०५३ राम-लक्ष्मणसंवादः

त्रिपञ्चाशः सर्गः

[रामसन्तापः] ॥ २।५३।१ ॥

स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम्।

रामो रमयतां श्रेष्टः इति होवाच लक्ष्मणम् ॥ १ ॥

अथ सायमावासवृक्षस्थले ततः प्राक् जनसमक्षं धैर्यधृतशोकं तु विजने बहिः स्फोरयति रामश्चापि। स तमित्यादि। रमयतांप्रजारमणं कुर्वताम् ॥ १ ॥

॥ २।५३।१ ॥ ॥ २।५३।२ ॥

अद्येयं प्रथमा रात्रिः याताऽऽजनपदाद्बहिः।

या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ २ ॥

याता, आ, जनपदादिति पदम्। अस्मज्जनपदाद्बहिर्देशे अद्य येयं रात्रिरायाता केवलवनवासरात्रिषु प्रथमा, या चेयं सुमन्त्रेण च रहिता, तामिमां प्राप्य नोत्कण्ठितुंशोकस्मरणं कर्तुं नार्हसि ॥ २ ॥

याताआइत्यनयोर्विपरिणामेन आयाता इत्यन्वयः। जनपदाद्वहिरागतस्य रामस्य प्रथमा खल्वियं रात्रिः। अतः सा यातेति कथनमसंगतं स्यादिति भावेन एवं व्याख्यातम्। गोविन्दराजस्तु याताप्राप्ता इति व्याचख्यौ।

॥ २।५३।२ ॥ ॥ २।५३।३ ॥

जागर्तव्य १ मतन्द्रिभ्यां अद्यप्रभृतिषु रात्रिषु।

योगक्षेमं हि सीताया वर्तते लक्ष्मणावयोः ॥ ३ ॥

न विद्यते तन्द्री ययोस्तौ अतन्द्री ताभ्याम्। आवयोर्वर्तत इति। अस्मदायत्तमित्यर्थः ॥ ३ ॥

१ मतन्द्राभ्यांङ।

॥ २।५३।३ ॥ ॥ २।५३।४ ॥

रात्रिं कथञ्चिदेवेमां, सौमित्रे वर्तयामहे।

उपावर्तामहे भूमौ आस्तीर्य स्वयमार्जितैः ॥ ४ ॥

कथञ्चिदेवेमामिति। उटजादिनिर्माणाभावात् केवल १ वनस्थले शयितव्यत्वादित्याशयः। स्वयमार्जितैरिति। णपर्णादिभिरिति शेषः ॥

१ नभस्थलेग।

॥ २।५३।४ ॥ ॥ २।५२।५ ॥

स तु संविश्य मेदिन्यां महार्हशयनोचितः।

इमां सौमित्रये रामः व्याजहार कथां शुभाम् ॥ ५ ॥

कथामिति। वार्तामिति यावत् ॥ ५ ॥

॥ २।५३।५ ॥ ॥ २।५३।६७ ॥

ध्रुवमद्य महाराजः दुःखं स्वपिति लक्ष्मण

कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ ६ ॥

सा हि देवी महाराजं कैकेयी राज्यकारणात्।

अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम् ॥ ७ ॥

इदानीं भरतयौवराज्याय कुमार्गे प्रवृत्ता कैकेयी, भरतस्य परोक्ष एव एवं करोति चेत्, भरतागमनानन्तरं तद्दर्शनेनोत्तम्भिताशा सती यौवराज्यापेक्षया राज्याधिकारमेव कामयन्ती, तत्प्रतिबन्धकतया स्थितं दशरथं न मारयेद्वामारयेदेवेति भावः। एवमादिकं अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मणऽ इति वक्ष्यमाणलक्ष्मणप्रतिनिवृत्त्युपदेशाय लक्ष्मणाभिप्रायानुगुणमुच्यत इति गोविन्दराजः।

