एकोनपञ्चाशः सर्गः
[जानपदाक्रोशः] ॥ २।४९।१ ॥
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्।
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ १ ॥
एवं पौरव्यापारमुपवर्ण्य यथाप्राप्तरामवनप्रयाणदर्शनम्। रामोऽपीत्यादि। तेनैव रात्रिशेषेणेति। यद्रात्रिशेषे द्विजाः सुप्ताः अतिसंहिताः, तद्रात्रिशेषेणैवेत्यर्थः। महत् अन्तरं अवकाशं जगामअतिवाहितवानिति यावत् ॥ १ ॥
महद्दूरमित्यर्थः।
॥ २।४९।१ ॥ ॥ २।४९।२३ ॥
तथैव गच्छतस्तस्य व्यपायाद्रजनी शुभा।
उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ॥ २ ॥
ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि च।
१ पश्यन्नतिययौ शीघ्रं २ शरैरिव हयोत्तमैः ॥ ३ ॥
शरैरिवेति। शरवेगैरिवोपलक्षितैरित्यर्थः ॥ ३ ॥
विषयान्तंउत्तरकोसलस्य दक्षिणप्रदेशसीमानमित्यर्थः।
१ पश्यन्नपिङ।
२ शनैरिवङ।
शनैरिति, पाठेशनैरिव जानन्, गमनस्यातिवेगत्वेऽपि प्रवासे आसक्त्यतिशयात् तथा जानन्निति भावः।
॥ २।४९।२३ ॥ ॥ २।४९।४ ॥
१शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम्।
राजानं धिक् दशरथं कामस्य वशमास्थितम् ॥ ४ ॥
ग्रामरूपः संवासःग्रामसंवासः ॥ ४ ॥
१ एतदनन्तरं विगर्हितां च कैकेयीं क्रूरां क्रूरेण कर्मणाऽ इत्यधिकंङ।
ग्रामाःमहाग्रामाः, संवासाःअल्पग्रामाःगो।
॥ २।४९।४ ॥ ॥ २।४९।५६ ॥
हा नृशंसाऽद्य कैकेयी पापा पापानुबन्धिनी।
तीक्ष्णा सम्भिन्नमर्यादा १तीक्ष्णकर्मणि वर्तते ॥ ५ ॥
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्।
२वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥ ६ ॥
ईदृशमिति। कल्याणगुणैकतानमित्यर्थः ॥ ६ ॥
१ क्षुद्रङ।
२ एतदनन्तरंकथं नाम महाभागा सीता जनकनन्दिनी। सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ इत्यधिकंङ।
॥ २।४९।५६ ॥ ॥ २।४९।७८ ॥
अहो दशरथो राजा निस्स्नेहः स्वसुतं प्रियम्।
प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ ७ ॥
एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्।
शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः ॥ ८ ॥
अतिययौअतिक्रम्यागच्छत् ॥ ८ ॥
॥ २।४९।७८ ॥ ॥ २।४९।९ ॥
ततो वेश्रुतिं नाम १ शिववारिवहां नदीम्।
उत्तीर्याभिमुखः प्रायात् अगस्त्याध्युषितां दिशम् ॥ ९ ॥
शिवानि वारीणि यस्यास्साशिववारिः ॥ ९ ॥
१ शिवतोयङ।
॥ २।४९।९ ॥ ॥ २।४९।१० ॥
गत्वा तु सुचिरं कालं ततः शिवजलां नदीम्।
गोमतीं गोयुतानूपां अतरत् सागरङ्गमाम् ॥ १० ॥
गोभिर्युताः आनूपाःकच्छाः यस्यां सा तथा। सागरङ्गमामिति। गमेः सुप्युपसङ्ख्यानंऽ इति खचि रूपम् ॥ १० ॥
॥ २।४९।१० ॥ ॥ २।४९।११ ॥
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः।
मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ ११ ॥
स्यन्दिकांस्यन्दिकाख्याम् ॥ ११ ॥
॥ २।४९।११ ॥ ॥ २।४९।१२ ॥
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा।
