०५७ सुमन्त्रस्य अयोध्यागमनम्

सप्तपञ्चाशः सर्गः

[सुमन्त्रप्रत्यागमनम्] ॥ २।५७।१ ॥

कथयित्वा तु दुःखार्तः सुमन्त्रेण चिरं सह।

रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ १ ॥

एवं रामवृत्तान्तमुक्त्वा विसृष्टसुमन्त्रव्यापारकथनम्। कथयित्वेत्यादि ॥ १ ॥

॥ २।५७।१ ॥ ॥ २।५७।२ ॥

भरद्वाजाभिगमनं प्रयागे च १ सभाजनम्।

आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ॥ २ ॥

२ सभाजनमिति। भरद्वाजेनेति शेषः। आगिरेःचित्रकूटगिरिमभिव्याप्य सम्पन्नं तेषां रामादीनां गमनम्, तत्रस्थैःशृङ्गिबेरपुरस्थैः गुहसुमन्त्रादिभिः गुहचारमुखेन अभिलक्षितंज्ञातम्। गङ्गोत्तरणदिवसनिशा भरद्वाज श्रमेऽभूत्। द्वितीयनिशा यमुनातीरे। तृतीया चित्रकूटे। तत्र त्वासिषतेत्यवगतवन्त इत्यर्थः ॥ २ ॥

१ सहासनम्ङ। च। ट।

तत्रस्थैःशृङ्गिबेरपुरस्थेः चारैरभिलक्षितंनिवेदितम्। सुमन्त्रेण सम्यग्विदितमित्यर्थः। गङ्गोत्तरणदिवसनिशा वनस्पतिमूले, द्वितीया भरद्वाजाश्रमे, तृतीया यमुनातीरे, चतुर्थेऽहनि चित्रकूटगमनं, पञ्चमे पुनरागम्य चारैर्निवेदनम्गो। तीर्थेऽप्येवमेव।

तिलकेगङ्गोत्तरणतृतीयदिवसे भरद्वाजाश्रमात् प्रतिनिवृत्तदूतमुखात् तावत्पर्यन्तं तद्वृत्तं ज्ञात्वा तद्दिन एव शृङ्गबेरपुरात्सुमन्त्रस्य प्रतिनिवृत्तिरिति बोध्यम्। अत एव रामस्य निर्गमदिनात् दिने षोऽधरात्रके। हा हा लक्ष्मण हा सीते हा रामेति मृतो नृपः ॥ ऽ इति पाद्म सङ्गच्छतेइत्युक्तम्।

अथवातत्रस्थैःगुहसुमन्त्रादिभिः तत्सर्वमवगतम्। चित्रकूटे रामवासदिनपर्यन्तं तत्रैव स्थित्वा सर्वो वृत्तान्तः वन्यजनद्वाराऽवगतः तैः इत्यर्थः।

॥ २।५७।२ ॥ ॥ २।५७।३ ॥

अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्।

अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ ३ ॥

अनुज्ञातः सुमन्त्र इति। गङ्गोत्तरणदिवसे रामेणेति शेषः ॥ ३ ॥

अनुज्ञातः, गुहेनेति शेषःगो। ति। अथरामस्य चित्रकूटे प्रतिष्ठां ज्ञात्वा।

॥ २।५७।३ ॥ ॥ २।५७।४ ॥

स वनानि सुगन्धीनि सरितश्च सरांसि च।

१पश्यन् यत्तो ययौ शीघ्रं ग्रामाणि नगराणि च ॥ ४ ॥

यत्तःसावधानः ॥ ४ ॥

१पश्यन्नतिययौङ।

॥ २।५७।४ ॥ ॥ २।५७।५ ॥

ततः सायाह्नसमये १ द्वितीयेऽहनि सारथिः।

अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ ५ ॥

सायमह्नःएकदेशिसमासोऽन्यत्रापि, ततः अह्नोऽह्न एतेभ्यःऽ इत्यह्नादेशः एकदेशात्परत्वात्। द्वितीयेऽहनीति। गुहेन दिनत्रयं स्थित्वा प्रतिनिवृत्त्यनन्तरमिति शेषः। यथा आगमनसमये अतिवेगेन रथेन दिनद्वयादागतं आगङ्गं तथा प्रतिनिवृत्तिसमयेऽपि शीघ्रं दिनद्वयेन ययावित्यर्थः ॥ ५ ॥

तृतीयेऽहनिशृङ्गबेरपुरान्निर्गमापेक्षया तृतीयदिवसे। यद्वा अहनि तृतीयेसायाह्नसमयेगो। ती।

