०५२ गङ्गातरणम्-सुमन्त्रविसर्जनं च

द्विपञ्चाशः सर्गः

[गङ्गातरणम्] ॥ २।५२।१ ॥

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः।

उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ १ ॥

अथ सुमन्त्रगुहविसर्जनपूर्वकं गङ्गातरणंप्रभातायामित्यादि ॥

॥ २।५२।१ ॥ ॥ २।५२।२४ ॥

भास्करोदयकालोऽयं गता भगवती निशा।

असौ १ तु कृष्णो विहगः कोकिलस्तात कूजति ॥ २ ॥

बर्हिणानां च निर्घोषः श्रूयते नदतां वने।

२ तराम जाह्नवीं, सौम्य शीघ्रगां सागरङ्गमाम् ॥ ३ ॥

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः।

गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥ ४ ॥

विज्ञायश्रुत्वेति यावत् ॥ ४ ॥

सुकृष्णो विहगःभारद्वाजः कोकिलश्चगो।

१ सुकृष्णोङ।

२ एतदनन्तरं गच्छामः सन्ध्युपासार्थं त्वरयस्व महारथऽ इत्यधिकंङ।

॥ २।५२।२४ ॥ ॥ २।५२।५ ॥

स तु रामस्य वचनं निशम्य प्रतिगृह्य च।

स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥ ५ ॥

स त्विति। लक्ष्मणेन कृतामन्त्रणो गुह इत्यर्थः। रामस्य वचनं निशम्येति। तराम जाह्नवीं इत्युक्तरूपम् ॥ ५ ॥

॥ २।५२।५ ॥ ॥ २।५२।६ ॥

अस्यवाहनसंयुक्तां कर्णग्राहवतीं शुभाम्।

सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ ६ ॥

अस्यवाहनेति। अस्य (जलं) निरस्य नावं वाहयतितीरं प्रापयतीति अस्यवाहनम्, मयूरव्यंसकादित्वात् समासः, अरित्रमिति यावत्, तत्संयुक्तां तथा। कर्णग्राहःकर्णधारः, नाविक इति यावत्। सुखेन प्रतारःप्रतारणं यया सा तथा। दृढांदृढसन्धिबन्धाम्। १ तीर्थेअवतारमार्गे ॥ ६ ॥

अस्य रामस्य, वाहन संयुक्तांवाह्यते नीयतेऽनेनेति वाहनंअरित्रादितेन संयुक्ताम्। कर्णग्राहवतींकर्णं अरित्रं गृह्णातीति कर्णग्राहःकर्णधारः, तद्वतीं৷৷। उपाहरेत्येकवचनं सचिवगणाभिप्रायेणगो।

१ तीरेक।

॥ २।५२।६ ॥ ॥ २।५२।७ ॥

तं निशम्य गुहादेशं गुहामात्यगणो महान्।

उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ ७ ॥

उपोह्यवहेर्ल्यपि स्थानिवत्वात् कित्वात् सम्प्रसारणम्, समीपं प्रापय्येत्यर्थः ॥ ७ ॥

॥ २।५२।७ ॥ ॥ २।५२।८९ ॥

ततः स प्राज्जलिर्भूत्वा गुहो राघवमब्रवीत्।

उपस्थितेयं नौः, देव भूयः किं करवाणि ते ॥ ८ ॥

तवामरसुतप्रख्य तर्तुं सागरगां नदीम्।

नौरियं, पुरुषव्याघ्र १ तां त्वमारोह, सुव्रत ॥ ९ ॥

तर्तुमिति। श्र्युकः कितिऽ इति नेट् ॥ ९ ॥

१ शीघ्रमारोहच।

॥ २।५२।८९ ॥ ॥ २।५२।१० ॥

अथोवाच महातेजाः रामो गुहमिदं वचः।

१कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥ १० ॥

२आरोप्यतामिति। वयमिति शेषः ॥ १० ॥

१कृतकार्योऽस्मिङ।

२आरोप्यतामिति। खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषःगो।

॥ २।५२।१० ॥ ॥ २।५२।११ ॥

ततः कलापान् सन्नह्य खड्गौ बध्वा च धन्विनौ।

जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ११ ॥

तत इति। एवं तस्यारोपणनियोगानन्तरम्। जग्मतुर्येन वैगङ्गामिति। येनावतारेण लोका गङ्गां तरन्ति, तेन तर्तुं तत्स्थनौसमीपं खड्गादिकलापनिक्षेपणाय जग्मतुरित्यर्थः ॥ ११ ॥

जग्मतुःरथादवरुह्य पद्भ्यां जग्मतुरित्यर्थः।

कलापःतूणीरः कलापो भूषणे बर्हे तूणीरेऽ इत्यमरः।

॥ २।५२।११ ॥ ॥ २।५२।१२१३ ॥

राममेवं तु धर्मज्ञं उपगम्य विनीतवत्।

किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥ १२ ॥

ततोऽब्रवीद्दाशरथिः सुमन्त्रं

स्पृशन् करेणोत्तमदक्षिणेन।

सुमन्त्र शीघ्रं पुनरेव याहि

राज्ञः सकाशे भव चाप्रमत्तः ॥ १३ ॥

उत्तमश्चासौ दक्षिणश्च तथा स्पर्शादिव्यापारे स एव किलोत्तमः, सन्महत्৷৷।ऽ इत्यादिना समासः ॥ १३ ॥

॥ २।५२।१२१३ ॥ ॥ २।५२।१४ ॥

निवर्तस्वेत्युवाचैनं एतावद्धि कृतं मम।

रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ १४ ॥

एवं निवृत्तौ प्रयोजनमुक्त्वा इह प्रयोजनाभावात् सावधारणा निवृत्तिः पुनः प्रतिपाद्यते अनुगमनप्रत्याशानिवृत्तयेनिवर्तस्वेत्यादि। एतैवत्पर्यन्तं हि राजाज्ञया यानेन गमनं कृतम्। अतः परं यानं विहाय पद्भ्यामेव तु गमिष्यामः, अतो ममेह त्वया प्रयोजनं नास्ति अतः सर्वथा निवर्तस्वैवेत्युवाच ॥ १४ ॥

