षष्टितमः सर्गः
[कौसल्यासमाश्वसनम्] ॥ २।६०।१ ॥
ततो भूतोपसृष्टेव वेपमाना पुनः पुनः।
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ १ ॥
अथ भर्तुर्दुर्दशापत्तिभीतायाः कौसल्यायाः सुमन्त्रेणाश्वासनम्। तत इत्यादि। गतसत्त्वेवगतप्राणेव। द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषुऽ ॥ १ ॥
भूतोपसृष्टेवभूतगृहीतेव धरण्यां पतिता कौसल्या इत्यन्वयः।
॥ २।६०।१ ॥ ॥ २।६०।२६ ॥
नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः।
तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ २ ॥
निवर्तय रथं शीघ्रं दण्डकान् नय मामपि।
अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम् ॥ ३ ॥
बाष्पवेगोपहतया स वाचा सज्जमानया।
इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ ४ ॥
त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा।
व्यवधूय च सन्तापं वने १वसति राघवः ॥ ५ ॥
लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने।
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ ६ ॥
रामस्य पादौ आराधयति। किमर्थम्? परलोकमुद्दिश्य ॥ ६ ॥
यमक्षयं गमिष्यामीति कौसल्या सूतमब्रवीत् इति पूर्वेण (श्लो।२) अन्वयः।
१वत्स्यतिङ।
रामस्य पादौ परिचरन् परलोकं आराधयतिसम्पादयतिगो। ति।
॥ २।६०।२६ ॥ ॥ २।६०।७,८ ॥
विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव।
विस्रम्भं लभतेऽभीता रामे सन्न्यस्तमानसा ॥ ७ ॥
नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि १लक्षये।
उचितेव प्रवासानां वैदेही प्रतिभाति २मे ॥ ८ ॥
कृतमिति। वनवासकृतमिति यावत् ॥ ८ ॥
१लक्ष्यतेच।
२माङ।
॥ २।६०।७,८ ॥ ॥ २।६०।९,१० ॥
नगरोपवनं गत्वा यथा स्म रमते पुरा।
तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ ९ ॥
बालेव रमते सीता बालचन्द्रनिभानना।
रामा रामे १ह्यधीतात्मा २विजनेऽपि वने सती ॥ १० ॥
बालेवेति दुःखापरिज्ञाने दृष्टान्तः। न तस्या आधिजदुःखमस्ति, अप्ररूढदेहाभिमानत्वात्। राम एव आरामःरामारामः, तस्मिन् ह्यधीतंअधिपूर्वादिणो निष्ठाप्रतिष्ठितः आत्माअन्तःकरणं यस्याः सा तथा, डाबुभाभ्यामिति डाप्। २विजनेऽपि वने रमत इत्यनुकर्षः ॥ १० ॥
अबालचन्द्रनिभाननाऽ इति च्छेदःति। गो। दर्शोत्तरदिनवर्तिनः कलामात्रावशिष्टस्य चन्द्रस्य मुखदृष्टान्तत्वानुपपत्तेः तथा व्याख्यातम्। वस्तुतस्तु बालचन्द्रशब्दः नात्र दर्शोत्तरदिनचन्द्रविषयः, किन्तु बालार्क इत्यादिवत् उदयकालिकचन्द्रविषयः। एवञ्च पौर्णम्यामेव आह्लादकरत्वातिशयवैपुल्यादिगुणविवक्षया बालचन्द्रनिभाननेत्युक्तम्।
रामा इति पृथक्पदंरामेअधीनात्माआसक्तचित्तेत्यर्थःगो।
१ह्यधीनात्माङ। ह्यदीनात्माच।
२निर्जनेङ।
॥ २।६०।९,१० ॥ ॥ २।६०।११ ॥
तद्गतं हृदयं ह्यस्याः तदधीनं च जीवितम्।
अयोध्याऽपि भवेत्तस्याः रामहीना तथा वनम् ॥ ११ ॥
तथा रमणे हतुःतद्गतमित्यादि ॥ ११ ॥
रामहीना अयोऽध्यापि तस्याः सीताया वनं भवेदित्यन्वयः।
॥ २।६०।११ ॥ ॥ २।६०।१२,१३ ॥
१पथि पृच्छति वैदेही ग्रामांश्च नगराणि च।
गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि ॥ १२ ॥
रामं वा लक्ष्मणं वाऽपि २दृष्ट्वा जानाति जानकी ॥
अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ॥ १३ ॥
अयोध्यायाः क्रोशमात्रं तथा, तस्मिन्। अतीते इति शेषः ॥
१परिच।
२पृष्ट्वाङ।
अयोध्याया अतिसमीपे विद्यमानमुद्यानं संश्रितेव सीता निर्भया वर्तत इति भावः।
॥ २।६०।१२,१३ ॥ ॥ २।६०।१४ ॥
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम्।
कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ १४ ॥
अथ सीतायाः परमदुःखकारिणीं कैकेयीं प्रति सीता किं ब्रुवाणा तिष्ठति? कृष्णकंसादिवदतिवैरप्रसङ्गस्यावश्यकत्वादित्यपेक्षायामाहइदमित्यादि। अस्याः सीतायाः सहसैवद्रागेव यदुपजल्पितमभूत् कैकेयीविषयकंइदं स्मराम्येव। अथापि कैकेयीसंश्रितं तद्विषयवाक्यं मां प्रति नेदानीं प्रतिभाति। पथि गच्छता पक्ष्यादिशब्दवदनादरतः निर्विकल्पकज्ञानमात्रस्यैव वृत्तत्वतः संस्कारदार्ढ्याभावात् तत्स्मृत्यभाव इत्यर्थः ॥ १४ ॥
कैकेयीनिन्दारूपं सीतयोक्तं वचनं, कौसल्यायाः प्रियं स्यादिति मत्वा तद्वक्तुमुपक्रम्य तस्यानर्थपर्यवसानं स्मरन् तस्मादुपरतोऽभूत्सुमन्त्रः। ननु तादृशमत्यन्तगोपनीयं, कैकेयीनिन्दारूपमपि कौसल्यायाः दुःखकरं वाक्यं किं स्यादिति शङ्कायांअत्र गोविन्दराजःउत्तरत्र कच्चित् सकामा कैकेयी सुखिता सा भविष्यति। या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनीऽ यदभिप्रेतमस्मासु प्रियं वरवृत्तं च यत्। कैकेय्यास्तत्सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मणऽ इत्यादिरामवचनस्य, सकामा भव कैकेयि हतोऽयं कुलनन्दनःऽ इत्यादिसीतावचनस्य च पर्यालोचनेन अयमर्थः प्रतीयते। भरताभिषेकवरणमात्रेणैव स्वाभीष्टसिद्धेः कैकेयी किमर्थं रामप्रवासनमवृणीत? तथा वरयन्त्याः कैकेय्या अयमाशयः स्यात् भरतराज्यप्राप्तिमात्रं नालं, यतः रामगुणपरवशो लोकः क्षुभितो भवेत्। अतो रामविवासनमावश्यकम्। कतिपयवर्षानन्तरं रामस्य वनात्प्रतिनिवर्तनेऽपि भरतस्य राज्यं नश्येत्। अतः रामविवासने, सीताऽपि तं नूनमनुगच्छेत् तथा चारण्ये नूनं रामो विपन्नो भवेत्, एवं रामस्य पुनरावृत्तिरसंभाविनीऽ इति। एवं छद्मनैव कैकेय्या रामविवासनं वृतमिति रामसीतादिभिरप्यवगतमेवेति पूर्वोक्तवचनैः ज्ञायते। एतदनुगुणैव सीतावचनमपि पूर्वं स्यात्। अत एव पूर्वं जानकी तु महाराजऽ (४८३४) इत्यादि। एवं रामप्रतिनिवृत्तिः सन्दिग्धेति गङ्गायमुनावटवृक्षादिप्रार्थनयाऽपि ऊह्यते। एतादृशभावानुवादकसीतावाक्यस्य इदानीं कौसल्यासमीपे कथनं तस्या अपि भयजनकं स्यादिति मत्वा सुमन्त्रः निह्नुतवान् इति ज्ञायतेइत्याह। अधिकं गोविन्दराजीय एव द्रष्टव्यम्।
॥ २।६०।१४ ॥ ॥ २।६०।१५ ॥
ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम्।
ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ १५ ॥
एवञ्च न ब्रूयात् सत्यमप्रियम्ऽ इति न्यायेन सकामा भव कैकेयिऽ इत्यादिकं सीतावचनं दुःखकालीनं दुःखहेतुत्वादेव नोदाजहारेत्याह कविःध्वंसयित्वेत्यादि। प्रमादात्विस्मरणात् आगतं तद्वाक्यं ध्वंसयित्वाप्रच्याव्य देव्याः ह्लादनं मधुरं वचोऽब्रवीत् ॥ १५ ॥
