चतुष्षष्टितमः सर्गः
[दशरथदिष्टान्तः] ॥ २।६४।१ ॥
वधमप्रतिरूपं तु महर्षेस्तस्य राघवः।
विलपन्नेव धर्मात्मा कौसल्यां १पुनरब्रवीत् ॥ १ ॥
अथ तत्पितृदर्शनादिशेषवृत्तान्तकथनम्। वधमित्यादि। राघवःदशरथः। विलपन्नेवपुत्रं प्रति विलपन्नेव कौसल्यां प्रति तस्य महर्षेः अप्रतिरूपं अतितरामनुचितं वधं पुनःपाश्चात्यवृत्तान्तं च अब्रवीत्। इदं कविवचनम् ॥ १ ॥
१इदम्च।
असाधारणं वा।
॥ २।६४।१ ॥ ॥ २।६४।२ ॥
तदज्ञानात् महत् पापं कृत्वाऽहं सङ्कुलेन्द्रियः।
एकस्त्वचिन्तयं बुध्या कथं नु सुकृतं भवेत् ॥ २ ॥
तदेव प्रतिपाद्यतेतदित्यादि। सङ्कुलितेन्द्रियःक्षुभितेन्द्रियः। एकःएकाकी च अहं गत्वा तं प्रसादयऽ इत्याद्युक्तमुनिकुमारवचनानुष्ठानं कथं नु सुकृतंसुष्ठु सम्पादितं भवेदिति बुध्या अचिन्तयम् ॥ २ ॥
॥ २।६४।२ ॥ ॥ २।६४।३ ॥
ततस्तं घटमादाय पूर्णं परमवारिणा।
आश्रमं तमहं प्राप्य यथाऽऽख्यातपथं गतः ॥ ३ ॥
ततस्तमित्यादि। ततः एवं चिन्तयित्वा। यथाऽऽख्यातपथंमुनिकुमारोपदिष्टमार्गम् ॥ ३ ॥
॥ २।६४।३ ॥ ॥ २।६४।४ ॥
तत्राहं दुर्बलाबन्धौ वृद्धावपरिणायकौ।
अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ ४ ॥
अपरिणायकौअन्धयोस्तयोः सञ्चारयितृपुरुषान्तररहितो ॥
॥ २।६४।४ ॥ ॥ २।६४।५ ॥
तन्निमित्ताभिरासीनौ कथाभि १रपरिश्रमौ।
तामाशां मत्कृते हीनौ २उदासीनावनाथवत् ॥ ५ ॥
तन्निमित्ताभिःपुत्रनिमित्ताभिः कथाभिः हेतुभिः अपरिश्रमावासीनौपुत्रो जलमानेष्यतीति प्रत्याशया श्रमं सोढ्वा आस्थितावित्यर्थः। मत्कृतेमत्कृतदुष्कर्मनिमित्ततः तामाशां प्रत्यपि हीनौ, अत एव अनाथवत् उदासीनौअनाथावेव सन्तौ स्थितौ इत्यर्थः ॥ ५ ॥
कथाभिः उपलक्षितौगो।
१रपरिक्रमौङ।
२उपासीनाच।
॥ २।६४।५ ॥ ॥ २।६४।६ ॥
शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः।
तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः ॥ ६ ॥
तौ दृष्ट्वा शोकोपहतचित्त इति योजना। भूयःअभ्यधिकम् ॥ ६ ॥
तयोरसहायतादर्शनेन शोकस्याधिक्यम्।
॥ २।६४।६ ॥ ॥ २।६४।७ ॥
पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत।
किं चिरायसि, मे पुत्र पानीयं क्षिप्रमानय ॥ ७ ॥
॥ २।६४।७ ॥ ॥ २।६४।८ ॥
यन्निमित्तमिदं, तात सलिले क्रीडितं त्वया।
उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ ८ ॥
हे तात यन्निमित्तंयेन हेतुना एतावत्कालं सलिले त्वया इदं क्रीडितम्भावे निष्ठा, क्रीडनमभूत्, तेनेयं ते माता उत्कण्ठितासशोकस्मरणवत्यभूत् ॥ ८ ॥
॥ २।६४।८ ॥ ॥ २।६४।९ ॥
यत् १व्यलीकं कृतं, पुत्र मात्रा ते यदि वा मया।
न तन्मनसि कर्तव्यं त्वया, तात तपस्विना ॥ ९ ॥
व्यलीकंअप्रियम् ॥ ९ ॥
१अलीकंङ।
॥ २।६४।९ ॥ ॥ २।६४।१० ॥
त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम्।
समासक्ताः त्वयि प्राणाः किं त्वं नौ नाभिभाषसे ॥ १० ॥
नौआवां प्रति किञ्चिदपि नाभिभाषसे, तत् कस्मादिति शेषः ॥ १० ॥
॥ २।६४।१० ॥ ॥ २।६४।११ ॥
मुनिमव्यक्तया वाचा तमहं सज्जमानया।
