०६१ कौसल्याकृतदशरथनिन्दा

एकषष्टितमः सर्गः

[दशरथोपालंभः] ॥ २।६१।१ ॥

वनं गते धर्मपरे रामे रमयतां वरे।

कौसल्या रुदती साऽऽर्ता भर्तारमिदमब्रवीत् ॥ १ ॥

अथ कौसल्या, स्वस्यां स्वपुत्रं च परमप्रेमवन्तं अथापि सत्यवशात् अचिन्तितोपस्थितत्यागं अत एव राजनि दोषाभावं च अन्तर्ज्ञात्वाऽपि दुःखातिशयाल्लौकिकाश्रयेण राजानमुपालभते। वनं गत इत्यादि। साकौसल्या आर्ताखिन्ना सती ॥ १ ॥

स्वार्ताङ।

॥ २।६१।१ ॥ ॥ २।६१।२ ॥

यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः।

सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ २ ॥

इति ते महद्यशः प्रसिद्धमिति योजना ॥ २ ॥

प्रथितंऽ इत्यनेन पूर्वतनत्वं, तेन एवं कीर्तिं सम्पाद्यापि कथमिदानीमिदमकार्यं कृतमिति च सूचितम्। अथ वा रामप्रव्राजनस्य वृत्तत्वात्, तेन स्वसत्यप्रतिज्ञत्वस्य प्रकटितत्वाच्च। भवद्यशः प्रथितं, परन्तु तौ क्लेशं कथं सहिष्यतः? भवद्यशसः कृते तौ त्वया नाशितौ किलऽ इत्यर्थः ॥

॥ २।६१।२ ॥ ॥ २।६१।३ ॥

कथं, नरवरश्रेष्ठ पुत्रौ तौ सह सीतया।

दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ ३ ॥

अथापि हे नरवरश्रेष्ठ राघवःरघुकुलजः स त्वं सीतया सह तौ पुत्रौ कथं त्यक्तवानिति शेषः। कथं सहिष्यत इत्यनुकृष्य योजना ॥ ३ ॥

॥ २।६१।३ ॥ ॥ २।६१।४,५ ॥

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता।

कथमुष्णं च शीतं च मैथिली प्रसहिष्यते ॥ ४ ॥

भुक्त्वाऽशनं विशालाक्षी सूपदंशान्वितं शुभम्।

वन्यं नैवारमाहारं कथं सीतोप १मोक्ष्यते ॥ ५ ॥

सूपदंशान्वितंशुभव्यञ्जनान्वितम्। नैवारंनीवारसम्बन्धि ॥

दंशःउपसेचनम्।

१भोक्ष्यतिङ।

॥ २।६१।४,५ ॥ ॥ २।६१।६,७ ॥

गीतवादित्रनिर्घोषं श्रुत्वा शुभ १मनिन्दिता।

कथं क्रव्यादसिह्मानां शब्दं श्रोष्यत्यशोभनम् ॥ ६ ॥

महेन्द्रध्वजसङ्काशः क्व नु शेते २महाभुजः

भुजं परिघसङ्काशं उपधाय महाबलः ॥ ७ ॥

महेन्द्रध्वजो नाम इन्द्रधनुः, ध्वजाकारेण कदाचित् परमाभ्युदयनिमित्तत्वेन प्रतिभाति ॥ ७ ॥

१समन्विताच।

इन्द्रधनुर्वत् प्रियदर्शनः।

२सहानुजःङ।

॥ २।६१।६,७ ॥ ॥ २।६१।८ ॥

पद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम्।

कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥

पद्मवर्णंनलिनीदलश्यामवर्णम् ॥ ८ ॥

॥ २।६१।८ ॥ ॥ २।६१।९ ॥

वज्र १सारमिदं नूनं हृदयं मे न संशयः।

अपश्यन्त्या न तं यद्वै २फलतीदं सहस्रधा ॥ ९ ॥

वज्रसारंवज्रवत् कठिनम्। न फलतिन विशीर्यते त्रिफला विशरणे ॥ ९ ॥

१सारमयंङ। च।

२दलतीदंङ।

॥ २।६१।९ ॥ ॥ २।६१।१० ॥

यत् १त्वया करुणं कर्म व्यपोह्य मम बान्धवाः।

निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ १० ॥

त्वया व्यपोह्यमन्त्रिवृद्धादिभिस्सहाविचार्य यत् करुणंशोचनीयं कर्मअनुचितवरदानरूपं कृतं तेन हेतुना मम बान्धवाः कैकेय्या निरस्ताः वने परिधावन्ति ॥ १० ॥

