०५४ भरद्वाजाश्रमगमनम्

चतुःपञ्चाशः सर्गः

[भरद्वाजदर्शनम्] ॥ २।५४।१ ॥

ते तु तस्मिन् महावृक्षे उषित्वा रजनीं शिवाम्।

विमलेऽभ्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे ॥ १ ॥

अथ गङ्गाया दशाश्वमेधस्थलाददूरे उत्तीर्णगङ्गस्य गङ्गातीरमार्गेण प्रयागं प्राप्तस्य भरद्वाजाश्रमप्राप्तिः। ते त्वित्यादि ॥ १ ॥

॥ २।५४।१ ॥ ॥ २।५४।२ ॥

१यत्र भागीरथीं गङ्गां यमुनाऽभिप्रवर्तते।

जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ २ ॥

गङ्गामभि यमुना प्रवर्तत इति योजना। तं देशमिति। प्रयागदेशमित्यर्थः ॥ २ ॥

यत्र भागीरथी गङ्गा यमुनामभिवर्ततेङ।

॥ २।५४।२ ॥ ॥ २।५४।३ ॥

ते भूमिभागान् विविधान् देशांश्चापि मनोरमान्।

अदृष्टपूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥ ३ ॥

यथा १ क्षेमेण २ गच्छन्तः सम्पश्यन् विविधान् द्रुमान्।

भूमिभागाःभूमिप्रदेशाः। यथायथासुखं, जानानुयानशङ्काभावात् उपविश्योत्थाय च शनैः स्वेच्छानुरोधेन। क्षेमेणप्रकृत्यादिभ्यःऽ इति तृतीया, निर्दुःखं गच्छन्तस्ते सम्पश्यन्समपश्यन्निति यावत् ॥ ३ ॥

यथाक्षेमेणक्षेमानतिक्रमेणक्षेमहेत्ववधानमनतिक्रम्येत्यर्थःगो।

१ क्रमेणङ।

२ सम्पश्यन् पुष्पितान् विविधान् द्रुमान्च।

॥ २।५४।३ ॥ ॥ २।५४।४५ ॥

निवृत्तमत्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ ४ ॥

प्रयागमभितः पश्य, सौमित्रे धूममुन्नतम्।

अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः ॥ ५ ॥

निवृत्तमात्र इति। अर्धमण्डलकालमात्र इत्यर्थः। भगवतः अग्नेः केतुंधूमं पश्य। यदेवं अतःअत्र मुनिस्सन्निहित इति मन्ये ॥ ५ ॥

निवृत्तच।

॥ २।५४।४५ ॥ ॥ २।५४।६९ ॥

नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर्वयम्।

तथा हि श्रूयते शब्दः १ वारिणो वारिघट्टितः ॥ ६ ॥

दारूणि परिभिन्नानि वनजैरुपजीविभिः।

२ भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ ७ ॥

घन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे।

गङ्गायमुनयो ३ स्सन्धौ प्रापतुर्निलयं मुनेः ॥ ८ ॥

रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः।

गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥ ९ ॥

गङ्गायमुनयोस्सन्धाविति। अन्तर्वेदिप्रदेश इत्यर्थः। निलयंआवासम्। प्राप्तुं तुमुन् प्वुयै क्रियायां क्रियार्थायांऽ इति तुमुन् प्राप्स्यन्, तद्धेतोर्मुनेराश्रममासाद्यतत्समीपवनप्रदेशमासाद्येत्यर्थः। त्रासयन्निति। धनुष्मत्वादिस्वरूपमात्रेण केवलं त्रासहेतुस्सन्। भरद्वाजंभरद्वाजाश्रममित्यर्थः ॥ ९ ॥

१ वारिणोवारिवर्षजःङ।, वारिणोर्वारिवर्षजःच।

२ छिन्नाश्चाप्याश्रमेच।

३ र्मध्येङ।

सर्वत्र एवमेव पाठे दृश्यतेपरन्तु एतद्व्याख्यानुसारेणप्रापतुरिति रथाने प्राप्तुं तुऽ इति पाठः स्यादिति भाति। श्लोकद्वयमेकान्वयं चेति।