मानंङ।

॥ २।५२।१४ ॥ ॥ २।५२।१५ ॥

आत्मानं त्वभ्यनुज्ञातं अवेक्ष्यार्तः स सारथिः।

सुमन्त्रः पुरुषव्याघ्रं ऐक्ष्वाकमिदमब्रवीत् ॥ १५ ॥

अभ्यनुज्ञातमिति। प्रतिनिवृत्त्यै इति शेषः ॥ १५ ॥

॥ २।५२।१५ ॥ ॥ २।५२।१६ ॥

नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्।

तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ १६ ॥

अथ सुमन्त्रस्तु तवैव तावद्वनवासो न्यायप्राप्तः, तदा त्वयैवाहं वत्स्यामीत्याशयेनाहनातिक्रान्तमित्यादि। सभ्रातृभार्यस्य तव प्राकृतवत्क्षुद्रप्राणिवत् वने योऽयं वासः, तदिदं इहलोके केनचित् पुरुषेण अस्मदादिना राजकीयेन जानपदेन वा नातिक्रान्तंअत्यन्तं चित्ते न स्वीकृतं, सर्वासम्मतमेवेति यावत् ॥ १६ ॥

लोकदृष्ट्या शोकापनुदं वचनमाहनातीति। सभ्रातृभार्यस्य तव प्राकृतवत्क्षुद्रवत् वने वासः येन दैवेन कृतः तदिदं दैवमिह लोके केनाप्यतिक्रान्तं नलङ्घितंनति।

॥ २।५२।१६ ॥ ॥ २।५२।१७ ॥

न मन्ये ब्रह्मचर्येऽस्ति १स्वधिते वा फलोदयः।

मार्दवार्जवयोर्वापि त्वाञ्चेद्व्यसनमागतम् ॥ १७ ॥

अपि वातावकयोर्मार्दवार्जवयोर्वशात् त्वाञ्चेदिदं व्यसनंवनवासदुःखं आगतंप्राप्तं, अथापि पुनः तत्र च यद्ब्रह्मचर्यंअधश्शय्यादिलक्षणं, स्वधितेशेधि धृतौ, स्वेन धतेस्वेनानुष्ठीयमानेऽस्मिन् ब्रह्मचर्ये वा वृथा क्लेशत्वात् क्लेशफलोदयो नास्तीति मन्ये। न हि किल ब्रह्मचर्यमपि वरनिर्बन्धप्राप्तम् ॥ १७ ॥

स्वधीतेङ।, च।

॥ २।५२।१७ ॥ ॥ २।५२।१८ ॥

१ सह, राघव वैदेह्या भ्रात्रा चैव वने वसन्।

त्वं गतिं प्राप्स्यसे, वीर त्रीन् लोकांस्तु जयन्निव ॥ १८ ॥

अस्तु वा सर्वज्ञस्य ते यथारुचि व्यवहारः नाहं त्वन्नियमनशक्तः। अपि तु, हे राघव वैदेह्या भ्रात्रा च सहेव वने वसन् त्रीन् लोकांस्तु जयन्निवस्वपितृसत्यपरिपालनेन जयन्नेव भूत्वा परां गतिंपरमापवर्गब्रह्मलोकं च प्राप्स्यसे, नात्र सन्देहः ॥ १८ ॥

वस्तुतस्तुभवतो वनवासो महोदयायैवअतिशयितकीर्त्यादिहेतुत्वात्, पाणसमयोर्वैदेहीलक्ष्मणयोश्च पार्श्वस्थत्वान्नातीव खेदावहः। त्वदेकप्राणानामस्माकं तु त्वद्वनवासः अतीव खेदायेति सुमन्त्रो वदतिसहेत्यादि।

१ सदाङ।

॥ २।५२।१८ ॥ ॥ २।५२।१९ ॥

वयं खलु हताः, १ राम २ ये त्वयाऽप्युपवञ्चिताः।

कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ १९ ॥

वयं खलु त्वया उपवञ्चिताःत्यक्ताः हताः ॥ १९ ॥

१ नाथाङ।

२ यत्त्वयाच।

॥ २।५२।१९ ॥ ॥ २।५२।२० ॥

इति ब्रुवन्नात्मसमः सुमन्त्रः सारथिस्तदा।

१ दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम् ॥ २० ॥

आत्मसमःप्राणसम इति यावत्। दूरगतं दृष्ट्वेति। दूरदेशावस्थानवन्तं निश्चित्य तत्समीपे दुःखार्तः चिरं रुरोद ॥ २० ॥

१ दृष्ट्वाऽदूरगतंच।, दृष्ट्वा वनगतंङ।

तदानीं रामस्य समीप एव स्थितत्वादेवं व्याख्यातम्। अदूरगतमिति वा पदच्छेदः। वस्तुतस्तुगतमिति भावे क्तः। दूरगमनंदूरप्रयाणकंदृष्ट्वा रुरोदेत्यर्थः।

॥ २।५२।२० ॥ ॥ २।५२।२१ ॥

ततस्तु विगते बाष्पे सूत स्पृष्टोदकं शुचिम्।

रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ २१ ॥

स्पृष्टोदकंआचान्तम् ॥ २१ ॥

अश्रुमोचनस्याशुचित्वात् श्पृष्टोदकमिति।

॥ २।५२।२१ ॥ ॥ २।५२।२२ ॥

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये।

यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ २२ ॥

सुहृत्आपदि व्यसनापनोदकः। यदेवं अतःयथेत्यादि ॥

॥ २।५२।२२ ॥ ॥ २।५२।२३ ॥

शोकोपहतचेताश्च वृद्धश्च जगतीपतिः।

कामभारावसन्नश्च तस्मादेतत् ब्रवीमित ॥ २३ ॥

कामभारेणप्रारब्धवशजेनाधर्म्येण अवसन्नस्तथा। तस्मात्उक्तहेतोरेव। एतत्वक्ष्यमाणम् ॥ २३ ॥

