षट्षष्टितमः सर्गः
[त्रैलद्रोण्यधिशयनम्] ॥ २।६६।१,२ ॥
तमग्निमिव संशान्तं अम्बुहीनमिवार्णवम्।
हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ १ ॥
कौसल्या बाष्पपूर्णाक्षी १विधवाशोककर्शिता।
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ २ ॥
अथ भर्तृशरीरमालिङ्ग्य अनुमरणोद्युक्तां कौसल्यामभिवार्य मन्त्रिणो राजशरीरं संस्काराय भरतागमनपर्यन्तं तैलद्रोण्यामस्थापयन्। तमग्निमित्यादि। विधवेति। विधवात्वप्राप्तः यः शोकः, तेन कर्शिता तथा। राज्ञः शिर उपगृह्येति। अङ्क इति शेषः ॥ २ ॥
श्लोकद्वयमेकान्वयम्।
१विविधंसर्वत्र।
॥ २।६६।१,२ ॥ ॥ २।६६।३,४ ॥
सकामा भव, कैकेयि भुङ्क्ष्व राज्यमकण्टकम्।
त्यक्त्वा राजान मेकाग्रा, नृशंसे दुष्टचारिणि ॥ ३ ॥
विहाय मां गतो रामः भर्ता च स्वर्गतो मम।
विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ ४ ॥
अकण्टकत्वमेव कैकेय्याः प्रदर्शयतिविहाय मामित्यादि। विपथेकान्तारदुर्मार्गे, ऋक्पूर৷৷।ऽ इति समासान्तः। सार्थःपरिषत् ॥ ४ ॥
एकाग्रापुत्रराज्यमात्रे हठा।
दूरदेशं गच्छन्तः परस्पररक्षणाबुद्ध्या सङ्घीभूय गच्छन्ति। अयं सङ्घः सार्थ इत्युच्यते।
॥ २।६६।३,४ ॥ ॥ २।६६।५ ॥
भर्तारं तं १परिष्वज्य का स्त्री दैवतमात्मनः।
इच्छेत् जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ ५ ॥
भर्तारं परिष्वज्यते सह भोगान् भुक्त्वेति यावत् तं कालान्तरे परित्यज्येति शेषः। त्यक्तः धर्मःस्त्रीधर्मः यया सा तथा, धर्मादनिच् केवलात्ऽ इत्यनिच्, मनऽ इति ङीब्निषेधः ॥ ५ ॥
१परित्यज्यङ।च।
॥ २।६६।५ ॥ ॥ २।६६।६ ॥
न लुब्धो बुध्यसे दोषान् किम्पाकमिव भक्षयन्।
कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ ६ ॥
किम्पाकःकाकमदर्कःविषभेदः। तं कोपादिना भक्षयन्, यथा आत्महत्यादोषं न बुध्यते तद्वदित्यर्थः ॥ ६ ॥
किंपाकःनिम्बः। कतकस्तु किंपाकः विषभेदः, त कोपादिना भक्षयन् आत्महत्या दोषं न बुध्यते तद्वदित्यर्थः इत्याह। तत्र लुब्ध इति नात्यन्तसमञ्जसम्। धनलोभादिना परस्य विषभक्षणं कारयन् यथा हत्यादोषं न बुध्यते इति वक्तुमुचितम्ति। लुब्धःअर्थलिप्सुः, किंपाकंविषमिश्रपाकं, यद्वा कुत्सितपाकंअभक्ष्यमिति यावत्ती।
॥ २।६६।६ ॥ ॥ २।६६।७ ॥
अनियोगे नियुक्तेन राज्ञा रामं विवासितम्।
सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा ॥ ७ ॥
अनियोगेअन्याय्ये अनुचितो नियोगस्तथा, तस्मिन् वरव्याजेन कैकेय्या नियुक्तस्तथा ॥ ७ ॥
अनियोगेवरप्रदानसमये वरस्य विशेषनिर्देशाभावे सतिगो।
॥ २।६६।७ ॥ ॥ २।६६।८ ॥
स मामनाथां विधवां नाद्य जानाति धार्मिकः।
रामः कमलपत्राक्षः १जीवनाशमितो गतः ॥ ८ ॥
जीवनाशमिति। राज्ञ इति शेषः ॥ ८ ॥
१जीवन् नाशच।
राज्ञो जीवनाशो यथा भवति तथा गतःति। जीवन्नेव नाशंअदर्शनं गतःती वस्तुतस्तुलोके कस्मिंश्चिज्जीवत्यपि, तद्दर्शनादीनां यावज्जीवं प्रसक्तेरप्यभावे निराशया जीवन्नपि स मृत इवऽ इति निर्देशवत् पत्या पुत्रेण च परित्यक्तायाः कौसल्यायाः परमशोकादेवमुक्तिः जीवन्नेव नशित्वा गतःऽ इति।