॥ २।५३।६७ ॥ ॥ २।५३।८१० ॥

अनाथस्चैव वृद्धश्च मया चैव विनाकृतः।

किं करिष्यति कामात्मा कैकेयीवशमागतः ॥ ८ ॥

इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्।

काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ ९ ॥

को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत्।

छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण ॥ १० ॥

काम एव गरीयानित्ययमर्थः प्रसाध्यतेको ह्यविद्वानपीत्यादि। अत्यज्ञोऽपि कः पुमान् पिता, मम तात इव छन्दानुवर्तिनं पुत्रं प्रमदायाः कृतेप्रमदामेव निमित्तं प्राप्य त्यजेत्। इदमत्यन्तानुचितम्। सर्वज्ञोऽपि सार्वभौमोऽपि वृद्धोऽपि कामात् कृतवानिति यत् अतो धर्मार्थाभ्यां प्रबलः काम इति मन्य इत्यर्थः। कथमेवं वादः सत्यपाशबन्धात् मद्वनवासानुमतिः प्राणाधिकप्रेम्णोऽपिइति जानतोऽपि रामस्य? उच्यते ऽअयोध्यामित एव त्वं काले प्रविश लक्ष्मणऽ इति वदिष्यन् तन्मतमवलम्ब्य तत्प्रीतये एवं वदति । वास्तवस्त्वाशयोऽग्रे वक्ष्यतेएको ह्यहमित्यादिना ॥ १० ॥

अत एव न च सीता त्वया हीना न चाहमपिऽ इत्युत्तरत्र लक्ष्मणवाक्यमपि युज्यते।

॥ २।५३।८१० ॥ ॥ २।५३।१११२ ॥

सुखी बत सभार्यश्च भरतः केकयीसुतः।

मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ ११ ॥

स हि सर्वस्य राज्यस्य १ सुखमेकं भविष्यति।

ताते च वयसाऽतीते मयि चारण्यमाश्रिते ॥ १२ ॥

एकं मुख्यं सुखम्अनुभवितेति शेषः ॥ १२ ॥

मुखमेकमितिगो। पाठः। अद्वितीयं प्रधानमित्यर्थःइति च व्याख्यातम्। सुखमेक इति तीर्थपाठः। सुखंअनायासेन एको राजा भविष्यतीति तदानीमर्थः।

१सुखमेको, मुखमेकंङ।

॥ २।५३।१११२ ॥ ॥ २।५३।१३ ॥

अर्थधर्मौ परित्यज्य यः काममनुवर्तते।

एवमापद्यते १ क्षिप्रं राजा दशरथो यथा ॥ १३ ॥

यथा दशरथो राजातथा क्षिप्रं अराजत्वमापद्यतेप्राप्नोति ॥ १३ ॥

यःभरतः काममनुवर्तते सःयथा राजा दशरथो विपदमापन्नः एवं विपदमापद्यतेप्राप्नोतीत्यर्थः। अन्ये तु राजादशरथो यथा राजत्वमापन्नः तथा भरतो राजत्वमापद्यत इत्यर्थ इत्याहुःति।

