द्विषष्टितमः सर्गः
[कौसल्याप्रसादनम्] ॥ २।६२।१ ॥
एवं तु क्रुद्धया राजा राममात्रा सशोकया।
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ १ ॥
एवं कौसल्या स्वक्रूरवचोभीतस्य राज्ञः अञ्जलिपर्यन्तदैन्यं दृष्ट्वा, अहमपि द्वितीया कैकेयी जाताऽस्मीति भीता राजानमनुनयति। एवन्त्वित्यादि। चिन्तयामासेति। अनयोच्यमानं सत्यं, किमिह कर्तव्यमिति चिन्तितवानित्यर्थः ॥ १ ॥
पूर्वसर्गान्तिमश्लोकोक्तार्थ एव पञ्चभिः श्लोकैः विव्रियते
॥ २।६२।१ ॥ ॥ २।६२।२४ ॥
चिन्तयित्वा स च नृपः मुमोह व्याकुलेन्द्रियः।
अथ दीर्घेण कालेन संज्ञामाप परन्तपः ॥ २ ॥
स संज्ञामुपलभ्यैव दीर्घमुष्णं च निश्वसन्।
कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ॥ ३ ॥
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम्।
यदनेन कृतं पूर्वं अज्ञानात् शब्दवेधिना ॥ ४ ॥
तस्य चिन्तयमानस्येति। एवमतिघोरदुःखसाधनं इह जन्मनि किं वा दुष्कृतं कृतमभूत् इति चिन्तयमानस्येत्यर्थः। यत्पापं कृतमितिमुनिकुमारवधरूपमित्यर्थः। शब्दमेव लक्ष्यं प्राप्य विध्द्यतीति शब्दवेधी राजा, तत्साधनं बाणं च ॥ ४ ॥
॥ २।६२।२४ ॥ ॥ २।६२।५,६ ॥
अमनास्तेन शोकेन रामशोकेन च प्रभुः।
द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत ॥ ५ ॥
दह्यमानः स शोकाभ्यां कौसल्यामाह भूमिपः।
वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ ६ ॥
अवाङ्मुख इति। स्वकृततदप्रियस्मरणलज्जया, भीत्या च ॥
॥ २।६२।५,६ ॥ ॥ २।६२।७ ॥
प्रसादये त्वां, कौसल्ये रचितोऽयं मयाऽञ्चलिः।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ ७ ॥
परेष्विति। शत्रुष्वपीत्यर्थः ॥ ७ ॥
॥ २।६२।७ ॥ ॥ २।६२।८,९ ॥
भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा।
धर्मं विमृशमानानां प्रत्यक्षं, देवि दैवतम् ॥ ८ ॥
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा।
नार्हसे विप्रियं वक्तुं दुःखिताऽपि सुदुःखितम् ॥ ९ ॥
दृष्टः लोकः परोऽवरश्च यया सा तथा ॥ ९ ॥
त्वदपेक्षया सुतरां दुःखितम्। भवत्यास्तु पुत्रवियोगमात्रशोकः, मम तु तेन सह अहमेव तस्य कारणमभवम्ऽ इति शोकातिशयोऽपि ॥
॥ २।६२।८,९ ॥ ॥ २।६२।१० ॥
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्।
कौसल्या व्यसृजत् बाष्पं प्रणालीव नवोदकम् ॥ १० ॥
प्रणालीप्रासादादौ जलनिर्गमक्लृप्तदारुविशेषः ॥ १० ॥
नवोदकमिति बाष्पस्य कलुषितत्वं सूचयति। द्वित्रवारवर्षानन्तरं तु प्रासादस्य शुद्धत्वात् न तावत्कालुष्यं स्यादिति भावः।
॥ २।६२।१० ॥ ॥ २।६२।११ ॥
सा मूर्ध्नि बध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्।
सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ ११ ॥
त्रस्ताबत ममापि कैकेयीस्वभावः सर्वलोकनाशकः, पतिशोककारिवचनादिकं प्राप्तमिति भीतेत्यर्थः ॥ ११ ॥
॥ २।६२।११ ॥ ॥ २।६२।१२ ॥
प्रसीद शिरसा याचे भूमौ निपतिताऽस्मि ते।
याचिताऽस्मि हता, देव १हन्तव्याऽहं न हि त्वया ॥
भूमौ निपतिताऽस्मीति। साष्टाङ्गं प्रणमामीति यावत्। हे देव त्वया याचिता अहं हताऽस्मि। ईश्वरेणेशितव्यवैपरीत्यं परमान्याय्यं किल, अतोऽहं हताऽस्मि। अतः त्वया हन्तव्या न हिप्रहर्तव्या न हि? एतदपराधशान्तये मत्प्रहार एव भवता कर्तव्यः, दास्या इवेत्यर्थः ॥ १२ ॥
प्रथममेव पुत्रशोकहता, पुनरपि अञ्जलिबन्धनादिना न हन्तव्या। अथ वा प्रसादनोक्त्या पूर्वं हता, वा।
१क्षन्तव्याङ।
॥ २।६२।१२ ॥ ॥ २।६२।१३ ॥
