सप्तचत्वारिंशस्सर्गः
[पौरनिवृत्तिः] ॥ २।४७।१ ॥
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना।
शोकोपहतनिश्चेष्टा बभूवु र्हतचेतसः ॥ १ ॥
अथ एवमतिसंहितपौरजनप्रतिनिवृत्तिःप्रभातायामित्यादि। शोकेन उपहताः, अत एव निश्चेष्टाश्च तथा ॥ १ ॥
र्गतचेङ।
॥ २।४७।१ ॥ ॥ २।४७।२ ॥
शोकजाश्रुपरिद्यूनाः वीक्षमाणास्ततस्ततः।
आलोकमपि रामस्य न पश्यन्ति १ स्म दुःखिताः ॥ २ ॥
आलोकमपीति। आलोक्यत इत्यालोकःआलोकसाधनमपिरामरथादि २ दर्शनमपीत्यर्थः ॥ २ ॥
रथरेण्वादिकमपीत्यर्थःगो।, ति।, ती। लोकरीत्या इयमुक्तिः।
१सुदुःखिङ।
२दर्शनरूपम्ग।
॥ २।४७।२ ॥ ॥ २।४७।३४ ॥
ते १ विषादार्तवदना रहितास्तेन धीमता।
कृपणाः करुणा वाचो वदन्ति स्म २ मनस्विनः ॥ ३ ॥
धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः।
नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ ४ ॥
पश्यामह इति। पश्याम इति यावत् ॥ ४ ॥
१ विषण्णार्तङ।
२ मनीषिणःच।
तङार्षः हे इति सम्बोधनं वा परस्परम्ति।
॥ २।४७।३४ ॥ ॥ २।४७।५ ॥
कथं रामो महाबाहुः स तथाऽवितथक्रियः।
भक्तं जनमभित्यज्य प्रवासं १ तापसो गतः ॥ ५ ॥
तथाप्रसिद्धा अवितथाअमोघा क्रिया यस्य स तथा ॥ ५ ॥
राघवोङ।
॥ २।४७।५ ॥ ॥ २।४७।६९ ॥
यो नस्सदा पालयति पिता पुत्रानिवौरसान्।
कथं रघूणां स १ श्रेष्ठः त्यक्त्वा नो विपिनं गतः ॥ ६ ॥
इहैव निधनं यामो महाप्रस्थानमेव वा।
रामेण रहितानां २ हि किमर्थं जीवितं ३ हि नः ॥ ७ ॥
सन्ति शुष्कानि काष्ठानि प्रभूतानि महान्ति च।
तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम् ॥ ८ ॥
किं वक्ष्यामो महाबाहुः अनसूयः प्रियंवदः।
नीतः स राघवोऽस्माभिः इति वक्तुं कथं क्षमम् ॥ ९ ॥
स राघवोऽस्मान्न नीतःन नीतवानित्यस्माभिः कथं वक्तुं क्षमम्? न कथमपि। अस्माकं सर्वेषां निद्रानाशितचित्तत्वात् मा स्वपन्तं बोधयेत्ऽ इति शास्त्रस्य च सत्वात् स तूष्णीं गतः। अतो न तस्मिन् कोऽप्यपचार इत्यर्थः ॥ ९ ॥
१ ज्येष्ठःङ।
निधनं प्रायोपवेशेन। महाप्रस्थानं विना रामं न प्रतिनिवर्तितव्यमिति सङ्कल्पपूर्वकं रामान्वेषणाय गमनम्, पुनरावृत्तिरहितप्रस्थानं वा।
२ नःच।
३ हितम्च।
प्रायोपवेशेन मरणे तु न झटिति प्राणवियोगः स्यात्, तावत्पर्यन्तं तु रामविरहः दुस्सहः। अतः अग्निमेव प्रविशामेत्याहुः।
रामवृत्तान्तं पृच्छन्तं जनं प्रति अस्माभिः राघवो वनं नीत इति वक्तुं कथं क्षमम्। अन्यद्वा किं वक्ष्यामःती। एतद्व्याख्याने अनन्तर श्लोकोऽपि स्वरसः ॥ उत्तरसर्गषष्ठश्लोकोऽप्यत्रानुकूलः।
॥ २।४७।६९ ॥ ॥ २।४७।१० ॥
सा नूनं नगरी दीना दृष्ट्वाऽस्मान् राघवं विना।
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥ १० ॥
वयोऽधिकाःवृद्धाः ॥ १० ॥
॥ २।४७।१० ॥ ॥ २।४७।१११३ ॥
निर्यातास्तेन वीरेण सह नित्यं १ जितात्मना।
विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ ११ ॥
इतीव बहुधा वाचः बाहुमुद्यम्य ते जनाः।
विलपन्ति स्म दुःखार्ताः विवत्सा इव धेनवः ॥ १२ ॥
ततो मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः।
मार्गनाशाद्विषादेन महता समभिप्लुताः ॥ १३ ॥
मार्गानुसारेणेति। अतिसन्धानप्रवर्तितमार्गानुसारेणेत्यर्थः। किञ्चित् क्षणंकिञ्चित्कालम्। मार्गादर्शनादिति। वञ्चनया मार्गान्तरेण प्रवृत्त्यावृत्तत्वादेव ॥ १३ ॥
१ महात्मनाच।
मार्गनाशात्रथमार्गादर्शनात्। तच्च वीरुत्तृणपटलपिहितप्रदेशे रथचारणादिति ज्ञेयम्गो।
॥ २।४७।१११३ ॥ ॥ २।४७।१४१५ ॥
१रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः।
२किमिदं किं कारिष्यामः दैवनोपहता इति ॥ १४ ॥
ततो यथागतेनैव मार्गेण क्लान्तचेतसः।
अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥ १५ ॥
व्यथिताः सज्जनाः यस्यां सा तथा। सत्पदविशेषणेन कैकेयीपार्श्वासज्जनव्यावृत्तिः ॥ १५ ॥
१रथमार्गानुसारेणच।
२किमिदानींङ।
॥ २।४७।१४१५ ॥ ॥ २।४७।१६ ॥
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः।
अवर्तयन्त तेऽश्रूणि नयनैश्शोकपीडितैः ॥ १६ ॥
क्षयःहर्षक्षयः ॥ १६ ॥
क्षयं गृहं प्रति व्याकुलंगन्तव्यं न वेत्येवंरूपं मानसं येषांति।
अवर्तयन्तअमुञ्चन्।
॥ २।४७।१६ ॥ ॥ २।४७।१७ ॥
एषा रामेण नगरी रहिता नातिशोभते।
आपगा गरुडेनेव ह्लादादुद्धृतपन्नगा ॥ १७ ॥
आपगेत्यादि गतम् ॥ १७ ॥
४२२५ श्लोकव्याख्यायामिति शेषः।
॥ २।४७।१७ ॥ ॥ २।४७।१८१९ ॥
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्।
अपश्यन्निहतानन्दं नगरं ते विचेतसः ॥ १८ ॥
ते तानि वेश्मानि महाधनानि
दुःखेन दुःखोपहता विशन्तः।
नैव प्रजज्ञुः स्वजनं जनं वा
निरीक्षमाणाः प्रविनष्टहर्षाः ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तचत्वारिंशस्सर्गः
स्वजनं जनं वेति। अन्यजनं वेत्यर्थः। धैर्य (१९) मानः सर्गः ॥ १९ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तचत्वारिंशस्सर्गः
॥ २।४७।१८१९ ॥