०५१ गुह-लक्ष्मणसंवादः

एकपञ्चाशः सर्गः

[लक्ष्मणसन्तापः] ॥ २।५१।१ ॥

तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम्

गुहः सन्तापसन्तप्तः राघवं वाक्यमब्रवीत् ॥ १ ॥

एवं रामे शयाने तद्रक्षायै जाग्रल्लक्ष्मणगुहसंवादः। तमित्यादि। भ्रातुरर्थायभ्रातृरक्षणार्थमित्यर्थः।

राघवंरघुकुलजम् ॥ १ ॥

॥ २।५१।१ ॥ ॥ २।५१।२ ॥

इयं, तात सुखा शय्या त्वदर्थमुपकल्पिता।

प्रत्याश्वसिहि साध्वस्यां, राजपुत्र यथासुखम् ॥ २ ॥

प्रत्याश्वसिहि, श्वसेर्हौ रुधादिभ्यः सार्वधातुक इट्प्रत्याश्वस्तःविश्रान्तो भवेत्यर्थः ॥ २ ॥

॥ २।५१।२ ॥ ॥ २।५१।३ ॥

उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः।

गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य, वयं निशाम् ॥ ३ ॥

अयं जन इति। आटविकोऽहमित्यर्थः ॥ ३ ॥

॥ २।५१।३ ॥ ॥ २।५१।४५ ॥

न हि रामात् १ प्रियतरो ममास्ति भुवि कश्चन।

ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ ४ ॥

अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः।

धर्मावाप्तिं च विपुलां अर्थावाप्तिं च केवलाम् ॥ ५ ॥

आशंसेप्रार्थये। अस्य प्रसादादेव केवलमिति योजना ॥ ५ ॥

१ प्रियतमःङ।

॥ २।५१।४५ ॥ ॥ २।५१।६७ ॥

सोऽहं प्रियतमं रामं शयानं सह सीतया।

रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिस्सह ॥ ६ ॥

न मेऽविदितं किञ्चित् १ वनेऽस्मिन्निरतः सदा।

चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि ॥ ७ ॥

निरतःनित्यप्रतिष्ठः। प्रसहेमहीति। परकीयमिति शेषः ॥

वनेऽस्मिंश्चरतःङ। च। झ।

॥ २।५१।६७ ॥ ॥ २।५१।८ ॥

लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वया १ऽनघ

नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ ८ ॥

न वयं अत्रदेशे भीताः। अपि तु धर्ममेवानुपश्यता त्वया रक्ष्यमाणा भवामःत्वद्धर्मपरिपालनाय त्वद्रक्षणामद्यानुजानीम इत्यर्थः ॥

१ न चङ।

अत्र देशे वयं न भीताः यतो धर्ममेवानुपश्यता त्वया रक्ष्यमाणा भवामः। तथाऽपि जागरणे कारणमाहकथमितिति।

॥ २।५१।८ ॥ ॥ २।५१।९ ॥

कथं दाशरथौ भूमौ शयाने सह सीतया।

शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ ९ ॥

जीवितं वेति। विशिष्टभोजनादिना सुखजीवनमित्यर्थः ॥ ९ ॥

॥ २।५१।९ ॥ ॥ २।५१।१० ॥

यो न देवासुरैस्सर्वैः शक्यः प्रसहितुं युधि।

तं पश्य १ सुखसंविष्टं दृणेषु सह सीतया ॥ १० ॥

प्रसहितुं। तिष्ठसह৷৷।ऽ इति पाक्षिक इट् ॥ १० ॥

सुखसंसुप्तंच।

॥ २।५१।१० ॥ ॥ २।५१।११ ॥

यो मन्त्रतपसा लब्धो विविधैश्च १ परिश्रमैः।

एको दशरथ २ स्येष्टः पुत्रः सदृशलक्षणः ॥ ११ ॥

मन्त्रतपसागायत्र्यादिमहामन्त्रानुष्ठानं, कृच्छ्रादिलक्षणं तपश्च तथा। एकःमुख्यः। सदृशः लक्षणः यस्य स तथा ॥ ११ ॥

मन्त्रयुक्ततपसा৷৷। परिश्रमैःयज्ञादिभिःगो। श्लोकद्वयमेकं वाक्यम्।

१ पराक्रमैःच।

२ स्यैषःच।

॥ २।५१।११ ॥ ॥ २।५१।१२ ॥

अस्मिन् १ प्रव्रजिते, राजा न चिरं वर्तयिष्यति।

विधवा मेदिनी नूनं २ क्षिप्रमेव भविष्यति ॥ १२ ॥

धवःपतिः ॥ १२ ॥

१ प्रव्राजितेङ।

२ क्षिप्रमेषाङ।

॥ २।५१।१२ ॥ ॥ २।५१।१३ ॥

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः।

निर्घोषोपरतं १ चातो मन्ये २ राजनिवेशनम् ॥ १३ ॥

विनद्येत्यादि। श्रमेणोपरता भविष्यन्तिएवं विनद्योपरतस्त्रीकं रामनिवेशनं चिरमनुभूताशनिघोषं सत् पश्चात् उपरतनिर्घोषमिव भविष्यतीति मन्ये ॥ १३ ।।

१ तातच।

२ रामनिङ।

॥ २।५१।१३ ॥ ॥ २।५१।१४ ॥

कौसल्या चैव राजा च तथैव जननी मम।

१ नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥ १४ ॥

जीवन्तीति नाशंसेवर्तमानसामीप्ये भविष्यति लट्, न जीविष्यन्तीत्येवावगच्छामि। यदि वा जीविष्यन्ति तदा इमामेव शर्वरीं जीविष्यन्ति नाभ्यधिकम्, अन्नपानाद्यस्वीकारात् परमदुःखपरितापाच्च ॥ १४ ॥