१लोकःङ।

॥ २।५३।१३ ॥ ॥ २।५३।१४१५ ॥

मन्ये दशरथान्ताय मम प्रव्राजनाय च।

कैकेयी, सौम्य १ सम्प्राप्ता राज्याय भरतस्य च ॥ १४ ॥

अपीदानीं च कैकेयी सौभाग्यमदमोहिता।

कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते ॥ १५ ॥

मत्कृत इति। मद्दुःखसम्पादननिमित्तमित्यर्थः ॥ १५ ॥

सन्तप्ताङ।

॥ २।५३।१४१५ ॥ ॥ २।५३।१६ ॥

१माताऽस्मत्कारणाद्देवी सुमित्रा दुःख २ मावसेत्।

अयोध्यामित एव त्वं ३ काले प्रविश,लक्ष्मण ॥ १६ ॥

मातात्वन्माता। कालेप्रातःकाल इत्यर्थः ॥ १६ ॥

१ मा स्म मत्कारणात्ङ।

२ माविशेत्ङ।

३ काल्येङ।

॥ २।५३।१६ ॥ ॥ २।५३।१७ ॥

अहमेको गमिष्यामि सीतया सह दण्डकान्।

अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ १७ ॥

नाथ इति। रक्षक इति यावत् ॥ १७ ॥

॥ २।५३।१७ ॥ ॥ २।५३।१८ ॥

क्षुद्र १ कर्मा हि कैकेयी २ द्वेष्यमन्याय्यमाचरेत्।

३ परिदद्याद्धि ४ धर्मज्ञ गरं ते मम मातरम् ॥ १८ ॥

क्षुद्रकर्मेति। डाबुभाभ्यां৷৷।ऽ इति डाप्। किमन्याय्यमाचरेदित्यतःपरिदद्यादित्यादि। गरंविषम्। तेतव मातरं मम मातरं चोद्दिश्येति शेषः ॥ १८ ॥

१ धर्माङ।

२ द्वेष्यादन्याच।

परिदद्याःपरिदानं नाम रक्ष्यतया प्रदानम्गो। एतद्रीत्या धर्मज्ञे भरते इति पाठः।

३ परिदद्या हिङ।

४ धर्मज्ञे भरतेच। ङ।

॥ २।५३।१८ ॥ ॥ २।५३।१९ ॥

नूनं जात्यन्तरे १ कस्मिन् स्त्रियः पुत्रैर्वियोजिताः।

जनन्या मम, सौमित्रे २ तदप्येतदुपस्थितम् ॥ १९ ॥

कस्मिंश्चित् जात्यन्तरेजन्मान्तरे स्त्रियःमातरः पुत्रैःतत्तत्पुत्रैर्वियोजिता नूनम्। मम जनन्येत्याकर्षः। तदप्येतदिति। पापमिति यावत् ॥ १९ ॥

१ तातङ।

२ तस्मादेतङ।

॥ २।५३।१९ ॥ ॥ २।५३।२० ॥

मया हि चिरपुष्टेन दुःखसंवर्धितेन च।

विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥ २० ॥

फलकालेसुखानुभवार्हकाले ॥ २० ॥

॥ २।५३।२० ॥ ॥ २।५३।२१ ॥

मा स्म सीमन्तिनी काचित् जनयेत् पुत्रमीदृशम्।

सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम् ॥ २१ ॥

ईदृशमिति। कीदृशमित्यतः।सौमित्रे इत्यादि ॥ २१ ॥

॥ २।५३।२१ ॥ ॥ २।५३।२२ ॥

मन्ये प्रीतिविशिष्टा सा मत्तः, लक्ष्मण शारिका।

यस्यास्तच्छ्रूयते वाक्यं, शुक पादमरेर्दश ॥ २२ ॥

सर्वथा मज्जननेन अम्बाया न प्रयोजनमित्याहमन्य इत्यादि। हे लक्ष्मण अम्बया शिक्षितावर्धिताकृतवचश्शिक्षा च या शारिका अस्ति, सा तु वृथा वर्धितात् मत्तः प्रीतिविशिष्टाअम्बायाः प्रीतिजननविषये विशिष्टाविशेषसाधनभूतेति मन्ये। कथम्? यत्यस्मात् तस्याश्शारिकायाः सकाशात् शुकं प्रति तथोच्यमानं अरेः पादंअस्मन्मातुः कौसल्यायाः शत्रोः पादं दशदंशनं कुरुऽ इति शत्रुनिग्रहविषयकं वाक्यमपि वा श्रूयते। मत्तः शत्रुनिग्रहप्रसङ्गवाचोऽपि न प्राप्नोति। तत्तस्मादेव ॥ २२ ॥