नेषा हि सा स्त्री भवति श्लाघनीयेन धीमता।
उभयोर्लोकयोः, वीर पत्या या सम्प्रसाद्यते ॥ १३ ॥
पत्या याच्यमानत्वसम्पादकं कर्म कुलस्त्रीणां परमनिन्देत्याहनैषा हीत्यादि। सैषा हि न स्त्री भवतिकुलस्त्री न भवति। हे वीर उभयोर्लोकयोः श्लाघनीयेन पत्या या सम्प्रसाद्यते ॥ १३ ॥
सा स्त्री उभयोर्लोकयोर्न भवतिगो।
॥ २।६२।१३ ॥ ॥ २।६२।१४ ॥
जानामि धर्मं, धर्मज्ञ त्वां जाने सत्यवादिनम्।
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ १४ ॥
किमपि भाषितम्। अनुचितमेव भाषितमित्यर्थः ॥ १४ ॥
॥ २।६२।१४ ॥ ॥ २।६२।१५ ॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम्।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥ १५ ॥
शोकस्त्वेवमद्यानुचितव्यवहारप्रवर्तनसमर्थ इत्याहशोक इत्यादि ॥ १५ ॥
॥ २।६२।१५ ॥ ॥ २।६२।१६ ॥
शक्य आपतितः सोढुं प्रहारो रिपुहस्ततः।
सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते १ ॥ १६ ॥
सुसूक्ष्मोऽपि शोकः सोढुमशक्यः, किमु मे महानिति शेषः ॥
॥ २।६२।१६ ॥ ॥ २।६२।१७ ॥
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते।
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम ॥ १७ ॥
स्वकं महाशोकमेव दर्शयतिवनवासायेत्यादि। वनवासं कर्तुं प्रस्थितस्य वने पञ्चरात्रः वासोऽत्र गण्यते। आगङ्गं देशत्वात् गङ्गोत्तरणानन्तरं प्रयागयमुनाचित्रकूटेषु रामवृत्तान्तपरिज्ञानाय गुहेन गङ्गातीरे दिनत्रयं स्थित्वा पश्चाद्दिनद्वयेन राज्ञः समीपमागतं सूतेन। कौसल्या तु गङ्गोत्तरणात् परमेव यथाप्राप्तवनवासदुःखवद्वनवासं पर्यगणयत्। पुरान्निर्गमनप्रभृतिगणने तु सप्तरात्रवृत्तान्तः ॥ १७ ॥
प्रथमायां रात्रौ तमसातीरे, द्वितीयायां जाह्नवीतीरे, तृतीयायां गङ्गादक्षिणतीरस्थवृक्षमूले, चतुर्थ्यां प्रयागे, पञ्चम्यां यमुनातीरे, षष्ठे दिने चित्रकूटे च वासः। तत् ज्ञात्वा तस्मिन्नेव दिवसे सूतः प्रत्यावृत्तवान्। तेन च रामेण गङ्गातरणानन्तरं दिनत्रयं सुमन्त्रेण प्रतीक्षितम्। द्वितीयेऽहनि (आहत्य सप्तमदिने) अयोध्यां प्राप। गङ्गातरणानन्तरं तत्तीरवृक्षमूले (तृतीयरात्र्यां)रामः अद्येयं प्रथमा रात्रिः जाता जनपदात् बहिःऽ इति कथयति। तदारभ्यैव गणनायां पञ्चरात्रोऽद्य गण्यतेऽ इत्युक्तिः कविदृष्ट्या युक्तेव ॥
॥ २।६२।१७ ॥ ॥ २।६२।१८ ॥
तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते।
नदीनामिव वेगेन समुद्रसलिलं महत् ॥
नदीवेगेन समुद्रसलिलवृद्धिरिति, लोके तटाकादौ तथा दृष्टत्वात् उत्प्रेक्षामात्रम्। स तु पूर्णचन्द्रेन वर्धते, वर्षासु ह्नसति च ॥
नदीसमुद्रयोः संगमस्थले परस्परघट्टनया जलमुपरिवृद्धं भवत्येवेति अनुभवसिद्धमेव ॥
॥ २।६२।१८ ॥ ॥ २।६२।१९ ॥
॥ २।६२।२० ॥
एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः।
मन्दरश्मिरभूत् सूर्यः रजनी नाभ्यवर्तत ॥ १९ ॥
१तथा प्रसादितो वाक्यैः देव्या कौसल्याया नृपः।
शोकेन च समाक्रान्तः निद्राया वशमेयिवान् ॥ २० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विषष्टितमः सर्गः
अरि(२०)मानः सर्गः ॥ २० ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विषष्टितमः सर्गः
मनसः संपूर्णकालुष्ये, संपूर्णप्रसादे वा न निद्रायाः प्रसक्तिः, आयासादिमध्यस्थदशायामेव। तदेव पूर्वोत्तरार्धाभ्यां प्रतिपाद्यते। कौसल्यावाक्यात् प्रसादः, पुत्रशोकाच्च विह्वलता, इति अवशनिद्राप्रसक्तिः।
१अथ प्रह्लादितोच।
॥ २।६२।२० ॥
॥ २।६२।१९ ॥