अष्टचत्वारिंशस्सर्गः
[पौरविलापः] ॥ २।४८।१ ॥
तेषामेवं विषण्णानां पीडितानामतीव च।
बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ १ ॥
अथ प्रतिनिवृत्तपौरजनस्य पुरे स्थित्वा शोचनम्तेषामित्यादि। मुमूर्षयामर्तुमिच्छयोपलक्षितानाम् ॥ १ ॥
तेषामित्यादिश्लोकद्वयमेकं वाक्यम्।
॥ २।४८।१ ॥ ॥ २।४८।२ ॥
अनुगम्य निवृत्तानां रामं नगरवासिनाम्।
उद्गतानीव सत्त्वानि बभूवु रमनस्विनाम् ॥ २ ॥
सत्त्वानिअन्तःकरणानि। उद्गतानिउत्क्रान्तानीव बभूवुः, मृततुल्यतयाऽवस्थिता इत्यर्थः। अमनस्विनांदुर्मनस्कानींखिन्नानामिति यावत् ॥ २ ॥
अमनस्विनां धैर्यहीनानाम्गो।
॥ २।४८।२ ॥ ॥ २।४८।३४ ॥
स्वं स्वं निलयमागम्य पुत्रदारैस्समावृताः।
अश्रूणि मुमुचुस्सर्वे बाष्पेण पिहिताननाः ॥ ३ ॥
न चाहृष्यन् न चामेदन् वणिजो न प्रसारयन्।
न चाशोभन्त १ पण्यानि नापचन् गृहमेधिनः ॥ ४ ॥
न चामोदन्निति। नामोदन्तेति यावत्। न प्रसारयन्न प्रासारयन् इति यावत्। अत एव पण्यानि नाशोभन्तन दृष्टानीत्यर्थः ॥ ४ ॥
१ पुण्यानिङ।
॥ २।४८।३४ ॥ ॥ २।४८।५६ ॥
नष्टं दृष्टावा नाभ्यनन्दन् विपुलं वा धनागमम्।
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ ५ ॥
गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम्।
व्यगर्हयन्त दुःखार्ता वाग्भिः तोत्रैरिव द्विपान् ॥ ६ ॥
व्यगर्हयन्तेति। राममप्रतिनिवर्त्य किमर्थमागता यूयमित्येवमात्मना। तोत्रैरिति पदम् ॥ ६ ॥
॥ २।४८।५६ ॥ ॥ २।४८।७ ॥
किन्नु तेषां १ गृहे कार्यं किं दारैः किं धनेन वा।
पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ ७ ॥
रामं विसृज्य आगतानां तेषां युष्माकं गृहे किं नु कार्यम्? व्यर्थमेवागतमित्यर्थः। ये न पश्यन्तीति। ये भवन्तो न पश्यन्तीत्यर्थः। एवमन्तं स्त्रीणां गर्हावचनं, विसृज्य राममागता इति कोपजम् ॥ ७ ॥
भर्तृ़न् सम्बोध्य वक्तुमनिच्छन्तः सामान्यतो तेषामिति निर्दिश्य व्यगर्हयन्त।
१ गृहैःङ।, च।
॥ २।४८।७ ॥ ॥ २।४८।८ ॥
एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया।
योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥ ८ ॥
अतः परं सामान्यतः शोकःएक इत्यादि ॥ ८ ॥
सीतया सह रामंसीतया सहितं राममित्यर्थः।
॥ २।४८।८ ॥ ॥ २।४८।९१० ॥
आपगाः कृतपुण्यासाताः पद्मिन्यश्च सरांसि च।
येषु १ स्नास्यति काकुत्स्थः विगाह्य सलिलं शुचि ॥ ९ ॥
२ शोभयिष्यन्ति काकुत्स्थं अटव्यो रम्यकाननाः।
आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ १० ॥
अटव्य इति। वनप्रदेशा इत्यर्थः। अनूपःकच्छः ॥ १० ॥