॥ २।६०।१५ ॥ ॥ २।६०।१६,१७ ॥
अध्वना वातवेगेन संभ्रमेणातपेन च।
न विगच्छति वैदेह्याः चन्द्रांशुसदृशी प्रभा ॥ १६ ॥
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्।
वदनं तद्वदान्यायाः वैदेह्या न विकम्पते ॥ १७ ॥
शतप्रत्रं कुशेशयम्ऽपद्मम् ॥ १७ ॥
॥ २।६०।१६,१७ ॥ ॥ २।६०।१८ ॥
अलक्तरसरक्ताभौ अलक्तरसवर्जितौ।
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥ १८ ॥
अलक्तरसरक्ताभौ, पूर्वमिति शेषः ॥ १८ ॥
अलक्तरसवर्जितावपि अलक्तरसवत् रक्ताभौ इति वा अर्थः।
॥ २।६०।१८ ॥ ॥ २।६०।१९ ॥
नूपुरो १त्कृष्टहेलेव खेलं गच्छति भामिनी।
इदानीमपि वैदेही २तद्रागान्यस्तभूषणा ॥ १९ ॥
नूपुरेणतद्ध्वनिना उत्कृष्टातिरस्कृता हेलाहंसादिलीलागमनं यया सा तथा। सखेलंसविलासम्। तद्रागात्भर्तृप्रीतिप्रयोजकभूषणानुरागात् अन्यस्तानिअत्यक्तानि भूषणानि यया सा तथा ॥
तद्रागात्नूपुरविषयस्नेहात् न्यस्तभूषणाचरणाद्यवयवेष्वर्पितभूषणा नूपुरोत्पन्नस्वनानुकारिलीलायुक्तेव, खेलंसलीलं गच्छति। ৷৷। यद्वा तद्रागात्रामेण सहागमनकौतुकात् न्यस्तभूषणाउत्सृष्टनूपुराऽपि नूपुरोत्कृष्टहेलेवनूपुरसञ्चितविलासेवगो। तद्रागेणभर्तृप्रीतिप्रयोजकभूषणानुरागेण अन्यस्तानिअत्यक्तानि भूषणानि ययाति
१द्धुष्टङ।
२तद्रागान्न्यस्तङ।
॥ २।६०।१९ ॥ ॥ २।६०।२० ॥
गजं वा वीक्ष्य सिह्मं वा व्याघ्रं वा वनमाश्रिता।
नाहारयति संत्रासं बाहू रामस्य संश्रिता ॥ २० ॥
आहारयतिसम्प्राप्नोति। एवं सर्वत्रात्र कोपमाहारयत्ऽ इत्यादौ ॥ २० ॥
॥ २।६०।२० ॥ ॥ २।६०।२१ ॥
न शोच्यास्ते न १चात्मा ते शोच्यो नापि जनाधिपः।
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ २१ ॥
यदेवं, अतः तेरामादयो न शोच्याः। अत एव आत्मा तेतावकोऽपि न शोच्यः। तेषां सुखश्रवणेन जनाधिपोऽपि जीविष्यतीति सोऽपि न शोच्यस्त्वया। इतश्च न शोचनीयांश इत्याहइदं हीत्यादि। प्राप्तमपि राज्यं महाबलोऽपि परित्यज्य पितृवचनमपालयदिति, तथा स्वार्थमुद्दिश्य भर्तारमपि परित्यज्यातिघोरं कृतवती कैकेयीति कीर्त्यपकीर्तिरूपं युष्माकं चरितं लोके प्रतिष्ठास्यति। अतो युष्माकं अतः परमभ्यधिकं श्रेयश्च। अतो न शोचनीयमित्यर्थः ॥ २१ ॥
आत्मानःवयंगो।
१चात्मानःङ।
॥ २।६०।२१ ॥ ॥ २।६०।२२,२३ ॥
विधूय शोकं परिहृष्टमानसाः
महर्षियाते पथि सुव्यवस्थिताः।
१वने रता वन्यफलाशनाः पितुः
शुभां प्रतिज्ञां २परिपालयन्ति ते ॥ २२ ॥
तथाऽपि सूतेन सुयुक्तवादिना
निवार्यमाणा सुतशोककर्शिता।
न चैव देवी विरराम कूजितात्
प्रियेति पुत्रेति च राघवेति च ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षष्टितमः सर्गः
तथापीति। अतः सूतोक्तं युक्तमिति गृहीतवत्यपीत्यर्थः। न विररामेति। प्रत्यक्षदुःखप्राबल्यादिति शेषः। गिरि(२३)मानः सर्गः ॥ २३ ॥
इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे षष्टितमः सर्गः
१वनेचराङ।
२प्रतिपालङ। च।
॥ २।६०।२२,२३ ॥