०६५ अन्तःपुरशोकः

पञ्चषष्टितमः सर्गः

[अन्तःपुराक्रन्दः] ॥ २।६५।१ ॥

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि।

वन्दिनः पर्युपातिष्ठन् तत् पार्थिवनिवेशनम् ॥ १ ॥

एवमर्धरात्रे उत्सृष्टप्राणतः कौसल्याद्यैरविज्ञातनिर्याणतः यथापूर्वमुषसि राजोचितव्यवहारे प्रवृत्तेऽपि राज्ञो यथोचितव्यवहारादर्शनात् शनैः राजनिर्याणं ज्ञात्वा तदुचितव्यवहारे प्रवृत्तिः अथेत्यादि। रात्र्यांशेषरात्र्याम् ॥ १ ॥

॥ २।६५।१ ॥ ॥ २।६५।२ ॥

सूताः परमसंस्काराः १मङ्गलाश्चोत्तमश्रुताः।

२गायकाः ३श्रुतिशीलाश्च ४निगदन्तः पृथक्पृथक् ॥

परमसंस्काराःउत्तमव्याकरणसंस्कारोपेतशब्दवन्तः। मङ्गलाःमागधाःवंशावलिकीर्तकाः। उत्तमं श्रुतंवंशपरम्पराश्रवणं येषां ते तथा। गायकाःवन्दिनः। श्रुतिशीलाःतन्त्रीनादविभागशीलाः। पृथक्पृथक् निगदन्त इति। स्वस्वमार्गानुसारेणेति शेषः ॥ २ ॥

स्नानालङ्कारादिसंस्कारविशिष्टाश्च अस्यार्थः।

१मागधाःच।

२गायनाःङ।

३स्तुतिशीङ।

४निनदन्तःङ।

सूतमागधवन्दिनःऽ इति तत्रतत्रोत्कीर्तनात् त्रयाणामेषां कृत्यस्य भिन्नत्वात् पृथक्पृथगित्युक्तम् ॥

उत्तमं श्रुतंगान्धर्वशास्त्रश्रवणं येषां तेगो।

॥ २।६५।२ ॥ ॥ २।६५।३ ॥

राजानं स्तुवतां तेषां १उदात्ताभिहिताशिषाम्।

प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥ ३ ॥

उदात्ताभिहिताशिषांउदात्ततयाउच्चैष्ट्वेन अभिहिताः आशिषः तथा। प्रासादानामाभोगेषु विस्तीर्ण इति प्रतिध्वनिनेति शेषः ॥ ३ ॥

१उत्तम, उदारङ।

॥ २।६५।३ ॥ ॥ २।६५।४ ॥

ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः।

अपदानान्युदाहृत्य पाणिवादानवादयन् ॥ ४ ॥

पाणिवादकाःतालोपेतपाणिवादनशीलाः। अपदानंवृत्तं कर्म राजीयं, तदुदाहृत्य तदनुगतं पाणिवादानवादयन् ॥ ४ ॥

॥ २।६४।४ ॥ ॥ २।६५।५,६ ॥

तेन शब्देन विहगाः प्रतिबुद्धाश्च सस्वनुः।

१शारिकाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ ५ ॥

व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्वनाः।

आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ ६ ॥

स्वनतेः फणादित्वात् एत्वाभ्यासलोपाभावपक्षे सस्वनुरिति। राजकुलगोचरा ये शुकादिपक्षिणः सन्ति, तैः व्याहृताः पुण्यशब्दाःकाशीगङ्गाविश्वेश्वरादिपुण्यक्षेत्रतीर्थमहादेवतागोचरा इत्यर्थः। गाथानांकेवलगाथागायकानां अशीर्गेयंआशीर्वादप्रधानं गानम् ॥

