०५० गङ्गातीरे गुहसमागमः

पञ्चाशः सर्गः

[गुहसङ्गमः] ॥ २।५०।१ ॥

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः।

अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥

एवं स्वदेशातिवाहनानन्तरं जन्मभूमिप्रयुक्तस्नेहस्वपुरदेवतामापृच्छय शनैर्गङ्गाप्राप्तिपूर्वकं गुहसम्बन्धः। विशालानित्यादि। कोसलानिति। अतीत्येति शेषः ॥ १ ॥

॥ २।५०।१ ॥ ॥ २।५०।२३ ॥

आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते

दैवतानि च यानि त्वां १ पालितानि वसन्ति च ॥ २ ॥

निवृत्तवनवासस्त्वां अनृणो जगतीपतेः।

पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ॥ ३ ॥

हे पुरिश्रेष्ठेअयोध्याधिदेवते इति यावत्। यानि च दैवतानि त्वया पालितानि त्वयि वसन्ति शिवविष्ण्वादीनि, तानि त्वां च पुनर्द्रक्ष्यामीत्यन्वयः ॥ ३ ॥

आपृच्छेअनुज्ञां प्रार्थयामि।

१ पालयन्त्यासर्वत्र।

॥ २।५०।२३ ॥ ॥ २।५०।४ ॥

ततो रुधिरताम्राक्षः भुजमुद्यम्य दक्षिणम्।

अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ ४ ॥

जानपदंजनपदे भवं जानपदम्, स्वदर्शनार्थं तत्रागतमिति शेषः ॥ ४ ॥

॥ २।५०।४ ॥ ॥ २।५०।५ ॥

अनुक्रोशो दया चैव यथार्हं मयि वः कृतः।

चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ ५ ॥

यथार्हं मयि कृतः यः अनुक्रोशःअनुतापः दया च अतिपापीयः तदिदं सर्वं वः चिरं दुःखस्य सम्पन्नं बत किं कुर्म इदानीम्? गम्यतामर्थसिद्धयेप्रकृतार्थसिद्धये, साधयाम इति शेषः ॥ ५ ॥

दुःखस्य चिरंविलम्बःपापीयःन युक्तमित्यर्थः।

॥ २।५०।५ ॥ ॥ २।५०।६ ॥

तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम्।

विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित् क्वचित् ॥ ६ ॥

त इति। एवं रामेण विसर्जिता इत्यर्थः ॥ ६ ॥

॥ २।५०।६ ॥ ॥ २।५०।७ ॥

तथा विलपतां तेषां अतृप्तानां च राघवः।

अचक्षुर्विषयं प्रायात् यथाऽर्कः क्षणदामुखे ॥ ७ ॥

अतृप्तानामिति। दर्शनतृप्तिरहितानामित्यर्थः। क्षणदामुखेसायंकाले ॥ ७ ॥

स्वेवामनुगमनानभ्युपगमात् अतृप्तानाम्।

॥ २।५०।७ ॥ ॥ २।५०।८ ॥

ततो धान्यधनोपेतान् दानशीलजनान् शिवान्।

अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान् ॥ ८ ॥

एवं कोसलजनपदप्रजानिवर्तनानन्तरं वैभववर्णनपूर्वकं तदतिवाहः प्रदर्श्यतेततो धान्येत्यादि। दानशीला नरा येषु ते तथा। चैत्येग्रामाद्बहिःप्रदेशे प्रतिष्ठापितैः यूपैः समावृतास्तथा ॥ ८ ॥

चैत्यंअग्निशाला।

॥ २।५०।८ ॥ ॥ २।५०।९ ॥

उद्यानाम्रवणोपेतान् सम्पन्नसलिलाशयान्।

तुष्टपुष्टजनाकीर्णान् १गोकुलाकुलसेवितान् ॥ ९ ॥

गोकुलैः आकुलतयानिबिडताय सेवितास्तथा ॥ ९ ॥

१ सदा गोकुलङ।

गोकुलैराकुलं यथा तथा सेविता इति विग्रहः।

॥ २।५०।९ ॥ ॥ २।५०।१० ॥

१ रक्षणीयान् नरेन्द्राणां ब्रह्मघोषानुनादितान्।

रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥ १० ॥

रक्षणीयान् नरेन्द्राणामिति। कृत्यानां कर्तरि वाऽ इति षष्ठी, नरेन्द्रैरित्यर्थः ॥ १० ॥

