०५८ रामसन्देशनिवेदनम्

अष्टपञ्चाशः सर्गः

[रामसन्देशनिवेदनम्] ॥ २।५८।१ ॥

प्रत्याश्वस्तो यदा राजा मोहात् १प्रत्यागतः पुनः।

अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ १ ॥

अथ दशरथेन रामवृत्तान्तप्रश्नः। प्रत्याश्वस्त इत्यादि। प्रत्यागत इति। प्रत्यागतसंज्ञ इति यावत् ॥ १ ॥

प्रत्यागतःसूतस्याभिमुखागतःगो।

१प्रत्यागतस्मृतिःच।

॥ २।५८।१ ॥ ॥ २।५८।२,३ ॥

अथ सूतो महाराजं कृताञ्जलिरुपस्थितः।

राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ २ ॥

वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम्।

विनिश्वसन्तं ध्यायन्तं अस्वस्थमिव कुञ्जरम् ॥ ३ ॥

नवःनूतनः ग्रहःग्रहणं यस्य स तथा ॥ ३ ॥

इदं सर्वं सूतमित्यस्य विशेषणम्।

॥ २।५८।२,३ ॥ ॥ २।५८।४ ॥

राजा तु रजसा १सूतं ध्वस्ताङ्गं समुपस्थितम्।

अश्रुपूर्णमुखं दीनं उवाच परमार्तवत् ॥ ४ ॥

रजसा ध्वस्ताङ्गमिति। मार्गरजसेत्यर्थः। ध्वस्तानिव्याकुलानि अङ्गानि यस्य। समुपस्थितं सूतंसुमन्त्रं। परमार्तवत्परमदीनः सन् ॥ ४ ॥

रजसा ध्वस्ताङ्गंधूसरिताङ्गंधूतंकम्पितंगो।

१धूतंङ।

परमार्तवत्परमार्तार्हं वच उवाचति।

॥ २।५८।४ ॥ ॥ २।५८।५ ॥

क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः।

सोऽत्यन्तसुखितः, सूत किमशिष्यति राघवः ॥ ५ ॥

क्व नु प्रदेशे अशिष्यतिअश्नातीति यावत् ॥ ५ ॥

पादद्वयं भिन्न वाक्यम्। द्वितीयं वाक्यं काकुगर्भम्। अथ वा क्व नुऽ इत्यादि देशप्रश्नः। यद्वासद्यः वृक्षमूलमुपाश्रितः भविष्यति काले क्व नु वत्स्यति? वृक्षमूलमुपाश्रितः किमशिष्यतीति वा अन्वयः।

॥ २।५८।५ ॥ ॥ २।५८।६१० ॥

दुःखस्यानुचितो १दुःखं सुखार्हशयनोचितः।

भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ ६ ॥

यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः।

स वत्स्यति कथं रामः विजनं वनमाश्रितः ॥ ७ ॥

व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम्।

कथं कुमारौ वैदेह्याः सार्धं वन २ मुपस्थितौ ॥ ८ ॥

सुकुमार्या तपस्विन्या, सुमन्त्र सह सीतया।

राजपुत्रौ कथं पादैः अवरुह्य रथात् गतौ ॥ ९ ॥

सिद्धार्थः खलु, सूत त्वं येन दृष्टौ ममात्मजौ।

वनान्तं प्रविशन्तौ तौ अश्विनाविव ३मन्दरम् ॥ १० ॥

अश्विनाविव मन्दरमिति। मन्दरस्य कार्ष्ण्यमात्रात् वनसादृश्यम् ॥ १० ॥

१नित्यं सुमन्त्र शयङ।

२मुपाश्रितौच।

३सुन्दरौङ।

यद्वामन्दरंमन्दमित्यर्थः। क्रियाविशेषणं चेदम्। अश्विनाविव सुन्दरौ तौ पद्भ्यां गमने अपरिचितौ मन्दं यथा तथा वनान्तं प्रविशन्तौ येन त्वया दृष्टौइत्यन्वयः। रथात् अवरुह्य पादैः गतौइति पूर्वश्लोककथनात्, सुन्दरपुरुषयोः, गजगमनयोः, रामलक्ष्मणयोः गमनसौन्दर्यं मनसा पश्यन् दशरथो वदति। यद्वा मन्दरः सैरिभः शक्रसदनं खं दिवं नक्षःऽ इति त्रिकाण्डशेषात् अश्विनौ मन्दरंस्वर्गमिवेत्यर्थः ॥