१शाखास्थाःङ।

पुण्यशब्दाःहरिनारायणादिपुण्यशब्दाः।यद्वा पुण्यश्लोकपुरुषाणां कीर्तननिती।

राजकुलगोचराःराजकुलवासयोग्याःति।

व्याहृताःब्राह्मणैरुक्ताःगो।

॥ २।६५।५,६ ॥ ॥ २।६५।७ ॥

ततः शुचिसमाचाराः पर्युपस्थनकोविदाः।

स्त्रीवर्ष १वरभूयिष्ठाः उपतस्थुर्यथापुरम् ॥ ७ ॥

स्त्रीभिः वर्षवरैश्च भूयिष्ठास्तथा, षण्डो वर्षवरस्तुल्यौऽ ॥ ७ ॥

पर्युपस्थानंपिरचरणम्।

१धरङ।

॥ २।६५।७ ॥ ॥ २।६५।८ ॥

हरिचन्दनसंसक्तं उदकं काञ्चनैर्घटैः।

आनिन्युः स्नान १शिक्षाज्ञाः यथाकालं यथाविधि ॥ ८ ॥

स्नानशिक्षाज्ञाःअरुणादयात् पूर्वमेव गत्वा राज्ञः उषसि स्नानार्थमानेतव्यमिति शिक्षाज्ञाः तथा ॥ ८ ॥

स्नानशिक्षाज्ञान्स्नानपद्धतिज्ञान्।

१शिक्षाज्ञान्ङ।

॥ २।६५।८ ॥ ॥ २।६५।९ ॥

मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान्।

उपनिन्युस्तथाऽप्यन्याः कुमारीबहुलाः स्त्रियः ॥ ९ ॥

मङ्गलार्थं आलम्भनीयानिस्पर्शनीयानि गवादीनि, आलम्भः स्पर्शहिंसयोःऽ। प्राशनीयानिगङ्गोदकतुलसीतीर्थादीनि। उपस्कराःदर्पणवस्त्राभरणादयः। कुमारीबहुलाः स्त्रिय इति। वारयोषित इति यावत् ॥ ९ ॥

मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि, प्राशनीयानिदन्तधावनानन्तरं गण्डूपत्वेन प्राशनीयानि, संपिष्टतिलनारिकेलजीरकादिद्रव्याणि ओषधिविशेषानिति वाऽर्थःगो।

स्त्रिय इति द्वितीयागो।

॥ २।६५।९ ॥ ॥ २।६५।१० ॥

सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम्।

सर्वं सुगुणलक्ष्मीवत् तत् बभूवाभिहारिकम् ॥ १० ॥

आभिहारिकंराज्ञे प्रातर्यदभिहर्तव्यंमङ्गलार्थमानेतव्यं तत्सर्वं सर्वलक्षणसम्पन्नत्वादिधर्मकं बभूव। सुगुणं च तत् लक्ष्मीवच्चतथा ॥

॥ २।६५।१० ॥ ॥ २।६५।११ ॥

तत्तु सूर्योदयं यावत् सर्वं परिसमुत्सुकम्।

तस्थावनुपसम्प्राप्तं किं स्विदित्युपशङ्कितम् ॥ ११ ॥

तत्तुउक्ताभिहारिकं तु। परिसमुत्सुकमिति। राजदर्शनं प्रतीति शेषः। अनुपसम्प्राप्तंअप्राप्तराजदर्शनमित्यर्थः। अत एव, किं स्वित्इत्यभिशङ्कितञ्च ॥ ११ ॥

तत्तुपरिजनजातंगो।

अनुपसम्प्राप्तंअनागतं राजानं प्रतिती। एवं परिवारगणः स्वस्वसेवायै सन्नद्धः राजानं प्रतीक्षन्नासीत्। राजा तु नाजगाम यथापूर्वम्। अतः शङ्का समजनि। राजानं स्पृष्ट्वा बोधयितुं तु नैषामर्हता। उत्तरश्लेके भर्तारं प्रत्यबोधयन्ऽ इति कथनात्।

॥ २।६५।११ ॥ ॥ २।६५।१२ ॥

अथ याः कौसलेन्द्रस्य शयनं प्रत्यनन्तराः।

ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ १२ ॥

अनन्तराःआसन्ना इति यावत् ॥ १२ ॥

॥ २।६५।१२ ॥ ॥ २।६५।१३,१४ ॥

तथाऽप्युचितवृत्तास्ताः विनयेन नयेन च ॥ १३ ॥

न ह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे।

ताः स्त्रियः स्वप्नशीलज्ञाः १चेष्टा सञ्चलनादिषु ॥ १४ ॥

उचितवृत्ता इति। भार्यात्वादेव स्पर्शनादिव्यापारोचिताः। स्वप्नशीलज्ञाःस्वप्नस्वभावज्ञाः ताः स्त्रियः, स्वप्नधर्मेषु चेष्टासञ्चलनाद्यङ्गपरिवर्तनप्रश्वासचलनादिषु अस्य शयनं स्पृष्ट्वापि न किञ्चिदुपलेभिरे ॥

