त्रिषष्टितमः सर्गः
[ऋषिकुमारवधाख्यानम्] ॥ २।६३।१ ॥
प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः।
अथ राजा दशरथः सचिन्तामभ्यपद्यत ॥ १ ॥
अथ आप्तायै कौसल्यायै एतादृशकारणं मुनिशापं वदति। प्रतिबुद्ध इत्यादि ॥ १ ॥
॥ २।६३।१ ॥ ॥ २।६३।२ ॥
रामलक्ष्मणयोश्चैव विवासात् वासवोपमम्।
आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ २ ॥
उपसर्गःउपप्लवः शोक इति यावत्। आसुरं तमः सूर्यमिवेति। असुरःराहुः, तदीयं आसुरं तमःआवरणशक्तिः, सा यथा सूर्यमावृणोति काले प्राप्ते, तद्वदित्यर्थः ॥ २ ॥
॥ २।६३।२ ॥ ॥ २।६३।३६ ॥
सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः।
विवक्षु १रसितापाङ्गीं स्मृत्वा दुष्कृतमात्मनः ॥ ३ ॥
स राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम्।
अर्धरात्रे दशरथः २संस्मरन् दुष्कृतं कृतम् ॥ ४ ॥
स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः।
कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ ५ ॥
यदाचरति, कल्याणि शुभं वा यदि वाऽशुभम्।
तदेव लभते, भद्रे कर्ता कर्मजमात्मनः ॥ ६ ॥
स्वकृतक्रूरकर्ममूलमेव ईदृशं दुःखं स्वस्येति वदिष्यन् लोकस्थितिं दर्शयतियदित्यादि। तदेव लभते, तल्लभत एव च ॥
१रसितापाङ्गांङ।
सप्तम्यर्थे द्वितीया, प्रापेति शेषो वागो। अत्यन्तसंयोगे वा द्वितीया।
स्थित इति शेषःगो।
२सोऽस्मरत्ङ। च।
॥ २।६३।३६ ॥ ॥ २।६३।७ ॥
गुरुलाघवमर्थानां आरम्भे कर्मणां १फलम्।
दोषं वा यो न जानाति स बाल इति होज्यते ॥ ७ ॥
अर्थानांऐहिकप्रयोजनानां, कर्मणांआमुष्मिकप्रयोजनानां च अनुष्ठीयमानानां फलं प्रति गुरुलाघवंकेनचिदल्पेन हत्यादिकर्मणा महदनिष्टफलं, क्वचित् महताऽपि यागादिना परिमितस्वर्गफलं इत्येवमादिरूपेण, तथा दोषं गुणं वाइदं कर्म अल्पदोषं बहुगुणं इदं तु बहुदोषमल्पगुणमित्येवमादिकं यो न जानाति, स एव बाल इत्युच्यते, न स्तनन्धयः ॥ ७ ॥
कर्मणामारम्भेआरम्भसमये अर्थानांफलानां गुरुलाघवंगुरुत्वं लघुत्वं च, फलं दोषं वा फलं फलहानिं वा, यद्वा सुखरूपतां दुःखरूपतां वा, यो न जानातिगो। सुखंऽ इति पाठेतु कर्मणामारम्भे अर्थानां गुरुलाघवं, सुखं दोषंदुःखं वेति स्वरसः अर्थः। फलमिति पाठेऽपि फलपदं गुणपदवत् सत्फलपरम्।
१सुखम्ङ।
॥ २।६३।७ ॥ ॥ २।६३।८ ॥
कश्चिदाम्रवणं छित्वा पलाशांश्च निषिञ्चति।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ ८ ॥
आम्रवणं छित्वेति। पलाशोपरोधनिवृत्त्यर्थमिति शेषः। पुष्पं दृष्ट्वेति। प्रस्फुटस्थूलपुष्पत्वात् महत् फलमतो भविष्यतीति बुध्वेत्यर्थः ॥