नरेन्द्राणां लक्षणीयान्, एकैकशो नगरसदृशत्वेन लक्षयितुं योग्यान्गो।, ती।। नरेन्द्राणां रक्षणीयान्, ग्रामश इति शेषः। नरेन्द्ररक्षणयोग्यैकग्रामान्, इतरनरेन्द्रराज्यतुल्यैकग्रामानिति यावत्ति।।

१लक्षणीयान्ङ।

॥ २।५०।१० ॥ ॥ २।५०।११ ॥

मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम्।

राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः ॥ ११ ॥

राज्यं मध्येन ययौमध्यगत्यवलम्बनेन ययौ, स्वदेशस्वजनानुनयाशङ्काभावात् शनैर्देशसौभाग्यं पश्यन् अगमदित्यर्थः ॥ ११ ॥

मध्येनमार्गेणगो।

॥ २।५०।११ ॥ ॥ २।५०।१२ ॥

तत्र त्रिपथगां दिव्यां १शिवतोयामशैवलाम्।

ददर्श राघवो गङ्गां २पुण्यामृषिनिषेविताम् ॥ १२ ॥

तत्रेति। अयोध्याराज्याद्दक्षिणराज्य इत्यर्थः ॥ १२ ॥

१ शीततोयाच।

२ रम्याच।

॥ २।५०।१२ ॥ ॥ २।५०।१३ ॥

आश्रमैरविदूरस्थैः श्रीमद्भिस्समलङ्कृताम्।

कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदां शिवाम् ॥ १३ ॥

काले क्रीडाकाल इति यावत्। सेविताः अम्भःपूर्णह्रदा यस्यां सा तथा ॥ १३ ॥

॥ २।५०।१३ ॥ ॥ २।५०।१४ ॥

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम्।

१नागगन्धर्वपत्नीभिः सेवितां सततं २ शिवाम् ॥ १४ ॥

नागपत्न्यः, गन्धर्वपत्न्यश्च तथा ॥ १४ ॥

१ नानाङ।

भुक्त्वा वा यदि वाऽभुक्त्वा रात्रौ वा यदि वा दिवा। न कालनियमः कश्चित् गङ्गां प्राप्य सरिद्वराम्। इति वचनात् सततं शुभाम् ॥ ऽति

२ शुभांङ।

॥ २।५०।१४ ॥ ॥ २।५०।१५ ॥

देवाक्रीड १शतोपेतां देवोद्यान २युतां नदीम्।

देवार्थमाकाश ३ गतां विख्यातां देवपद्मिनीम् ॥ १५ ॥

देवानामाक्रीडैःक्रीडाप्रर्वतशतैः हिमवदादावुभयतीरवर्तिभिः उपेतां। प्राग्वदेवदेवोद्यानयुतां। देवार्थंदेवानां स्नानपानादिप्रयोजनाय तत्प्रार्थनया आकाशगतां। तत्र प्रदेशे देवपद्मिनींदेवःभगवान् हिरण्यगर्भः, तदीयं पद्मंस्वर्णपद्मं, तदर्थं तद्वतीमित्यर्थः ॥ १५ ॥

१ शताकीर्णांङ।, च।

२ शतायुताम्ङ।

३ गमांङ।

॥ २।५०।१५ ॥ ॥ २।५०।१६ ॥

जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम्।

क्वचिद्वेणीकृजलां क्वचिदावर्तशोभिताम् ॥ १६ ॥

शिलादिपतनस्थले योऽयं जलाघातः सशब्दःतद्रूपेणाट्टहासेन उग्रां सशब्दः शूरादिक्रियमाणः हासःअट्टहासः। फेनरूपः निर्मलः हासः मन्दस्मितरूपः अस्या अस्तीति तथा। एवमादिस्त्रीसमाधिवर्णनं प्रवाहरूपिण्या अपि गङ्गायाः ॥ १६ ॥

गङ्गां स्त्रीत्वेन रूपयतिजलाघातेत्यादिनागो।

॥ २।५०।१६ ॥ ॥ २।५०।१७ ॥

क्वचित् स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम्।

क्वचित् गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ १७ ॥

स्तिमितानिश्चला गम्भीराअगाधा च तथा। गम्भीरनिर्धोषो मृदङ्गादेरिव, भैरवनिस्वनस्त्वशन्यादेरिव ॥ १७ ॥