१ आशंसेङ।

॥ २।५१।१४ ॥ ॥ २।५१।१५ ॥

जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया।

तद्दुःखं, १ यत्तु कौसल्या वीरसूर्विनशिष्यति ॥ १५ ॥

जीवेदपीति। एतद्रात्र्याः परमपीति शेषः। मे मातैव जीविष्यति शत्रुघ्नस्यान्ववेक्षया। कौसल्या विनशिष्यति पुत्रान्तरविहीनत्वात् इति यत् तदेव मे दुःखम् ॥ १५ ॥

१ यदिच।

॥ २।५१।१५ ॥ ॥ २।५१।१६ ॥

अनुरक्तजनाकीर्णा १ सुखा लोकप्रियावहा।

राजव्यसन २ संसृष्टा सा पुरी विनशिष्यति ॥ १६ ॥

राजव्यसनंराजनाशः ॥ १६ ॥

१ सुखलोकङ।

२ सन्तप्ताङ।

॥ २।५१।१६ ॥ ॥ २।५१।१७१९ ॥

कथं पुत्रं महात्मानं १ ज्येष्ठं प्रियमपश्यतः।

शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ १७ ॥

विनष्टे नृपतौ पश्चात् कौसल्या विनशिष्यति।

अनन्तरं च माताऽपि मम नाशमुपैष्यति ॥ १८ ॥

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्।

राज्ये रामवनिक्षिप्य पिता मे विनशिष्यति ॥ १९ ॥

मनोरथंरामराज्याभिषेकरूपं अनवाप्य अतिक्रान्तमतिक्रान्तंनष्टं नष्टमिति क्रोशन्, आबाधे चऽ इति द्विर्वचनम्, आबाधो मनोदुःखम्, राज्ये रामंपुनरागतमनिक्षिप्यैव मे पिता विनशिष्यति ॥ १९ ॥

१ सन्तंङ।

৷৷৷৷विनशिष्यतीति यत् तस्मात् अतिक्रान्तमतिक्रान्तं सर्वं प्रयोजनमतीत्यगतमित्यर्थःगो।, ति।

॥ २।५१।१७१९ ॥ ॥ २।५१।२० ॥

सिद्धार्थाः पितरं वृत्तं तस्मिन् कालेऽभ्युपस्थिते।

प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति १ भूमिपम् ॥ २० ॥

सिद्धार्था इति। भाग्यवन्तस्तस्मिन् काले सर्वेषु प्रेतकार्येषु सन्निहिता भूत्वा संस्करिष्यन्ति, अस्माकं तु तदपि न लभ्यते। सिद्धार्थाःप्राप्तराज्यप्रयोजना भरततत्पक्ष्या इत्यर्थः ॥ २० ॥

१ राघवंङ।

॥ २।५१।२० ॥ ॥ २।५१।२१२३ ॥

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्।

१हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम् ॥ २१ ॥

रथाश्वगजसम्बाधां तूर्यनादविनादिताम्।

सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ २२ ॥

आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम्।

सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २३ ॥

त एते अनन्तरं यथापूर्वं सुमङ्गलां राजधानीं विचरिष्यन्ति ॥

जनानामयं स्वभावःयत् अतीतं महान्तमपि दुःखं कालक्रमेण विस्मरन्तीतिइत्यभिप्रेत्योच्यतेरम्येत्यादि। समाजैःअनेकजनैः मिलित्वा क्रियमाण उत्सवः समाजोत्सवः।

१ रम्यप्रासादसम्पूर्णांङ।

॥ २।५१।२१२३ ॥ ॥ २।५१।२४२६ ॥

अपि जीवेद्दशरथो वनवासात् पुनर्वयम्।

प्रत्यागम्य महात्मानं अपि १ पश्येम सुव्रतम् ॥ २४ ॥

अपि सत्यप्रतिज्ञेन सार्धं २ कुशलिना वयम्।

३ निवृत्तवनवासेऽस्मिन् अयोध्यां प्रविशेमहि ॥ २५ ॥

परिदेवयमानस्य दुःखार्तस्य महात्मनः।

तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २६ ॥

तिष्ठत इति। एवं परिदेवनं कृत्वा अवस्थितस्येत्यर्थः ॥ २६ ॥

१ पश्यामङ।

अस्मिन् रामे निवृत्तवनवासे सति, अत एव सत्यप्रतिज्ञेन कुशलेन पित्रा सार्धं वयमयोध्यां अपि प्रविशेमहीत्यन्वयः।

२ कुशलिनोङ।

३ निवृत्ते वनङ।

॥ २।५१।२४२६ ॥ ॥ २।५१।२७ ॥

तथा तु सत्यं ब्रुवति प्रजाहिते

नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः।

मुमोच बाष्पं व्यसनाभिपीडितः

ज्वरातुरो नाग इव व्यथातुरः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकपञ्चाशः सर्गः।

गुरुसौहृदात्रामविषयगुरुसौहार्दात् तथा सत्यंवास्तवं ब्रुवति सति गुहोऽपि रामे गुरुसौहृदात्महास्नेहात् व्यसनाभिपीडितो बाष्पं मुमोच। ज्वरातुरः, अत एव व्यथातुरः, नागःगजः। सार (२७) मानः सर्गः ॥ २७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकपञ्चाशः सर्गः।

॥ २।५१।२७ ॥