त्वया निरस्ता मम बान्धवाः रामादयः व्यपोह्य नगरं त्यक्त्वा वने परिधावन्तीति यत् एतत् अकरुणं कर्मकरुणाराहित्येन कृतं कर्मेत्यर्थःगो। यद्वा, करुण कर्म व्यपोह्यवर्जयित्वाअकृत्वेति यावत् मम बान्धवाः यत् निरस्ताः त्वया, सुखार्हास्ते कृपणाः वने परिधावन्तीत्यन्वयः।

१त्वयाऽकरुणंङ।

॥ २।६१।१० ॥ ॥ २।६१।११ ॥

यदि पञ्चदशे वर्षे राघवः पुनरेष्यति।

जह्यात् राज्यं च कोशं च भरतेनो १पभोक्ष्यते ॥ ११ ॥

भवतु चतुर्दशवर्षपर्यन्तं वनवासः पश्चाद्राज्यं भविष्यतीत्याशङ्क्य, पश्चादपि न तत्प्राप्तिप्रसङ्गो रामस्येत्याहयदीत्यादिना। पञ्चदशे वर्षे मातृप्रत्याशया यद्यपि राघवः आगमिष्यतीति सम्भावितम्, अथापि भरतोऽपि भ्रातृस्नेहात् न्यायतो वा सलक्ष्मणात् रामात् भीत्या वा राज्यैकदेशं वा तथा कोशं च जह्याद्यदितत्सम्भावनायामपि, यतः तावत्पर्यन्तं भरतेनोपभोक्ष्यते, अतः कनीयसा भुक्तं कथं नावमंस्यते इति अग्रेण (१५ श्लो।) सम्बन्धः ॥ ११ ॥

यस्मात् इदानीं भरतेनोपभुज्यते, अतः जह्यात्। अथवाजह्यात् राज्यं च कोशं चेत्येतत् भरते नोपलक्ष्यतेन सम्भाव्यते। रुढमूलः भरतः न जह्यादित्यर्थः ॥

१पभुज्यते, पलक्ष्यतेङ।

॥ २।६१।११ ॥ ॥ २।६१।१२,१३ ॥

भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान्।

ततः पश्चात् १समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ १२ ॥

तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः।

न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ १३ ॥

वयोगुणादिकनीयसा भुक्तशेषस्य वयोगुणादिश्रेष्ठास्वीकारे दृष्टान्तमाहभोजयन्तीत्यादि। यथा किल केचित् द्विजातयः प्रथमं वयोगुणाधिकान् द्विजातीन् श्राद्धे निमन्त्र्य, पश्चात् स्वीयेषु वयोगुणहीनेष्वपि बान्धवेषु आगतेषु स्वानेव बान्धवान् श्राद्धे बहुदक्षिणेन भोजयन्तिभोजयन्तो दृश्यन्ते ततः पश्चात् स्वीयैः श्राद्धकर्मनिर्वर्तनानन्तरं कृतकृत्याः सन्तः प्राङ्निमन्त्रितानिष्टपङ्क्तौ भोजनार्थं समीक्षन्तेगवेषयन्ते यदा, तदा तत्र प्राङ्निमन्त्रितेषु ये गुणवन्तःश्राद्धापेक्षितगुणवन्तः धर्मशास्त्रज्ञविद्वांसः द्विजातयः पश्चात्पङ्क्तौ सुधामपितथा स्वाद्वन्नमपि सुरोपमास्ते ब्राह्मणा नानुमन्यन्ते ॥ १२१३ ॥