॥ २।५०।१७ ॥ ॥ २।५०।१८ ॥

देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम्।

क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ १८ ॥

आभोगपुलिनांविशालसैकताम्। वालुकासिकता ॥ १८ ॥

आप्लवःस्नानं आप्लाव आप्लवः स्नानंऽ इत्यमरः देवसङ्घैः आप्लुतं जलं यस्याः सा तथा।

आभोगः परिपूर्णताऽ इत्यमरः।

॥ २।५०।१८ ॥ ॥ २।५०।१९२० ॥

हंससारससङ्घुष्टां चक्रवाकोपकूजिताम्।

सदा मत्तैश्च विहगैः अभिपन्नामनिन्दिताम् ॥ १९ ॥

क्वचित्तीररुहैर्वृक्षेः मालाभिरुपशोभिताम्।

क्वचित् फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ॥ २० ॥

क्वचित् कुमुदषण्डैश्च कुड्मलैरुपशोभिताम्।

कुड्मलैः कुमुदषण्डैरिति योजना ॥ २० ॥

मालाभिरिव स्थितैः वृक्षैरित्यन्वयः।

॥ २।५०।१९२० ॥ ॥ २।५०।२१ ॥

नानापुष्परजोध्वस्तां समदामिव च क्वचित् ॥ २१ ॥

नानापुष्परजसां ध्वस्तःध्वंसः, भावे निष्ठा, यस्यां सा तथा। अतस्तादृशगुणवतीं समदांमदसहितां प्रमदामिव स्थिताम् ॥ २१ ॥

॥ २।५०।२१ ॥ ॥ २।५०।२२ ॥

व्यपेत १ जलसङ्घातां मणिनिर्मलदर्शनाम्।

व्यपेतजलसङ्घातांउत्तीरप्रवाहरहितामिति यावत्। मणिःमुक्तामणिः ॥

दिशागजैर्वनगजैः मत्तैश्च वरवारणैः ॥ २२ ॥

२ देवौपवार्यैश्च मुहुः सन्नादितवनान्तराम्।

वनवारणैःउत्तमगचैः। देवाःराजानः तेषामौपवाह्यैः३ पौरगजैरिति यावत् ॥ २२ ॥

१ मलङ।, च।

देवोपवाह्यैःदेवानां वाहनभूतैःगो।

२ देवराजोपवाह्यैःच।

३ वरट।

॥ २।५०।२२ ॥ ॥ २।५०।२३ ॥

प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ॥ २३ ॥

फलमूलैः किसलयैः वृतां गुल्मैः द्विजैस्तथा।

फलमूलैः किसलयैःतदात्मकैरेव भूषणैःअलङ्कारैः भूषिताम् ॥

फलैः पुष्पैःङ।

॥ २।५०।२३ ॥ ॥ २।५०।२४ ॥

शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् ॥ २४ ॥

विष्णुपादच्युतां दिव्यां अपापां पापनाशिनीम्।

शिंशुमारस्त्वम्बुकपिःऽ ॥ २४ ॥

विष्णुपादस्पर्शेन ब्रह्मलोकात् ब्रह्माण्डबाह्यजलदेशाच्च ज्युतां, अपापांकर्मनाशादिवत् केनापि प्रकारेण पापजनकत्वाभाववतीमिति कतकःइति तिलके उद्धृतं वर्तते। परन्त्वस्मदुपलब्धमातृकायां अयं भागो नोपलभ्यते।