मदभिषेकरूपकामावेशपीडित इति वा।

॥ २।५२।२३ ॥ ॥ २।५२।२४ ॥

यद्यदाज्ञापयेत् किञ्चित् स महात्मा महीपतिः।

कैकेय्याः प्रियकामार्थे कार्यं तदविकाङ्क्षया ॥ २४ ॥

कैकेय्याः प्रियकामार्थेऽपि यद्यदाज्ञापयति तदप्यविकांक्षयासादरमविशङ्कतयाऽनुष्ठेयम् ॥ २४ ॥

कामार्थंङ।, च।

॥ २।५२।२४ ॥ ॥ २।५२।२५ ॥

एतददर्थं हि राज्यानि प्रशासति नरेश्वराः।

यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ २५ ॥

एतच्छब्दार्थःयदेषामित्यादि। प्रशासतीत्यभ्यस्तत्वादादेशः। सर्वकृत्येष्विति। कामात् क्रोधात् प्रवृत्तेष्वित्यर्थः ॥ २५ ॥

नराधिपाःच।

॥ २।५२।२५ ॥ ॥ २।५२।२६ ॥

यद्यत्तु स महाराजः नालीकमधिगच्छति।

न च ताम्यति १दुःखेन, सुमन्त्र कुरु तत्तथा ॥ २६ ॥

यद्यत्अनुशिष्य अलीकंतदनिवृत्तिदुःखम् ॥ २६ ॥

१ शोकेनच।

॥ २।५२।२६ ॥ ॥ २।५२।२७ ॥

अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्।

ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ २७ ॥

मम हेतोरभिवाद्यमत्प्रतिनिधितया मन्नमस्कारं कृत्वेत्यर्थः ॥ २७ ॥

॥ २।५२।२७ ॥ ॥ २।५२।२८ ॥

नैवाहमनुशोचामि लक्ष्मणो न च मैथिली।

अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति १ च ॥ २८ ॥

इदंशब्दार्थःनैवाहमित्यादि। अयोध्यायाः च्युता वयं इति कृत्वा वने वत्स्यामह इति चेति। छान्दसः सन्धिः ॥ २८ ॥

१ वाच।

॥ २।५२।२८ ॥ ॥ २।५२।२९ ॥

चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः।

लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ २९ ॥

पुनःपुनःअभीक्ष्णम् ॥ २९ ॥

॥ २।५२।२९ ॥ ॥ २।५२।३०३१ ॥

एवमुक्त्वा तु राजानं मातरं च, सुमन्त्र मे।

अन्याश्च देवीः सहिताः कैकेयीं च पुनःपुनः ॥ ३० ॥

आरोग्यं ब्रूहि, कौसल्यां अथ पादाभिवन्दनम्।

सीताया १ मम चार्यस्य वचनाल्लक्ष्मणस्य च ॥ ३१ ॥

सहिता इति। मन्मात्रा इति शेषः। कैकेयीं च आरोग्यंअनामयं ब्रूहि। नेयं व्यङ्ग्योक्तिः, अपि तु दैवहतेयं मातेत्यनुतापादेव। अथ नाम्ना मातरमाचार्यदारांश्चेत्येकेऽ इति स्मरणात् स्वमातुः पादाभिवन्दनमादिशतिकौसल्यामित्यादि। प्रतीति शेषः। आर्यस्य त्वत्पूज्यस्य मम वचनात् सीताया मम लक्ष्मणस्य च पादाभिवादनं ब्रूया इत्यन्वयः ॥ ३१ ॥

श्लोकद्वयमेकवाक्यम्।

१ भार्यायाःङ।

आर्यस्य लक्ष्मणस्येत्यन्वयःगो।

॥ २।५२।३०३१ ॥ ॥ २।५२।३२ ॥

ब्रूयाश्च हि महाराजं, भरतं क्षिप्रमानय।

आगतश्चापि भरतः स्थाप्यो १ नृपमते पदे ॥ ३२ ॥

महाराजंतत्पदार्हं। नृपमतेदशरथानुमते ॥ ३२ ॥

महाराजःदशरथः।

१ नरपतेः पदेङ।

॥ २।५२।३२ ॥ ॥ २।५२।३३३४ ॥

भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च।

अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ॥ ३३ ॥

भरतश्चापि वक्तव्यः यथा राजनि वर्तसे।

तथा मातृषु वर्तेथाः सर्वस्वेवाविशेषतः ॥ ३४ ॥

वक्तव्य इति। किं वक्तव्य इत्यतःयथेत्यादि। अविशेषत इति। स्वमातृकैकेय्यविशेषत इत्यर्थः ॥ ३४ ॥

नाभिभविष्यतीत्येतदनन्तरं इतिकरणं द्रष्टव्यम्।

॥ २।५२।३३३४ ॥ ॥ २।५२।३५ ॥

यथा च तव कैकेयी सुमित्रा च विशेषतः।

तथैव देवी कौसल्या १ मम माता विशेषतः ॥ ३५ ॥

तदेव प्रदर्श्यतेयथेत्यादि ॥ ३५ ॥

अयमाशयो रामस्यकैकेय्याः स्वजननीत्वेन, सुमित्रायाः स्वात्यन्तप्रियशत्रुघ्नजननीत्वेन च भरतस्य ते समे स्याताम्। रामस्य यथा लक्ष्मणः, तथा भरतस्य शत्रुघ्नः प्रिय आसीदिति पूर्वमेव (बा।२८ स।) उक्तम्। अपि च सुमित्रापुत्रस्य शत्रुघ्नस्य पार्श्व एव स्थितत्वान्न तावान् क्लेशः। कौसल्या तु अनुकम्पनीयैवेति ॥

१ तव मान्यङ।

॥ २।५२।३५ ॥ ॥ २।५२।३६ ॥

तातस्य प्रियकामेन यौवराज्य १ मपेक्षता।

लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ॥ ३६ ॥

अपेक्षताअङ्गीकुर्वता। नित्यदाछान्दसो दाप्रत्ययः ॥ ३६ ॥

१ मवेक्षताङ।

॥ २।५२।३६ ॥ ॥ २।५२।३७३८ ॥

निवर्त्यमानो रामेण सुमन्त्रः १ शोककर्शितः।

तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ॥ ३७ ॥

यदहं नोपचारेण २ ब्रूयां स्नेहादविक्लबः।

भक्तिमानिति तत्तावत् वाक्यं त्वं क्षन्तुमर्हसि ॥ ३८ ॥

उपचारःस्वामिभृत्यभावोचितसत्कारः। यत् ब्रूयां त्वद्वचनात् परमपि तत् क्षन्तुमर्हसि, प्रत्युत्तरं वदतीति न क्रोद्धव्यमित्यर्थः ॥ ३८ ॥