लोके कश्चित्पुरुषः पुष्पं दृष्ट्वा फले गृध्नुःसाभिलाषः सन् अधिकवर्णमहापुष्पवत्त्वात् तदनुगुणमहाफलं भविष्यतीति साभिलाषः इत्यर्थः, आम्रवणं चूतवनं अल्पनिर्वर्णपुष्पकं छित्वा पलाशोपरोधपरिहारार्थं छित्वा, पलाशांश्च किंशुकानेव निषिञ्चतिजलसेचनादिना पोषयति सः फलागमे फलप्राप्तिकाले सति अनुपभोग्यफलदर्शनात् शोचतिगो।
॥ २।६३।८ ॥ ॥ २।६३।९ ॥
अविज्ञाय फलं यो हि कर्म त्वेवानुधावति।
स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥ ९ ॥
किंशुकदृष्टान्तं दार्ष्टान्तिके योजयतिअविज्ञायेत्यादि। फलमिति। क्रियमाणकर्मणो भाविफलमित्यर्थः ॥ ९ ॥
स्वकर्मानुगुणमेव धावतीत्यर्थः।
॥ २।६३।९ ॥ ॥ २।६३।१० ॥
सोऽहमाम्रवणं छित्वा पलाशांश्च न्यषेचयम्।
रामं फलागमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥ १० ॥
कर्मणो वा प्रागुक्तस्य तथा प्रागुक्तलौकिकार्थस्य वाऽस्तु तत्प्रकृते किमायातमित्यत्राहसोऽहमित्यादि। फलागम इति। पारलौकिककालान्तरभाविफलप्राप्तावाम्रवत् वर्धितमिति शेषः ॥ १० ॥
आम्रवणं छित्वेत्यनेन अभिषेकविघातपूर्वकरामविवासनं लक्ष्यते। पलाशांश्च न्यषेचयमित्यनेन कैकेयीप्रियकरणं लक्ष्यतेगो। वस्तुतस्तुवक्ष्यमाणशब्दवेधमूलकमुनिकुमारवधेऽयं दृष्टान्तः। स्पष्टमिदं १३ श्लोके।
॥ २।६३।१० ॥ ॥ २।६३।११ ॥
लब्धशब्देन, कौसल्ये कुमारेण धनुष्मता।
कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥ ११ ॥
अथ यदाचरतिऽ (श्लो६) इत्याद्युक्तलेकस्थितिफलमाहलब्धशब्देनेत्यादि। हे कौसल्ये कुमारेण धनुष्मता, कुमारःअजकुमारः दशरथः शब्दवेधीति लोके लब्धशब्देनलब्धकीर्तिना मया इदं वक्ष्यमाणरूपं पापं कृतम् ॥ ११ ॥
॥ २।६३।११ ॥ ॥ २।६३।१२ ॥
तदिदं मेऽनुसम्प्राप्तं, देवि दुःखं स्वयं कृतम्।
१सम्मोहादिह बालेन यथा स्यात् भक्षितं विषम् ॥ १२ ॥
ननु बाल्ये, तत्राप्यज्ञानात् कृतस्य कर्मणः कथमेवं फलं प्राप्तमित्यत्र दृष्टान्तबलेन बोधयतिसम्मोहादित्यादि। सम्मोहादिह सम्मोहादेव। बाल्येन हेतुना भक्षितं विषमिति। हन्त्येवेति शेषः। एवं स्वकृतदुष्कृतं दुःखं प्रापयत्येव ॥ १२ ॥
१सस्नेहादिव बाल्येनङ।
॥ २।६३।१२ ॥ ॥ २।६३।१३ ॥
यथाऽन्यः पुरुषः कश्चित् पलाशैर्मोहितो भवेत्।
एवं ममाप्यविज्ञातं शब्दवेध्य १मिदं कृतम् ॥ १३ ॥