येषु सरस्सु शुचि सलिलं विगाह्यसलिलान्तर्निमज्य स्नास्यति। स्नानं खलु केवलशौचानुकूलव्यापारःष्णा शौचे इति धातोः। तच्च स्नानं उद्धृतजलेनापि भवितुमर्हति। तद्व्यावृत्त्यर्थं विगाह्येत्युक्तम्। यद्वा स्नानंअन्तश्शौचानुकूलव्यापारःमन्त्रस्नानमित्यादिप्रयोगात्। अवगाहनं बाह्यशौचानुकूलव्यापारः। यास्यतीति पाठे विगाह्य यास्यतीत्यन्वयः ॥
१ यास्यतिच।
२ लोभयिष्यन्तिङ। रामं आकर्षयिष्यन्तीति भावः।
॥ २।४८।९१० ॥ ॥ २।४८।११ ॥
काननं वाऽपि शैलं वा यं रामोऽभिगमिष्यति।
प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ ११ ॥
अनर्चितुं न शक्ष्यन्तिअर्चितुं शक्ष्यन्त्येवेत्यर्थः ॥ ११ ॥
॥ २।४८।११ ॥ ॥ २।४८।१२ ॥
विचित्रकुसुमापीडा बहुमञ्जरिधारिणः।
राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ॥ १२ ॥
तदेव प्रदर्श्यतेविचित्रेत्यादि। विचित्रैः कुसुमैःविकसितपुष्पैः आपीडाःशेखरा येषां ते तथा। बह्वीः मञ्जरीःमुकुलितपुष्पस्तबकान् धर्तुं शीलमस्त्येषामिति, छान्दसो ह्रस्वः। नगाःवृक्षाः। राघवं दर्शयिष्यन्तीति। तथा च पुष्पाञ्जलिरूपमर्चनं कर्तुं शक्नुवन्त्येवेत्युक्तं भवति ॥ १२ ॥
नगाः रामं परमात्मानं मत्वा स्वनिष्ठभ्रमरझंकाररूपमन्त्रोच्चारणपूर्वकं स्वशाखाकरोद्धृतमञ्जरीरूपपुष्पाञ्जलिभिः राघवमर्चयिष्यन्तिती।
॥ २।४८।१२ ॥ ॥ २।४८।१३ ॥
अकाले चापि मुख्यानि पुष्पाणि च फलानि च।
दर्शयिष्यन्त्यनुक्रोशात् गिरयो राममागतम् ॥ १३ ॥
पूजान्तरेऽपि सामर्थ्यं प्रदर्श्यतेअकाले चापीत्यादि। गिरयो दर्शयिष्यन्तीति। स्वकवृक्षद्वारेणेति शेषः ॥ १३ ॥
॥ २।४८।१३ ॥ ॥ २।४८।१४१५ ॥
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः।
विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ॥ १४ ॥
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्।
यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥ १५ ॥
यत्र राम इति। वसतीति शेषः ॥ १५ ॥
॥ २।४८।१४१५ ॥ ॥ २।४८।१६ ॥
स हि शूरो महाबाहुः पुत्रो दशरथस्य च।
पुरा भवति १ नोऽदूरात् अनुगच्छाम राघवम् ॥ १६ ॥
राघवः नःअस्माकं अदूराद्भवति पुरा यावत्पुराऽ इति लट् आसन्नो भविष्यति किम्? आसन्नं यं राममनुगच्छाम, प्रार्थने लोट् ॥ १६ ॥
दूरात् पुरा भवतिभविष्यति, ततः पूर्वमेवानुगच्छाम इत्यर्थःगो। अदूरात् पुरा भवतिआसन्नो भविष्यति, अतो राघवमनुगच्छामति।, ती।
१ नो दूरात्ङ।
॥ २।४८।१६ ॥ ॥ २।४८।१७ ॥
पादच्छाया १ सुखा भर्तुः तादृशस्य महात्मनः।
स हि नाथो जनस्यास्य स गतिस्स परायणम् ॥ १७ ॥
महात्मनस्तस्य पादच्छायाछायेति अनुग्रहहेतुभूता सेवा लक्ष्यते, श्रीरामचन्द्रपादसेवैव नस्सुखापरमसुखसाधनभूता गतिःशरणम्। परायणंशाश्वतप्रतिष्ठा ॥ १७ ॥
१ सुखोदर्काङ।
गतिःशरणं, परायणंपरमप्राप्यं पराभीष्टे परायणपदं विदुःऽ इति शाश्वतः। तथा च, उपायः उपेयश्चेति द्वयमपि राम एवेत्यर्थः।
॥ २।४८।१७ ॥ ॥ २।४८।१८ ॥