॥ २।५४।६९ ॥ ॥ २।५४।१० ॥

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ।

सीतयाऽनुगतौ वीरौ दूरादेवावतस्थतुः ॥ १० ॥

दूरादेवावतस्थतुःअनुमत्यर्थमिति भावः ॥ १० ॥

सायन्तनसमयत्वात् अग्निहोत्रावसानं प्रतीक्षमाणाववतस्थतुः इत्यर्थःगो। विज्ञापनपूर्वकानुमतिलाभार्थमिति भावःति।

॥ २।५४।१० ॥ ॥ २।५४।११ ॥

१सम्प्रविश्य महात्मानं ऋषिं शिष्यगणैर्वृतम्।

संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ॥ ११ ॥

सम्प्रविश्येति। कार्यवशनिर्गतशिष्यद्वारा विज्ञाप्यानुज्ञाताविति शेषः। तपसा लब्धचक्षुषमिति। त्रैकालिकसर्वजगद्वृत्तान्ताभिज्ञमित्यर्थः ॥

१स प्रविश्यङ।, च।

संशितव्रतंतीक्ष्णव्रतंति।, गो।

॥ २।५४।११ ॥ ॥ २।५४।१२ ॥

हुताग्निहोत्रं दृष्ट्वैव १महाभागं कृताञ्जलिः।

रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ॥ १२ ॥

दृष्ट्वैवज्ञात्वैव, अवसरं विज्ञायेत्यर्थः ॥ १२ ॥

दृष्ट्वैवदर्शनोत्तरकालमेवेत्यर्थःगो।

१ महाभागःच।

॥ २।५४।१२ ॥ ॥ २।५४।१३१६ ॥

न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः।

पुत्रौ दशरथस्यावां, भगवन् रामलक्ष्मणौ ॥ १३ ॥

भार्या ममेयं वैदेही कल्याणी जनकात्मजा।

मां चानुयाता विजनं तपोवनमनिन्दिता ॥ १४ ॥

पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः।

अयमन्वगमद्भ्राता वनमेव दृढव्रतः ॥ १५ ॥

पित्रा नियुक्ताः, भगवन् प्रवेक्ष्यामस्तपोवनम्।

१ धर्ममेव चरिष्यामः तत्र मूलफलाशनाः ॥ १६ ॥

धर्ममेवेति। वानप्रस्थधर्ममेव, न तु मृगयादिराजधर्मात् वनप्राप्तिरित्यर्थः। तदेव प्रदर्श्यतेतत्रेत्यादि। पितृनियोगतः प्रवेष्टव्यवन इत्यर्थः ॥ १६ ॥

१ धर्ममेवाचरिच।

मूलफलमिति असंस्कृताहारसामान्यपरम्। अतः पूर्वं मांसग्रहणं न विरुद्धम्।

॥ २।५४।१३१६ ॥ ॥ २।५४।१७ ॥

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।

उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ॥ १७ ॥

गामर्घ्यमिति। गांमधुपर्कमिति यावत्। तथा हि स्मृतिः गोमधुपर्कार्होवेदाध्याय्याचार्यऋत्विक्स्नातको राजा वा धर्मयुक्तःऽ इति ॥ १७ ॥

॥ २।५४।१७ ॥ ॥ २।५४।१८ ॥

नानाविधानन्नरसान् वन्यमूलफलाश्रयान्।

तेभ्यो ददौ तप्ततपाः वासं चैवाभ्यकल्पयत् ॥ १८ ॥

नानाविधान्नानाप्रकारान्, अन्नरसान्अद्यत इत्यन्नं, अन्नानि रसाः पानीयविशेषाः तान् वन्यमूलफलाश्रयानेव, न तु जानपदान् ॥ १८ ॥