॥ २।५३।२२ ॥ ॥ २।५३।२३ ॥

शोचन्त्याश्चाल्पभाग्याया न किञ्चिदुपकुर्वता।

पुत्रेण किमपुत्राया मया कार्यमरिन्दम ॥ २३ ॥

अपुत्राया इति। असन्निहितपुत्राया इत्यर्थः ॥ २३ ॥

पुत्रकृतप्रयोजनरहितत्वाद्वा अपुत्राया इति निर्देशः।

॥ २।५३।२३ ॥ ॥ २।५३।२४२५ ॥

अल्पभाग्या हि मे माता कौसल्या रहिता मया।

शेते परमदुःखार्ता पतिता शोकसागरे ॥ २४ ॥

एको ह्यहमयोध्यां च पृथिवीं चापि, लक्ष्मण

तरेयमिपुभिः क्रुद्धः ननु वीर्यमकारणम् ॥ २५ ॥

नन्वसन्निहितपुत्रकता मातुः किमिति कार्या? भ्रात्रा मया सहितेनाभिषिच्यात्मानं अयोध्यामवस्थातुं सुशक्यत्वादित्यत्र, तथाऽवस्थित्यङ्गीकारे त्वदपेक्षापि मे नास्ति। तत् धर्मलोपभयादशक्याङ्गीकारमित्याहएक इत्यादि। इषुभिस्तरेयमिति। निरस्तारातिकां कर्तुं शक्नुयां इत्यर्थः। वीर्यमकारणमिति। परलोकहिते, अपि तु धर्म एवेति शेषः ॥ २५ ॥

॥ २।५३।२४२५ ॥ ॥ २।५३।२६ ॥

अधर्मभयभीतश्च परलोकस्य चानघ

तेन, लक्ष्मण नाद्याहं आत्मानमभिषेचये ॥ २६ ॥

यदेवं अतःअधर्मेति। अधर्मात् भयम्, कैकेय्यै पितृदत्तवरपालनप्रतिज्ञाक्षतिरूपाधर्मात् भीत इत्यर्थः। परलोकस्य चेति। नाशात् भीत इति शेषः ॥ २६ ॥

॥ २।५३।२६ ॥ ॥ २।५३।२७ ॥

एतदन्यच्च करुणं विलप्य विजने १ वने।

अश्रुपूर्णमुखो २ रामः निशि तूष्णीमुपाविशत् ॥ २७ ॥

विजन इत्यनेन स्वविलापे लोकदुःखप्रसङ्गपरिहारनिर्बन्धाभावः आवेदितः ॥ २७ ॥

बहुजनमध्ये मनसोऽनवधानतया न क्लेशाधिक्यप्रतीतिः, विजने तु देशे अतीव क्लेशोन्मेष इत्यनुभवात् विजन इत्यक्तम्।

१ बहुच।

स्वानुरक्तजनदुःखासहिष्णुत्वादश्रुपूर्णमुखत्वं, न तु वस्तुतः। व्यसनेषु मनुष्याणां भृशं भवति दुःखितःऽ इत्युक्तेःती। अश्रुपूर्णमुखत्वं नटवल्लोकव्यवहारानुसारेणेति बोध्यम्ति। एतद्व्याख्यात्रावक्तव्यं दशमश्लोकव्याख्यान एवोक्तम्।

२ दीनःच।

॥ २।५३।२७ ॥ ॥ २।५३।२८ ॥

१ विलप्योपरतं रामं गतार्चिपमिवानलम्।

समुद्रमिव निर्वेगं आश्वासयत लक्ष्मणः ॥ २८ ॥

अश्वासयतआश्वासयदिति यावत् ॥ २८ ॥

१ विलापोपरतंच।

॥ २।५३।२८ ॥ ॥ २।५३।२९ ॥

ध्रुवमद्य पुरी, १ राजन् अयोध्याऽऽयुधिनां वर

निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥ २९ ॥

आयुधिनां इति पदम् ॥ २९ ॥

॥ २।५३।२९ ॥ ॥ २।५३।३० ॥

नैतदौपयिकं, राम यदिदं परितप्यसे।

विषादयसि सीतां च मां चैव, पुरुषर्षभ ॥ ३० ॥

औपयिकमिति। उपधाया ह्रस्वश्चऽ इति ठक् स्वार्थे, आकारस्य ह्रस्वश्च, उपायःहितसाधनं न भवतीत्यर्थः। तदेव प्रदर्श्यतेविषादयसीत्यादि ॥ ३० ॥