१ तृतीयेङ।

॥ २।५७।५ ॥ ॥ २।५७।६ ॥

स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः।

सुमन्त्रः चिन्तयामास शोकवेगसमाहतः ॥ ६ ॥

स शून्यमिवशून्यनगरीवन्निश्शब्दाम् ॥ ६ ॥

॥ २।५७।६ ॥ ॥ २।५७।७९ ॥

कच्चिन्न सगजा साश्वा सजना सजनाधिपा।

रामसन्ताप १ दुःखेन दग्धा शोकाग्निना पुरी ॥ ७ ॥

इति चिन्तापरः सूतः वाजिभिः शीघ्र २ यायिभिः।

नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ ८ ॥

सुमन्त्रमभि ३ यान्तं तं शतशोऽथ सहस्रशः।

क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ ९ ॥

सूतमभ्यद्रवन्सूतसम्मुखमाजग्मुः ॥ ९ ॥

१ शोकेनङ।

२ पातिभिःङ।

३ धावन्तं, यान्तं तुङ।

॥ २।५७।७९ ॥ ॥ २।५७।१० ॥

तेषां शशंस गङ्गायां अहमापृच्छय राघवम्।

अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ॥ १० ॥

गङ्गायां शृङ्गिबेरपुरे राघवेणानुज्ञातः तमापृच्छय निवृत्तोऽस्मि। ततः परं वृत्तान्तो मया सम्यक् न ज्ञायते तत्र बहुदिवसमवस्थितेनापीति शशंसेत्यर्थः ॥ १० ॥

यद्यपि सुमन्त्रेण तदनन्तरवृत्तान्तः चित्रकूटप्राप्तिपर्यन्तः चारमुखादवगत इति अनुपदमेवोक्तं (२ श्लोके)अथापि स वृत्तान्तश्चारमुखात्केवलमवगतः, न साक्षादिति भावेन सुमन्त्रस्तथोक्तवान्इति व्याख्यात्रा सम्यक्ऽ पदोपादानेन व्याख्यायि। वस्तुतस्तु मूले सुमन्त्रेण वृत्तान्तः सङ्ग्रहतः प्रतिपादितः, अन्यञ्च न निषिद्ध इति न दोषः ॥ अथवा रामस्थानकथने पुनरपि पौराः तत्रापि गच्छेयुरिति एवं उक्तम्।

॥ २।५७।१० ॥ ॥ २।५७।११ ॥

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः।

अहो धिगिति निश्वस्य हा रामेति विचुक्रुशुः ॥ ११ ॥

ते तीर्णा इति। गङ्गामुत्तीर्य गता इति, विज्ञाय ॥ ११ ॥

॥ २।५७।११ ॥ ॥ २।५७।१२१३ ॥

शुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम्।

हताः स्म खलु ये नेह पश्याम इति राघवम् ॥ १२ ॥

दानयज्ञविवाहेषु १ समाजेषु महत्सु च।

न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ १३ ॥ समाजःमहाजनसमूहः। दानयज्ञादिसन्तोषव्यवहारेषु धार्मिकं राममन्तरा–तत्तद्दानयज्ञादिव्यवहारमध्ये तस्य तस्य तत्तत्साधकं जातु पुनर्द्रक्ष्यामो न किम्? ॥ १३ ॥

दानादिषु अन्तरामध्ये (स्वयं वात्सल्यादागत्य) नायकमणिवद्वर्तमानं रामं पुनः जातु कदाचिदपि न द्रक्ष्यामः किं? इति काकुःगो।

१ समाधिषुङ।

॥ २।५७।१२१३ ॥ ॥ २।५७।१४ ॥

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्।

इति रामेण नगरं १ पित्रेव परिपालितम् ॥ १४ ॥

अतःपरस्य जनस्य किंकृत्यं समर्थमुचितं, किं प्रियंप्रियकरं, सुखावहंइहामुत्रहितावहं इति रामेण परिपालितं नगरं चिन्ताकुलं बभूवेति शेषः ॥ १४ ॥

अयमपि नगरजनवचोऽनुवादो वाअस्य जनस्य किं समर्थम्? किं प्रियम्? किं सुखावहम्? इति रामेण, पित्रेवेदं नगरं परिपालितंइत्यादि परिदेवनं शुश्रावेत्यन्वयः ॥

१ पितृवत्ङ।

॥ २।५७।१४ ॥ ॥ २।५७।१५ ॥

वातायनगतानां च स्त्रीणामन्वन्तरापणम्।

राम १ शोकाभितप्तानां शुश्राव परिदेवनम् ॥ १५ ॥

अनुअनन्तरं वातायनगतानां स्त्रीणां परिदेवनं चान्तरापणंआपणमध्ये गच्छन् शुश्राव ॥ १५ ॥