हीनव्यञ्जनया प्रेक्ष्य १भीतोऽभीत इवाब्रुवम् ॥ ११ ॥
तंपदशब्दं श्रुत्वा पुत्रधिया वदन्तम्। सज्जमानयागद्गदया, अत एव हीनव्यञ्जनया व्यञ्जनाक्षरव्यक्तिरहितया। भीतोऽपि सन् अभीत इवाब्रुवम् ॥ ११ ॥
सज्जमानयास्खलन्त्या, हीनव्यञ्जनयाअस्पष्टाक्षरयागो।
१भीतचित्त इवच।
भीतोऽपि सन् भीतः, अत्यन्तभीत इत्यर्थःगो।
॥ २।६४।११ ॥ ॥ २।६४।१२ ॥
मनसः कर्म चेष्टाभिः अभि संस्तभ्य वाग्बलम्।
आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ १२ ॥
इदमेव प्रतिपाद्यतेमनस इत्यादि। मनसः कर्मभीतिरूपम्। वाग्बलमवष्टभ्य साध्याभिः चेष्टाभिःअभीतिसाध्यव्यवहारैः अभिअभितः संस्तभ्यभीताकारतामाच्छाद्य अभीत इवाचचक्षेआख्यातवानस्मि।
अत्रापि भट्टारका बहु वदन्ति न तदस्मन्मनः श्रद्दधते ॥ १२ ॥
मनसः कर्मऊहापोहात्मकं, चेष्टाःइन्द्रियनियमनरूपव्यापाराः। ताभिः वागबलमभिसंस्तभ्यरखलितां वाचं बलात् दृढीकृत्येत्यर्थः। ৷৷। यद्वालज्जाभीतिप्रभृतिभिः मन्दवचनो भूत्वेत्यर्थःगो।
॥ २।६४।१२ ॥ ॥ २।६४।१३ ॥
क्षत्त्रियोऽहं दशरथः नाहं पुत्रो महात्मनः।
कज्जनावमतं दुःखं इदं प्राप्तं स्वकर्मजम् ॥ १३ ॥
महात्मनस्तव पुत्रो नाहमिति योजना। सज्जनावमतंसाधुविगर्हितं मया दुःखं प्राप्तम् ॥ १३ ॥
॥ २।६४।१३ ॥ ॥ २।६४।१४ ॥
भगवन् चापहस्तोऽहं सरयूतीरमागतः।
जिघांसुः श्वापदं कञ्चित् निपाने वाऽऽगतं गजम् ॥ १४ ॥
किं तत्? इत्यतःभगवन्नित्यादि। घोरं श्वापदं शार्दूलादिकं, निपानेअवतारे गजं वा जिघांसुः ॥ १४ ॥
॥ २।६४।१४ ॥ ॥ २।६४।१५ ॥
तत्र श्रुतो मया शब्दः जले कुम्भस्य पूर्यतः।
द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया ॥ १५ ॥
अयमिति। श्रुतशब्दहेतुपदार्थ इत्यर्थः ॥ १५ ॥
अयंशब्दहेतुः पदार्थः द्विप इति मत्वा अयंतव सुतः मया अभिहतःगो।
॥ २।६४।१५ ॥ ॥ २।६४।१६ ॥
गत्वा नद्यास्ततस्तीरं अपश्यमिषुणा हृदि।
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ १६ ॥
गतप्राणंगतकल्पप्राणम् ॥ १६ ॥
॥ २।६४।१६ ॥ ॥ २।६४।१७ ॥
भगवन् शब्दमालक्ष्य मया गजजिघांसुना।
विसृष्टोऽम्भसि नाराचः ततस्ते निहतः सुतः ॥ १७ ॥
॥ २।६४।१७ ॥ ॥ २।६४।१८ ॥
ततस्तस्यैव वचनात् उपेत्य परितप्यतः।
स मया सहसा बाणः उद्धृतो मर्मतस्तदा ॥ १८ ॥
तस्यैवेति। त्वत्पुत्रस्यैवेत्यर्थः। वचनात् उद्धृत इत्यन्वयः ॥ १८ ॥
॥ २।६४।१८ ॥ ॥ २।६४।१९ ॥
स चोद्धृतेन बाणेन १तत्रैव स्वर्गमास्थितः।
भवन्तौ पितरौ शोचन् २वृद्धाविति विलप्य च ॥ १९ ॥
बाणेन हेतुनेति शेषः। वृद्धाविति शोचन्निति। कः अतः परं रक्षिष्यति वृद्धौइति शोचन्नित्यर्थः ॥ १९ ॥
१सहसाच।
२अन्धावितिङ, च।
॥ २।६४।१९ ॥ ॥ २।६४।२० ॥
अज्ञानात् भवतः पुत्रः सहसाऽभिहतो मया।
शेषमेवं गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥ २० ॥
त्वत्पुत्रेत्वद्रक्षके एवं गते सतिमृते सति यत् शेषं स्यात्शेषाय रक्षणं कर्तव्यं स्यात् तदुद्दिश्य मेमह्यं भवान् प्रसीदतु। त्वद्रक्षणे ममैवाज्ञां दत्त्वा मामनुगृह्णात्वित्यर्थः ॥ २० ॥