॥ २।५८।६१० ॥ ॥ २।५८।११,१२ ॥

किमुवाच वचो रामः किमुवाच च लक्ष्मणः।

सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥ ११ ॥

आसितं शयितं भुक्तं, सूत रामस्य कीर्तय।

जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ १२ ॥

आसितादयो भावे निष्ठाः। एतेनेति। आसनादिव्यापारश्रवणेनेत्यर्थः। ययातिरिव साधुष्विति। स्वर्गात् पतन् ययातिः मां साधुषु पातयऽ इतीन्द्रं प्रार्थयित्वा यथा साधुषु पतितः, एवं स्वर्गतुल्यराज्यात् प्रभ्रष्टस्य साधूनामाश्रमेषु पतितस्य रामस्यासनादीनि कीर्तयेति योजना ॥ १२ ॥

अथ वास्वर्गात् भ्रष्टः ययातिः यथा साधुसङ्गमात् कथञ्चित् निर्वृतिं प्राप तथाऽहमपि रामकथाश्रवणात् जीवेयमित्यर्थः। ययातिकथा महाभारते (म। भा। आ।८२) श्रूयतेस्वसत्कर्मणा स्वर्गं प्राप्तं ययातिं इन्द्रः परीक्षार्थं केनासि तुल्यस्तपसा ययातेऽ इत्यपृच्छत्। ययातिस्तु गर्वात् नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु। आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ॥ ऽ इत्यवदत्। एवं सर्वभूतावमाननात् पतितोऽस्यद्य राजन्ऽ इतीन्द्रेणाभिहितः सः इच्छाम्यहं सुरलोकात् विहीनः सतां मध्ये पतितुं देवराजऽ इति प्रार्थयामासेन्द्रम्, तथैव साधुसहवासं प्राप च ॥

॥ २।५८।११,१२ ॥ ॥ २।५८।१३ ॥

इति सूतो नरेन्द्रेण चोदितः सज्जमानया।

उवाच वाचा राजानं स बाष्पपरि १रब्धया ॥ १३ ॥

सज्जमानयाषङ्ग सङ्गे, स्खलन्त्येति यावत्। स बाष्पेत्यत्र स इति पदं, सूतो विशेष्यम् ॥ १३ ॥

१बद्धयाङ।

॥ २।५८।१३ ॥ ॥ २।५८।१४१६ ॥

अब्रवीन्मां, महाराज धर्ममेवानुपालयन्।

अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च ॥ १४ ॥

सूत मद्वचनात् तस्य तातस्य विदितात्मनः।

शिरसा वन्दनीयस्य १वन्द्य पादौ २महात्मनः ॥ १५ ॥

सर्वमन्तःपुरं वाच्यं, सूत मद्वचनात् त्वया।

आरोग्यमविशेषेण यथार्हं चाभिवादनम् ॥ १६ ॥

अब्रवीदित्यादि। हे महाराज राघवः धर्ममेवानुपालयन् भूत्वा त्वां प्रति मया वक्तव्यं सन्देशं अब्रवीत्। किमितिहे सूत मे अञ्जलिंमामकमञ्जलिं मत्प्रतिनिधित्वेन राज्ञे कृत्वा, तथैव शिरसाऽभिप्रणम्य उच्यमानधर्मकस्य राज्ञः पादौ च मद्वचनाद्वन्द्यरामोऽभिवादयते इति मत्प्रतिनिधित्वेनाभिवाद्य, अनन्तरं सर्वमन्तःपुरं त्वया मद्वचनात् रामो वः सर्वा अविशेषेणारोग्यं पृच्छतिऽ इति यथार्हमभिवादनं च वाच्यम् ॥ १६ ॥

एतद्व्याख्यानरीत्या श्लोकद्वयमेकं वाक्यम्। वन्द्यौ इति पाठे तु भिन्नं वाक्यम्।

१वन्द्यौङ।

२पुनःपुनःङ।

॥ २।५८।१४१६ ॥ ॥ २।५८।१७ ॥

माता च मम कौसल्या कुशलं चाभिवादनम्।

अप्रमादं च वक्तव्या ब्रूयाच्चैनामिदं वचः ॥ १७ ॥

माता च विशिष्य कौसल्या कुशलादिकमभिवक्तव्या। इदं चवक्ष्यमाणं एनां विशिष्य प्रब्रूयाः ॥ १७ ॥