१ मेवामिच।

॥ २।५७।१५ ॥ ॥ २।५७।१६१८ ॥

स राजमार्गमध्येन सुमन्त्रः पिहिताननः।

यत्र राजा दशरथः तदेवोपययौ गृहम् ॥ १६ ॥

साऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च।

कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ १७ ॥

हर्म्यैर्विमानैः प्रासादैः अवेक्ष्याथ समागतम्।

हाहाकारकृता नार्यः रामादर्शनकर्शिताः ॥ १८ ॥

हाहाकारः कृतःयाभिस्ताःतथा ॥ १८ ॥

जनदर्शनाक्षमतयागो। जनानां प्रत्युत्तरदानेन विलम्बः स्यादिति वा, रामविवासनरूपकार्ये स्वस्य सम्बन्धात् लज्जया वापिहिताननः।

हर्म्यादिःधनिनां वासः, प्रासादःदेवभूभुजाम्, विमानंसप्तभूमिगृहम्। एतैरुपलक्षितामयोध्यां समागतम्। एतत्स्था नार्य इति वा।

॥ २।५७।१६१८ ॥ ॥ २।५७।१९ ॥

आयतैर्विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः।

अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ १९ ॥

अन्योन्यमभिवीक्षन्ते स्मइतिक्रतव्यतदामौढ्यादिति शेषः ॥

भूतार्थकक्रियापदघटितवाक्यमध्यस्थत्वात् स्मऽ इत्यध्याहार्यमित्याशयः।

॥ २।५७।१९ ॥ ॥ २।५७।२० ॥

ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः।

रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ २० ॥

प्रासादेभ्य इति। सुमन्त्रस्य राजवेश्मप्रविष्टत्वेन ततोऽवतीर्णानामिति शेषः। मन्दं जल्पितमिति। राजसान्निध्यात् मन्दत्वम् ॥ २० ॥

प्रासादमारुह्यारुह्य शुश्रावप्रतिप्रासादं शोकपरिदेवनं शुश्रावेत्यर्थो वा स्यात् ॥

॥ २।५७।२० ॥ ॥ २।५७।२१ ॥

सह रामेण निर्यातो विना राममिहागतः।

सूतः किन्नाम कौसल्यां १ क्रोशन्तीं प्रतिवक्ष्यति ॥ २१ ॥

किन्नाम वक्ष्यतीति। अतिघोरत्वात् न किञ्चिदपि वक्तुं शक्यम् ॥

१ शोचन्तींङ।

॥ २।५७।२१ ॥ ॥ २।५७।२२ ॥

यथा च मन्ये दुर्जीवं एवं न सुकरं ध्रुवम्।

१ आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ २२ ॥

अथ प्रत्येकं राममातृ़णां दुःखप्रलापःयथेत्यादि। यथायेन प्रकारेण चयस्मात् एवंस्वानुभवसिद्धप्रकारेण परमदुःखितं मदीयं दुर्जीवं कुत्सितप्राणं जीवन्तं मन्येअनुभवामि, मन ज्ञाने श्यन् तस्मात् तथैव कौसल्याऽपि यत्रयस्मिन् सकललोकप्रसिद्धानवधिककल्याणगुणे पुत्रे तं यथाप्राप्तमभिषेकं आच्छिद्यपरित्यज्य निर्याते सत्यपि जीवतीति यत्, तदपि तद्वदेव ध्रुवं सुकरं न हि रामैकशरणायास्तस्याः मत्तः किञ्चिदभ्यधिकं दुःखम् ॥ २२ ॥

यत्रेति৷৷।प्रथमार्थे৷৷। यथायेन प्रकारेण अस्मज्जीवितं दुर्जीवंदुःखेन जीवनार्हं मन्ये, एवमेव कौसल्या पुत्रे निर्याते सति आच्छिद्यप्रसह्य जीवति यत्रजीवतीति यत् तत् न सुकरम्गो। कौसल्या पुत्रे निर्याते सति आच्छिद्यप्रसह्य जीवति यत्रजीवतीति यत् एतत् दुर्जीवंदुष्करजीवनं ध्रुवंनिश्चितम्। एवंएवंविधजीवनं सुकरं न मन्येती। यथा जीवंजीवनं दुःदुःखजनकं मन्ये, एवं ध्रुवंनिश्चयेन सुकरंसुकरनाशं नेति मन्येति। एतादृशावस्थायां जीवनं यावत् अशक्यमिति अहं जानामि एवं प्रकारमेव तत् न सुकरं, ध्रुवम्। किं तदित्यत्र उत्तरार्धम्। आच्छिद्यसम्बन्धं त्यक्त्वा, न तु ग्रामान्तरगमनवत् प्रव्रज्येति यावत् ॥