॥ २।६६।८ ॥ ॥ २।६६।९ ॥
विदेहराजस्य सुता तथा १चारुतपस्विनी।
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ ९ ॥
चारुतपस्विनीसुष्ठुतपोयुक्ता, भर्त्रनुयानादित्याशयः। दुःखं वन इति। वने दुःखं प्राप्य पर्युद्विजिष्यतिभेष्यतीति यावत् ॥ ९ ॥
१सीताङ।
तपस्विनीशोचनीया सीता। दुःखमिति क्रियाविशेषणम्गो।
॥ २।६६।९ ॥ ॥ २।६६।१०,११ ॥
नर्दतां भीमघोषाणां निशासु मृगपक्षिणाम्।
१निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ॥ १० ॥
वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन्।
सोऽपि शोकसमाविष्टो २नूनं त्यक्ष्यति जीवितम् ॥ ११ ॥
अल्पपुत्रश्चेति। जनक इति शेषः ॥ ११ ॥
मृगपक्षिणां निशम्यनादमिति शेषःगो। ति।
१निशम्य नादंङ। निशाम्यमानाच।
पत्या गतत्वात् खलु तस्याः भये प्राप्ते आश्रयलाभः, अतोऽहमपि पतिमनुगच्छेयमित्युक्तेः पीठिकेयम् ॥
२ननुङ।
अल्पपुत्रःकन्यामात्रपुत्रःगो। ति।
॥ २।६६।१०,११ ॥ ॥ २।६६।१२ ॥
साऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता।
इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥ १२ ॥
दिष्टान्तंप्रारब्धकर्मान्तं, मरणमिति यावत्। हुताशनं प्रवेक्ष्यामीत्यत्र हेतुःपतिव्रतेति ॥ १२ ॥
॥ २।६६।१२ ॥ ॥ २।६६।१३,१४ ॥
तां ततः सम्परिष्वज्य विलपन्तीं तपस्विनीम्।
१व्यपनीय सुदुःखार्तां कौसल्यां व्यवहारिकाः ॥ १३ ॥
तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम्।
राज्ञः सर्वाण्यथादिष्टाः चक्रुः कर्माण्यनन्तरम् ॥ १४ ॥
व्यावहारिकाःव्यवहारेबाह्यान्तरसकलराजकृत्ये नियुक्ताः तत्र नियुक्तःऽ इति ठक्। अमात्याः कौसल्यां भर्त्रालिङ्गनात् व्यपनीयविमोच्य, अन्यतोऽपनीयेत्यर्थः। अथ, तैलपूरिता द्रोणीकटाहः तथा, तस्यां जगतीपतिं निवेश्य, अथ राज्ञोऽनन्तरकर्तव्यानि सर्वाणि कर्माणिदुःखपरिपालनादीनि चक्रुः ॥ १३१४ ॥
श्लोकद्वयमेकान्वयम्।
१व्यपनिन्युःच।
आदिष्टाः राजकृत्येष्वादिष्टाः अमात्याः राज्ञः कर्माणि सर्वाणि–प्रजाशासनादीनि चक्रुगो।
॥ २।६६।१३,१४ ॥ ॥ २।६६।१५ ॥
न तु सङ्कालनं राज्ञो विना पुत्रेण मन्त्रिणः।
सर्वज्ञाः कर्तुमीपुस्ते ततो रक्षन्ति भूमिपम् ॥ १५ ॥
न तु पुत्रेण विना सङ्कालनंप्रेतनिर्हारं चक्रुः। सर्वज्ञाःकालदेशोचितसर्वकार्यज्ञाः ते पुत्रेणैव सङ्कालनं कर्तुमीषुः। तत एव हेतोः तैलद्रोण्यां भूमिपं रक्षन्ति स्म ॥ १५ ॥
सङ्कलनंङ।
॥ २।६६।१५ ॥ ॥ २।६६।१६ ॥
तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम्।
हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः १पर्यदेवयन् ॥ १६ ॥
शायितं ज्ञात्वा अनन्तरं च हा मृतोऽयं राजेति पर्यदेवयन्निति योजना ॥ १६ ॥
तैलनिवेशनकाले राजदर्शनाभावात्৷৷।भूयोपि पर्यदेवयन्गो। तावत्पर्यन्तं अपि पुनर्जीवेदयमिति प्रत्याशा लोकवदासीदिति भावो वा ॥
१पर्यवारयन्ङ।
॥ २।६६।१६ ॥ ॥ २।६६।१७ ॥
बाहूनुद्यम्य कृपणाः नेत्रप्रस्रवणैर्मुखैः।