अप्रमादंधर्मे भर्तरि च। अथ वा क्रियाविशेषणमिदम्।

॥ २।५८।१७ ॥ ॥ २।५८।१८ ॥

धर्मनित्या यथाकालं अग्न्यगारपरा भव।

देवि देवस्य पादौ च देववत् परिपालय ॥ १८ ॥

किं तत्? इत्यतःधर्मेत्यादि ॥ १८ ॥

॥ २।५८।१८ ॥ ॥ २।५८।१९ ॥

अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु।

अनु राजानमार्यां च कैकेयीमम्ब कारय ॥ १९ ॥

अभिमानं च मानं चेति। गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिःऽ।

राममातृत्वप्रधानमहिषीत्वादिप्रयुक्तोऽहङ्कारःअभिमानः तत्प्रयुक्तो मानःइतरतिरस्कारकश्चित्तविकारः। राजानमनुराज्ञः पश्चात् कैकेयीं चार्यामेवाभिवादय ॥ १९ ॥

अनुगतो राजा यस्यास्तां कैकेयीं हे अम्ब आर्यां श्लाघ्यां कारयति। अन्विति तुल्यार्थे। राजानं कैकेयीं च तुल्यमनुवर्तस्वगो। यद्वराजानं आर्यां कैकेयीं च अनुकारयअनुकरेति यावत्।

॥ २।५८।१९ ॥ ॥ २।५८।२० ॥

कुमारे भरते वृत्तिः वर्तितव्या च राजवत्।

१अर्थज्येष्ठा हि राजानः, राजधर्ममनुस्मर ॥ २० ॥

भरते च राजवत् वृत्तिः वर्तितव्यासम्पादनीया। कथमुभयमित्यतःअर्थेत्यादि। हियस्मात् अर्थज्येष्ठाः सन्तो राजानो भवन्ति, अतः स्वपुत्रायार्थसिद्धिविषये वरबलेन देव्याः कैकेय्याः प्रवृत्तत्वात् भरतस्य च राजदत्तार्थज्यैष्ठ्याच्च तद्विषयवैमुख्यनिवृत्तये राजधर्ममनुस्मर ॥ २० ॥

जीवत्यपि दशरथे कैकेयीवरात् भरत एव खलु राजा। अतः दशरथे पतित्वानुगुणवर्तनं, भरते राजत्वानुगुणवर्तनं चोच्यते ॥

१अप्यज्येष्ठाङ। च।

॥ २।५८।२० ॥ ॥ २।५८।२१ ॥

१भरतः कुशलं वाच्यः वाच्यो मद्वचनेन च।

कुमारराज्ये जीव त्वं तस्यैवा २ज्ञाप्रवर्तनात् ॥ २१ ॥

भरतो मद्वचनेन कुशलं वाच्यः, राजा च मद्वचनात् वाच्यः। किमिति?हे राजन् राज्यस्य भरताय दत्तत्वात् त्वया कुमारराज्येभरतराज्ये त्वं तस्यैवाज्ञाप्रवर्तनात्तदनुग्रहाय तस्यैवाज्ञां प्रवर्तयन् तद्धेतोरेव जीव। एवं पाङ्क्तं पाठं पश्यामः। अत्र श्लाकत्रयं प्रक्षिप्तं अपरो व्याकरोत् ॥ २१ ॥

भरतः कुशलं वाच्यः, त्वयेति शेषः। वाच्यो मद्वचनेन च, मयोक्तमित्यपि वाच्य इत्यर्थः। यद्वा भरतो मद्वचनेन कुशलं वाच्यः सर्वास्वेव भातृषु यथान्यायं वर्तस्वेति च वाच्यः इति द्वितीयवाच्यपदान्वयःगो।

१एतदनन्तरं सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु। वक्तव्यश्च महाबाहुः इक्ष्वाकुकुलनन्दनः ॥ पितरं यौवराज्यस्थः राज्यस्थमनुपालय। अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुधः ॥ ऽ इत्यधिकंङ।

२ज्ञां प्रवर्तयन्ङ। च।

अत्र श्लोकद्वयमिति स्यात्। तौ च श्लोकावधस्तात् दत्तौ। तत्रमहाबाहुःभरतः। त्वं यौवराज्यस्थः सन् राज्यस्थं पितरमनुपालय। वृद्धं एनं राजानं न हिंस्याः। कुमारराज्येयौवराज्य एव स्थित्वा दशरथस्य आज्ञामेव प्रवर्तयन् जीवइत्यर्थः। यद्यपि कौसल्यायै भरते राजवद्वृक्तिरुपदिष्टा। परन्तु सैव वास्तवोक्तिः, इयं तु भरताय हितोपदेशः। अत एव वक्तव्यश्चऽ इति विच्छित्तिः कृता ॥