१ प्रसह्यङ।

॥ २।५७।२२ ॥ ॥ २।५७।२३ ॥

सत्यरूपं तु तद्वाक्यं राजस्त्रीणां निशामयन्।

प्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥ २३ ॥

एवं सत्यरूपंपरमार्थभूतं राजस्त्रीणां तद्वाक्यं निशामयन्शृण्वन् शोकेन प्रदीप्त इव सन् सहसा राजगृहं विवेश। अत्र यद्वाभट्टारका बहुप्राचीना व्याक्रिया अनुवदन्ति। तन्न किञ्चिदपि सङ्गतं पश्यामः ॥ २३ ॥

॥ २।५७।२३ ॥ ॥ २।५७।२४ ॥

स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम्।

पुत्रशोकपरिद्यूनं अपश्यत् पाण्डुरे गृहे ॥ २४ ॥

परिद्यूनंक्षीणम्। दिवोऽविजिगीषायाम्ऽ इति निष्ठानत्वम्। च्छ्वोः शूठ्৷৷।ऽ इत्यूठ् ॥ २४ ॥

पाण्डुर इति विशेषणात् राजलक्ष्मीर्नास्तीति उच्यतेगो।

॥ २।५७।२४ ॥ ॥ २।५७।२५ ॥

अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च।

सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ २५ ॥

यथोक्तं प्रत्यवेदयतिदि। तस्य च विस्तरेण प्रतिपादनमारात् भविष्यति ॥ २५ ॥

॥ २।५७।२५ ॥ ॥ २।५७।२६२७ ॥

स तूष्णीमेव चच्छ्रुत्वा राजा विभ्रान्तचेतनः।

मूर्छितो न्यपतत् भूमौ रामशोकाभिपीडितः ॥ २६ ॥

ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ।

१उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ २७ ॥

आविद्धंदुःखाभिहतम् ॥ २७ ॥

१ उत्क्षिप्यङ।

॥ २।५७।२६२७ ॥ ॥ २।५७।२९३० ॥

इमं तस्य, महाभाग दूतं दुष्करकारिणः।

वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ २९ ॥

अद्येममनयं कृत्वा ह्यपत्रपसि, राघव

उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता ॥ ३० ॥

अद्येति। एवमनयंएवं दुःखसाधनमन्याय्यं प्रथमतः कृत्वा किमद्यापत्रपसि, न प्रतिभाषसेलज्जसे। उत्तिष्ठ शोकं विधूय। ते सुकृतंसत्यपरिपालनरूपं पुण्यमस्तु। तव शोके सहायतासाधकता यस्याः, सेह नास्ति। अत्रस्था वयं त्वदिष्टा एवेत्यर्थः ॥ ३० ॥

रामस्येति शेषः।

सुकृत शोभनम्। शोके विषये सहायता न स्यात्शोकानुवर्तनं मा कृथा इयर्त्थःगो। एवं शोके त्वया क्रियमाणे तव सहायतासहायसमूहः परिजनः सर्वोऽपि न स्यात्। त्वच्छोकेन सर्वोऽपि नश्येदित्यर्थःति। पूर्वार्धउत्तरश्लोकशैलीपरिशीलने, सुकृतमिति नर्मोक्तिर्वा स्यात्। शोके न स्यात् सहायताशोकेन को लाभ इति भावः। शोकेन सहायता स्यात्? इति काकुर्वा।

॥ २।५७।२९३० ॥ ॥ २।५७।३१ ॥

देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।

नेह तिष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ ३१ ॥

अत्रानिष्टाऽपि तिष्ठति किम्? इति शङ्कां व्यावर्तयतिदेवेत्यादि। विस्रब्धंनिश्शङ्कम् ॥ ३१ ॥

सारथिं रामं नानुपृच्छसीति द्विकर्मकम्।

॥ २।५७।३१ ॥ ॥ २।५७।३२ ॥

सा तथोक्त्वा महाराजं कौसल्या शोकलालसा।

धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ ३२ ॥

विप्लुतभाषिणीगद्गदभाषिणी ॥ ३२ ॥

एवं नर्मोक्तिप्रयोगेणैव शोकलालसा।

॥ २।५७।३२ ॥ ॥ २।५७।३३३४ ॥

विलपन्तीं तथा दृष्ट्वा कौसल्यां पतितां भुवि।

पतिं चावेक्ष्य ताः सर्वाः समन्तात् रुरुदुः स्त्रियः ॥ ३३ ॥

ततस्तमन्तःपुरनादमुत्थितं

समीक्ष्य वृद्धास्तरुणाश्च मानवाः।

स्त्रियश्च सर्वा रुरुदुः समन्ततः

पुरं तदाऽऽसीत् पुनरेव सङ्कुलम् ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः।

वर्ग(३४)मानः सर्गः ॥ ३४ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे सप्तपञ्चाशः सर्गः।

॥ २।५७।३३३४ ॥