॥ २।५४।१८ ॥ ॥ २।५४।१९ ॥

मृगपक्षिभिरासीनः मुनिभिश्च समन्ततः।

राममागतमभ्यर्च्य १स्वागतेनातिथिं मुनिः ॥ १९ ॥

आसीन इति। अभ्यर्च्य आसीनोऽभवदिति योजना ॥ १९ ॥

मृगपक्ष्यादीनां सौहार्दाभिधानेनैवं ऋषिमाहात्म्यं प्रकटितम्।

१ स्वागतेनाह तंङ।, स्वागतेनागतंच।

॥ २।५४।१९ ॥ ॥ २।५४।२०२५ ॥

प्रतिगृह्य च तामर्चां उपविष्टं स राघवम्।

भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ २० ॥

चिरस्य खलु, काकुत्स्थ पश्यामि त्वामिहागतम्।

श्रुतं तव मया चेदं विवासनमकारणम् ॥ २१ ॥

अवकाशो विविक्तोऽयं महानद्योस्समागमे।

पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ॥ २२ ॥

एवमुक्तस्तु वचनं भरद्वाजेन राघवः।

प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ २३ ॥

भगवन्नित आसन्नः पौरजानपदो जनः।

सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् ॥ २४ ॥

आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः।

अनेन कारणेनाहमिह वासं न रोचये ॥ २५ ॥

इत आसन्न इति। एतदाश्रमादासन्नदेशवर्ती प्रेक्ष्य आगमिष्यतीति मन्य इति योजना ॥ २४२५ ॥

अनेन पूर्वमपि कदाचिदागमनं ध्वनितम्। पूर्वरामावतारकालिकमागमनं मनसि निधाय वा एषोक्तिःति। चक्षुषाद्यगोचरं त्वामेव मनसि सततमनुसन्दधानोऽहं चिरकालस्य इह मम पुरतः चक्षुषा पश्यामीत्याश्चर्यम्ती। वस्तुतस्तुनिषादसख्यादिपरिशीलनायां पूर्वमपि रामेण मृगयादिहेतोः अत्रागमनं सम्भावनार्हमनेन दृढीकृतम् ॥

श्रुतमिति। स्वत्त इति शेषः। अकारणं तव विवासनं श्रुतंत्वत्तः श्रुतं तव विवासनमकारणमिति वाऽन्वयः। यद्वाअन्यमुखात् श्रुतं, किंवदन्त्याः शीघ्रव्यापनशीलत्वात्।

