०५६ चित्रकूटदर्शनम्

षट्पञ्चाशः सर्गः

[चित्रकूटनिवासः] ॥ २।५६।१ ॥

अथ रात्र्यां व्यतीतायां अवसुप्तमनन्तरम्।

प्रबोधयामास शनैः लक्ष्मणं रघुनन्दनः ॥ १ ॥

अथ रामस्य चित्रकूटं प्राप्य तत्र स्थिरवासोचितव्यापारपूर्वं वासः। अथ रात्र्यामित्यादि ॥ १ ॥

॥ २।५६।१ ॥ ॥ २।५६।२४ ॥

सौमित्रे शृणु वन्यानां बल्गु व्याहरतां स्वनम्।

सम्प्रतिष्ठामहे कालः प्रस्थानस्य, परन्तप ॥ २ ॥

प्रसुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः।

जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ ३ ॥

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम्।

पन्थान १ मृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥

नद्याःकालिन्द्याः ॥ ४ ॥

१ मृषिभिर्जुष्टंच।

॥ २।५६।२४ ॥ ॥ २।५६।५६ ॥

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह।

सीतां कमलपत्राक्षीं इदं वचनमब्रवीत् ॥ ५ ॥

आदीप्तानिव वैदेहि सर्वतः पुष्पितान् २ नगान्।

स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ ६ ॥

स्वैः पुष्पैर्मालिन इवमालावन्त इव स्थितान् ॥ ६ ॥

२ द्रुमान्ङ।

॥ २।५६।५६ ॥ ॥ २।५६।७ ॥

पश्य भल्लातकान् १ फुल्लान् नरैरनुपसेवितान्।

फल २ पुष्पैरवनतान् नूनं शक्ष्यामि जीवितुम् ॥ ७ ॥

भल्लातकान्अरुष्मान्। नूनं जीवितुं शक्ष्यामि। एवमादिजीवनसाधनस्य विद्यभानत्वात् ॥ ७ ॥

१ बिल्वान्च।

२ पत्रैङ।

वनसौन्दर्यमग्नचित्तो रामो वदति नूनं शक्ष्यामि जीवितुम्ऽ इति।

॥ २।५६।७ ॥ ॥ २।५६।८ ॥

पश्य द्रोणप्रमाणानि लम्बमानानि, लक्ष्मण

मधूनि मधुकारीभिः सम्भृतानि नगेनगे ॥ ८ ॥

आढकचतुष्टयं द्रोणंतावत्प्रमाणमधुपूर्णानीति यावत्। मधूनिमधुपटलानि। मधुकारीभिरिति। मधु करोतीतिमधुकारी, कर्मण्यणि ङीप्मधुमक्षिकाभिरिति यावत्। नगेनगेवृक्षेवृक्षे ॥ ८ ॥

॥ २।५६।८ ॥ ॥ २।५६।९ ॥

एष क्रोशति नत्यूहः तं शिखी प्रतिकूजति।

रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ॥ ९ ॥

नत्यूहःदात्यूहःद्नसुप्पुल्। पुष्पैः कृतः संस्तरःआच्छादनंतेन सङ्कटेनिबिडे, ऋदोरप्ऽ इत्यप् ॥ ९ ॥

॥ २।५६।९ ॥ ॥ २।५६।१०१३ ॥

मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम्।

चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ १० ॥

समभूमितले रम्ये द्रुमैर्बहुभिरावृते।

पुण्ये १ रंस्यामहे, तात चित्रकूटस्य कानने ॥ ११ ॥

ततस्तौ पादचारेण गच्छन्तौ सह सीतया।

रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ १२ ॥

तं तु पर्वतमासाद्य नानापक्षिगणायुतम्।

बहुमूलफलं रम्यं २ सम्पन्नं सरसोदकम् ॥ १३ ॥

सरसोदकंस्वादूदकसहितमिति यावत् ॥ १३ ॥

१ रंस्यावहेङ।

२ सम्पन्नसरसोच।

॥ २।५६।१०१३ ॥ ॥ २।५६।१४ ॥

मनोज्ञोऽयं गिरिः, सौम्य नानाद्रुम १ लतायुतः।

बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ १४ ॥

सुखेन आजीवितुं खस्यः स्वाजीवः ॥ १४ ॥

१ फलाङ।

॥ २।५६।१४ ॥ ॥ २।५६।१५ ॥

मुनयश्च महात्मानः वसन्त्यस्मिन् शिलोच्चये।

अयं वासो भवेत्तावत् अत्र, सौम्य रमेमहि ॥ १५ ॥

अयं वासो भवेत्वासयोग्यो भवेत्। तावत्तस्मात् ॥ १५ ॥

॥ २।५६।१५ ॥ ॥ २।५६।१६ ॥

इति सीता च रामश्च लक्ष्मणश्च १ कृताञ्जलिः।

अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥ १६ ॥

इतिनिश्चित्येति शेषः। अभिवादयन्अभ्यवादयन्निति यावत्। वाल्मीकिः प्राप्तराज्ये रामे यदा काव्यं करिष्यति तदा तमसातीराश्रमे वासस्तस्य, ततः प्राक् चित्रकूटाश्रमे ॥ १६ ॥