वयं परिचरिष्यामः सीतां, यूयं तु राघवम्।
इति पौरस्त्रियो भर्तृ़न् दुःखार्ता १ स्तत्तदब्रुवन् ॥ १८ ॥
वयमिति। स्त्रिय इत्यर्थः। यूयंपुरुषाः ॥ १८ ॥
१ स्तास्तदाब्रुवन्ङ।
॥ २।४८।१८ ॥ ॥ २।४८।१९२० ॥
युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति।
सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ १९ ॥
को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च।
सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ २० ॥
अनेन वासेन को नु सम्प्रीयेतेति योजना। अप्रतीतेनअसुखेन। सशोकस्मरणंउत्कण्ठा, सोत्सण्ठतया कृतः सोत्कण्ठितः, तादृशः जनः यस्मिन्नयोध्यावासे स तथा। हृतचेतसाचित्तनाशकेन ॥ २० ॥
अप्रतीतेन अप्रशस्तेनहर्षशून्येन वा ख्याते हृष्टे प्रतीतःऽ इत्यमरः।
॥ २।४८।१९२० ॥ ॥ २।४८।२१ ॥
कैकेय्या यदि चेत् राज्यं स्यादधर्म्यमानाथवत्।
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ २१ ॥
अधर्म्यंधर्मापेतम् ॥ २१ ॥
॥ २।४८।२१ ॥ ॥ २।४८।२२ ॥
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात्।
कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ २२ ॥
पुत्रश्चेति। राम इत्यर्थः। परिहरेत्रक्षेत् ॥ २२ ॥
परिहरेत्परित्यजेत्, स्वक्रूरचिन्तात इति शेषः।
॥ २।४८।२२ ॥ ॥ २।४८।२३ ॥
कैकेय्या न वयं राज्ये १ भृतका निवसेमहि।
जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ २३ ॥
जीवन्त्याः कैकेय्या राज्ये तस्या भृतकाःभृत्यभूताः जीवन्त्यस्सत्यः न निवसेमहि, न वसेमेति यावत्। इममर्थं प्रति पुत्रैरपि शपामहे, शप उपालम्भे ॥ २३ ॥
१ भृतकामाङ।
अस्मिन्नगरे कैकेय्यावयोर्मध्ये अन्यतरजीवनमेव भवति इति भावः।
॥ २।४८।२३ ॥ ॥ २।४८।२४ ॥
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा।
कस्तां प्राप्य सुखं जीवेत् अधर्म्यां दुष्टचारिणीम् ॥ २४ ॥
तां अधर्म्यांधर्मापेताम् ॥ २४ ॥
॥ २।४८।२४ ॥ ॥ २।४८।२५ ॥
उपद्रुतमिदं सर्वं १ अनालम्बमनायकम्।
कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ॥ २५ ॥
कृतेनिमित्तम् ॥ २५ ॥
१ अनालम्भंच। (अयज्ञंति)।
॥ २।४८।२५ ॥ ॥ २।४८।२६२७ ॥
न हि १ प्रव्रजिते रामे जीविष्यति महीपतिः।
मृते दशरथे व्यक्तं २ विलापस्तदनन्तरम् ॥ २६ ॥
ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः।
राघवं वाऽनुगच्छध्वं अश्रुतिं वापि गच्छत ॥ २७ ॥
ते यूयं पुरुषा इत्यर्थः। सस्त्रीका इति शेषः। अश्रुतिं वापि गच्छतयस्मिन् देशे प्राप्ते युष्मद्वृत्तान्तश्रवणमपि न भवति, तादृशं दूरदेशं वा गच्छतेत्यर्थः ॥ २७ ॥
१प्रव्राजितेङ।
२विलोपःच।