॥ २।५०।२४ ॥ ॥ २।५०।२५२६ ॥

तां शङ्करजटाजूटात् भ्रष्टां १सागरतेजसा ॥ २५ ॥

समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम्।

आससाद महाबाहुः २ शृङ्गबेरपुरं प्रति ॥ २६ ॥

शृङ्गबेरपुरं प्रतीति। प्रस्थितामिति शेषः ॥ २६ ॥

१ सागरःभगीरथः, तस्य तेजसामहिम्ना भ्रष्टामित्यन्वयः।

२ शृङ्गबेरपुरं प्रतिगच्छन्, यद्वा शृङ्गबेरपुरसमीपेगो।

॥ २।५०।२५२६ ॥ ॥ २।५०।२७ ॥

तामूर्मिकलिलावर्तां अन्ववेक्ष्य महारथः।

सुमन्त्रमब्रवीत् सूतं इहैवाद्य वसामहे ॥ २७ ॥

ऊर्मिभिः कलिलाःसम्पृक्ताः आवर्ताः यस्यां सा तथा ॥ २७ ॥

॥ २।५०।२७ ॥ ॥ २।५०।२८ ॥

अविदूरादयं नद्याः बहुपुष्पप्रवालवान्।

सुमहान् इङ्गुदीवृक्षः वसामोऽत्रैव, सारथे ॥ २८ ॥

नद्या अविदूराद्धेतोः बहुपुष्पप्रवालवान्। इङ्गुदी तापसतरुःऽ करुङ्गुण्णम् (?) ॥ २८ ॥

॥ २।५०।२८ ॥ ॥ २।५०।२९३० ॥

द्रक्ष्यामः सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम्।

देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ २९ ॥

लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम्।

उक्त्वा तमिङ्गुदीवृक्षं तत्रोपययतुर्हयैः ॥ ३० ॥

तं इङ्गुदीवृक्षं तत्रगङ्गातीरे प्रतिष्ठितमुद्दिश्य प्रवर्तितैर्हयैः ययतुः ॥

॥ २।५०।२९३० ॥

॥ २।५०।३१३३ ॥

रामोऽभीयाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः।

रथादवातरत्तस्मात् सभार्यः सहलक्ष्मणः ॥ ३१ ॥

सुमन्त्रोऽप्यवतीर्यास्मात् मोचयित्वा हयोत्तमान्।

वृक्षमूलगतं रामं उपतस्थे कृताञ्जलिः ॥ ३२ ॥

तत्र राजा गुहो नाम रामस्यात्मसमः सखा।

निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः ॥ ३३ ॥

आत्मसमःप्राणसमः। निषादजातौ भवःनिषादजात्यः, दिगादित्वात् यत्। बलवान्प्राणीयबलवान्, चतुरङ्गबलवांश्च। तदेतदुच्यतेस्थपतिरिति। स्थपतिःअधिपतिःनिषादबलाधिपतिः। स्थपतिः पुनः। स्थापत्येऽधिपतौ तक्ष्णिऽ इति वैजयन्ती। एवञ्चास्य महाप्रभुत्वात् मूलभृतकादिषड्विधबलसङ्ग्रहस्य च राजधर्मत्वात् अस्य गुहस्य चाटविकमहाबलवत्त्वात् एतद्दशायामेव तेनाटविकबलेन चातिप्रयोजनत्वात् सख्यंस्नेहो युक्त एव। ततश्च हीनप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्ऽ इत्युपपातकपरिगणनं ब्राह्मणविषयम् ॥ ३३ ॥

