०५९ दशरथविलापः

एकोनषष्टितमः सर्गः

[दशरथाक्रन्दः] ॥ २।५९।१ ॥

१मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि।

उष्णमश्रु प्रमुञ्चन्तः रामे सम्प्रस्थिते वनम् ॥ १ ॥

एवं रामवृत्तान्तमुक्त्वा प्रत्यागतेन अनुभूयमानस्वदेशपुरवृत्तान्तमाह सुमन्त्रःमम त्वित्यादि। न प्रावर्तन्तेति। यथापूर्वं रथवहने न उन्मुखा अभूवन् इत्यर्थः ॥ १ ॥

मम वर्त्मनिगो।

१एतत्पूर्वं इति बुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमं। ब्रूह्यशेषं पुनरिति राजा वचनमब्रवीत् ॥ तस्य तद्वचनं श्रुत्वा सुमन्त्रो बाष्पविक्लबः। कथयामास भूयोऽपि रामसन्देशविस्तरम् ॥ जटाः कृत्वा महाराज चीरवल्कलधारिणौ। गङ्गामुत्तीर्य तौ वीरौ प्रयागाभिमुखौ गतौ ॥ अग्रतो लक्ष्मणो यातः पालयन् रघुनन्दनम्।

अनन्तरं च सीताऽथ राघवो रघुनन्दनः ॥ तांस्तथा गच्छतो दृष्ट्वा निवृत्तोऽस्म्यवशस्तदा।ऽ इत्यधिकंङ।

॥ २।५९।१ ॥ ॥ २।५९।२,३ ॥

उभाभ्यां राजपुत्राभ्यां अथ कृत्वाऽहमञ्जलिम्।

प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् ॥ २ ॥

गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून् ।

आशया यदि मां रामः पुनः शब्दापयेदिति ॥ ३ ॥

बहूनिति। दिनत्रयमिति यावत्। किमर्थं तत्र स्थितमित्यत्राहआशयेत्यादि। शब्दापयेत्तत्समीपसञ्चरद्गुहमनुष्यमुखेनाकारयेदपि वेत्याशयेत्यर्थः। शब्दशब्दाण्णौ तत्कृतापुगन्तोऽप्ययमस्ति। अतोऽङ्कापयतीत्यादिवत् सिद्धम् ॥ ३ ॥

वनस्पतिमूले एकदिनं, भरद्वाजाश्रमे द्वितीयं, यमुनातीरे तृतीयं, चतुर्थे चित्रकूटप्रवेशः, पञ्चमे गुहचारैस्तत्सर्वनिवेदनं, षष्ठे सूतनिर्गमः। यद्वा द्वितीयदिने भरद्वाजाश्रमे रामस्य चित्रकूटगमनव्यावसायात् तृतीयदिने चारैर्निवेदनं, चतुर्थे सूतनिर्गमःगो।

॥ २।५९।२,३ ॥ ॥ २।५९।४ ॥

विषये ते, महाराज १रामव्यसनकर्शिताः।

अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ॥ ४ ॥

ते विषयेतव देशे। पुष्पंविकसितकुसुमम्। अङ्कुरःशाखाग्रवर्तिपल्लवोद्भेदः। कोरकःस्तबकः ॥ ४ ॥

