपनं येषां ते तथा ॥ १७ ॥
समाहिताःयोगिनःगो।
१व्रतसम्मताःङ।
२विमलैच।
वाहनादिसम्मर्दात्शनैरिति।
॥ २।८३।१६,१७ ॥ ॥ २।८३।१८२० ॥
प्रहृष्टमुदिता सेना साऽन्वयात् कैकयीसुतम्।
भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ १८ ॥
ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः।
समासेदुस्ततो गङ्गां शृङ्गिबेरपुरं प्रति ॥ १९ ॥
यत्र रामसखो वीरः गुहो ज्ञातिगणैर्वृतः।
निवसत्यप्रमादेन देशं तं परिपालयन् ॥ २० ।
शृङ्गिबेरपुरं प्रतीति। लक्षणे प्रतिः कर्मप्रवचनीयः, शृङ्गिबेरपुर इत्यर्थः। अप्रमादेन अटवीं देशंरामाश्रितं स्वीयं देशं सावधानतया रक्षन् ॥ २० ॥
प्रहर्षःकायिको रोमाञ्चादिः, मोदःमानसो हर्षःगो। ती।
शृङ्गिबेरपुरं प्रति दूरमध्वानं गत्वा गङ्गां समासेदुरिति सम्बन्धःगो।
अप्रमादेनसावधानतया, रामविरोध्यागमनवारणपर इत्यर्थःगो। अथ वा गुहस्य निषादराजत्वात् स्वं देशं सावधानं पालयन्निवसतीति वाऽर्थः।
॥ २।८३।१८२० ॥ ॥ २।८३।२१२३ ॥
उपेत्य तीरं गङ्गायाः चक्रवाकैरलङ्कृतम्।
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ २१ ॥
१निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्।
भरतः सचिवान् सर्वान् अब्रवीद्वाक्यकोविदः ॥ २२ ॥
निवेशयत मे २सैन्यं अभिप्रायेण ३सर्वतः।
विश्रान्ताः प्रतरिष्यामः श्व ४इदानीमिमां नदीम् ॥ २३ ॥
अभिप्रायेणसन्तरणाभिप्रायेण सह न्यवेशयत, गङ्गातीरे सुखमस्तीति नात्र द्वित्रदिनवासबुद्ध्या। तदेवाहश्वः प्रतरिष्याम इति। इदानीं विश्रान्ता इत्यन्वयः ॥ २३ ॥
१निरीक्ष्यानुत्थितांच।
अनुत्थितांगमने अनुद्योगांति। गङ्गया निरोधादिति शेषः।
२सर्वंङ।
अभिप्रायेणतत्तदिच्छयागो। अद्य विश्रान्ताः श्वः प्रतरिष्यामःऽ इत्यभिप्रायेणमदभिप्रायज्ञापनेन निवेशयनेर्त्यःति। तस्यैवं ब्रुवतःऽ इत्याद्यनन्तरश्लोकपरिशीलने गोविन्दराजोक्तं स्वरसमिव।
३सर्वशःङ।
४इदानीं महानदीम्ङ। इमां सागरङ्गमाम्च।
॥ २।८३।२१२३ ॥ ॥ २।८३।२४ ॥
दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः।
और्ध्वदेहनिमित्तार्थं अवतीर्योदकं नदीम् ॥ २४ ॥
देहपातादूर्ध्वकाले प्राप्तं निमित्तं यस्य परलोकस्य सः ऊर्ध्वदेहनिमित्तः, स्वार्थिकोऽण्, ऊर्ध्वदेहनिमित्तायपरलोकप्रयोजनाय इदंऔर्ध्वदेहनिमित्तार्थम् ॥ २४ ॥
॥ २।८३।२४ ॥ ॥ २।८३।२५ ॥
तस्यैवं ब्रुवतोऽमात्याः तथेत्युक्त्वा समाहिताः।
न्यवेशयंस्तान् छन्देन स्वेन स्वेन पृथक् पृथक् ॥ २५ ॥
छन्दःइच्छा ॥ २५ ॥
॥ २।८३।२५ ॥ ॥ २।८३।२६ ॥
निवेश्य गङ्गामनु तां महानदीं
चमूं विधानैः परिबर्हशोभिनीम्।
उवास रामस्य तदा महात्मनः
१विचिन्तयानो भरतो निवर्तनम् ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्र्यशीतितमः सर्गः
गङ्गामनुअनुर्लक्षणे, कर्मप्रवचनीयः। विधानैःवासव्यवस्थाकल्पनैः। परिबर्हःपरिच्छदः, यात्रानिवासोपकरणपटकुटिकादिभिः शोभमानाम्। तरि(२६)मानः सर्गः ॥ २६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्र्यशीतितमः सर्गः
१विचिन्तमानोच।
॥ २।८३।२६ ॥