॥ २।५०।३१३३ ॥ ॥ २।५०।३४ ॥

स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम्।

वृद्धैः परिवृतोऽमात्यैः ज्ञातिभिश्चाप्युपागतः ॥ ३४ ॥

विषयंस्वदेशम् ॥ ३४ ॥

॥ २।५०।३४ ॥ ॥ २।५०।३५ ॥

ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम्।

सह सौमित्रिणा रामः समागच्छत् गुहेन सः ॥ ३५ ॥

समागच्छत्सङ्गतोऽभूत् ॥ ३५ ॥

॥ २।५०।३५ ॥ ॥ २।५०।३६ ॥

तमार्तः सम्परिष्वज्य गुहो राघवमब्रवीत्।

यथाऽयोध्या तथेदं ते, राम किं करवाणि ते ॥ ३६ ॥

ईदृशं हि, महाबाहो कः प्राप्स्यत्यतिथिं प्रियम्।

इदमिति। अस्मत्पुरमिति यावत् ॥ ३६ ॥

॥ २।५०।३६ ॥ ॥ २।५०।३७ ॥

ततो गुणवदन्नाद्यं उपादाय पृथग्विधम् ॥ ३७ ॥

अर्घ्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह।

अन्नं च तत् आद्यं च, ऋहलोर्ण्यत् ॥ ३७ ॥

॥ २।५०।३७ ॥ ॥ २।५०।३८३९ ॥

स्वागतं ते, महाबाहो तवेयमखिला मही ॥ ३८ ॥

वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः।

भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ॥ ३९ ॥

शयनानि च मुख्यानि वाजिनां खादनं च ते।

वाजिनां खादनंअश्वघास इति यावत् ॥ ३९ ॥

॥ २।५०।३८३९ ॥ ॥ २।५०।४०४१ ॥

गुहमेवं ब्रुवाणं तु राघवः प्रत्युवाच ह ॥ ४० ॥

अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम्।

पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च ॥ ४१ ॥

पद्भ्यामभिगमात्स्वपुरादारभ्य स्वावासेङ्गुदीवृक्षपर्यन्तं महाप्रभुरपि सन् यतः पद्भ्यामभिगतोऽसि, यतश्च तवेयमखिला महीऽ इत्यादिना स्नेहं च दर्शयसि, तेन हेतुना वयं सर्वथा त्वयाऽर्चिता एवेति प्रत्यभाषतेत्यन्वयः ॥ ४१ ॥

॥ २।५०।४०४१ ॥ ॥ २।५०।४२४३ ॥

भुजाभ्यां साधु १ पीनाभ्यां पीडयन् वाक्यमब्रवीत् ॥

दिष्ट्या त्वां, गुह पश्यामि ह्यरोगं सह बान्धवैः।

अपि ते कुशलं राष्ट्रे मित्रेषु च २ वनेषु च ॥ ४३ ॥

वनेषु च ते कुशलं इति प्रश्नः तस्याटविकत्वात् ॥ ४३ ॥

१ साधु पीडयन्सम्यक् आलिङ्गन्।

२वृत्ताभ्यांच।

३ धनेषुङ।

॥ २।५०।४२४३ ॥ ॥ २।५०।४४४५ ॥

१ यत्त्विदं भवता किञ्चित् प्रीत्या समुपकल्पितम्।

सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे ॥ ४४ ॥

कुशचीराजिनधरं फलमूलाशिनं च माम्।

विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ ४५ ॥

धर्मे प्रणिहितमिति। पितृवाक्यपरिपालनलक्षणे धर्मे सावधानम् ॥

१ यद्विधंङ।

प्रतिग्रहे नेदानीं ममाधिकार इति। तदेव विवृणोतिकुशचीरेत्यादि।

॥ २।५०।४४४५ ॥ ॥ २।५०।४६४७ ॥

अश्वानां खादनेनाहं अर्थी नान्येन केन चित्।

एतावताऽत्रभवता भविष्यामि सुपूजितः ॥ ४६ ॥

एते हि दयिता राज्ञः पितुर्दशरथस्य मे।

एतैस्सु १ विहितैरश्वैः भविष्याम्यहमर्चितः ॥ ४७ ॥

एते हीति। अश्वा इति यावत् ॥ ४७ ॥

१ सुखितैःङ।

॥ २।५०।४६४७ ॥ ॥ २।५०।४८ ॥

अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात्।

गुहस्तत्रैव पुरुषान् त्वरितं दीयतामिति ॥ ४८ ॥

प्रतिपानमिति। कबलदानानन्तरं राजौपवाह्यजात्याश्वानां यत् क्षीरादिकं प्रतिपाय्यते तत् प्रतिपानम्। दीयतामिति। आदिदेशेति शेषः ॥ ४८ ॥

॥ २।५०।४८ ॥ ॥ २।५०।४९५१ ॥

ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्।

जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ ४९ ॥

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः।

सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ ५० ॥

गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन्।

अन्वजाग्रत् ततो रामं अप्रमत्तो धनुर्धरः ॥ ५१ ॥

अन्वजाग्रदिति शब्दः छान्दसः, अजाग इति यावत् ॥ ५१ ॥

॥ २।५०।४९५१ ॥ ॥ २।५०।५२ ॥

तथा शयानस्य ततो १ ऽस्य धीमतः

यशस्विनो दाशरथेर्महात्मनः।

अदृष्टदुःखस्य सुखोचितस्य सा

२ तदा व्यतीयाय चिरेण शर्वरी ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चाशः सर्गः।

चिरेणेति। भूशय्यावासनाभावतो निद्रानागमाच्चिरत्वप्रतिभासः। राम (५२) मानः सर्गः ॥ ५२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चाशः सर्गः।

१ यशस्विनः, मनस्विनःङ। च।

२ तदा व्यतीता सुचिरेणच। तदा व्यतीयाय सुखेनङ।

॥ २।५०।५२ ॥