१महाव्यसनङ। च।

॥ २।५९।४ ॥ ॥ २।५९।५ ॥

उपतप्तोदका नद्यः पल्वलानि सरांसि च।

परिशुष्कपलाशानि वनान्युपवनानि च ॥ ५ ॥

पलाशंपर्णम् ॥

॥ २।५९।५ ॥ ॥ २।५९।६ ॥

न च सर्पन्ति १सत्त्वानि व्याला न प्रचरन्ति च।

रामशोकाभिभूतं तत् निष्कूजमभवद्वनम् ॥ ६ ॥

निष्क्रान्तः कूजःशब्दः यस्मात् तत्तथा ॥ ६ ॥

१भूतानिङ।

॥ २।५९।६ ॥ ॥ २।५९।७ ॥

लीनपुष्करपत्राश्च, १नरेन्द्र कलुषोदकाः।

सन्तप्तपद्माः पद्मिन्यः लीनमीन विहङ्गमाः ॥ ७ ॥

लीनंसङ्कुचितं पुष्करपत्रंनलिनीदलं यासां तास्तथा ॥ ७ ॥

१नद्यश्चङ। च।

विहङ्गमाः हंसादयः।

॥ २।५९।७ ॥ ॥ २।५९।८ ॥

जलजानि च पुष्पाणि माल्यानि स्थलजानि च।

नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ ८ ॥

स्थलजानि माल्यानिपुष्पाणि। अल्पगन्धीनि, मत्वर्थीय इनिः ॥ ८ ॥

माल्यं पुष्पे पुष्पदाम्निऽ वैजयन्ती।

॥ २।५९।८ ॥ ॥ २।५९।९११ ॥

१अत्रोद्यानानि शून्यानि प्रलीनविहगानि च।

न चाभिरामानारामान् पश्यामि, मनुजर्षभ ॥ ९ ॥

प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति।

नरा राममपश्यन्तः निश्वसन्ति मुहुर्मुहः ॥ १० ॥

देव राजरथं दृष्ट्वा विना राममिहागतम्।

२दुःखादश्रुमुखः सर्वः राजमार्गगतो जनः ॥ ११ ॥

देव इति सम्बुद्धिः ॥ ११ ॥

उद्यानंआक्रीडः। आरामःकृत्रिमवनंगो। स्वस्य नगरप्रवेशानन्तरदृश्यवर्णनाय व्युच्छित्तिविशेषसूचनाय अत्रऽ इत्युक्तं स्यात्।

१पुरोद्यानानिङ।

२दूरादश्रुङ। च।

॥ २।५९।९११ ॥ ॥ २।५९।१२१४ ॥

हर्म्यैर्विमानैः प्रासादैः अवेक्ष्य रथमागतम्।

हाहाकारकृता नार्यः रामादर्शनकर्शिताः ॥ १२ ॥

आयतैर्विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः।

अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः ॥ १३ ॥

नामित्राणां न मित्राणां उदासीनजनस्य च।

अहमार्ततया किञ्चित् १विशेषमुपलक्षये ॥ १४ ॥

नामित्राणामित्यादि। अस्मदाद्यपेक्षयेति शेषः। न तु अमित्रकथासम्भवो रामस्य। कैकेय्यपि रामाभिषेकश्रुतौ प्रथमं भूषणं किल ददौ। सा तु पश्चादिन्द्रादिदैवहता। अर्ततयेति। स्थिताविति शेषः ॥ १४ ॥

अमित्राणां, तवेति शेषःगो। परन्तु ते यदि रामे नामित्राणि तर्हि आर्तत्वं युक्तमेव। किञ्च सर्वेषां रामगुणाकृष्टत्वेन तस्य शत्रुरेव नास्ति चेत्, तर्हि उदासीनो वा कश्चित् कथम्? अतो यथाश्रुतार्थ एव युक्तः। सन्त्येव सर्वत्र सर्वदा सत्यविद्वेषिणः, त्रिगुणात्मकत्वात् जगतः। तत्र मित्राणि सात्विकाः, उदासीनानि राजसाः, अमित्राणि तामसाः। अमित्रादयोऽप्यवशादेव आर्ता बभूवुरिति भावः।

१विशेषं नोपलक्षयेङ।च।

॥ २।५९।१२१४ ॥ ॥ २।५९।१५,१६ ॥

अप्रहृष्टमनुष्या च दीननागतुरङ्गमा।

आर्तस्वरपरिम्लाना विनिश्वसितनिश्श्वना ॥ १५ ॥

निरानन्दा, महाराज रामप्रव्राजनातुरा।

कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मे ॥ १६ ॥

पुत्रहीनापुत्रवियुक्ता कौसल्येव ॥ १६ ॥

विनिश्वसितनिस्स्वना। विगतं निश्वसितं यस्यामवस्थायांमूर्छावस्थेत्यर्थः, तद्वत् निस्स्वना। मूर्छितेव निस्स्वनेति यावत्।

॥ २।५९।१५,१६ ॥ ॥ २।५९।१७,१८ ॥

सूतस्य वचनं श्रुत्वा वाचा परमदीनया।

बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ १७ ॥

कैकेय्या विनियुक्तेन पापाभिजनभावया।

मया न मन्त्रकुशलैः वृद्धै १सह समर्थितम् ॥ १८ ॥

सूतवचः श्रुत्वा इदानीं स्वाज्ञानमूलोऽनर्थ इति शनैर्बुध्यतेकैकेय्येत्यादि। विशेषेण स्वर्णापाकरणे नियोजितस्तथा। पापात्अन्याय्यादेव अभिजनेअभिजायत इत्यभिजनः पुत्रः, तदर्थसम्पादने भावःअभिप्रायो यस्यास्सा तथा। न समर्थितंन विचारितम् ॥ १८ ॥