स्फीतां राष्ट्रावृतां रामः वैदेहीमन्वदर्शयत् ॥ १२ ॥
स महीमिति। अतीतस्यन्दिकानदीकः स रामः महींस्यन्दिकासीमाककोसलदेशं राष्ट्रावृतां अवान्तरजनपदावृतां, वैदेहीमन्वदर्शयत्एतत्सीमाकोऽयं कोसलदेशो मनुनाअस्मद्वंशकूटस्थेन अस्मद्वंश्यायेक्ष्वाकवे दत्त इति स्वदेशसीमाप्रदर्शनपूर्वकं कथयामासेत्यर्थः। यद्यपीक्ष्वाकुप्रमुखाः सार्वभौमाः, तथापि तेषां स्वजन्मभूमिस्वदेशस्वराजधानीत्वाद्यभिमानास्पदत्वं अयोध्यादेशस्यैव। तर्हि सार्वभौमत्वं कथम्? ततद्देशसिह्मासनपीठाधिष्ठातृमकुटवर्धनमहाराजपरिपालनीयस्वशासनत्वं, सर्वतः करग्राहित्वमेव च। न तु कालीवत् तत्तद्देशराजपीठं अबलमस्तीति कृत्वा विनाशयन्ति, अपि तु प्रतिष्ठापयन्त्येव। तथा ह्युक्तम् राजवंशान् शतगुणान् स्थापयिष्यति राघवःऽ इति ॥ १२ ॥
॥ २।४९।१२ ॥ ॥ २।४९।१३१४ ॥
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः।
हंसमत्तस्वरः श्रीमान् उवाच पुरुषोत्तमः ॥ १३ ॥
कदाऽहं पुनरागम्य सरय्वाः पुष्पिते वने।
मृगयां पर्यटिष्यामि मात्रा पित्रा च सम्मतः ॥ १४ ॥
पुनरागम्येति। अतिवाहितं स्वदेशमिति शेषः ॥ १४ ॥
॥ २।४९।१३१४ ॥ ॥ २।४९।१५ ॥
राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगयां वने।
काले वृतां तां मनुजैः धन्विनामभिकाङ्क्षिताम् ॥ १५ ॥
कदा मृगयां पर्यटिष्यामीति कथमिदं व्यसनमिच्छसीत्यत्राहराजर्षीणामित्यादि। कालेमृगयोचितग्रीष्मादिकाले धन्विभिर्मनुजैः वृतांतैरभिकाङ्क्षितां वने मृगयां राजर्षीणामपि अस्मिन् लोके रत्यर्थं हि स्मरन्तीति शेषः। इयमेव स्मृतिःहि शब्देन प्रसिद्धिवाचिना द्योत्यते। तर्हि स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः। अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम्ऽ इत्युक्तलक्षणव्यसननिषेधः कथम्? तदाभीक्ष्ण्यप्रवृत्तेरेव प्रजाचिन्तादिवैमुख्यकारिण्या निषेधः, न तूक्तव्यसनमात्रस्य, तस्याः सभाया मध्ये देवनमुद्धृत्यावोक्ष्याक्षान्निर्वपेत्ऽ इत्यादितो द्यूतादेश्शास्त्रेण स्वकृत्याविरोधिनोऽव्यसनस्य लीलार्थमनुमतत्वात् ॥
॥ २।४९।१५ ॥ ॥ २।४९।१६ ॥
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने।
रतिर्ह्येषाऽतुला लोके राजर्षिगणसम्मता ॥ १६ ॥
तदेवाहनात्यर्थमित्यादि। एषाकदाचित् मृगया यथाकालप्रवृत्तिः राजर्षिगणसम्मता अतुला रतिःक्रीडा। अस्या अप्यनुमतिः गजादयो न हन्तव्याः मृगयायांऽ इत्यादिना शास्त्रेण। सामान्यतो मृगयाऽनुमता ॥ १६ ॥
॥ २।४९।१६ ॥ ॥ २।४९।१७ ॥
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा।
तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ १७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः।
तं तमर्थमभिप्रेत्यविषयीकृत्य उदीरयन् तमध्वानमतिययौ। तर्क(१६)मानः सर्गः(?) ॥ १७ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनपञ्चाशः सर्गः।
॥ २।४९।१७ ॥