१ महामतिःङ।

ननुउपोद्धाते बालकाण्डे तमसातीरवासित्वेन वाल्मीकेः कथनात् कथमिदमिति चेत्? तदानीं चित्रकूटे वाल्मीकेर्वासः। भरतागमनानन्तरं ऋषिनिर्गमनकथनात् ततः प्रभृति तमसातीर इति ज्ञेयम्गो। चित्रकूटे स्थित एव वाल्मीकी रामराज्यप्राप्तिसमये तमसातीरं गत इति न विरोध इति प्राञ्चः। प्राचेतसादयं वाल्मीकिरन्य एवेति तत्त्वम्ति।

॥ २।५६।१६ ॥ ॥ २।५६।१७ ॥

तान् महर्षिः प्रमुदितः पूजयामास धर्मवित्।

१ आस्यतामिति चोवाच स्वागतं २ तं निवेद्य च ॥ १७ ॥

स्वागतं तमिति। तंरामं प्रति स्वागतंतत्प्रश्नं निवेद्यविज्ञाप्य ॥ १७ ॥

१ एतदनन्तरं राघवं प्रीतिसंयुक्त इदं वचनमब्रवीत्। ज्ञातं मया रघुश्रेष्ठ त्वदागमनकारणम् ॥ अत्र वासमृषीणां च सकाशे रोचय प्रभो। इति तेन समाज्ञप्तः प्रीयमाणो महारथः ॥ तथेति प्रतिजग्राह ऋषिणोक्तं कृताञ्जलिः।ऽ इत्यधिकंङ।

२ तुङ।

॥ २।५६।१७ ॥ ॥ २।५६।१८ ॥

ततोऽब्रवीन्महाबाहुः लक्ष्मणं लक्ष्मणाग्रजः।

सन्निवेद्य यथान्याय्यं आत्मानमृषये प्रभुः ॥ १८ ॥

आत्मानं निवेद्येति। अमुकस्य पुत्रः, अमुकहेतोरिहागतवानस्मिइत्यादिकमुक्त्वेत्यर्थः ॥ १८ ॥

॥ २।५६।१८ ॥ ॥ २।५६।१९२१ ॥

लक्ष्मणानय दारूणि दृढानि च वराणि च।

कुरुष्वावसथं, सौम्य वासे मेऽभिरतं मनः ॥ १९ ॥

तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान्।

आजहार ततश्चक्रे पर्णशालामरिन्दमः ॥ २० ॥

तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम्।

शुश्रूषमाणमेकाग्रं इदं वचनमब्रवीत् ॥ २१ ॥

निष्ठितांअन्तर्बहिः प्राकारभित्त्या सुप्रतिष्ठिताम्। बद्धकटांछान्दसो वर्णलोपःबद्धकवाटां, पृषोदरादित्वात्, कटे वृत्तौ वर्षेकटति वर्षवारणं करोतीति कटःछदिःबद्धच्छदिषमिति यावत् ॥ २१ ॥

अस्मिन् देश इति शेषः।

कुढ्यार्थे कल्पितास्तरणां, बद्धवाह्यावरणां वा, कटे वर्षावरणयोरिति धातुःगो।

॥ २।५६।१९२१ ॥ ॥ २।५६।२२ ॥

ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम्।

कर्तव्यं वास्तुशमनं, सौमित्रे चिरजीविभिः ॥ २२ ॥

ऐणेयंएणाड्ढञ् विकारे। शालां यक्ष्यामह इति। पर्णशालाधिष्ठातृदेवता इत्यर्थः। तास्तु शय्यादेशे कामलिङ्गेन, देहल्यामन्तरिक्षलिङ्गेनऽ इत्यादि बलिहरणखण्डप्रतिपाद्यमानाः। ततः पूर्वं वास्तुशमनम्। वास्तुशान्तिर्बोधायनोक्ता ॥ २२ ॥

॥ २।५६।२२ ॥ ॥ २।५६।२३ ॥

मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह, शुभेक्षण

कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनु १ स्मर ॥ २३ ॥

यज्ञार्थपशुवधे दोषशङ्कां निवर्तयतिकर्तव्य इत्यादि। शास्त्रचोदितो विधिः कर्तव्य एव, तमेवं धर्मं त्वं धर्ममेवानुस्मर नात्र हिंसादिदोषप्रसङ्ग इत्यर्थः। तद्यज्ञार्थं द्विप्रजानां गतिस्तद्वदिति यज्ञविनियुक्तपशूनामुत्तमलोकभागित्वेन वधस्य तेषामनुग्रहत्वात् ॥ २३ ॥