किञ्चित्उच्छ्वासादिकमित्यर्थः।

स्वप्नस्वरूपज्ञत्वात् नायं स्वप्न इति ज्ञात्वा चकम्पिरे इत्यर्थः ॥

१चेष्टां सचलङ।, चेष्टां सञ्चलनाडिषुच।

सञ्चलनादिषु हृदयकरमूलनाडिषु चेष्टां नोपलेभिरेति।

॥ २।६५।१३,१४ ॥ ॥ २।६५।१५ ॥

१ते दीना वेपथुयुताः राज्ञः प्राणेषु शङ्किताः।

प्रतिस्त्रोतस्तृणाग्राणां सदृशं २सञ्चकम्पिरे ॥ १५ ॥

ते दीना वेपथुयुता इत्यादि। प्रतिस्त्रोतस्तृणाग्राणांस्त्रोतोमुखस्थितवेतसादितृणाग्राणामित्यर्थः ॥ १५ ॥

१ता वेपथुपरीतांश्चङ।

२सञ्चकाशिरेङ।

॥ २।६५।१५ ॥ ॥ २।६५।१६ ॥

अथ १संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम्।

यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः ॥ १६ ॥

यत्तदाऽशङ्कितं पापंमरणं पूर्वदिवसे, राज्ञेति शेषः ॥ १६ ॥

१सन्देहमाच।

॥ २।६५।१६ ॥ ॥ २।६५।१७ ॥

कौसल्या च सुमित्रा च पुत्रशोकपराजिते।

प्रसुप्ते न प्रबुध्येतेऽयथाकालसमन्विते ॥ १७ ॥

पराजितेअभिभूते। अयथाकालसमन्विते इति पदम्। रात्रौ दुःखवशेन जागरणात् शिवरात्रिव्रतिनामिव प्रत्युषस्ययथाकाले निद्रया समन्विते यथा। कालसमन्विते मृते यथा न प्रतिबुध्येते इतीयं योजना अश्लीलत्वादुपेक्ष्या ॥ १७ ॥

गोविन्दराजेन तीर्थेन च एवं व्याख्यातम्। विधेयविशेषणं वा। यथाकालसमन्वितत्वेन प्रबुध्येते इत्यर्थः ॥

॥ २।६५।१७ ॥ ॥ २।६५।१८ ॥

निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता।

न व्यराजत कौसल्या तारेव तिमिरावृता ॥ १८ ॥

शोकेन सन्नाउपहता। सन्नतासुप्तिवशसङ्कुचितकरचरणा ॥

निष्प्रभानिःश्रीका, विवर्णापूर्ववर्णात् विपरीतवर्णा, शोकेन सन्नाकृशा, सन्नताकार्श्येन नम्रा, तिमिरावृताउत्पातकालोत्थधूमः तिमिरं, तेन आवृता तारेवतारकेव न व्यराजतगो।

॥ २।६५।१८ ॥ ॥ २।६५।१९,२० ॥

कौसल्याऽनन्तरं राज्ञः सुमित्रा तदनन्तरम्।

न स्म विभ्राजते देवी शोकाश्रुलुलितानना ॥ १९ ॥

ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम्।

१सर्वमेवोद्गतप्राणमन्तःपुर २मदृश्यत ॥ २० ॥

ते चेत्यादि। ते उभे देव्यौ तथा सुप्तेगाढसुप्ते प्रश्वासादिना दृष्ट्वा, तं नृपं सुप्तमेव सन्तं तदवस्थायामेवोद्गतप्राणं तल्लक्षणतो दृष्ट्वा सर्वमेव अन्तःपुरं उद्गतप्राणंतत्कल्पमदृश्यत ॥ २० ॥

राज्ञः अनन्तरं कौसल्या, तदनन्तरं सुमित्रेति तेषां क्लेशतारतम्यपरीक्षणं कविना कृतम् ॥