१समीहन्तेङ।

परेभ्यः एतादृशदक्षिणादानमनिच्छन्तः लोभात् स्वीयानेव भोजयन्तीत्यर्थः।

॥ २।६१।१२,१३ ॥ ॥ २।६१।१४ ॥

ब्राह्मणेष्वपि १तृप्तेषु पश्चात् भोक्तुं द्विजर्षभाः।

नाभ्युपैतुमलं प्राज्ञाः २शृङ्गच्छेदमिवर्षभाः ॥ १४ ॥

ननु कुतो नानुमन्यन्ते? ब्राह्मणशेषभोजने शूद्रशेषवत् दोषाभावात्, इत्यत्राहब्राह्मणेष्वित्यादि। ३पूर्वतृप्तेषु ब्राह्मणेषु सत्स्वपि द्विजर्षभाःवयोगुणाधिकाः द्विजश्रेष्ठाः पश्चात् भोक्तुमिच्छां अभ्युपैतुं नालंनसमर्थाःनेच्छन्तीति यावत्। कुत इत्यतःप्राज्ञा इत्यादि। ऋषभाः शृङ्गच्छेदमिव निजावमानं प्राज्ञाःप्रेदाज्ञःऽ इति कर्मण्यण्, अतो नानुमन्यन्ते ॥ १४ ॥

१भुक्तेषुङ, वृत्तेषु भुक्तशेषंच।

२यद्वाशृङ्गंअग्रं, शृङ्गे छेदः यस्य तत् शृङ्गच्छेदंछिन्नाग्रं तृणम्। यथा वृषभाः वृषभान्तरजग्धाग्रं तृणं भोक्तुं नालं तद्वदित्यर्थः। शृङ्गच्छेदमिति वृषभक्षिताग्रतृणनामेत्यप्याहुःगो।

३पूर्वं तृप्तानां ब्राह्मणत्वेऽपीत्यर्थः।

॥ २।६१।१४ ॥ ॥ २।६१।१५ ॥

एवं कनीयसा भ्रात्रा भुक्तं राज्यं, विशांपते

भ्राता ज्चेष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥ १५ ॥

अथ दार्ष्टान्तिके योज्यतेएवमित्यादि। विशांपतेप्रजानाथ ज्येष्ठो वयसा, अतिशयेन गुणैरुरुःवरिष्ठः प्रियस्थिरऽ इत्यादिना उशेः वरादेशः। किमर्थं नावमंस्यतेसर्वथा अवमंस्यत एव। ततश्चागतोऽपि कृशश्रोत्रियद्विजवदेव मज्जीवनपर्यन्तमिहावस्थास्यते इत्युक्तं भवति ॥ १५ ॥

नावमन्यतेच।

॥ २।६१।१५ ॥ ॥ २।६१।१६ ॥

न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति।

एवमेव नरव्याघ्रः १परालीढं न मंस्यते ॥ १६ ॥

पुनरपि दृष्टान्तविशेषैः उक्त एवार्थः स्थाप्यतेन परेणेत्यादि। २आहृतमिति। क्रोष्टादिखादिनशेषमित्यर्थः ॥ १६ ॥

१परालीढंइतरास्वादितम्।

२परलीढंङ।

३अत्र मातृकायां इदमितिऽ इति प्रतीकं दृश्यते। परन्तु तादृशपाठस्य मूलेऽदर्शनात् औचित्याच्च एवं निवेशितम्।

॥ २।६१।१६ ॥ ॥ २।६१।१७ ॥

हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः।

नैतानि यातयामानि कुर्वन्ति पुनरध्वरे१ ॥ १७ ॥

नैतानीत्यादि। एतानि हविरादीनि एस्मिन् अध्वरे विनियोगेन यातयामानि पुनरध्वरेअध्वरान्तरे विनियुक्तानि यथा न कुर्वन्ति, तथा ह्यन्येनाप्तमिदं राज्यं रामो नाभिमन्तुमलम्। यद्यपि मन्त्राः कृष्णाजिनं दर्भाःऽ इत्यादिस्मृत्या दर्भविशेषाणां कुशानामयातयामत्वं सामान्यतः प्राप्तम् अथापि महाध्वरविनियुक्तानामध्वरान्तरे विनियोगो निषिद्ध एव। ब्रह्मयज्ञे तु ये दर्भा विनियुक्ता न तेऽन्यतःऽ इति वन्निषेधोऽस्मादेव वचनात् सिद्धः कुशानामपि ॥ १७ ॥

मन्त्राः कृष्णाजिनं दर्भाःऽ इत्याद्ययातयामत्वबोधकवचनेषु दर्भादिशब्दाः कुशादिव्यतिरिक्तपराःगो।