॥ २।५६।२३ ॥ ॥ २।५६।२४२८ ॥

भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा।

चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥ २४ ॥

ऐणेयं श्रपयस्वैतत् शालां यक्ष्यामहे वयम्।

त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽ १ प्ययम् ॥ २५ ॥

स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान्।

अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ २६ ॥

तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम्।

लक्ष्मणः पुरुषव्याघ्रं अथ राघवमब्रवीत् ॥ २७ ॥

अयं २ सर्वः समाप्ताङ्गः शृतः कृष्णमृगो ३ मया।

४ देवताः, देवसङ्काश यजस्व कुशलो ह्यसि ॥ २८ ॥

अयं सर्व इति। सर्वकर्मार्ह इति यावत्। समाप्ताङ्ग इति। शिरःपादादिसर्वाङ्गोपेत इति यावत्। शृतःपक्वः ॥ २८ ॥

अयं सौम्य हूर्तःशुभमुहूर्तः इत्येकं पदं वा।

१ ह्ययम्च।

२ कृष्णःङ।

३ यथाङ।

देवता इति द्वितीयाबहुवचनान्तं पदम्।

॥ २।५६।२४२८ ॥ ॥ २।५६।२९ ॥

रामः स्नात्वा तु नियतः गुणवान् १ जप्यकोविदः।

सङ्ग्रहेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ॥ २९ ॥

गुणवान्कर्मापेक्षितप्रायत्यादिगुणवान्। सत्रावसानिकान्यागसमाप्तिप्रयोजनान् मन्त्रान् गृहीत्वा सङ्ग्रहेण वास्तुशान्त्यादिकमकरोत्। राजपीठावस्थाने पुरोहितेन कर्मप्रवृत्तिः वनस्थराजर्षीणां स्वेनैव ॥ २९ ॥

१ जपकोविदःच।

सत्रंवास्तुयागः यर्मन्त्रैरवसीयते परिसमाप्यते ते सत्रावसानाः, सत्रावसाना एव सत्रावसानिकाःछान्दसो वृद्ध्यभावःगो।

॥ २।५६।२९ ॥ ॥ २।५६।३०३२ ॥

इष्ट्वा देवगणान् सर्वान् १ विवेशावसथं शुचिः।

बभूव च मनोह्लादः रामस्यामिततेजसः ॥ ३० ॥

वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च।

वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ ३१ ॥

जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि।

पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ ३२ ॥

पापसंशमनं पञ्चसूना गृहस्थस्यऽ इति प्रसिद्धपापसंशमनसाधनश्रुतं बलिंवैश्वदेवपूर्वकं बलिहरणम्। कृत्वेत्यादिः उपसंहाररूपेण वादः ॥ ३२ ॥

१ विवेश वसतिंङ।

रौद्रयागकरणात् पुनः स्नानम्। रौद्रकर्मकरणे अप उपस्पृश्यऽ इति विधानात्गो।

॥ २।५६।३०३२ ॥ ॥ २।५६।३३ ॥

वेदिस्थल १ विधानानि चैत्यान्यायतनानि च।

आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ ३३ ॥

वेदिस्थलानांबलिहरणवेदिस्थलानां अष्टदिग्वर्तिनां विधानानि तथा। चैत्यंगणपत्यायतनम्। आयतनंविष्ण्वादेः। अनुरूपाणीति। सूक्ष्ममार्गेणेति यावत् ॥ ३३ ॥

१ विमानानिङ।

चैत्यानिगन्धर्वाद्यावासस्थानानिगो।

आश्रमस्य अप्लप्रदेशत्वादिति भावः।

॥ २।५६।३३ ॥ ॥ २।५६।३४३६ ॥

वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि।

अद्भिर्जपैश्च वेदोक्तैः दर्भैश्च ससमि १ त्कुशैः ॥ ३४ ॥

तौ तर्पयित्वा भूतानि राघवौ सह सीतया।

तदा विविशतुः शालां सुशुभां २ शुभलक्षणौ ॥ ३५ ॥

तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां विवाताम्।

वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम् ॥

वृक्षपर्णैः कृतं छदनंआच्छादनं यस्याः सा तथा ॥ ३६ ॥

१ द्गणैःङ।

२ शुभलक्षणाम्झ।

॥ २।५६।३४३६ ॥ ॥ २।५६।३७ ॥

अनेकनाना १ मृगपक्षिसङ्कुले

विचित्रपत्रस्तबकद्रुमैर्युते।

वनोत्तमे व्यालमृगानुनादिते

तदा विजह्रुः सुसुखं जितेन्द्रियाः ॥ ३७ ॥

सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम्।

ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्पञ्चाशः सर्गः।

माला (३५) मानः सर्गः (?) ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे षट्पञ्चाशः सर्गः

१ विधङ।

अनेन विहाराणां अग्राम्यत्वं सूच्यते।

॥ २।५६।३७ ॥