अभिजनःअभिजात इति पर्यायः। अभिजनभावःआभिजात्यंतदनुगुणः भावःअभिप्रायः यस्यास्सा। तेन च पूर्वं ३५ सर्गे य उक्तः कैकेयीमातृवृत्तान्तः सुमन्त्रेण, स स्मार्यते।

१सूत सुमन्त्रितम्ङ।

स्वऋणअपाकरणेइति पदविभागः विग्रहे।

॥ २।५९।१७,१८ ॥ ॥ २।५९।१९ ॥

न सुहृद्भिर्न चामात्यैः मन्त्रयित्वा न नैगमैः।

मयाऽयमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः ॥ १९ ॥

सहसाद्राक् ॥ १९ ॥

॥ २।५९।१९ ॥ ॥ २।५९।२० ॥

भवितव्यतया नूनं इदं वा व्यसनं महत्।

कुलस्यास्य विनाशाय प्राप्तं, सूत यदृच्छया ॥ २० ॥

भवितव्यतयाअवश्यप्रापकदुरदृष्टवशादित्यर्थः। यदृच्छयापरवशतया ॥ २० ॥

भवितव्यता नाम विधिः, अप्रतीकारा सा। यदृच्छाशक्यप्रतीकाराऽपि बुद्धिदोषमवकाशं प्राप्य आगच्छन्ती। एवञ्च वाकारोऽपि स्वरस।

॥ २।५९।२० ॥ ॥ २।५९।२१ ॥

सूत यद्यस्ति ते किञ्चित् १मया तु सुकृतं कृतम्।

त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम् ॥ २१ ॥

किञ्चिदिति। प्रियमिति शेषः। प्राणाः सन्त्वरयन्तीति। निष्क्रमितुमिच्छन्तीति यावत् ॥ २१ ॥

हे सूत तेतुभ्यं मया किञ्चिदपि सुकृतंशोभनं कर्म उपकारादिकं कृतं यद्यस्ति, यदि त्वं मत्तः किञ्चिदप्युपकारं प्राप्तवान्, तर्हि मां तत्प्रतिफलतया रामं नय इति वाऽर्थः।

१मयापिङ।

॥ २।५९।२१ ॥ ॥ २।५९।२२ ॥

यदि वाऽद्य ममैवाज्ञा निवर्तयतु राघवम्।

न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ॥ २२ ॥

यदि वाअथ वा अद्य ममाज्ञाछान्दसष्टायाः पूर्वसवर्णता, आज्ञया, भवानद्य राघवं निवर्तयतु ॥ २२ ॥

अथ वा ममाज्ञैव रामं निवर्तयतु, राजाज्ञाया अनुल्लङ्घनीयत्वादित्याशयः। राजाज्ञा एवं वदतीत्यादिवत् प्रयोगः।

॥ २।५९।२२ ॥ ॥ २।५९।२३ ॥

अथ वाऽपि महाबाहुः गतो दूरं भविष्यति।

मामेव रथमारोप्य शीघ्रं रामया दर्शय ॥ २३ ॥

अथ रामनिवर्तनपक्षस्याशक्यत्वात् स्वनयनमेवाहअथ वेत्यादि ॥ २३ ॥

॥ २।५९।२३ ॥ ॥ २।५९।२४ ॥

वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः।

यदि जीवामि साध्वेनं पश्येयं सीतया सह १ ॥ २४ ॥

यदि जीवामीति। तत्समीपगमनर्पयन्तमपि मज्जीवनस्थितौ सन्देह इत्यर्थः ॥ २४ ॥

एतदनन्तरं लोहिताक्षं महाबाहुं आमुक्तमणिकुण्डलम्। रामं यदि न पश्येयं गमिष्यामि यमक्षयम् ॥ ऽ इत्यधिकंङ।