तथा स्वविचारदौर्बल्यमूलमपि जाड्यं स्वं प्राप्नोत्येवेत्याहयथाऽन्य इत्यादि। कश्चित्प्राकृत इति यावत्। पलाशैःतत्पुष्पैः। मोहितो भवेत् एवं कैकेयीमोहित इति शेषः। अथाज्ञानकृतस्यापि महापातकस्य फलं विषपानवदावश्यकमित्युक्तमर्थमुपसंहरतिएवमित्यादि। शब्दमात्रगम्यं वेध्यंलक्ष्यं यस्य, येन वा स तथा। शब्दवेधी शब्दवेध्य इत्यनर्थान्तरम्। अत एवं शब्देवध्यत्वरूपं सामर्थ्यं प्राप्य यत् कर्म अविज्ञातं सत्अबुद्धिपूर्वकं कृतं, तस्य दुष्कर्मण इदं फलमित्यर्थः ॥ १३ ॥
पलाशैर्मोहितःपलाशकुसुमानि यथा सुन्दराणि तथा तत्फलमपि स्यादिति मोहविशिष्ट इत्यर्थः। प्रकृते कुमारः शब्दवेधीऽ इति ख्यात्या मोहितः।
शब्दवेध्यमयंशब्दवेध्यविकारभूतंतद्धेतुकमित्यर्थःगो।
१मयङ।
शब्दवेध्यमिति शब्दवेधित्वमित्यर्थे आर्षम्ति।
॥ २।६३।१३ ॥ ॥ २।६३।१४ ॥
देव्यनूडा त्वमभवः युवराजो भवाम्यहम्।
ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी ॥ १४ ॥
अथ कदा कीदृशं तच्छब्दवेधित्वमूलप्राप्तं दुष्कर्मेत्यतः तत् प्रतिपादयतिदेवीत्यादि ॥ १४ ॥
॥ २।६३।१४ ॥ ॥ २।६३।१५ ॥
१अपास्य हिरसान् भौमान् तप्त्वा च जगदंशुभिः।
परेताचरितां भीमां रवि २राविशते दिशम् ॥ १५ ॥
प्रावृडनुप्राप्तेत्युक्तं सैव वर्ण्यतेअपास्येत्यादि। अंशुभिः भौमान् रसान् जलादीन् अपास्यनिरस्य शोषयित्वेति यावत्। हितत एव हेतोः तप्त्वातापयित्वा, भूमिमिति शेषः। परेताचरितां भीमां दिशमिति। दक्षिणां दिशमित्यर्थः। आविशतेआविशति स्मेति यावत् ॥ १५ ॥
उपास्यगृहीत्वागो।
१उपास्यङ।
२राचरतेङ।
॥ २।६३।१५ ॥ ॥ २।६३।१६,१७ ॥
उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः।
ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः ॥ १६ ॥
क्लिन्नपक्षोत्तराः स्नाताः कृच्छ्रादिव पतत्त्रिणः।
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥ १७ ॥
कृच्छ्रात्कृच्छ्रादिहेतोः। स्नाता इव क्लिन्नपक्षत्वधर्मेणोत्तराःअधिकाः, वृष्ट्याधिक्यादिति शेषः। वृष्टियुक्तो वातः तथा ॥ १७ ॥
क्लिन्नपक्षोत्तराः सिक्तपक्षोपरिभागाः, अत एव स्नाता इव स्थिताः, पतत्त्रिणः वृष्टिवातावधूताग्रान् वृष्टिवाताभ्यां कम्पिताग्रानपि पादपान् कृच्छ्रात्क्लिन्नपक्षत्वेन यत्नात् अभिपेदिरेआरूढाःगो।
॥ २।६३।१६,१७ ॥ ॥ २।६३।१८ ॥
पतितेनाम्भसाच्छन्नः पतमानेन चासकृत्।
आबभौ मत्तसारङ्गः तोयराशिरिवाचलः ॥ १८ ॥
पतमानेनेति। पततेति यावत्। मत्ताः सारङ्गाःहरिणाः यस्मिन् स तथा। चातके हरिणे पुंसि सारङ्गः शबले त्रिषुऽ ॥ १८ ॥
तोयराशिःसमुद्रःगो।
॥ २।६३।१८ ॥ ॥ २।६३।१९ ॥
पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि।