यत् शेषं कर्तव्यं स्यात् शापानुग्रहादिकं तत्प्रति मे मयि प्रसीदतु, शापो वा अनुग्रहो वा यः कर्तव्यः तं करोत्वित्यर्थःगो।
॥ २।६४।२० ॥ ॥ २।६४।२१ ॥
स तत् श्रुत्वा वचः क्रूरं मयोक्तमघशंसिना।
नाशकत् तीव्रमायासं १अकर्तुं भगवान् ऋषिः ॥ २१ ॥
एवमज्ञानकृतत्वबोधनात् शेषरक्षणमपि मयैव निर्वाह्यत इत्युक्तत्वाच्च तत्कालं मां न भस्मसादकरोदित्याहस तत् श्रुत्वेत्यादिना। आयासंदुःखम् ॥ २१ ॥
ऋषिस्सन्नपि तीव्रमायासं अकर्तुं नाशकत्अकरोदेवेत्यर्थः ॥
१स धर्तुंङ।
॥ २।६४।२१ ॥ ॥ २।६४।२२,२३ ॥
स बाष्पपूर्ण १वदनः निश्वसन् शोककर्शितः।
मामुवाच महातेजाः काताञ्चलिमुपस्थितम् ॥ २२ ॥
यदेतदशुभं कर्म न त्वं मे कथयेः स्वयम्।
फलेन्मूर्धा स्म ते, राजन् सद्यः शतसहस्रधा ॥ २३ ॥
स्वयमेवागत्य मे न कथयेर्यदि स्म वाक्यालङ्कारे स्मशब्दः। फलेत्विशीर्येत्। मच्छापेनेति शेषः ॥ २३ ॥
१नयनःच।
॥ २।६४।२२,२३ ॥ ॥ २।६४।२४ ॥
क्षत्त्रियेण वधः, राजन् वानप्रस्थे विशेषतः।
ज्ञानपूर्वं कृतः स्थानात् च्यावयेदपि वज्रिणम् ॥ २४ ॥
ज्ञानपूर्वत्वे तु सद्योऽनर्थप्राप्तिरेव तत्कर्मफलमित्याहक्षत्त्रियेणेत्यादि। विशेषत इति। अन्धतोऽनाथे इति शेषः। ज्ञानपूर्वं कृतोयद्ययं वधः स्यात्, तदाऽयं मत्कोपेन वज्रिणमपि स्थानात् च्यावयेत्पातयेत्, किमु त्वादृशमित्यर्थः ॥ २४ ॥
प्रजापालननिरतस्य क्षत्त्रियस्य अनपराधिसामान्यप्राजवध एव दोषावहः, वानप्रस्थे, तत्रापि बुद्धिपूर्वं कृतस्तु वधःवज्रिणमपि स्थानात् च्यावयेत्।
॥ २।६४।२४ ॥ ॥ २।६४।२५ ॥
सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति।
ज्ञानात् विसृजतः शस्त्रं तादृशे १ब्रह्मचारिणि ॥ २५ ॥
एवं स्वकोपेन तत्कालानाशमुक्त्वा पुत्रकोपेनापि तत्कालानाशः अज्ञानमूलत्वादित्याहसप्तधेत्यादि। स्वापेक्षया तपोन्यूनत्वात् सप्तधेति। ज्ञानात् विसृष्टमिति। यदीति शेषः ॥ २५ ॥
सप्तधाबहुधेत्यर्थःगो।
१ब्रह्मवादिनिङ, च।
॥ २।६४।२५ ॥ ॥ २।६४।२६ ॥
अज्ञानाद्धि कृतं यस्मात् इदं तेनैव जीवसि।
अपि ह्यद्य कुलं न स्यात् राघवाणां, कुतो भवान्? ॥ २६ ॥
तेतवेदं कृतं कर्म यस्मादज्ञानात्, तेन हितेनैव हेतुना जीवसेजीवसीति यावत्। अपीति। यदि ज्ञानपूर्वमपीदं स्यात्, तदा राघवाणां कुलमेव न स्यात्, कुतो भवान् जीवेत् ॥ २६ ॥
॥ २।६४।२६ ॥ ॥ २।६४।२७ ॥
नय नौ, नृप तं देशं इति मां चाभ्यभाषत।
अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ २७ ॥
द्रष्टुंअनुभवितुं, स्पर्शनादिनेति शेषः। पश्चिमदर्शनंसर्वान्तदर्शनमिति यावत् ॥ २७ ॥
अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम्ऽ अन्तिमदर्शनं तं द्रष्टुमिच्छावः।
॥ २।६४।२७ ॥ ॥ २।६४।२८३० ॥
रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम्।
शयानं भुवि निस्संज्ञं धर्मराजवशं गतम् ॥ २८ ॥
अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ।
अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया ॥ २९ ॥
तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ।
निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् ॥ ३० ॥
इदमब्रवीदिति। वक्ष्यमाणरूपं लौकिकं प्रलापमित्यर्थः ॥ ३० ॥
अहं तौ तं देशं नीत्वा तं पुत्रं अहमस्पर्शयमित्यन्वयः ॥
॥ २।६४।२८३० ॥ ॥ २।६४।३१ ॥
नाभिवादयसे माऽद्य न च मामभि भाषसे।
किन्नु १शेषे तु भूमौ त्वं, वत्स २सङ्कुपितो ह्यसि ॥ ३१ ॥
सङ्कुपितःङ्संकोपं प्राप्तः ॥ ३१ ॥
१शेषेऽद्यङ।
२किं कुपिङ। च।
॥ २।६४।३१ ॥ ॥ २।६४।३२ ॥
न त्वहं १तेऽप्रियः, पुत्र मातरं पश्य, २धार्मिक
किन्नु नालिङ्गसे, पुत्र सुकुमार वचो वद ॥ ३२ ॥
अप्रिय इति पदम्, अप्रियकारी नास्मीत्यर्थः ॥ ३२ ॥
अहं ते प्रियः न तु चेत्गो।
१ते प्रियःङ।
२धार्मिकींङ।
॥ २।६४।३२ ॥ ॥ २।६४।३३ ॥
कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयङ्गमम्।
अधीयानस्य मधुरं शास्त्रं वाऽन्यत् विशेषतः ॥ ३३ ॥
शास्त्रं वाऽन्यद्वेति। पुराणं वेति शेषः। वैश्यात् शूद्रायां जातस्य करणजातित्वात् वेदप्रसङ्गो नोक्तः ॥ ३३ ॥
॥ २।६४।३३ ॥ ॥ २।६४।३४ ॥
को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः।
श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् ॥ ३४ ॥
सन्ध्यामुपास्येत्यादि। आगममार्गत इति शेषः। करणस्य १वेदमार्गानधिकारात्। श्लाघयिष्यतिश्लाघनंउद्वर्तनं, तत्पूर्वं कः स्नापयिष्यतीत्यर्थः। तथा प्रयोगः नाप्सु श्लाघमानः स्नायात्ऽ इति ब्रह्मचारिप्रकरणे आपस्तम्बः ॥ ३४ ॥
ननु वैश्यात् शूद्रायां जातो हि करणः, तस्य कथं होमाधिकार इतिमैवम् नमस्कारेण मन्त्रेण पञ्चयज्ञान् समापयेत्ऽ इति चतुर्थवर्णस्यापि पञ्चमहायज्ञाधिकारः स्मर्यते, ततोऽप्यधिकस्य करणस्य स्वोचितमन्त्रैर्होमाधिकारस्य कैमुत्यन्यायसिद्धत्वात्। श्लाघयिष्यतिउपचरिष्यतीत्यर्थःगो।
१वैदिकमाग।
॥ २।६४।३४ ॥ ॥ २।६४।३५ ॥
कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्।
१भोजयिष्यति कर्मण्यं अप्रग्रहमनायकम् ॥ ३५ ॥
कर्मसु साधुः कर्मण्यः, तत्र साधुःऽ इति यत्। अतिथिविशेषणमिदम्। अप्रग्रहंयष्टिं गृहीत्वा पुरोमार्गप्रदर्शकरहितम् ॥
अकर्मण्यंकर्मानुष्ठानाक्षमम्गो।, ति।
१भोजयिष्यत्यकर्मण्यंङ।,च।
॥ २।६४।३५ ॥ ॥ २।६४।३६ ॥
इमामन्धां च वृद्धां च मातरं ते तपस्विनीम्।
कथं, वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ ३६ ॥
कथं वत्स भरिष्यामीति। स्वयमप्यन्ध इति शेषः ॥ ३६ ॥
॥ २।६४।३६ ॥ ॥ २।६४।३७ ॥
तिष्ठ १मा मा गमः, पुत्र यमस्य सदनं प्रति।
श्वो मया सह गन्ताऽसि जनन्या च समेधितः ॥ ३७ ॥
मामित्याबाधे द्विरुक्तिः। समेधितःसङ्गत इति यावत् ॥
तिष्ठ मांमां प्रति तिष्ठ, मा गमःमा गच्छगो।
१मां माङ।
आबाधापीडा।
॥ २।६४।३७ ॥ ॥ २।६४।३८ ॥
उभावपि च शोकार्तौ अनाथौ कृपणौ वने।
क्षिप्रमेव गमिष्यावः १त्वयाऽहीनौ यमक्षयम् ॥ ३८ ॥
यमक्षयंयमगृहम् ॥ ३८ ॥
१त्वया सहङ।, त्वया हीनौच।
॥ २।६४।३८ ॥ ॥ २।६४।३९ ॥
ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्।
क्षमतां धर्मराजो मे बिभृयात् पितरावयम् ॥ ३९ ॥
