०५५ यमुनातरणम्

पञ्चपञ्चाशः सर्गः

[यमुनातरणम्] ॥ २।५५।१ ॥

उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ।

महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ १ ॥

अथ भरद्वाजस्यानुज्ञया प्रस्थितस्य रामस्य मार्गोपदेशपूर्वं चित्रकूटप्रस्थानम्। उषित्वेत्यादि ॥ १ ॥

॥ २।५५।१ ॥ ॥ २।५५।२३ ॥

तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह।

प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानि १ वान्वगात् ॥ २ ॥

ततः प्रचक्रमे वक्तुं वचनं स महामुनिः।

भरद्वाजो महातेजाः रामं सत्यपराक्रमम् ॥ ३ ॥

वचनं वक्तुं प्रचक्रम इति। मार्गोपदेशार्थमिति शेषः ॥ ३ ॥

१ वान्वशात्ङ।, वौरसान्च।

॥ २।५५।२३ ॥ ॥ २।५५।४ ॥

गङ्गायमुनयोस्सन्धिं १ आसाद्य, मनुजर्षभौ

कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ॥ ४ ॥

गङ्गायमुनयोः सन्धिंसङ्गमतीर्थं प्राप्य तदनन्तरं पश्चान्मुखाश्रितांसङ्गमात्पश्चात्प्रदेश एवाश्रितस्वप्रयुक्तव्यवहारां गङ्गां सङ्गमानन्तरं गङ्गाया एव व्यवहारः, न तु कालिन्द्याः। कालिन्दींतदुत्तरतीरं आसाद्यप्राप्य अनुगच्छेताम् ॥ ४ ॥

१ आदाय मनुजर्षभच।

सम्बुध्यन्तं पदम्।

गङ्गाजलवेगाभिहत्या किञ्चित्पश्चान्मुखप्रवाहं प्राप्तां कालिन्दीं नदीम्गो।, ती।

तिलकेऽयं भागः एवमनूदितःसङ्गमात्पश्चिमप्रदेश एवाश्रितस्वप्रयुक्तव्यवहारां, सङ्गमपूर्वभागे तु गङ्गाया एव व्यवहार इति भावःइति कतकः। अन्ये तु पश्चान्मुखया गङ्गया आश्रितां कालिन्दीमनुगच्छेतां इत्यर्थः। अत एवाग्रे कालिन्दीमासाद्येत्युक्तिरित्याहुःति।

॥ २।५५।४ ॥ ॥ २।५५।५७ ॥

अथासाद्य तु कालिन्दीं १ शीघ्रस्रोतसमापगाम्।

तस्यास्तीर्थं २ प्रचरितं ३ पुराणं प्रेक्ष्य, राघवौ ॥ ५ ॥

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्।

ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ ६ ॥

विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्।

तस्मै सीताऽञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ॥ ७ ॥

आशिषः प्रयुञ्जीतेति विधिः। सीताया महावृक्षनत्यादिविधिः अक्षयमहावटवृक्षकल्परामाश्रयसिद्धिप्रयोजनः ॥ ७ ॥

१ प्रतिस्रोतस्समागताम्च।

२ सुचरितं, प्रचलितंङ।

३ प्रकामंच।

गङ्गां तीर्त्वा प्रथममागतयोः रामलक्ष्मणयोः गङ्गाया दक्षिणतीरानुरोधेन प्रस्थाने गङ्गायमुनासङ्गमप्राप्तौ ततः प्लवेन यमुनानदीतरणेन यमुनादक्षिणतीरप्राप्तौ तत्र वटवृक्षदर्शनमिति क्रमः। एवञ्च चतुर्थश्लोकव्याख्याने गोविन्दराजोक्तमेव समञ्जसमिति प्रतिभाति।

॥ २।५५।५७ ॥ ॥ २।५५।७ १२ ८ ॥

समासाद्य तु तं वृक्षं वसेद्वाऽतिक्रमेत वा।

अतिक्रमेत वेति। सीतेति शेषः ॥ ७ १२ ॥

क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम्।

पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः ॥ ८ ॥

ततःकालिन्दीदक्षिणतीरवर्तिन्यग्रोधादित्यर्थः। यामुनैःयमुनातीराश्रितैः ॥ ८ ॥

॥ २।५५।७ १२८ ॥ ॥ २।५५।९ ॥

स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया।

रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः ॥ ९ ॥

॥ २।५५।९ ॥ ॥ २।५५।१० ॥

इति पन्थान १ मावेद्य महर्षिः सन्न्यवर्तत।

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ॥ १० ॥

तथेत्युक्त्वेति। त्वदुपदिष्टमार्गेणैव गमिष्याम इत्युक्त्वेत्यर्थः ॥

१ मादिश्यच।

॥ २।५५।१० ॥ ॥ २।५५।१११४ ॥

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत्।

कृतप्ण्याः स्म, सौमित्रे मुनिर्यन्नोऽनुकम्पते ॥ ११ ॥

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ।

सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् ॥ १२ ॥

अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम्।

चिन्तामापेदिरे १ सर्वे नदीजलतितीर्षवः ॥ १३ ॥

तौ काष्ठ २ सङ्घाटमथो चक्रतुस्सुमहाप्लवम्।

शुष्कैः वंशैस्समास्तीर्णं उशीरैश्च समावृतम् ॥ १४ ॥

सङ्घाटःसङ्घः। प्लवःउडुपःमीतप्पु ॥ १४ ॥

१ सद्यःच।

काष्ठसङ्घातरूपं महाप्लवमित्यर्थः।

२ सङ्घातङ।

॥ २।५५।१११४ ॥ ॥ २।५५।१५ ॥

ततो वेतसशाखाश्च जम्बुशाखाश्च वीर्यवान्।

चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ॥ १५ ॥

उशीरंवीळल्। वेतसं ॥ १५ ॥

॥ २।५५।१५ ॥ ॥ २।५५।१६१७ ॥

तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्।

ईषत्संलज्जमानां तां अध्यारोपयत प्लवम् ॥ १६ ॥

पार्श्वे च तत्र वैदेह्याः वसने भूषणानि च।

प्लवे कठिनकाजं च रामश्चक्रे १ सहायुधैः ॥ १७ ॥

कठिनश्चासौ काजश्च कठिनकाजःकलैकोट्टु। इदमुपलक्षणं वासःपरशुदातृकाजानां द्वंद्वानामेकैकमादायऽ इत्युपदिष्टवानप्रस्थपरिकरान्तराणाम् ॥ १७ ॥