१ प्रतिबोधितःच।

२ ब्रूयाःच।

॥ २।५२।३७३८ ॥ ॥ २।५२।३९ ॥

कथं च त्वद्विहीनोऽह प्रतियास्यामि तां पुरीम्।

तव, १ तात वियोगेन पुत्रशोकाकुलामिव ॥ ३९ ॥

किं ब्रवीषीत्यतःकथमित्यादि। तव वियोगेनेत्यन्वयः। तातस्वामिन् इति यावत्। पुत्रवियोगजः शोकःपुत्रशोकः, तेनेवाकुलामिति। च शब्दः पूर्वान्तर्भावेण योज्यः ॥ ३९ ॥

१ तावद्वियोगेनङ।

वृद्धत्वात् वत्सेति सम्बोधनंगो।

॥ २।५२।३९ ॥ ॥ २।५२।४० ॥

सराममपि तावन्मे रथं दृष्ट्वा तदा जनः।

विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ ४० ॥

मे रथमिति। मत्प्रवर्त्यं रथमित्यर्थः ॥ ४० ॥

जनः किं? पुर्येव विदीर्येतेति भावः।

॥ २।५२।४० ॥ ॥ २।५२।४१ ॥

दैन्यं हि नगरी गच्छेत् दृष्ट्वा शून्यमिमं रथम्।

सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ ४१ ॥

हतवीरंहतरथिनमित्यर्थः ॥ ४१ ॥

॥ २।५२।४१ ॥ ॥ २।५२।४२ ॥

दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्।

चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥

अग्रतःपुरतः। नूनं निराहाराः कृता इति। त्वद्वियोगदुःखेनेति शेषः ॥ ४२ ॥

॥ २।५२।४२ ॥ ॥ २।५२।४३४६ ॥

दृष्टं तद्धि त्वया, राम यादृशं त्वत्प्रवासने।

प्रजानां सङ्कुलं वृत्तं त्वच्छोकाक्रान्तचेतसाम् ॥ ४३ ॥

आर्तनादो हि यः पौरैः मुक्तस्त्वद्विप्रवासने।

१सरथं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ ४४ ॥

अहं २ किञ्चापि वक्ष्यामि देवीं, तव सुतो मया।

नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति ॥ ४५ ॥

असत्यमपि, नैवाहं ब्रूयां वचनमीदृशम्।

कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ ४६ ॥

अथ वने स्थितिर्नानुशोचनीयेति यत् वनस्थितेर्निवेदनीयत्वमुक्तं तदतिघोरं मया अशक्यकरणम्। अतः प्रकारान्तरमेव असत्यमपि ब्रूयामित्याहअहमित्यादि। किञ्च अहं देवींतव मातरं प्रति अहमेवमपि वक्ष्यामि। कथम्? तवासौ सुतो मया मातुलकुलं कोसलदेशस्थं नीतः, न तु वनम् अतो मा ३ सन्तापं कृथा इत्यसत्यमपीदृशं वचनमेवाहं ब्रूयाम्। सत्यमपीदं वननयनवचनं कथमेवाहमप्रियं ब्रूयाम्, सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्ऽ इति स्मरणादित्याशयः। अन्यस्तुअतः किमपि वक्तुं न शक्नोमीति सिद्धंइति महता यत्नेनायोजयदिव ॥ ४६ ॥

१ रथस्थंङ।

तव सुतो मातुलकुलं नीत इति प्रियमपि न ब्रूयां, असत्यत्वात्। वनं नीत इति सत्यमपि न ब्रूयां अप्रियत्वात्अतः न किमपि वक्तुं शक्नोमिइति तिलकगोविन्दराजौ। एतद्व्याख्यानरीत्या तु अहं किञ्चापीत्यतः असत्यमपि इत्यन्तमेकं वाक्यम्। शिष्टमन्यत् वाक्यम्। असत्यमपीत्यपिशब्दस्वारस्यात् एवं व्याख्यातं महेशतीर्थेनापि। यद्यपि तिलके इदं दूषितम्तन्न शक्ष्यामीत्यादिना नगरगमनाभावप्रतिपादनादिति। अथापि तद्वाक्यस्यान्तिमनिर्णयरूपत्वान्न विरोधः ॥

२ किञ्चाद्यङ।

३ सन्तापस्त्यज्यतामितिङ।

गोविन्दराजः।

॥ २।५२।४३४६ ॥ ॥ २।५२।४७ ॥

मम तावन्नियोगस्थाः त्वद्बन्धुजनवाहिनः।

कथं रथं त्वया हीनं १ प्रवक्ष्यन्ति हयोत्तमाः ॥ ४७ ॥

त्वद्बन्धुजनेति। त्वां त्वद्बन्धुजनं सीतासौमित्रिरूपं वहनशीला इत्यर्थः। प्रवक्ष्यन्तीति। वहेः लृटि स्ये हस्य ढत्वकत्वादिना रूपम् ॥

हयोत्तमाः त्वया हीनं रथं कथं वक्ष्यन्तीत्यन्वयः।

१ प्रवाह्यन्तिच।

त्वं च बन्धुजनश्चेति विग्रहः, अर्थात् बन्धुजनशब्दस्य त्वद्बन्धुजनरूपार्थपरत्वम्।

॥ २।५२।४७ ॥ ॥ २।५२।४८४९ ॥

तन्न शक्ष्याम्यहं गन्तुं अयोध्यां १ त्वदृतेऽनघ

वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ ४८ ॥

यदि मे याचमानस्य त्यागमेव करिष्यसि।

सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ॥ ४९ ॥

त्यक्तमात्रःतत्क्षण एवेत्यर्थः ॥ ४९ ॥

१ त्वामृतेङ।

॥ २।५२।४८४९ ॥ ॥ २।५२।५० ॥

भविष्यन्ति वने यानि तपोविघ्नकराणि ते।

रथेन १ प्रतिबाधिष्ये तानि २ सत्त्वानि, राघव ॥ ५० ॥

भविष्यन्तिसम्भावितानि। रथेन प्रतिबाधिष्य इति। रथेन साधनेन अहमेव रथी भूत्वा प्रतिबाधिष्येनिवर्तयिष्यामि। न केवलमहं सूतः, मन्त्रिप्रधानः किल ॥ ५० ॥