गोविन्दराजः, तीर्थो वा।

॥ २।५८।२१ ॥ ॥ २।५८।२२ ॥

अब्रवीच्चापि मां भूयः भृशमश्रूणि वर्तयन्।

मातेव मम माता ते द्रष्टव्या पुत्र १कर्शिनी ॥ २२ ॥

अब्रवीदित्यादि। भूयः पुनश्च भृशमश्रूणि वर्तयन् अब्रवीत्, किमितिते द्रष्टव्येति। कृत्यानां कर्तरि वाऽ इति षष्ठी, हे राजन् त्वया पुत्रकर्शिनी मम माता मातेवराज्ञो भरतस्य मातेव द्रष्टव्या राज्यहीनाऽपि। अत्र कुमारराज्ये जीव त्वंऽ इति पूर्ववाक्ये राज्ञः प्रकृतत्वात् राजानं प्रति मातृरक्षणवचनमिदं, उचितं च। अथ पूर्ववाक्येऽपि भरतस्यैव प्रस्तुततया व्याख्यानेइदमपि तं प्रत्येव वचनम्। भरतप्रस्तावतया व्याख्या तुहे कुमार त्वं तस्यैवत्वद्यौवराज्यप्रदस्य राज्ञ एव राज्ये आज्ञाप्रवर्तनात् जीव, यावत्पितृशरीरमिति। अत्र तुते मातेव मम माता द्रष्टव्येति योजना। अर्थद्वयमप्यविरुद्धम् ॥ २२ ॥

ते मातेव मम माताइति वाऽन्वयः। सुमन्त्रं प्रतीयमुक्तिः। भरताय वा।

१गर्धिनीङ। च।

॥ २।५८।२२ ॥ ॥ २।५८।२३२५ ॥

इत्येवं मां, महाराज ब्रुवन्नेव महायशाः।

रामो राजीवताम्राक्षः भृशमश्रूण्यवर्तयत् ॥ २३ ॥

लक्ष्मणस्तु सुसंक्रुद्धः निश्वसन् वाक्यमब्रवीत्।

केनायमपराधेन राजपुत्रो विवासितः ॥ २४ ॥

राज्ञा तु खलु कैकेय्या २लघु त्वाश्रित्य शासनम्।

कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः ॥ २५ ॥

लघु शासनमिति। सुनिरासमिति यावत्। तदाश्रित्य यत् कृतं, तत् कार्यं कर्तुं योग्यं अयोग्यं वा भवतु, वयं पीडिता इत्यत्र न सन्देहः किल। ततो वयं येन पीडिताः तस्मिन् पितृत्वं नोपलक्षये इत्यग्रेण सम्बन्धः ॥ २५ ॥

पूर्वं सुमन्त्रप्रतिनिवर्तने एवं लक्ष्मणवाक्याभावेऽपि अनेनैव तत् ऊह्यम्।

येन विवासनेन वयमभिपीडिताः, तद्विवासनं अकार्यं तुअकार्यमेव। राज्ञा तु कैकेय्याः लघु शासनमाश्रित्य कार्यं वाकार्यमिव कृतं खलु। यद्वा लघुतुच्छं कैकेय्याश्शासनमाश्रित्य अकार्यमेव कार्यं कृतम्गो।

३सत्यमाश्रित्यङ।

॥ २।५८।२३२५ ॥ ॥ २।५८।२६ ॥

यदि प्रव्राजितो रामः लोभकारण १कारितः।

२वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ २६ ॥

ननु कथमकृत्यशङ्का? राजकृतकार्यस्य सत्यपरिपालनमूलकत्वादित्याशंक्याहयदीत्यादि। लोभकारणत्वेन कारितःअङ्गीकृतः। वरदाननिमित्तं प्रव्राजित इति यद्युच्यते तथाऽपि सर्वथा दुष्कृतमेव कृतम्, इदमनुचितमेव, तद्व्यतिरिक्तमेव वरयेति सुवचत्वात्। पतित्वेन भार्याशिक्षणे समग्राधिकारात्। अस्य प्रसङ्गस्य राज्यविषयकत्वेन मन्त्रिपुरोहिताद्यनुरोधेन कर्तव्यत्वान्न मयैकेनायमर्थः शक्यानुष्ठान इति सुवचत्वाच्च। अत्राप्येकमर्धं प्रक्षिप्य व्याकरोत् ॥ २६ ॥

रामः प्रव्राजित इति यत्, एतत् लोभकारणकारितं वरदाननिमित्तं वाकैकेय्याः प्रतिश्रुतवरदानिमित्तं वा, सर्वथा दुष्कृतं कृतं वरदानसमये वरद्वयस्य भरताभिषेकरामनिष्कासनरूपेण विनियोगाभावात्। लोभकारणनिमित्तमिति क्रियाविशेषणम्गो।