भर्तृ़न् वीक्ष्य विषं पिवतेत्युक्तिः सतीनामसङ्गतेति मत्वा इदमुक्तम्। परन्तु अश्रुतिं वापि गच्छतेति कथनं कथं? अतः विषादमूर्छितानामयमर्थस्मरणशून्यः उपालम्भ इति स्वरसम्।
॥ २।४८।२६२७ ॥ ॥ २।४८।२८ ॥
मिथ्याप्रव्राजितो रामः १सभार्यः सहलक्ष्मणः।
भरते २ सन्निविष्टास्मः सौनिके पशवो यथा ॥ २८ ॥
मिथ्याप्रव्राजितःमिथ्यावरकल्पनया प्रव्राजितोऽभूत् रामः। ततः कैकेयीवशगे भरते राजनि सति, सौनिकेसूनापशुविशसनस्थानं, तत्र भवः सौनिकः, तत्समीपे पशवो यथा निश्चितप्राणपीडास्तिष्ठन्ति तद्वत्सन्निविष्टास्म, लुट्, अगुणश्छान्दसः स्म इति वा पदम्। विषपानादिव्यापारान्यतमाश्रयेण इहावस्थानपरिहाराभाव इति शेषः ॥ २८ ॥
१ ससीतःङ।
२ सन्निविष्टाः स्मङ।, सन्निबद्धाः स्मःच।
॥ २।४८।२८ ॥ ॥ २।४८।२९३४ ॥
पूर्णचन्द्राननः श्यामः गूढजत्रुररिन्दमः।
आजानुबाहुः पद्माक्षः रामो लक्ष्मणपूर्वजः ॥ २९ ॥
पूर्वाभिभाषी १ मधुरः सत्यवादी महाबलः।
सौम्यश्च सर्वलोकस्य चन्द्रवत् प्रियदर्शनः ॥ ३० ॥
नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः।
शोभयिष्यत्यरण्यानि विचरन् स महारथः ॥ ३१ ॥
तास्तथा विलपन्त्यस्तु नगरे नागराः स्त्रियः।
चुक्रुशुः २ दुःखसन्तप्ता मृत्योरिव ३ भयागमे ॥ ३२ ॥
इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम्।
जगामास्तं दिनकरः रजनी चाभ्यवर्तत ॥ ३३ ॥
नष्टज्वलन ४ सम्पाता ५ शान्ताध्ययनसत्कथा।
तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥ ३४ ॥
नष्टः ज्वलनानां सम्पातःहोमाय सङ्गमः यस्यां सा तथा। शान्तानि अध्ययनानि सत्कथाःपुण्यकथाश्च यस्यां सा तथा ॥ ३४ ॥
स्वसौलभ्यसौशील्याद्यतिशयात् परप्रश्नादिकं न प्रतीक्षत इत्यर्थः।
१ मधुरंङ।
२ भृशसन्तङ।
मृत्योः भयागम इवमृत्युसम्बन्धिभयप्राप्ताविवेत्यर्थः।
३ समागमेङ।
४ सन्तापाच।
५ प्रशान्ताध्यायङ।
॥ २।४८।२९३४ ॥ ॥ २।४८।३५ ॥
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया।
अयोध्या नगरी चासीत् नष्टतारमिवाम्बरम् ॥ ३५ ॥
निराश्रयेति। रामाश्रयराहित्यात् निराश्रया ॥ ३५ ॥
॥ २।४८।३५ ॥ ॥ २।४८।३६ ॥
१ तथा स्त्रियो रामनिमित्तमातुराः
यथा सुते भ्रातरि वा विवासिते।
विलप्य दीना रुरुदुर्विचेतसः
२ सुतैर्हि तासामधिको हि सोऽभवत् ॥ ३६ ॥
स विलापस्तासां सुतैःसुतवियोगहेतुकैरप्यधिकोऽभूत् ॥ ३६ ॥
१ तदाच।
सुतैःसुतेभ्यः सःरामः अधिकःप्रियतरः।
२ सुताद्धिङ।
॥ २।४८।३६ ॥ ॥ २।४८।३७ ॥
प्रशान्तगीतोत्सवनृत्तवादना
विभ्रष्टहर्षा पिहितापणोदया।
१तदा ह्ययोध्या नगरी बभूव सा
महार्णवः २ सङ्क्षपितोदको यथा ॥ ३७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः
छाग (३७) मानः सर्गः ॥ ३७ ॥
इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे अष्टचत्वारिंशः सर्गः
१ तथाङ।
२ सङ्क्षपितोदकःसंशोषितोदकः।
॥ २।४८।३७ ॥