१ प्रतियोधिष्येङ।

२ सर्वाणिच।

॥ २।५२।५० ॥ ॥ २।५२।५१ ॥

त्वत्कृते १ मयाऽवाप्तं रथचर्याकृतं सुखम्।

आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ ५१ ॥

सोऽहं त्वत्कृतेत्वन्निमित्ततया मया अद्य सारथित्वं विहाय केवलरथचर्याकृतं सूतकृत्यसाध्यं सुखमवाप्तम्। अतः परं त्वत्कृतेनैवत्वन्निमित्तेनैव हेतुना वनवासकृतं महत् सुखं राज्यचिन्तादुःखाभावादाशंसे, सर्वोऽपि राज्यभारो ममैव किल मन्त्रिमुख्यस्य। एवमादौ यद्वाभट्टो बहुजल्पति न किञ्चिदपि तत्सङ्गतं पश्यामः ॥ ५१ ॥

त्वत्कृतेत्वन्निमित्तं, रथचर्याकृतं सुखं मया नावाप्तंराज्याभिषिक्तत्वद्रथचर्याकृतं सुखं मया भाग्यहीनेन न लब्धम्। तथापि त्वत्कृतेनत्वत्साहाय्यकरणेन वनवासकृतमिति सुखमाशंसे। ৷৷৷৷৷৷। यद्वात्वत्कृतेन त्वया

कृतेनानुग्रहेण रथचर्याकृतं सुखं मयाऽवाप्तं, एवं त्वदनुग्रहेण वनवासकृतं सुखमपि अहमाशंस इतिगो।

१ हि, तुङ।

गोविन्दराजः

॥ २।५२।५१ ॥ ॥ २।५२।५२ ॥

प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः।

प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः ॥ ५२ ॥

प्रत्यनन्तरःप्रत्यासन्नःअनुकूलः भव, ममारण्यप्रत्यासत्तावित्यर्थः ॥ ५२ ॥

॥ २।५२।५२ ॥ ॥ २।५२।५३५६ ॥

इमे चापि हयाः, वीर यदि ते वनवासिनः।

परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ ५३ ॥

तव शुश्रूषणं मूर्घ्ना करिष्यामि वने वसन्।

अयोध्यां देवलोकं वा सर्वथा १ प्रजहाम्यहम् ॥ ५४ ॥

न हि शक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना।

राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥ ५५ ॥

वनवासे क्षयं प्राप्ते ममैष हि मनोरथः।

यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ ५६ ॥

वनवासेतत्काले। क्षयं प्राप्त इति। समाप्त इति यावत्। वहेयमिति यत्, एष मे मनोरथ इति योजना ॥ ५६ ॥

न व्रजाम्यहम्ङ।

॥ २।५२।५३५६ ॥ ॥ २।५२।५७ ॥

चतुर्दश हि वर्षाणि सहितस्य त्वया वने।

क्षणभूतानि यास्यन्ति शतसंख्याऽन्यतोऽन्यथा ॥ ५७ ॥

शतसंख्यान्यतोऽन्यथेति। अन्यतःत्वद्वियुक्ततया अवस्थितिपक्षे यथा क्षणमात्रमेव शतसंख्यानि तावत्प्रमाणवर्षभूतानि भवन्ति अतिदुःखोपाधेः, तद्वत् त्वत्सेवासुखोपाधेः चतुर्दशवर्षाणि क्षणमात्राणि भविष्यन्तीत्यर्थः ॥ ५७ ॥

॥ २।५२।५७ ॥ ॥ २।५२।५८ ॥

१भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि।

भक्तं भृत्यं स्थितं स्थित्यां २ न मां त्वं हातुमर्हसि ॥ ५८ ॥

भर्तृपुत्रगतेराजपुत्राश्रिते पथि यथा भृत्येन स्थातव्यं, तथा त्वद्विषये तिष्ठन्तं तथा। स्थित्यां स्थितमिति। मन्त्रिणा राजनि राजकार्ये च यथा स्थातव्यं तस्यामेव स्थित्यां सदा स्थितंकदाप्यपराधरहितमिति यावत् ॥ ५८ ॥

१ भक्तवत्सलङ।

स्थित्यांमर्यादायां स्थितंअस्खलितमर्यादम्। अत एव भर्तृपुत्रगतेस्वामिपुत्रेण त्वयाऽऽगते पथि वनगमने तिष्ठन्तंगो।

२ त्वं न मांङ।

॥ २।५२।५८ ॥ ॥ २।५२।५९६१ ॥

एवं बहुविधं दीनं याचमानं पुनःपुनः।

रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ५९ ॥

जानामि परमां भक्तिं मयि ते, भर्तृवत्सल

शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ ६० ॥

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी।

कैकेयी प्रत्ययं गच्छेत् इति रामो वनं गतः ॥ ६१ ॥

रामो वनं गत इति प्रत्ययमिति योजना ॥ ६१ ॥

॥ २।५२।५९।६१ ॥ ॥ २।५२।६२६३ ॥

परितुष्टा हि सा देवी वनवासं गते मयि।

राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥ ६२ ॥

एष मे प्रथमः कल्पः यदम्बा मे यवीयसी।

भरतारक्षितं १ स्फीतं पुत्रराज्यमवाप्नुयात् ॥ ६२ ॥

अतिशङ्काअन्यथाशङ्का। यवीयसी नातिशङ्केतेति यत् एष मे प्रथमः कल्पःमुख्यं प्रयोजनमिति यावत्। भरतेन आरक्षितंअत्यर्थं रक्षितं, पुत्रराज्यंतज्जसुखमवाप्नुयादितीदं चान्यत् प्रयोजनमिति शेषः ॥ ६३ ॥