१एतदनन्तरं तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव। नाभिमन्तुमलं रामः नष्टसोममिवाध्वरम् ॥ न चेमां धर्षणां रामः संगच्छेदत्यमर्षणः। दारयेन्मन्दरमपि स हि क्रुद्धः शितैः शरैः ॥ त्वां तु नोत्सहते हन्तुं महात्मा पितृगौरवात्। ससोमार्कग्रहगणं नभस्ताराविचित्रितम् ॥ पातयेद्यो दिवं क्रुद्धः स त्वां न व्यतिवर्तते। प्रक्षोभयेद्दारयेद्वा महीं शैलशताचिताम् ॥ ऽ इत्यधिकंङ।

॥ २।६१।१७ ॥ ॥ २।६१।१८ ॥

नैवंविधमसत्कारं राघवो मर्षयिष्यति।

बलवानिव शार्दूलः वालधेरभिमर्शनम् ॥ १८ ॥

वालधिःबालकाण्डः ॥ १८ ॥

केशविशिष्टो वालः वालधिरिति केचित्।

॥ २।६१।१८ ॥ ॥ २।६१।१९ ॥

नैतस्य सहिता लोकाः भयं कुर्युर्महामृधे।

अधर्मं त्विह धर्मात्मा लोकं १धर्मे तु योजयेत् ॥ १९ ॥

शार्दूलवत् बलवत्त्वमेव दर्शयतिनैतस्येत्यादि। सहिताःदेवासुरसहिता लोकाःप्रतियोधाः। अपि च न केवलं देहबलमात्रं, धर्मबलमपीत्याहअधर्ममित्यादि। अधर्मंअधर्मप्रवृत्तं लोकमपि धर्मे तु योजयेत् किमु तस्य धर्मनिष्ठतायाम् ॥ १९ ॥

धर्मेणङ।

॥ २।६१।१९ ॥ ॥ २।६१।२० ॥

नन्वसौ काञ्चनैर्बाणैः महावीर्यो महाभुजः।

युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ २० ॥

महाबलत्वञ्चानुभवसिद्धमेवास्यापीत्याहनन्वित्यादि। काञ्चनैःकाञ्चनरुषितपुङ्खैः। युगान्तःतत्कालः ॥ २० ॥

॥ २।६१।२० ॥ ॥ २।६१।२१ ॥

स तादृशः सिह्मबलः वृषभाक्षो नरर्षभः।

स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ २१ ॥

तर्हि तादृशः कथं राज्यं न गृह्णाति स्वबलादेवेत्यत्राहस तादृश इत्यादि। त्वया स्वयं स्वपुत्रो हतःभ्रष्टराज्यः कृतः। तेन तु धर्मप्रधानत्वात् त्वद्वचनात् बलात्कारो न क्रियते। पुत्रः पित्रा हत इत्यत्र दृष्टान्तःजलजेनेत्यादि। जलजःमत्स्यः, स यथा आत्मजानेव भक्षयति तद्वदित्यर्थः ॥ २१ ॥

॥ २।६१।२१ ॥ ॥ २।६१।२२२४ ॥

द्विजातिचरितो धर्मः शास्त्रदृष्टः १सनातनः।

यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ २२ ॥

गतिरेका पतिर्नार्याः द्वितीया गतिरात्मजः।

तृतीया ज्ञातयः, राजन् चतुर्थी नेह विद्यते ॥ २३ ॥

२तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः।

न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ २४ ॥

एवञ्च अहमेव हतेत्याहद्विजातीत्यादि। शास्त्रदृष्टः द्विजातिभिःत्रैवर्णिकैः चरितः सनातनो धर्मो यदि तेऽस्ति, तदा तु त्वया धार्मिकः पुत्रः न विवासनीयः। एवं धर्ममुपेक्ष्य त्वया धर्मनिरते पुत्रे विवासिते सति गतिरेकः पतिःऽ इत्यादिशास्त्रोच्यमानाः याः गतयः सन्ति, तासु गतिषु प्रथमगतिभूतस्त्वं च मम नास्त्येव सपत्नीवशगत्वेन त्वच्छुश्रूषाया मे दुर्लभत्वात्। रामश्च द्वितीयगतिभूतः वनमाश्रितः न च तत्प्राप्तये वनं गन्तुमिच्छामि, सपतिकत्वात्। हियस्मादेवं, तस्मात् सर्वथा त्वया हता ॥ २२२४ ॥