१कारितम्सर्वत्र।

२एतदनन्तरं इदं तावद्यथाकामं ईश्वरस्य कृते (कृतौ) कृतम्ऽ इत्यधिकम्ङ।च।

गोविन्दराजः। अर्धं तु अधस्ताद्दत्तम्। तच्चैवं व्याख्यातम्रामपरित्यागहेतुं नोपलक्षये, किन्तु ईश्वरस्य कृतेस्वतन्त्रव्यापारे स्थितेन राज्ञेति शेषः, इदं रामप्रव्राजनं यथाकामं तावत्यथेच्छमेव कृतम्। यद्वा इदं रामविवासनं ईश्वरस्य कृतेईश्वरप्रयोजनाय यथाकामं कृतंकेवलमीश्वरप्रेरणेन शास्त्रमनवेक्ष्य कृतम्। (ईश्वरस्य कृतेईश्वरत्वाद्धेतोः इति वा)।

॥ २।५८।२६ ॥ ॥ २।५८।२७२८ ॥

रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ २७ ॥

असमीक्ष्य समारब्धं केवलं बुद्धिलाघवात्।

जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् ॥ २८ ॥

यदेवं, अतःरामस्य परित्यागे उक्तहेतुं च हेतुत्वेन नोपलक्षये। हेत्वाभासमेव पश्यामि। तस्मात् केवलं बुद्धिलाघवात् असमीक्ष्यउचितानुचितमनवेक्ष्य सर्वलोकविरुद्धं समारब्धं राघवस्य विवासनम्। तच्च तस्य अस्माकं च सर्वेषां सङ्क्रोशंदुःखं जनयिष्यति ॥ २८ ॥

सङ्क्रोशःआक्रोशो वा।

॥ २।५८।२७२८ ॥ ॥ २।५८।२९ ॥

अहं तावन्महाराजे पितृत्वं नोपलक्षये।

भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ २९ ॥

तस्मादहं तावन्महाराजे पितृत्वं नोपलक्षये। गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ ऽ इति शास्त्रेणेति शेषः। ज्येष्ठो भ्राता पितृसमःऽ इति न्यायेन धार्मिके ज्येष्ठ एव पित्रादिबुद्धिरित्याहभ्रातेत्यादि। भर्तास्वामी ॥ २९ ॥

॥ २।५८।२९ ॥ ॥ २।५८।३० ॥

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते १रतम्।

सर्वलोकोऽनुरज्येत २कथं त्वाऽनेन कर्मणा ॥ ३० ॥

अन्यदप्याहसर्वलोकेत्यादि। त्यक्त्वाऽवस्थितं त्वामनेन क्रूरेण कर्मणा हेतुना सर्वलोकः कथमनुरज्येत ॥ ३० ॥

१रतेङ। च।

अनेन कर्मणोपलक्षितं त्वागो। पूर्वं सर्वलोकहिते रते त्वयि इदानीं रामं त्यक्त्वा स्थिते सतिति।

२कथं चानेनङ।च।

॥ २।५८।३० ॥ ॥ २।५८।३१ ॥

सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम्।

सर्वलोकं विरुध्येमं कथं राजा भविष्यति ॥ ३१ ॥

यदेवं सर्वलोको विरुध्येत, तत् कथं राजा भविष्यति पिता। इत्यब्रवील्लक्ष्मण इति शेषः ॥ ३१ ॥

॥ २।५८।३१ ॥ ॥ २।५८।३२ ॥

जानकी तु, महाराज निश्वसन्ती मनस्विनी।

भूतोपहतचित्तेव विष्ठिता १विस्मिता स्थिता ॥ ३२ ॥

विस्मृताविस्मृतसर्वप्रयोजनाति।

१विस्मृताच।

॥ २।५८।३२ ॥ ॥ २।५८।३३३५ ॥

अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी।

तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ ३३ ॥

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता।

मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ ३४ ॥

तथैव रामोऽश्रुमुखः कृताञ्जलिः

१स्थितोऽभवल्लक्ष्मणबाहुपालितः।

तथैव सीता रुदती तपस्विनी

निरीक्षते राजरथं तथैव माम् ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः

राज्ञः तव रथंराजरथम्। मृग(३५)मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे अष्टपञ्चाशः सर्गः

अब्रवीत्उक्तमिति शेषःति।

१स्थितोऽब्रवीत्च।

॥ २।५८।३३३५ ॥