ऋषिः सहगमनप्रयोजनमाहतत इत्यादि। यमक्षयं प्रति सहगमनानन्तरमित्यर्थः। भारतींवाक्यं प्रवक्ष्यामि। कीदृशीमित्यतःक्षमतामित्यादि। धर्मराजः भवान्, अयं मे पुत्रः पितरौ बिभृयादिति यत्, अतोऽयं क्षमतां शस्त्रहतत्वतो दुर्मरणमूलपापं क्षमताम् ॥ ३९ ॥
क्षमतां मत्पुत्रस्य स्वपरिसरागमनविलम्बं सहताम्गो। पुत्रवियोगजनकं मम पूर्वकृतापराधं क्षमताम्ति।
॥ २।६४।३९ ॥ ॥ २।६४।४० ॥
दातुमर्हति धर्मात्मा लोकपालो महायशाः।
ईदृशस्य ममाऽक्षय्यां एकामभयदक्षिणाम् ॥ ४० ॥
एवं मया प्रार्थितो धर्मात्मा दुर्मरणजदुर्गतिं निवर्तयित्वा ईदृशस्य याचतः मम अक्षय्यामेकामभयदक्षिणां दातुमर्हति ॥ ४० ॥
पुत्रपुनरुज्जीवनं वात्र विवक्षितम्। तदसम्भवशंकया च उत्तरश्लोकप्रवृत्तिः।
॥ २।६४।४० ॥ ॥ २।६४।४१ ॥
अपापोऽसि यथा, पुत्र निहतः पापकर्मणा।
तेन सत्येन गच्छाशु १ये लोकाः शस्त्रयोधिनाम् ॥ ४१ ॥
अथेदानीं त्रिशङ्कुं विश्वामित्र इव, स्वमहिम्ना स्वसुतं स्वर्गं प्रापयतिअपापोऽसीत्यादि। हे पुत्र पापेन कर्मणाशस्त्रवधलक्षणेन निहतस्त्वं यथा अपापोऽसिनिष्पापो जायसे, तेन मामकेन सत्येनतपसा शस्त्रयोधिनां ये लोकाः पुण्याः सन्ति, तान् लोकान् आशु गच्छ ॥ ४१ ॥
नन्वस्य तपस्विनः ब्रह्मलोकप्राप्तिरेव वक्तव्या, शस्त्रहननमात्रेण शस्त्रयोधिनां लोकं प्राप्यत्वेन वदति, एतत् कथमुपपद्यतेउच्यते द्वाविमौ पुरुषौ लोके सूर्यमण्डलमेदिनौ। परिव्राट् योगयुक्तश्च रणे चाभिमुखो हतः ॥ ऽ इति शस्त्रयोधिनामुत्कृष्टलोकप्राप्तिश्रवणात् न दोषःगो।
१ये लोकास्त्वत्रङ
॥ २।६४।४१ ॥ ॥ २।६४।४२ ॥
१यान्ति शूरा गतिं यां च सङ्ग्रामेष्वनि २वर्तिनः।
हतास्त्वभिमुखाः, पुत्र गतिं तां परमां व्रज ॥ ४२ ॥
उक्तमेवार्थं विविच्य प्रतिपादयतियान्तीत्यादि। स्वर्गगामिनां शूराणां प्रसिद्धानां गतिम् ॥ ४२ ॥
१यां हि शूरा गतिं प्राप्ताःङ।
२वर्तिनांङ।
॥ २।६४।४२ ॥ ॥ २।६४।४३,४४ ॥
यां गतिं सगरः शैब्यः दिलीपो जनमेजयः।
नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ, पुत्रक ॥ ४३ ॥
या गतिः १सर्वसाधूनां स्वाध्यायात् तपसश्च या।
या भूमिदस्याहिताग्नेः एकपत्नीव्रतस्य च ॥ ४४ ॥
पुनर्विशिष्याहयां गतिमित्यादि। एकपत्नीव्रताःरामादयः ॥ ४३४४ ॥
एते सर्वे यां गतिं प्राप्ता इत्यन्वयो वक्तव्यः।
१सर्वभूतानांङ।
॥ २।६४।४३,४४ ॥ ॥ २।६४।४५ ॥
गोसहस्रप्रदातृ़णां या, या गुरुभृतामपि।
देहन्यासकृतां या च तां गतिं गच्छ, पुत्रक ॥ ४५ ॥
गुरून् बिभ्रतीति गुरुभृतः। देहन्यासभृतांमहाप्रस्थानप्रयाणादिनेति शेषः ॥ ४५ ॥
परलोकप्राप्तिसङ्कल्पपूर्वकं गङ्गायमुनासङ्गमादौ जले अग्नौ वा तनुं त्यजतामित्यर्थः गो।
॥ २।६४।४५ ॥ ॥ २।६४।४६ ॥
न हि त्वस्मिन् कुले जातः गच्छत्यकुशलां गतिम्।
स तु यास्यति येन त्वं निहतो मम बान्धवः ॥ ४६ ॥
अस्मिन्मदीये कुलेनित्यतपस्विकुले जातः न हि त्वकुशलां गतिं गच्छति। मम बान्धवस्त्वं येन हतः स तुतादृश एव तु अकुशलां गतिं यास्यति ॥ ४६ ॥