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत्१ ॥ १९ ॥
गिरिधातुभ्यो हेतुभ्यः, विमलान्यपि स्रोतांसि क्वचित् पाण्डुरवर्णानि तथाविधधातुसम्बन्धात्, क्वचित् अरुणानि तथाविधधातुसम्बन्धात्, क्वचित् सभस्मानि दावभस्मसम्बन्धात्, भुजङ्गवत् कुटिलानि सुस्रुवुः ॥ १९ ॥
भस्मपदं तादृशसूक्ष्मजलकणवाचकं वा।
१एतदनन्तरं आकुलारुणतोयानि स्रोतांसि विमलान्यपि। उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥ ऽ इत्यधिकम्ङ।
॥ २।६३।१९ ॥ ॥ २।६३।२० ॥
तस्मिन्नतिसुखे काले धनुष्मान् इषुमान् रथी।
व्यायामकृतसङ्कल्पः सरयूमन्वगां नदीम् ॥ २० ॥
व्यायामःमृगयाव्यायामःउत्साहः, तत्र कृतसङ्कल्पःकृतनिश्चयस्तथा ॥ २० ॥
॥ २।६३।२० ॥ ॥ २।६३।२१ ॥
निपाने महिषं रात्रौ गजं वाऽभ्यागतं १नदीम्।
अन्यं वा श्वापदं कञ्चित् जिघांसु रजितेन्द्रियः२ ॥ २१ ॥
निपीयते अस्मिन्निति निपानम्, नद्यवतारस्थल इत्यर्थः। जिघांसुरिति। अस्थामिति शेषः ॥ २१ ॥
१मृगम्ङ।
अनेन मृगयाचापल्यमुक्तम्। तेन तस्याः क्षत्त्रधर्मत्वेऽपि न विरोधः।
२एतदनन्तरं तस्मिंस्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः। तत्राहं संवृतं वन्यं हतवान् तीरमागतम् ॥ अन्यं चापि मृगं हिंस्रं शब्दं श्रुत्वाऽभ्युपागतम्।ऽ इत्यधिकंङ।
॥ २।६३।२१ ॥ ॥ २।६३।२२,२३ ॥
अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः।
अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ २२ ॥
ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम्।
शब्दं प्रति जगप्रेप्सुः अभिलक्ष्य १मपातयम् ॥ २३ ॥
गजप्रेप्सुरिति। गजरूपं वेध्यं प्राप्तुमिच्छुस्तथा। शब्दं प्रतिशब्दावगतवेध्यं प्रति तज्जिघांसया शरमुद्धृत्य अभिलक्ष्यमपातयमिति योजना ॥ २३ ॥
१त्वपातयम्ङ।
॥ २।६३।२२,२३ ॥ ॥ २।६३।२४,२५ ॥
अमुञ्चं निशितं बाणं अहमाशीविषोपमम् ॥ २४ ॥
तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः।
हा हेति पततस्तोये बाणाभिहतमर्मणः ॥ २५ ॥
वनौकसःआरण्यकमनुष्यस्येत्यर्थः। बाणाभिहतमर्मणः तोये पततः वनौकसः हा हाइति व्यक्ता वाक् उषसि प्रादुरासीत् ॥
॥ २।६३।२४,२५ ॥ ॥ २।६३।२६ ॥
तस्मिन्निपतिते १बाणे वागभूत् तत्र मानुषी।
कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ॥ २६ ॥
एवं तस्मिन् बाणो निपतिते सति, तत्र विशिष्य मानुषी वागभूत्। कथमित्यत्रकथमित्यादि ॥ २६ ॥
भूमौङ।
॥ २।६३।२६ ॥ ॥ २।६३।२७ ॥
प्रविविक्तां नदीं रात्रौ उदाहासोऽहमागतः।