॥ २।५९।२४ ॥ ॥ २।५९।२५ ॥

अतो नु किं दुःखतरंयोऽहमिक्ष्वाकुनन्दनम्।

इमामवस्थामापन्नः नेह पश्यामि राघवम् ॥ २५ ॥

अतो नुऽ इत्यत्र अतःशब्दार्थःइमामित्यादि ॥ २५ ॥

इक्ष्वाकुनन्दनं राघवमित्यन्वयः।

॥ २।५९।२५ ॥ ॥ २।५९।२६,२७ ॥

हा राम रामानुज हा हा वैदेहि तपस्विनि

न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥ २६ ॥

स राजा तेन दुःखेन भृशमर्पितचेतनः।

अवगाढः सुदुष्पारं शोकसागरमब्रवीत् ॥ २७ ॥

स राजा तेन दुःखेन भृशमर्पितचेतनः, अत एव गाढमग्नः सन् दुष्पारं शोकसागरं अब्रवीत्इति कविवाक्यम् ॥ २७ ॥

अर्पितचेतनःगतचेतनःति। दुःखेन भृशं अर्पिता, व्याप्ता चेतना यस्य सः इति वा।

॥ २।५९।२६,२७ ॥ ॥ २।५९।२८३१ ॥

रामशोकमहा १ऽभोगः सीताविरहपारगः।

श्वसितोर्मिमहाऽऽवर्तः २बाष्पफेनजलाविलः ॥ २८ ॥

बाहुविक्षेपमीनौघः विक्रन्दितमहास्वनः।

प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ॥ २९ ॥

ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः।

वरवेलो नृशंसायाः रामप्रव्राजनायतः ॥ ३० ॥

३यस्मिन् बत निमग्नोऽहं, कौसल्ये राघवं विना।

दुस्तरो जीवता, देवि मयाऽयं शोकसागरः ॥ ३१ ॥

अथ किमब्रवीदित्यतःरामशोकेत्यादि। शोकरूपः महान् आभोगःवैपुल्यं यस्य स तथा। सीताविरहरूपं पारं गच्छतीति तथा कुब्जावाक्यमहाग्रह इत्यनेन कुब्जावाक्यादेवं प्रवृत्तिः कैकेय्या इति राज्ञाऽवगतमिति गम्यते। वरः वेला यस्य स तथा। प्रव्राजनेति ण्यासश्रन्थो युच्ऽ इति युच् ॥ ३१ ॥

१वेगःच।

२बाष्पवेगच।

नृशंसाया यो वरः स एव वेला अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपिऽ।

रामप्रव्राजनमेव आयतंआयामःदैर्घ्यं यस्य स तथागो।

३तस्मिन्ङ।

अत्र तिलके यतो रामप्रव्राजनसमुद्रात् कालकूयमिव जातेति कतकःऽ इत्यनूद्यते। परं त्विदं मातृकायां नोपलक्ष्यते। एतद्दृष्ट्या यतः रामप्रव्राजनाइति अन्वयः।

॥ २।५९।२८३१ ॥ ॥ २।५९।३२,३३ ॥

अशोभनं योऽहमिहाद्य राघवं

दिदृक्षमाणो न लभे सलक्ष्मणम्।

इतीव राजा विलपन् महायशाः

पपात तूर्णं शयने स मूर्छितः ॥ ३२ ॥

इति विलपति पार्थिवे प्रणष्टे

करुणतरं द्विगुणं च रामहेतोः।

वचनमनुनिशम्य तस्य देवी

भयमगमत् पुनरेव राममाता ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनषष्टितमः सर्गः

द्विगुणं भयमिति। पूर्वंरामस्य वने किं भविष्यतीति भयं स्थितं, इदानीं भर्तुश्च काऽवस्था भविष्यतीति भयान्तरं च प्राप्तेत्यर्थः। लोल(३३)मानः सर्गः ॥ ३३ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे एकोनषष्टितमः सर्गः

सलक्ष्मणं राघवं दिदृक्षमाणोऽपि त न लभे इति यत् तदशोभनम्। इवेत्येवार्थे।

पूर्वं २०तमसर्गे अत्यन्तं निगृहीताऽस्मिऽ (श्लो।४२) इत्यादिना रामविवासे स्वस्या भयं प्रकटितं कौसल्यया। रामविवासे निर्णीते च दशरथमेवावलम्बनं मन्यमानायाः कौसल्यायाः तस्यापि पतनशङ्कया द्विगुणं भयमित्युक्तम्।

॥ २।५९।३२,३३ ॥