ननु तर्हि कथं दशरथस्य स्वर्गप्राप्तिरुत्तरत्र वर्णिता। युद्धकाण्डे च एष राजा दशरथः৷৷ इन्द्रलोकं गतः ॥ ऽ (यु। ११९८) इति च कथंइति चेत्उच्यतेन ह्यत्र ऋषिणा दशरथाय तथा शापोऽत्र दत्तः, दशरथं प्रत्यवचनादस्य। दीयते चोत्तरत्रैव शापः त्वयापि च यदज्ञानात्ऽ इत्यादिना। किन्तु वस्तुस्थितिकथनमेवेदमिति। ननु एतादृशवधकर्तुः सद्गतिर्वां कथमिति चेत्, ऋषिणा शापदानेन प्रायश्चित्तस्थानीयेन पुत्रवियोगसोकजमरणेनैव अबुद्धिपूर्वकैतद्वधजन्यपापस्य शान्त्या न कश्चिद्दोषः।
॥ २।६४।४६ ॥ ॥ २।६४।४७,४८ ॥
एवं स कृपणं तत्र पर्यदेवयतासकृत्।
ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥ ४७ ॥
ततो दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः।
स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ॥ ४८ ॥
स्वर्गमध्यारुहदिति। तेन सत्येन गच्छाशुऽ इति मुनिवचनानुक्षणमित्यर्थः ॥ ४८ ॥
अरोहणक्रम एवोत्तरत्र वर्ण्यत इति न पौनरुक्त्यादिः।
मुनिपुत्रमानेतुं आगतेन शक्रेण सहेत्यर्थः।
॥ २।६४।४७,४८ ॥ ॥ २।६४।४९ ॥
आबभाषे च तौ वृद्धौ शक्रेण सह तापसः।
आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ ४९ ॥
आरुह्य शक्रेण सहागत्य आबभाष इति योजना ॥ ४९ ॥
॥ २।६४।४९ ॥ ॥ २।६४।५० ॥
१स्थानमस्मिन् महत् प्राप्तः भवतोः परिचारणात्।
भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ ५० ॥
अस्मिन् लोके स्वर्गे वा। मूलंसमीपम् ॥ ५० ॥
१स्थानमस्मि महत्ङ।
प्राप्तः, अहमिति शेषः।
॥ २।६४।५० ॥ ॥ २।६४।५१ ॥
एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता।
आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥ ५१ ॥
वपुष्मता, प्रशंसायां मतुप्, पुष्पकादिवत्प्रशस्ताकारवता ॥
॥ २।६४।५१ ॥ ॥ २।६४।५२,५३ ॥
स कृत्वा तूदकं तूर्णं तापसः सह भार्यया।
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ ५२ ॥
अद्यैव जहि मां, राजन् मरणे नास्ति मे व्यथा।
यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् १ ॥ ५३ ॥
अद्येत्यादि। हे राजन् मामप्यद्यैव जहिमारय। मे मरणव्यथा नास्ति। इदन्तु दुःखाद्वचनम् ॥ ५३ ॥
१एतदनन्तरं कथं तेषां कुले जातः क्षत्त्रियाणां महात्मनां। सर्ववेदविदर्थज्ञो धर्मे न कुरुते मनः। स्त्रीनिमित्तं न ते वैरं क्षेत्रजं वाक्यजं न ते ॥ ऽ इत्यधिकंङ।
॥ २।६४।५२,५३ ॥ ॥ २।६४।५४ ॥
त्वयाऽपि च यदज्ञानात् निहतो मे स बालकः।
तेन त्वामपि शप्स्येऽहं सुदुःखमतिदारुणम् ॥ ५४ ॥
अज्ञानान्निहत इति यत्, तेन त्वामभिशप्स्याम्येव केवलं, न तु प्रत्यक्षतोऽद्य भस्मीकरोमि ॥ ५४ ॥
अतिदारुणं त्वां सुदुःखं यथा तथा शप्स्ये इत्यन्वयः। सुदुःखमतिदारुणमित्युभयमपि क्रियाविशेषणं वा।
॥ २।६४।५४ ॥ ॥ २।६४।५५ ॥
पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रत्म्।
एवं त्वं पुत्रशोकेन, राजन् कालं गमिष्यसि ॥ ५५ ॥
साम्प्रतंवृत्तम्। त्वन्निमित्तमिति शेषः ॥ ५५ ॥
॥ २।६४।५५ ॥ ॥ २।६४।५६५८ ॥