इषुणाऽभिहतः केन? कस्य वा किं कृतं मया? ॥ २७ ॥
प्रविविक्तांनिर्जनाम्। उदकमाहरतीत्यदाहारः, मन्थौदन৷৷।ऽ इत्यादिना उदकस्य उदादेशः। यद्यपि हारशब्दे परतः उदादेशो विहितः, तथापि एकदेशविकृतमनन्यवदिति भविष्यति। छान्दसो वा दीर्घः। उदहार इत्येव वा। किं कृतमिति। किं अनिष्टं कृतमित्यर्थः ॥ २७ ॥
वाऽपकृतंङ।
॥ २।६३।२७ ॥ ॥ २।६३।२८ ॥
ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः।
कथं नु शस्त्रेण वधो मद्विधस्य वीधीयते ॥ २८ ॥
न्यस्तदण्डस्येति। परित्यक्तप्राणिहिंसस्येत्यर्थः ॥ २८ ॥
न्यस्तदण्डस्यउपरतवाङ्मनः कायसम्बन्धिपरहिंसस्य। दण्डोऽस्त्री शासने राज्ञां हिंसायां दमसैन्ययोःऽ इति विश्वःगो।
॥ २।६३।२८ ॥ ॥ २।६३।२९ ॥
जटाभारधरस्यैव बल्कलाजिनवाससः।
को वधेन ममार्थी स्यात् किं वाऽस्यापकृतं मया ॥ २९ ॥
मम वधेनजटादिना व्यक्तर्षित्वस्य मम वधेन कः पुमान् अर्थीकिञ्चित्प्रयोजनवान् स्यात्। मानुषमांसं कस्यापि मनुष्यस्याप्रयोजनमिति व्यर्थ एव मद्वध इत्यर्थः ॥ २९ ॥
॥ २।६३।२९ ॥ ॥ २।६३।३० ॥
एवं निष्फलमारब्धं केवलानर्थसंहितम्।
न १क्वचित् साधु मन्येत यथैव गुरुतल्पगम् ॥ ३० ॥
केवलानर्थेननिष्प्रयोजनसम्पन्नपापेन संहितम्। क्वचिदिति। इह लोके परत्र वेत्यर्थः ॥ ३० ॥
१कश्चित्ङ।
गुरुतल्पगंगुरुदारगं तल्यं शय्याट्टदारेषुऽ इत्यमरः।
॥ २।६३।३० ॥ ॥ २।६३।३३३ ॥
१नाहं तथाऽनुशोचामि जीवितक्षयमात्मनः।
मातरं पितरं चोभौ अनुशोचामि मद्वधे ॥ ३१ ॥
तदेतन्मिथुनं वृद्धं चिरकालभृतं मया।
मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति ॥ ३२ ॥
वृद्धौ च मातापितरौ अहं चैकेषुणा हतः।
केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥ ३३ ॥
एकेषुणा मातापितरौ हतौ, अहं च हतः इति विपरिणामः। मद्वधेन तयोर्वधस्य सिद्धत्वादित्याशयः। अकृतात्मनाअजितेन्द्रियेण ॥
१नेमंच।
इति वागभूदिति पूर्वेण (श्लो।२५) अन्वयः।
॥ २।६३।३१३३ ॥ ॥ २।६३।३४ ॥
तां गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः।
कराभ्यां सशरं चापं व्यथितस्यापतत् भुवि ॥ ३४ ॥
धर्मानुकाङ्क्षिणःधर्मप्रतीक्षाशीलस्य ॥ ३४ ॥
॥ २।६३।३४ ॥ ॥ २।६३।३५ ॥
तस्याहं करुणं श्रुत्वा बहु लालपतो निशि।
सम्भ्रान्तः शोकवेगेन भृशमासं विचेतनः ॥ ३५ ॥
लालपत इति। यङ्लुगन्तात् शतृप्रत्ययः ॥ ३५ ॥
॥ २।६३।३५ ॥ ॥ २।६३।३६,३७ ॥
तं देशमहमागम्य दीनसत्वः सुदुर्मनाः।
अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ ३६ ॥
अवकीर्णजटाभारं प्रविद्धकलशोदकम्।
पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ॥ ३७ ॥
प्रविद्धंध्वस्तम् ॥ ३७ ॥
॥ २।६३।३६,३७ ॥ ॥ २।६३।३८ ॥
स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थ १चेतसम्।
२इत्युवाच ३ततः क्रूरं दिधक्षन्निव तेजसा ॥ ३८ ॥
त्रस्तं मां नेत्राभ्यामुद्वीक्ष्य ॥ ३८ ॥
१चेतनंच।
२प्रत्युवाचङ।
३वचःच।
॥ २।६३।३८ ॥ ॥ २।६३।३९४१ ॥
किं तवापकृतं, राजन् वने निवसता मया।
जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया ॥ ३९ ॥
एकेन खलु बाणेन मर्मण्यभिहते मयि।
द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ ४० ॥
तौ १कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ।
चिर २माशाकृतां तृष्णां ३कष्टां सन्धारयिष्यतः ॥ ४१ ॥
आशाकृतांआशाआशनंप्राशनं, आशातद्विषयिण्याशा, तया कृतां तन्त्रावृत्त्यादेरन्यतम एषितव्यः बुभुक्षाकृतामिति यावत् ॥
१नूनंच।
आशाकृतांपुत्रो मे जलमाहरिष्यतीत्याशासहिताम्गो।
२माशांच।
३कथंङ।
॥ २।६३।३९४१ ॥ ॥ २।६३।४२ ॥
नूनं न तपसो वाऽस्ति फलयोगः श्रुतस्य वा।
पिता यन्मां न जानाति शयानं पतितं भुवि ॥ ४२ ॥
तपसः श्रुतस्य वेति। मामकस्येति शेषः, पित्र्यस्य चेत्यप्यविरोधः।
॥ २।६३।४२ ॥ ॥ २।६३।४३ ॥
जानन्नपि च किं कुर्यात् अशक्ति रपरिक्रमः।
भिद्यमानमिवाशक्तः त्रातुमन्यो नगो नगम् ॥ ४३ ॥
अशक्तिरपरिक्रम इति। वृद्धान्धत्वादित्याशयः। वातादिना भिद्यमानं नगंवृक्षमित्यर्थः। ॥ ४३ ॥
अपरिक्रमःसञ्चरणशक्तिरहित इत्यर्थः।
नगःगजो वा।
॥ २।६३।४३ ॥ ॥ २।६३।४४ ॥
पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व, राघव
न त्वामनुदहेत् क्रुद्धः वनं वह्निरिवैधितः ॥ ४४ ॥
एधितःवर्धितः ॥ ४४ ॥
॥ २।६३।४४ ॥ ॥ २।६३।४५ ॥
इयमेकपदी, राजन् यतो मे पितुराश्रमः।
तं प्रसादय गत्वा त्वं न त्वां १सङ्कुपितः शपेत् ॥ ४५ ॥
इयमित्यादि। यया एकपद्या मे पितुराश्रमः प्राप्यते, सेयमेकपदीसूक्ष्ममार्गः, सरणिः पद्धतिः पद्या वर्तन्येकपदीति चऽ तया गत्वा तं प्रसादय, यथा चेत् त्वां न सङ्कुपितः शपेत् ॥
स कुपितःच।
॥ २।६३।४५ ॥ ॥ २।६३।४६ ॥
विशल्यं कुरु मां, राजन् मर्म मे निशितः शरः।
रुणद्धि, मृदु सोत्सेधं तीरमम्बुरयो यथा ॥ ४६ ॥
हे राजन् मां विशल्यं कुरु। निशितस्ते शरः मर्मलग्नः सन् मे मर्म रुणद्धिपीडयतीति यावत्। किमिव? मृदुसिकताप्रायं सोत्सेधंउच्छ्रायवत् तीरंनदीतीरं अम्बुरयःनदीपूरवेग इवेत्यर्थः ॥ ४६ ॥
॥ २।६३।४६ ॥ ॥ २।६३।४७ ॥
सशल्यः क्लिश्यते प्राणैः विशल्यो विनशिष्यति।