॥ २।५४।२०२५ ॥ ॥ २।५४।२६ ॥

एकान्ते पश्य, भगवन् आश्रमस्थानमुत्तमम्।

रमते यत्र वैदेही सुखार्हा जनकात्मजा ॥ २६ ॥

पश्येति। ज्ञात्वा निर्दिशेत्यर्थः ॥ २६ ॥

रमेतङ।

॥ २।५४।२६ ॥ ॥ २।५४।२७ ॥

एतत् श्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः।

राघवस्य ततो वाक्यं अर्थग्राहकमब्रवीत् ॥ २७ ॥

अर्थग्राहकंराघवोक्तप्रयोजनप्रतिपादकम् ॥ २७ ॥

अर्थग्राहकंबह्वर्थवत्गो।

॥ २।५४।२७ ॥ ॥ २।५४।२८ ॥

दशक्रोश इतः, तात गिरिर्यस्मिन्निवत्स्यसि।

महर्षिसेवितः पुण्यः १ सर्वतः सुखदर्शनः ॥ २८ ॥

दशक्रोश इति सप्तम्यन्तम् ॥ २८ ॥

१ पर्वतःच।

॥ २।५४।२८ ॥ ॥ २।५४।२९ ॥

गौलाङ्गूलानुचरितः वानरर्क्षनिषेवितः।

चित्रकूट इति ख्यातः गन्धमादनसन्निभः ॥ २९ ॥

गोलाङ्गूलःमुचणु ॥ २९ ॥

॥ २।५४।२९ ॥ ॥ २।५४।३० ॥

यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते।

कल्याणानि समाधत्ते न १ पापे कुरुते मनः ॥ ३० ॥

यावत्यदा अवेक्षते तदेति योजना। समाधत्त इति। मनसेति शेषः ॥ ३० ॥

१ मोहेच।

॥ २।५४।३० ॥ ॥ २।५४।३१ ॥

ऋषयस्तत्र वहवः विहृत्य शरदां शतम्।

तपसा दिवमारूढाः कपालशिरसा सह ॥ ३१ ॥

दुर्भिक्षमृतनृकपालवत् पलितंशुक्लं शिरस्तथा, मध्यमपदलोपी समासः, तादृशेन शिरसा सह एवमतिवृद्धदशायामपि तपश्चरन्तः तादृशेन पूर्णेन यावज्जीवानुष्ठितेन तपसा स्वसहजब्राह्मतन्त्रज्ञानयोगवैभवेन दिवंपरनाकंब्रह्मकुलसहजलोकंब्रह्मलोकमारूढाःप्राप्ता इत्यर्थः। अन्यस्तुकपालशिरसादेहेन सह स्वर्गं गताः इत्याहतदानीं तथैव वक्तव्यत्वतः अयं शिरोवेष्टनप्राणायामः असङ्गतः। एतत्कायकुणपः स्वर्गस्याप्यनर्ह इति सर्वथैव त्याग आवश्यकः। दाशरथिधर्मपुत्रादयः धर्मवैभवप्रदर्शनाय कियद्दूरं प्राप्तव्यमण्डलप्राप्तेः प्रागेव तत्कुणपं निरस्य दिव्यपुण्यदेहं विद्यादेहं वा प्राप्य स्वं स्वं धाम गच्छन्ति। अतो नेदं ब्रह्मकुलस्य सशरीरनिर्याणं पुमर्थः। अतो न किञ्चित्प्राशस्त्यम् ॥ ३१ ॥

निरन्तरकपालासनेन प्रक्षीणत्वक्छिरोरुहतया कपालावशिष्टशिरसा सह दिवमारुढा इत्यर्थः। कपालशिरसेत्येतत् शरीरोपलक्षणम्। सशरीराः स्वर्गं गता इत्यर्थः। यद्वा कपालशिरा इति कस्यचिदृषेः संज्ञा। कपालशिरसाकपालरूपशिरोयुक्तेनेत्यध्याहृतशरीरपदविशेषणमित्येके। कपालमात्रावशिष्टं शिरो यस्मिन्निति तपोविशेषणमित्येकेगो।

अन्यस्तु इत्युच्यमानःगोविन्दराजः, महेशतीर्थो वा स्यात्। अयं भागः तिलके एवमनूदितो दृश्यते केचित्तु कपालशिरसेति शरीरोपलक्षणंसशरीराः स्वर्गं गता इत्याहुः। तन्नधर्मपुत्रादीनामपि कियद्दूरमेव धर्मवैभवदर्शनाय एतच्छरीरेण गमनम्। ततस्तन्निरासपूर्वकमेव स्वर्गगमनश्रवणादिति कतकःऽ इति। परन्त्वयमर्थानुवादः स्यादपि।

॥ २।५४।३१ ॥ ॥ २।५४।३२ ॥

प्रविविक्तमहं मन्ये तं वासं भवतः सुखम्।

इह वा वनवासाय वस, राम मया सह ॥ ३२ ॥

वनवासायतद्वासनियमसिद्धये मया सह इह वा वस। अद्येति शेषः ॥ ३२ ॥

एवं चित्रकूटवासनिदेशनात् स्वाश्रमे रामवासः स्वाननुमतः इति प्रतीतिनिवारणाय, लोकरीत्या च इहैव वा वसऽ इत्युक्तिः।