अज्ञानात्तु हतो यस्मात् क्षत्त्रियेण त्वया मुनिः।
तस्मात् त्वां नाविशत्याशु ब्रह्महत्या, नराधिप ॥ ५६ ॥
त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति।
जीवितान्तकरो घोरः दातारामिव दक्षिणा ॥ ५७ ॥
एवं शापं मयि न्यस्य विलप्य करुणं बहु।
चितामारोप्य देहं तत् मिथुनं स्वर्गमभ्ययात् ॥ ५८ ॥
देहमिति। देहाविति यावत् ॥ ५८ ॥
ब्रह्महत्याबहुपातकमित्यर्थः। अन्यथा वैश्यात् शूद्रायां जातस्य करणाख्यसङ्करजातित्वेन ब्रह्महत्याप्रसक्त्यभावात्गो। ब्रह्महत्यासदृशकरणवधजनितपापंरा। गौणब्रह्महत्या वा विवक्षिता।
एतादृशः भावःमनसोऽवस्थितिः त्वामपि क्षिप्रमेवागमिष्यति।
॥ २।६४।५६५८ ॥ ॥ २।६४।५९ ॥
तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम्।
तदा बाल्यात् कृतं, देवि शब्दवेध्यनुकर्षिणा ॥ ५९ ॥
शब्दवेधीति। प्रथमं शब्दमात्रवेधी, पश्चात् विद्धशल्यस्यानुकर्षणमपि कृतवांस्तथा, तेनेत्यर्थः ॥ ५९ ॥
॥ २।६४।५९ ॥ ॥ २।६४।६० ॥
तस्यायं कर्मणः, देवि विपाकः समुपस्थितः।
अपथ्यैः सह १सम्भुक्तो व्याधिमन्नरसो यथा ॥ ६० ॥
व्याधिमिति। उपस्थापयतीति शेषः ॥ ६० ॥
अपथ्यैरन्नरसैः सह भुक्तेऽन्नरसे व्याधिर्यथोपतिष्ठतेति।
१सम्भुक्ते व्याधिरन्नरसेच।
॥ २।६४।६० ॥ ॥ २।६४।६१ ॥
तस्मान्मामागतं, भद्रे तस्योदारस्य तद्वचः।
यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् ॥ ६१ ॥
उदारस्यश्रेष्ठस्येत्यर्थः। तद्वचःतस्य शापवचःफलमित्यर्थः ॥
॥ २।६४।६१ ॥ ॥ २।६४।६२ ॥
चक्षुर्भ्यां त्वां न पश्यामि, कौसल्ये साधु मा स्पृश।
१इत्युक्त्वा स रुदंस्त्रस्तः भार्यामाह तु भूमिपः ॥ ६२ ॥
त्रस्त इति। मरणभयादिति शेषः। अद्य जीवितं त्यक्ष्यामीति यत् अतो मुमूर्षुत्वात् न त्वां चक्षुषा पश्यामि ॥ ६२ ॥
१एतदनन्तरश्लोकानां पौर्यापर्ये भेदःङ। पुस्तके दृश्यते।
॥ २।६४।६२ ॥ ॥ २।६४।६३ ॥
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥ ६३ ॥
न हि द्रक्ष्यन्तीति। स्वेष्टबन्धूनिति शेषः ॥ ६३ ॥
॥ २।६४।६३ ॥ ॥ २।६४।६४ ॥
यदि मां संस्पृशेत् रामः सकृदद्य लभेत वा।
१धनं वा यौवराज्यं वा जीवेयमिति मे मतिः ॥ ६४ ॥
अद्य सकृदपि मां रामः संस्पृशेद्यदि, तदा जीवेयमतः परमिति मे मतिः। यद्वा धनं यौवराज्यं वा लभेत, तदा वा जीवेयम्। न त्रयमपि संवृत्तमिति शेषः ॥ ६४ ॥
इदमर्धं कुत्रचिन्नास्तिङ।
॥ २।६४।६४ ॥ ॥ २।६४।६५ ॥
१एतन्मे सदृशं, देवि यन्मया राघवे कृतम्।
सदृशं तत्तु तस्यैव यदनेन कृतं मयि ॥ ६५ ॥
अनेनरामेण मयिपितरि यत् कृतंत्यक्त्वाऽपि राज्यं स्ववचनपरिपालनरूपं कर्म, तत्तु तस्यैव सदृशम् ॥ ६५ ॥
पूर्वार्धे स्वश्लाघना, उत्तरार्धे रामश्लाघना च अकारि। राघवे यन्मया कृतं तत् न मे सदृशंति। वस्तुतःरामविषये मया यत् कृतं तत् मेमादृशस्य मूर्खस्यैव सदृशंयुक्तं एतादृशेऽपि रामेण यत् कृतं तत् तस्यैव सदृशम्। अयमेवार्थः अनन्तरश्लोके विव्रियते।
१न तन्मेच।
॥ २।६४।६५ ॥ ॥ २।६४।६६ ॥
दुर्वृत्तमपि कः पुत्रं त्यजेत् भुवि विचक्षणः।