इति मामाविशत् चिन्ता तस्य शल्यापकर्षणे ॥ ४७ ॥
हे कौसल्ये एवं तेनोक्ते मां चिन्ता आविशत्। कीदृशीत्यतःसशल्य इत्यादि। प्राणैः अस्वस्थैः निरुद्धगमनैश्चेति शेषः ॥ ४७ ॥
तेन च साक्षादेव ब्रह्महत्या मे भवेदिति चिन्तेत्यर्थः।
॥ २।६३।४७ ॥ ॥ २।६३।४८ ॥
दुःखितस्य च दीनस्य मम शोकातुरस्य च।
लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ॥ ४८ ॥
मुनिसुतो लक्षयामासेति। इदानीमस्मदुक्तचिन्तया, अयं मदीयं शल्यं नोद्धरतीति ज्ञातवानित्यर्थः ॥ ४८ ॥
॥ २।६३।४८ ॥ ॥ २।६३।४९ ॥
ताम्यमानः स मां कृच्छ्रात् उवाच १परमार्तवत्।
सीदमानो विवृत्ताङ्गः वेष्टमानो गतः क्षयम् ॥ ४९ ॥
परमार्तवत्परमार्तः सन्। क्षयंशक्तिक्षयम् ॥ ४९ ॥
१परमार्थवत्ङ।
॥ २।६३।४९ ॥ ॥ २।६३।५० ॥
संस्तभ्य शोकं धैर्येण स्थिरचित्तो १भवानघ
ब्रह्महत्याकृतं २पापं हृदयादपनीयताम् ॥ ५० ॥
किमुवाचेत्यतःसंस्तभ्येति। संस्तंभ्येति यावत्। शोकंब्रह्महत्याप्तिजम्। कथं मे स्थिरचित्ततालाभ इत्यतःब्रह्महत्येत्यादि ॥
१भवाम्यहम्ङ।
२तापंङ।
॥ २।६३।५० ॥ ॥ २।६३।५१५३ ॥
न द्विजातिरहं, राजन् मा भूत् ते मनसो व्यथा।
शूद्रायामस्मि वैश्येन जातः, जनपदाधिप ॥ ५१ ॥
इतीव वदतः कृच्छ्रात् बाणाभिहतमर्मणः।
विघूर्णतो विचेष्टस्य वेपमानस्य भूतले ॥ ५२ ॥
तस्य १त्वाताम्यमानस्य तं बाणमहमुद्धरम्।
स मामुद्वीक्ष्य सन्त्रस्तः जहौ प्राणान् तपोधनः ॥ ५३ ॥
आताम्यमानस्य। ताम्यत इति यावत्। मामुद्वीक्ष्य सन्त्रस्त इतिप्राणहरत्वादेव। तपोधन इति। तपोधनकुमार इति यावत् ॥
शूद्राविशोस्तु करणःऽ।
आनम्यमानस्यव्यथया सङ्कुचिताङ्गस्यगो।
१त्वानम्यमानस्य, नानद्यमानस्यङ।
स्वयं नायं तपोधन इत्यभिप्रायेण एवं व्याख्या। परन्तु अनन्तरसर्गाद्यश्लोके वधमप्रतिरूपं तु महर्षेःऽ इति वाक्यं चिन्तनीयमत्र।
॥ २।६३।५१५३ ॥ ॥ २।६३।५४ ॥
जलार्द्रगात्रं तु विलप्य १कृच्छ्रं
मर्मव्रणं सन्ततमुच्छ्वसन्तम्।
ततः सरय्वां तमहं शयानं
समीक्ष्य २भद्रे सुभृशं विषण्णः ॥ ५४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिषष्टितमः सर्गः
अथ कौसल्यां प्रति मुनिकुमारासुक्षयान्तव्यापारजस्वशोकानुवादःजलार्द्रेत्यादि। कृच्छ्रं मर्मव्रणं प्राप्य, विलप्य सन्ततमुच्छ्वसन्तं, ततःतदनन्तरं सरय्वांतत्तीरे मृत्वा शयानं तं वीक्ष्य, हे भद्रे अहं सुभृशं विषण्णोऽभवम्। धर्म(५४)मानः सर्गः ॥ ५४ ॥
१कृच्छ्रात्ङ।
२भद्रेऽस्मिङ।
इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे त्रिषष्टितमः सर्गः
॥ २।६३।५४ ॥