॥ २।५४।३२ ॥ ॥ २।५४।३३ ॥

स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्।

सभार्यं सह च भ्रात्रा प्रतिजग्राह १ धर्मवित् ॥ ३३ ॥

स राममिति। तद्रजन्यां तत्र वसन्तमिति शेषः ॥ ३३ ॥

रामं प्रतिजग्राहसत्कारैर्वशीकृतवानित्यर्थः। स्वागतेन स्वीकृतवानिति वा।

१ हर्षयन्च।

॥ २।५४।३३ ॥ ॥ २।५४।३४ ॥

तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः।

प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ ३४ ॥

प्रयागे रजनी प्रपन्नाप्राप्ता ॥ ३४ ॥

॥ २।५४।३४ ॥ ॥ २।५४।३५३७ ॥

सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः।

भरद्वाजाश्रमे १रम्ये तां रात्रिमवसत् सुखम् ॥ ३५ ॥

प्रभातायां रजन्यां तु भरद्वाजमुपागमत्।

उवाच नरशार्दूलः मुनिं ज्वलितचेतसम् ॥ ३६ ॥

शर्वरीं भगवन्नद्य, सत्यशील तवाश्रमे।

उषिताः २ स्मेह वसतिं अनुजानातु नो भवान् ॥ ३७ ॥

इहतवाश्रमे शर्वरीमुषिताः स्म। अतः परं वसतिंत्वदुद्दिष्टचित्रकूटवासगमनं प्रत्यनुजानातु। भरद्वाजो रामेण तथा प्रार्थित इति शेषः ॥ ३७ ॥

१ पुण्येङ।

२ स्मो हच।

॥ २।५४।३५३७ ॥ ॥ २।५४।३८ ॥

रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम्।

मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ॥ ३८ ॥

व्रजेति हेति। अनुजज्ञ इति शेषः ॥ ३८ ॥

व्रजेति अब्रवीदित्यन्वयः।

॥ २।५४।३८ ॥ ॥ २।५४।३९४२ ॥

वासमौपयिकं मन्ये तव, राम महाबल

प्राक् व्युत्पत्तिमात्रं प्रदर्शितम्, उचितमित्यर्थः ॥

१नानानगगणोपेतः किन्नरोरगसेवितः।

मयूरनादाभिरुतः २ गजराजनिषेवितः ॥ ३९ ॥

गम्यतां भवता शैलः चित्रकूटः स विश्रुतः।

पुण्यश्च रमणीयश्च बहुमूलफलायुतः ॥ ४० ॥

तत्र कुञ्जरयूथानि मृगयूथानि चाभितः।

विचरन्ति वनान्तेऽस्मिन् तानि द्रक्ष्यसि, राघव ॥ ४१ ॥

सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्दरान्।

चरतः सीतया सार्धं नन्दिष्यति मनस्तव ॥ ४२ ॥

सरित्प्रस्रवणेनोपेताः प्रस्थास्तथा। दर्यः, कन्दरादिः, निर्दराःनिर्झराश्च तथा। दरीगिरिगुहा। कन्दराःवृक्षमूलकोटराः ॥ ४२ ॥

गतसर्गे ३० श्लोकव्याख्यायां औपयिकपदस्येति शेषः।

१ नानामरःङ।

२ गजवाजिङ।

दर्यःपाषाणसंश्लेषस्थानानि। कन्दराःगुहाः। निर्दराःविदीर्णपाषाणसन्धयःगो।

सीतया सार्धं चरतः तव मनः नन्दिष्यतिसन्तोषं प्राप्स्यति।

॥ २।५४।३९४२ ॥ ॥ २।५४।४३ ॥

प्रहृष्टकोयष्टिभकोकिलस्वनैः

विनादितं तं वसुधाधरं शिवम्।

मृगैश्च मत्तैः बहुभिश्च कुञ्जरैः

सुरम्यमासाद्य समावसाश्रमम् ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः

कोयष्टिभःटिट्टिभःसीच्चीली(?) आलाव (४३ १२) मानः सर्गः ॥ ४३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुःपञ्चाशः सर्गः

॥ २।५४।४३ ॥