कश्च प्रव्राज्यमानो वा नासूयेत् पितरं सुतः ॥ ६६ ॥
स्वसदृशान्यायकृत् रामसदृशन्यायकृच्च लोके नाभूत्, अस्ति, भविष्यतीत्याहदुर्वृत्तमित्यादि ॥ ६६ ॥
नञः उत्तरत्रापि सम्बन्धः।
॥ २।६४।६६ ॥ ॥ २।६४।६७६९ ॥
चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते।
दूता वैवस्वतस्यैते, कौसल्ये त्वरयन्ति माम् ॥ ६७ ॥
अतस्तु किं दुःखतरं यदहं जीवितक्षये।
न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥ ६८ ॥
तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः।
उच्छोषयति मे प्राणान् वारि स्तोकमिवातपः ॥ ६९ ॥
स्तोकं वारिअल्पोदकम् ॥ ६९ ॥
॥ २।६४।६७६९ ॥ ॥ २।६४।७० ॥
न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्।
मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥ ७० ॥
ये द्रक्ष्यन्ति ते न मनुष्याः, किन्तु देवा एवदेवांशा एव। अन्यादृशस्य तद्दर्शनासम्भवात् ॥ ७० ॥
॥ २।६४।७० ॥ ॥ २।६४।७१७३ ॥
पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्।
धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं शुभम् ॥ ७१ ॥
सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च।
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥ ७२ ॥
निवृत्तवनवासं तं अयोध्यां पुनरागतम्।
द्रक्ष्यन्ति सुखिनो रामं १शुकं मार्गगतं यथा ॥ ७३ ॥
सत्यमुक्तं दशरथेन शुकं मार्गगतं यथेति। हस्तात् पञ्जराद्वा ग्रहणाशक्यदेशं गतं पुनश्च मार्गंयथावस्थानं गतंप्राप्तं शुकंक्रीडाशुकमिव सर्वाह्लादकं द्रक्ष्यन्तीत्यर्थः ॥ ७३ ॥
१शुक्रंसर्वत्र।
अयं भागः तिलकेऽनूदितः। शुक्रं मार्गगतंइति सर्वत्र पाठो दृश्यते। मौढ्यादिकं विहाय स्वस्थानं प्राप्तं शुक्रमिवेत्यर्थः।
॥ २।६४।७१७३ ॥ ॥ २।६४।७४ ॥
कौसल्ये चित्तमोहेन हृदयं सीदतीव मे।
वेदये न च १संयुक्तः शब्दस्पर्शरसानहम् ॥ ७४ ॥
संयुक्तःइन्द्रियसंयुक्तस्सन् ॥ ७४ ॥
१संयुक्तान्सर्वत्र।
संयुक्तान् इन्द्रियसंयुक्तान् न वेदये न जानेगो।
॥ २।६४।७४ ॥ ॥ २।६४।७५८० ॥
चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे।
क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ॥ ७५ ॥
अयमात्मभवः शोकः मामनाथमचेतनम्।
संसादयति वेगेन यथा कूलं नदीरयः ॥ ७६ ॥
हे राघव महाबाहो हा ममायासनाशन
हा पितृप्रिय मे नाथ हाऽद्य क्वासि गतः सुत ॥ ७७ ॥
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि
हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ ७८ ॥
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ।
राजा दशरथः शोचन् जीवितान्तमुपागमत् ॥ ७९ ॥
तथा तु दीनं कथयन् नराधिपः
प्रियस्य पुत्रस्य विवासनातुरः।
गतेऽर्धरात्रे भृशदुःखपीडितः
तदा जहौ प्राणमुदारदर्शनः ॥ ८० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुष्षष्टितमः सर्गः
नन्द(८०)मानः सर्गः ॥ ८० ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुष्षष्टितमः सर्गः
॥ २।६४।७५८० ॥