परितुष्टा सा देवी धार्मिकं राजानं मिथ्यावादीति नातिशङ्केतेत्यन्वयः।

१ वृत्तंङ।

॥ २।५२।६२६३ ॥ ॥ २।५२।६४६६ ॥

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज।

सन्दिष्टश्चासि यानर्थान् तांस्तान् ब्रूयास्तथा तथा ॥ ६४ ॥

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः।

गुहं वचन १ मक्लीबो रामो हेतुमिदब्रवीत् ॥ ६५ ॥

नेदानीं, गुह योग्योऽयं वासो मे सजने वने।

अवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः ॥ ६६ ॥

सजने वने वासो मे न योग्यः इत्युक्त्या, इहैव वने वस्तव्यं इति गुहेन प्रार्थितमिति गम्यते । आश्रम इति। जानपदजनरहित इति शेषः। तद्गतो विधिरिति। तादृगवस्थानगतः सङ्कल्प इत्यर्थः ॥ ६६ ॥

१ मक्लीबंङ।

आश्रमवास एव कर्तव्यः तापसवत्। तादृशाश्रमगतःतदनुगुणः विधिःनियमादिश्च कर्तव्य इत्यर्थः।

वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नःऽ (५०३९) इति पूर्वं तथा प्रार्थितमिति भाति।

॥ २।५२।६४६६ ॥ ॥ २।५२।६७ ॥

सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम्।

हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥ ६७ ॥

जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय।

सोऽहंएवसङ्कल्पवानहं वन्याहाराधश्शय्यादिनियमं गृहीत्वा, तपस्विजनभूषणं जटाः, सीताया लक्ष्मणस्य चानुमत्या कृत्वा गमिष्यामि। तदर्थं न्यग्रोधक्षीरमानय। सीताया हितकाम इत्यन्यः । किं हितं जटाधारणेन सीताया इति न विदुः। अनुमतिस्त्वपेक्षिता, यस्याः जटादर्शने सन्यासकल्पतः परमदुःखं स्यात् ॥ ६७ ॥

महेशतीर्थः, गोविन्दराजो वा।

॥ २।५२।६७ ॥ ॥ २।५२।६८६९ ॥

तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुदाहरत् ॥ ६८ ॥

लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः।

दीर्घबाहुर्नरव्याघ्रः जटिलत्वमधारयत् ॥ ६९ ॥

लक्ष्मणस्याकरोदिति। तेनापि स्ववदेवावस्थानस्य सङ्कल्पितत्वात् ॥ ६९।

जटिलत्वंजटावत्त्वम्।

॥ २।५२।६८६९ ॥ ॥ २।५२।७०७१ ॥

तौ तदा चीरवसनौ जटामण्डलधारिणौ।

अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ ७० ॥

ततो वैखानसं मार्गं १ आस्थितः सहलक्ष्मणः

व्रतमादिष्टवान् रामः २ सहायं गुहमब्रवीत् ॥ ७१ ॥

वैखानसाःफलमूलाशिनो वानप्रस्था ऋषयः। व्रतं आदिष्टवान्अङ्गीकृतवान्। सहायं उक्तरूपगङ्गातरणादिकृत्यसहायभूतम् ॥ ७१ ॥

अत्रननु रामेण वानप्रश्थाश्रमस्वीकारे पुनरन्ते कथं गार्हस्थ्ये प्रतिनिवृत्तिः, यदि चेदानीं वानप्रस्थाश्रमो न स्वीकृतः तदा तद्धर्मानुष्ठानं जटाधारणादिकं गृहस्थस्य विरुद्धं स्यात्इत्याशंक्य गोविन्दराजैः पितृनियोगाधीनसाङ्कल्पिकव्रतविशेषस्यास्य युधिष्ठिरसन्न्यासादिवन्न दोषत्वम्। तथोक्तं मनुना सम्यक्सङ्कल्पजः कामः धर्ममूलमिदं स्मृतम्ऽ इतिइति समाहितम्।

१ आस्थायङ।

२ सखायंङ।

॥ २।५२।७०७१ ॥ ॥ २।५२।७२ ॥

अप्रमत्तो बले कोशे दुर्गे जनपदे तथा।

भवेथाः, गुह राज्यं ते दुरारक्षतमं मतम् ॥ ७२ ॥

दुःखेन आरक्षारक्षणं यस्य तत्तथा, अतिशयेन दुरारक्षं दुरारक्षतमम् ॥ ७२ ॥

॥ २।५२।७२ ॥ ॥ २।५२।७३७६ ॥

ततस्तं १ समनुज्ञाय गुहमिक्ष्वाकुनन्दनः।

जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ७३ ॥

स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः।

तितीर्षुः शीघ्रगां गङ्गां इदं २लक्ष्मणमब्रवीत् ॥ ७४ ॥

आरोह त्वं, नरव्याघ्र स्थितां नावमिमां शनैः।

सीताञ्चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ ७५ ॥

स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्।

आरोप्य मैथिलीं पूर्वं आरुरोहात्मवांस्ततः ॥ ७६ ॥

अप्रतिकूलयन्अनुकूलयन्निति यावत् ॥ ७६ ॥

१ समनुज्ञाप्यच।

२ वचनच।

मनस्विनीमिति निन्दायां मतुप्, भीरुमिति यावत्। पूर्वारोहणे असौ बिभीयात् इति भावःगो।

पूर्वं मनस्विनीमित्युक्तं, इदानीमात्मवानित्युक्तम्। उभाभ्यां आरोपणे दोषशङ्काराहित्यमुक्तम्गो।