युक्तमौपयिकंऽ इत्यमरः। न युक्तमित्यर्थः।

॥ २।५३।३० ॥ ॥ २।५३।३१ ॥

न १ हि सीता त्वया हीना न चाहमपि, राघव

मुहूर्तमपि जीवावः जलान्मत्स्याविवोद्धृतौ ॥ ३१ ॥

अथ गन्तव्यं त्वया इति यदुक्तं, तत्रोत्तरं लक्ष्मण आह न हि सीतेत्यादि ॥ ३१ ॥

त्वया हीना सीता च न जीवति, त्वद्विहीनोऽहमपि न च जीवामि ৷৷। अपि जीवावःयदि जीवावः जलादुद्धृतौ मत्स्याविव मुहूर्तं स्वल्पकालं जीवावःगो। अत्र नकारद्वयं तृतीयनकारस्याप्युपलक्षणं, त्वया हीना सीता च त्वया हीनोऽहं च एतावुभावावामपि जलादुद्धृतौ मत्स्याविव मुहूर्तमात्रमपि न जीवाव इति सम्बन्धःती। त्वया हीना सीता त्वया हीनोऽहं च जलादुद्धृतौ मत्स्याविव न जीवावः न जीवावः। जीवाव इत्यावृत्त्या नञ्द्वयान्वयः। जीवनाभावस्य सर्वथा सत्यत्वप्रतिपादनाय द्विरुक्तिःति। युक्तं च तिलकोक्तम्, अध्याहारविपरिणामादिक्लेशाभावात्, अर्थस्वारस्याच्च। यद्वा न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ ऽ इत्यादाविव निर्वाहः स्वरसः। समनन्तरश्लोकोऽप्यत्रावधेयः।

१ चङ।, च।

॥ २।५३।३१ ॥ ॥ २।५३।३२ ॥

न हि तातं न शत्रुघ्नं न सुमित्रां, परन्तप

द्रष्टुमिच्छेयमद्याहं स्वर्गं वाऽपि त्वया विना ॥ ३२ ॥

अथ नोत्कण्ठितुमर्हसीत्युक्तस्योत्तरंन हि तातमित्यादि ॥

॥ २।५३।३२ ॥ ॥ २।५३।३३ ॥

ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम्।

न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ॥ ३३ ॥

ततःलक्ष्मणवचनानन्तरम्। तत्रलक्ष्मणेन शय्यानिर्मितेः पूर्ववष्टब्धवृक्षमूले सुखासीनौ सीतारामौ, न्यग्रोधे तन्मूलतले सुकृतांसम्यग्रचिताम्। वत्सला च वत्सलश्चवत्सलौ, सर्वत्र पुमान् स्त्रियाऽ इत्येकशेषः ॥ ३३ ॥

॥ २।५३।३३ ॥ ॥ २।५३।३४ ॥

स लक्ष्मणस्योत्तमपुष्पकलं वचः

निशम्य १ चैवं वनवासमादरात्।

समाः समस्ता विदधे परन्तपः

प्रपद्य धर्मं सुचिराय राघवः ॥ ३४ ॥

अथ स रामो लक्ष्मणस्य वनवासं प्रत्यादरादुच्यमानं न मे कुत्राप्युत्कण्ठा, नापि त्वद्वियोगः क्षणमपि सुसहःऽ इत्येवमादरादुच्यमानं, अत एव उत्तमं पुष्कलंश्रेयान् श्रेष्ठः पुष्कलः स्यात्ऽ, अत्यन्तश्रेष्ठं वचो निशम्य, स्वयं सुचिराय धर्मंवनवासधर्मं प्रपद्यस्वीकृत्य लक्ष्मणस्य च ताः समस्ताः समाः प्रति अनुमतिं विदधे वनवासाय ॥ ३४ ॥

१ रामोङ।

वनवासमित्यत्यन्तसंयोगे द्वितायागो।

॥ २।५३।३४ ॥ ॥ २।५३।३५ ॥

ततस्तु तस्मिन् विजने महावने

महाबलौ राघववंशवर्धनौ।

न तौ भयं सम्भ्रममभ्युपेयतुः

यथैव सिह्मौ गिरिसानुगोचरौ ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः

भयंतत्प्रयुक्तं सम्भ्रमंइतस्ततोऽन्वीक्षादिकम्। माला (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिपञ्चाशः सर्गः

॥ २।५३।३५ ॥