रुदन्त्यः शोकसन्तप्ताः १कृपणं पर्यदेवयन् ॥ १७ ॥
नेत्राणां प्रस्रवणंअश्रुप्रवाहः येषु मुखेषु तानि तथा ॥ १७ ॥
१करुणंङ।
॥ २।६६।१७ ॥ ॥ २।६६।१८,१९ ॥
हा महाराज रामेण सततं प्रियवादिना।
१विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ॥ १८ ॥
कैकेय्या दुष्ट २भावायाः राघवेण वियोजिताः।
कथं ३पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ १९ ॥
पतिघ्न्येति। लक्षणे जायापत्योष्टक्ऽ इति टक् ॥ १९ ॥
१विहीनःङ।
कैकेय्याः हेतोरित्यर्थः। अस्य कैकेय्याः समीपेऽ इत्यत्तरार्धेनान्वयः।
२भावेनङ।
३सप्त्न्याङ।
॥ २।६६।१८,१९ ॥ ॥ २।६६।२०,२१ ॥
स हि नाथः १सदाऽस्माकं तव च प्रभुरात्मवान्।
वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥ २० ॥
त्वये तेन च वीरेण विना व्यसनमोहिताः।
कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ॥ २१ ॥
विदूषिता इति। राज्यगर्वात् तिरस्कृता इति यावत् ॥ २१ ॥
॥ २।६६।२०,२१ ॥ ॥ २।६६।२२,२५ ॥
यया तु राजा रामश्च लक्ष्मणश्च महाबलः।
सीतया सह सन्त्यक्ताः सा कमन्यं न हास्यति ॥ २२ ॥
ता बाष्पेण च संवीताः शोकेन विपुलेन च।
व्यवेष्टन्त निरानन्दाः राघवस्य वरास्त्रियः ॥ २३ ॥
निशा १चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता।
पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥ २४ ॥
बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना।
शून्यवत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥ २५ ॥
शून्यचत्वरेति। सम्मार्जनालेपनबल्यादिशून्येति यावत् ॥
१नक्षत्रहीच।
यथापुरंयथापूर्वम्।
॥ २।६६।२२२५ ॥ ॥ २।६६।२६ ॥
गते तु शोकात् त्रिदिवं नराधिपे
महीतलस्थासु नृपाङ्गनासु च।
निवृत्तचारः सहसा गतो रविः
प्रवृत्त १चारा रजनी ह्युपस्थिता ॥ २६ ॥
गतःअस्तं गतः।
प्रवृत्तचाराप्रवृत्ततमःप्रचारागो।
१ताराङ।
॥ २।६६।२६ ॥ ॥ २।६६।२७,२८ ॥
ऋते तु पुत्रात् दहनं महीपतेः
न रोचयन्ते सुहृदः समागताः।
इतीव तस्मिन् शयने न्यवेशयन्
१विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ २७ ॥
गतप्रभा द्यौरिव भास्करं विना
व्यपेतनक्षत्रगणेव शर्वरी।
पुरी बभासे रहिता महात्मना
न चास्रकण्ठाकुलमार्गचत्वरा ॥ २८ ॥
आस्रकण्ठेति। आकण्ठं धारारूपेण प्रवहद्भिः आस्रैः उपलक्षिताः कण्ठाः येषां ते तथा, तैराकुलानि मार्गाणि चत्वराणि यस्याः सा तथा ॥ २८ ॥
रात्रावदहने पर्युषितप्रायश्चित्तादीनां कर्तव्यतापातात् तदानीमेव दहनं कार्यमिति कैश्चित्प्रयतितमित्यनेन ज्ञायत इति गोविन्दराजः ॥
१निरीक्ष्य राजानमतीतदर्शनम्ङ।
आस्रकण्ठैःकण्ठस्तम्भितबाष्पैःगो। ॥ २।६६।२७,२८ ॥ ॥ २।६६।२९ ॥
नराश्च नार्यश्च समेत्य सङ्घशः
विगर्हमाणा भरतस्य मातरम्।
तदा नगर्यां नरदेवसंक्षये
बभूवुरार्ता न च शर्म लेभिरे ॥ २९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्षष्टितमः सर्गः
अलं(३०)मानः (?) सर्गः ॥ २९ ॥
इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे षट्षष्टितमः सर्गः
॥ २।६६।२९ ॥