॥ २।५२।७३७६ ॥ ॥ २।५२।७७७८ ॥

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः।

ततो निषादाधिपतिः गुहो ज्ञातीनचोदयत् ॥ ७७ ॥

राघवोऽपि महातेजा नावमारुह्य तां ततः।

ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥ ७८ ॥

आरुह्येति पदम्। ब्रह्मवत् क्षत्रवदिति। ब्रह्मक्षत्रदेवताकं नावारोहमन्त्रं आत्मनो हितमुद्दिश्य जजाप। तथा मन्त्रस्तु अमूषु वाजिनांऽ इति वर्गे सुत्रामाणम्ऽ इत्यादिः। तत्र हि एष ह वा अरिष्टनेमिः पृतनाजित्ऽ इत्यादिब्राह्मणे ब्रह्मक्षत्रदेवताकत्वं स्पष्टं प्रतिपाद्यते। एष इत्यपरोक्षनिर्देशात् ब्रह्ममण्डलस्थो भगवान् ब्रह्मास्पदः। पृतनाजित्पदेन तस्यैव अभिजिदात्मना क्षत्रधर्मप्रधानस्य चोपदेशः ॥ ७८ ॥

नोः नीयतां पारमित्यचोदयदित्यर्थः।

ब्रह्मवत् क्षत्रवदित्यर्हार्थे वतिप्रत्ययः। ब्राह्मणार्हे क्षत्रियार्हमित्यर्थः। ৷৷। यद्वा ब्रह्मक्षत्रशब्दयुक्तं मन्त्रं जजापेत्यर्थः। स च मन्त्रः सुत्रामाणमित्यादिः। तत्र त्वरिष्टनेमिः पृतनाजिदिति ब्रह्मक्षत्रशब्दौ श्रुतौगो।

॥ २।५२।७७७८ ॥ ॥ २।५२।७९८१ ॥

आचम्य च यथाशास्त्रं नदीं तां सह सीतया।

१प्राणमत् प्रीतिसंहृष्टः लक्ष्मणश्चामितप्रभः ॥ ७९ ॥

अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्।

आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ ८० ॥

ततस्तै २ श्चोदिता सा नौः कर्णधारसमाहिता।

शुभस्फ्यवेगाभिहता ३ शीघ्रं सलिलमत्यगात् ॥ ८१ ॥

कर्णधारेणनाविकेन समाहितासज्जीकृता। स्फ्याकारत्वात् क्फ्यंअरित्रं, तेन वेगादभिहताप्रणुन्ना ॥ ८१ ॥

१ प्रणमत्च।

२ श्चालिताच।

३ गङ्गासलिलङ।

॥ २।५२।७९८१ ॥ ॥ २।५२।८२ ॥

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता।

वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ८२ ॥

अथ गङ्गाया महादेवतात्वात् स्त्रीदेवतात्वाच्च सीतायाः प्रार्थनम्वैदेही प्राञ्जलिरित्यादि ॥ ८२ ॥

॥ २।५२।८२ ॥ ॥ २।५२।८३८५ ॥

पुत्रो दशरथस्यायं महाराजस्य धीमतः।

निदेशं १पारयित्वेमं, गङ्गे, त्वदभिरक्षितः ॥ ८३ ॥

चतुर्दश हि वर्षाणि समग्राण्युष्य कानने।

भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ८४ ॥

ततस्त्वां, देवि सुभगे क्षेमेण पुनरागता।

यक्ष्ये प्रमुदिता, गङ्गे सर्वकाम २ समृद्धिनी ॥ ८५ ॥

सर्वकामसमृद्धिनीति। व्रीह्यादित्वादिनिः ॥ ८५ ॥

१ पालयित्वेमंच।

२ प्रदायिनी, प्रसाधिनीङ।

॥ २।५२।८३८५ ॥ ॥ २।५२।८६ ॥

त्वं हि त्रिपथगा, देवि ब्रह्मलोकं १समीक्षसे।

भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे ॥ ८६ ॥

ब्रह्मलोकं समीक्षस इति। अक्षू व्याप्तिसङ्घातयोः, श्नौ च तङ् छान्दसम्, व्याप्ता भवसि। तत् श्रीमदादिगुरुनाथकमण्डलुनित्यप्रतिष्ठत्वेनेति व्याप्तिः। तथात्वं “आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्” इत्यादि पाठकाः पौराणिकाश्च जानन्ति ॥ ८६ ॥

१ समक्षसेच

श्री शङ्कराचार्यकृतगङ्गाष्टकंश्लो। ४।

॥ २।५२।८६ ॥ ॥ २।५२।८७ ॥

तत् त्वां, देवि नमस्यामि प्रशंसामि च, शोभने

प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ ८७ ॥

प्रशंसामिस्तौमि। शिवेनक्षेमेण सह ॥ ८७ ॥

॥ २।५२।८७ ॥ ॥ २।५२।८८ ॥

गवां शतसहस्रं च वस्त्राण्यन्नं च १पेशलम्।

ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ ८८ ॥

सुराघटसहस्रेण मांसभूतौदनेन च।

यक्ष्ये त्वां २ प्रयता, देवि पुरीं पुनरुपागता ॥ ८९ ॥

यक्ष्य इति। महाबलिप्रदानेनेति शेषः ॥ ८९ ॥

१शोभनम्ङ।

मांसरूपेणान्नेनेत्यर्थः।

२ प्रीयतांच।

॥ २।५२।८९ ॥ ॥ २।५२।९० ॥

यानि त्वत्तीरवासीनि दैवतनि वसन्ति च।

तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ ९० ॥

तीर्थानिप्रयागादीनि। आयतनानिकाश्यादीनि ॥ ९० ॥

॥ २।५२।९० ॥ ॥ २।५२।९१९४ ॥

पुनरेव महाबाहुः मया भ्रात्रा च सङ्गतः।

अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे ॥ ९१ ॥

तथा सम्भाषमाणा स सीता गङ्गामनिन्दिता।

दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ ९२ ॥

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः।

प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः ॥ ९३ ॥

अथाब्रवीत् महाबाहुः सुमित्रानन्दवर्धनम्।

भव संरक्षणार्थाय सजने विजनेऽपि वा ॥ ९४ ॥

भवेति। सावधान इति शेषः। संरक्षणार्थायेति। सीताया इति शेषः ॥ ९४ ॥

रामं दशरथं विद्धि मां जनकात्मजाम्। अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ ऽ इति पूर्वोक्तसुमित्रानिदेशः लक्ष्मणेन परिपालित इति ज्ञापनाय वनप्रवेशकाले सुमित्रानन्दवर्धनंऽ इति लक्ष्मणो विशेषितः वाल्मीकिना।