मृताद्दशरथात् जीवन्त्योः कौसल्यासुमित्रयोः विशेषो नासीदित्यर्थःगो। एवञ्च त्रीनपि मृतान् ज्ञात्वा सर्वमेवान्तःपुरमुद्गतप्राणमदृश्यत। अत एव तासां कौसल्याप्रबोधने न प्रवृत्तिः, किन्तु प्रचुक्रुशुर्दीनाःऽ इत्युच्यते। ते च दृष्ट्वा तथा सुप्तेऽ इति तु कवेर्दृष्ट्या।

१सुप्तमेवोङ।

२मतप्यतङ।

॥ २।६५।१९,२० ॥ ॥ २।६५।२१२५ ॥

ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः।

करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ २१ ॥

तासामाक्रन्दशब्देन सहसोद्गतचेतने।

कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥ २२ ॥

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम्।

हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥ २३ ॥

सा कोसलेन्द्रदुहिता वेष्टमाना महीतले।

न बभ्राज रजोध्वस्ता तारेव गगनात् च्युता ॥ २४ ॥

नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि।

अपश्यन् ताः स्त्रियः सर्वाः हतां नागवधूमिव ॥ २५ ॥

शान्तगुणेउपशान्तजीवनाभिवदनादिधर्मेमृते सतीति यावत् ॥ २५ ॥

शान्तगुणेशान्तदेहोष्णस्पन्दनादिगुणेगो। वस्तुतः गुणो मौर्व्यां৷৷। शुक्लादावपि बुध्यां चऽ इति मेदिनीकोशात्शान्तप्रश इत्यर्थःतथा च मृत इत्यर्थः ॥

॥ २।६५।२१२५ ॥ ॥ २।६५।२६,२७ ॥

ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः।

रुदन्त्यः शोकसन्तप्ताः निपेतुर्गतचेतनाः ॥ २६ ॥

ताभिः स बलवान् नादः क्रोशन्तीभिरनुद्रुतः।

येन १स्फीतिं गतो भूयः तद्गृहं समनादयत् ॥ २७ ॥

ताभिरिति। क्रोशन्तीभिस्ताभिरुत्थापितो बलवान् नादः, येनहेतुना अनुद्रुतःप्रतिध्वनिना गृहमनुप्राप्तः, तत एव भूयःअभ्यधिकं स्फीतिं, क्तिनि स्फीभावः छान्दसः, वृद्धिं गतो भूत्वा तद्गृहं समनादयत् ॥ २७ ॥

यद्यपि कैकेयी पूर्वं नासीत्, अथापि अनन्तरमागतेति ज्ञायते।

१स्थिरीकृतं, स्फीतीकृतंङ।

॥ २।६५।२६,२७ ॥ ॥ २।६५।२८,२९ ॥

१तत् परित्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम्।

सर्वतस्तुमुला २क्रन्दं परितापार्तबान्धवम् ॥ २८ ॥

सद्यो निपतितानन्दं दीनविक्लबदर्शनम्।

बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ॥ २९ ॥

पर्युत्सुकेति। वृत्तान्तपरिज्ञानपर्युत्सुकेति यावत्। दिष्टान्तमीयुष इति। कालधर्मं प्राप्तस्येत्यर्थः ॥ २९ ॥

श्लोकद्वयमेकान्वयम्।

१तत्समुत्त्रस्तङ।

२क्रान्तंङ।

पूर्वं पर्युत्सुकजनाकुलं सद्म नरदेवस्य दिष्टान्तमीयुषःनरदेवे मरणं प्राप्ते सति समुत्त्रस्तसम्भ्रान्तंइत्येवमादिविशेषणयुक्तं बभूवगो।

॥ २।६५।२८,२९ ॥ ॥ २।६५।३० ॥

अतीत माज्ञाय तु पार्थिवर्षभं

यशस्विनं सम्परिवार्य पत्नयः।

भृशं रुदन्त्यः करुणं सुदुःखिताः

प्रगृह्य बाहू व्यलपन् अनाथवत् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चषष्टितमः सर्गः

नग(३०)मानः सर्गः ॥ ३० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चषष्टितमः सर्गः

॥ २।६५।३० ॥