धर्मनिरते पुत्रे त्वया विवासिते सति द्विजातिचरितःशिष्टत्रैवर्णिकाचरितः शास्त्रदृष्टः सनातनो धर्मः ते यदिअस्ति किमित्यर्थेऽव्ययमिदम्गो। यद्वा नकारोऽत्राध्याहर्तव्यः। ते धर्मनिरत इत्यत्र अधर्मनिरत इति च्छेदः। शास्त्रदृष्टः द्विजातिचरितःराजर्षिभिराचरितः सनातनो धर्मः ते पुत्रे यदि न स्यात्, तर्ह्यधर्मनिरते तस्मिन् त्वया विवासिते यद्युक्तं भवेत्, न चैवमिति भावःती। अथवा द्विजातिचरितो धर्मःऽ इति कथ्यमानः धर्मःसमनन्तरश्लोकोक्त एव विवक्षितः। एतादृशो धर्मः ते यदि, तर्हि भवतैव सोऽपि नाशित इत्यर्थः। अत्र तृतीयगतेः बन्धुजनस्य अभावः पूर्वमेव सिद्ध इत्यभिप्रायेण तदनुत्कीर्तनम्। कैकेयीबन्धुजनकेकयादिराजवत् कौसल्यापितृ़णां दशरथस्य च व्यवहारसम्बन्धः तदा नासीदित्यवगम्यते। अत एव प्रथमसर्गे रामाभिषेकाय राज्ञामाह्वानप्रकरणे केकयजनकयोरेव प्रस्तावो दृश्यते (अयो। १४८)। अथ वा कौसल्यायाः ज्येष्ठपत्नीत्वात् वृद्धात्वात् तज्जनकानां अतिक्रान्तत्वमप्यूहितुं शक्यते। एवं पत्या बन्धुभिश्च परित्यक्तायाः स्त्रियः पुत्र एव गतिरिति धर्मः अस्त्येव भवतोऽपि। भवताऽप्यङ्गीकृत इति भावः। स तु धर्मः भवतैव नाशित इति भावः ॥

१पुरातनैःङ।

२तत्र त्वं मम नैवासिङ।

नास्तिनासि। अथ वा विधेयप्राधान्यात् त्वं गतिः नास्तिऽ इति निर्देशः।

॥ २।६१।२२२४ ॥ ॥ २।६१।२५ ॥

हतं त्वया राज्यमिदं सराष्ट्रं

१हतस्तथाऽऽत्मा सह मन्त्रिभिश्च।

हता सपुत्राऽस्मि हताश्च पौराः

सुतश्च भार्या च तव प्रहृष्टौ ॥ २५ ॥

सुतश्च भार्या चेति। केवलं कैकेयीभरतावेव प्रहृष्टावित्यर्थः ॥

१हताः स्म सर्वाः सहङ।

कैकेयीभरतयोरेव तवाभिमानसत्त्वात् तव भरत एक एव सुतः, कैकेय्येकैव भार्यइति शोकादुक्तिः।

॥ २।६१।२५ ॥ ॥ २।६१।२६ ॥

इमां गिरं दारुणशब्द १संश्रितां

निशम्य २राजाऽपि मुमोह दुःखितः।

ततः स शोकं प्रविवेश पार्थिवः

स्वदुष्कृतं चापि पुन ३स्तदा स्मरन् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकषष्टितमः सर्गः।

सः पार्थिवः शोकं प्रविवेशगतवान्। स्वं दुष्कृतंवक्ष्यमाणम्। तरु(२६)मानः सर्गः ॥ २६ ॥

कौसल्यायाः परुषं वाक्यं श्रुत्वा मोहमाप। कथञ्चिल्लब्धसञ्ज्ञः स्वदुष्कृतं स्मरन् पुनः शोकं प्रविवेश ॥

१संहितांच।

२रामेतिच।

३स्तथाऽस्मरत्च।

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे एकषष्टितमः सर्गः।

॥ २।६१।२६ ॥