॥ २।५२।९१९४ ॥ ॥ २।५२।९५ ॥

अवश्यं रक्षणं कार्यं १ अदृष्टे विजने वने।

अग्रतो गच्छ, सौमित्रे सीता त्वामनुगच्छतु ॥ ९५ ॥

अदृष्ट इति। इतः प्राक् सीतयेति शेषः। यदेवं अतःअग्रत इत्यादि। एवं कार्यवशात् स्त्र्यनुजयोः अग्रतो गमनमदोषः ॥

१मद्विधैःच।

कनीयसोः पृष्ठतोऽवस्थापने हि रक्षा सुकरा न स्यात्। अग्रतः स्थितस्य रामस्य पृष्ठे विद्यमानयोस्तयोर्योगक्षेमनिर्वहणस्य क्लिष्टत्वात् स्वस्यैवान्ते गमनम्।

॥ २।५२।९५ ॥ ॥ २।५२।९६ ॥

पृष्ठतोऽ १ नुगमिष्यामि त्वाञ्च सीतां च पालयन्।

अन्योन्यस्येह २ नो रक्षा कर्तव्या, पुरुषर्षभ ॥ ९६ ॥

न हि तावदतिक्रन्ता सुकरा काचन क्रिया।

नःअस्माकं अन्योन्यस्य रक्षा कर्तव्या। छत्रिन्यायेन रक्ष्याया अपि रक्षकान्तःप्रवेशःन इति। अन्ततः सीतया च स्वपातिव्रत्यमहिम्ना स्वेतरयो रक्षणं भवति। कथमेवमतियत्न इत्यतःन हीत्यादि। काचन क्रियाअपायरक्षणलक्षणा अतिक्रान्तकाला चेत् सुकरा न हि। प्रहृतं प्रहृतमेवेति किं रक्षणीयम् ॥ ९६ ॥

१ हं गङ।

परस्पररक्षणं शस्त्रादिनैवेति नायं निर्बन्धः, स्वरूपानुगुणत्वाद्रक्षणव्यापारस्य। एवञ्च सीताया अपि शुश्रूषादिलक्षणं रक्षणं वर्तत एवेति।

२ क्षेत्रग्रामङ।

॥ २।५२।९६ ॥ ॥ २।५२।९७,९८ ॥

अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ ९७ ॥

प्रणष्टजनसम्बाधं १ क्षेत्रारामविवर्जितम्।

विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ॥ ९८ ॥

क्षेत्रंशाल्यादिक्षेत्रम्। विषमंनिम्नोन्नतम्। प्रपतन्त्यस्मिन्निति प्रपातःगर्तः ॥ ९८ ॥

१ क्षेत्रग्रामङ।

॥ २।५२।९७,९८ ॥ ॥ २।५२।९९,१०० ॥

श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः।

अनन्तरं च सीतायाः राघवो रघुनन्दनः ॥ ९९ ॥

गतं तु गङ्गाऽपरपारमाशु

रामं सुमन्त्रः १ प्रततं निरीक्ष्य।

अध्वप्रकर्षात् विनिवृत्तदृष्टिः

मुमोच बाष्पं व्यथितस्तपस्वी ॥ १०० ॥

अध्वनः प्रकर्षःआधिक्यंअतिदूरमिति यावत्। विनिवृत्तदृष्टिःविनिवृत्तचक्षुर्व्यापारः ॥ १०० ॥

प्रततंअविच्छिन्नमिति यावत्।

१ सततंच।

॥ २।५२।९९,१०० ॥ ॥ २।५२।१०१ ॥

स लोकपालप्रतिम १ प्रभाववान्

तीर्त्वा महात्मा वरदो महानदीम्।

ततः समृद्धान् २ शुभसस्यमालिनः

क्रमेण वत्सान् मुदितानुपागमत् ॥ १०१ ॥

वत्सान्वत्सदेशान्। अन्तर्वेदिदेशो वत्सदेशः ॥ १०१ ॥

१ प्रभावःच।

२ जलसस्यङ।

गङ्गायमुनयोर्मध्यदेशः वत्सदेशः।

॥ २।५२।१०१ ॥ ॥ २।५२।१०२ ॥

तौ तत्र हत्वा चतुरो महामृगान्

वराहमृश्यं पृषतं महारुरुम्।

आदाय मेध्यं त्वरितं बुभुक्षितौ

वासाय काले ययतुर्वनस्पतिम् ॥ १०२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विपञ्चाशः सर्गः।

चतुर्णां परिगणनंवराहमित्यादि। ऋश्यःकृष्णसारः कलैमान्। पृषतः बिन्दुयुक्तः पुल्लीमान्। रुरुः उळैमान्। बुभुक्षितौ तेषां मेध्यं मांसं त्वरितमादायेति। बुभुक्षावशात् केवलमग्नितापमात्रं कृत्वा स्वीकृत्येत्यर्थः। उक्ताहारस्य वन्याहारान्तर्गतत्वात् ग्रहः। अत्र द्विवचनात् रामलक्ष्मणौ गृहीतौ। इदमुपलक्षणं सीताया अप्याहारपरिग्रहे। देवान् पितृ़न् समभ्यर्च्य खादन् मांसं न दोषभाक्ऽ इति शास्त्रात् देवतादिपूजाशेषतया हत्वा निवेद्याभ्यवहृतवन्ताविति अदोषः। न ह्यनयोर्ब्राह्मणवत् मृगहननेऽतिदोषः मृगयाधर्मकत्वादेव। कालेसायंकाल इत्यर्थः। अनय (१००) मानः सर्गः (?) ॥ १०२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विपञ्चाशः सर्गः।

पूर्वंकन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम्ऽ (अयो। २०२९) इत्यभिधानं तु सुसंस्कृतमांसभक्षणविषयम्। अतो न विरोधः।

॥ २।५२।१०२ ॥