कठिनकंकन्दमूलखननसाधनं आयसाग्रं दारु। आजअजचर्मपिनद्ध पिटकगो। कठिनंखनित्रं, काजंपेटकंति।

१ समाहितःच।

॥ २।५५।१६१७ ॥ ॥ २।५५।१८ ॥

आरोप्य प्रथमं सीतां सङ्घाटं परिगृह्य तौ।

ततः प्रतेरतुर्यत्तौ १ वीरौ दशरथात्मजौ ॥ १८ ॥

सङ्घाटंप्लवम् ॥ १८ ॥

प्रीतौच़।

॥ २।५५।१८ ॥ ॥ २।५५।१९ ॥

कालिन्दीमध्यमायाता सीता त्वेनामवन्दत।

स्वस्ति, देवि तरामि त्वां १ पारयेन्मे २ पतिव्रतम् ॥ १९ ॥

पतिविषयक व्रतंपतिव्रतम्। पारयेत्समापयेत्प्रार्थने लिङ् ॥

१ तारयेन्मेङ।

२ पतिर्व्रतम्सर्वत्र।

॥ २।५५।१९ ॥ ॥ २।५५।२०२२ ॥

यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च।

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ॥ २० ॥

कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः।

तीरमेवाभिसम्प्राप्ता दक्षिणं १ वरवर्णिनी ॥ २१ ॥

ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्।

तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनां नदीम् ॥ २२ ॥

अंशुमतीमिति पदं, सूर्यपुत्रीमिति। यावत्। वृक्षैरिति। उपलक्षितामिति शेषः ॥ २२ ॥

१ जनकात्मजाङ।

॥ २।५५।२०२२ ॥ ॥ २।५५।२३२५ ॥

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात्।

श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ॥ २३ ॥

न्यग्रोधं तमुपागम्य वैदेही १ वाक्यमब्रवीत्।

नमस्तेऽस्तु, महावृक्ष पारयेन्मे पतिर्व्रतम् ॥ २४ ॥

कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम्।

इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ॥ २५ ॥

पर्यगच्छत्परितोऽगच्छत्प्रदक्षिणं चकारेति यावत् ॥ २५ ॥

१ चाभ्यवन्दतच।

॥ २।५५।२३२५ ॥ ॥ २।५५।२६ ॥

अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम्।

दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥ २६ ॥

आयाचन्तींप्रार्थयमानाम् ॥ २६ ॥

॥ २।५५।२६ ॥ ॥ २।५५।२७२९ ॥

सीतामादाय गच्छ त्वं अग्रतः, १ भरतानुज

पृष्ठतोऽहं गमिष्यामि सायुधः, द्विपदां वर ॥ २७ ॥

यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा।

२ तत्तत् प्रयच्छ वैहेह्याः यत्रास्या रमते मनः ॥ २८ ॥

एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम्।

अदृष्ट ३ पूर्वां पश्यन्ती रामं पप्रचछ साऽबला ॥ २९ ॥

पप्रच्छेति। कोऽसौ, किन्नामइत्येवमात्मनेति शेषः ॥ २९ ॥

१ भरताग्रजङ।

२ एतदनन्तरं गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा। मातङ्गयोर्मध्यगता शुभा नागवधूरिव।ऽ इत्यधिकम्ङ।

३ रूपांच।

॥ २।५५।२७२९ ॥ ॥ २।५५।३० ॥

रमणीयान् बहुविधान् पादपान् कुसुमो १ त्कटान्।

सीतावचन २ संरब्धोऽप्यानयामास लक्ष्मणः ॥ ३० ॥

सीतावचनेन संरब्धःभावे निष्ठासंरंभः त्वरा यस्य स तथा। लक्ष्मणोऽप्यानयामासेति योजना ॥ ३० ॥

१ त्करान्च।

२ संरब्ध आनसर्वत्र।

॥ २।५५।३० ॥ ॥ २।५५।३१ ॥

विचित्रवालुकजलां हंससारसनादिताम्।

रेमे जनकराजस्य सुता प्रेक्ष्य तदा नदीम् ॥ ३१ ॥

नदींयमुनाम् ॥ ३१ ॥

॥ २।५५।३१ ॥ ॥ २।५५।३२ ॥

क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ।

बहून् मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ॥ ३२ ॥

चेरतुःचरगतिभक्षणयोःअभ्यवहृतवन्ताविति यावत् ॥ ३२ ॥

॥ २।५५।३२ ॥ ॥ २।५५।३३ ॥

विहृत्य ते बर्हिणपूगनादिते

शुभे वने वानरवारणायुते।

समं नदीवप्रमुपेत्य सम्मतं

निवासमाजग्मुरदीनदर्शनाः ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः।

समंअनिम्नोन्नतम्। वप्रंतीरम्। गर्ग (३३) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः।

॥ २।५५।३३ ॥