षट्चत्वारिंशः सर्गः
[पौरमोहनम्] ॥ २।४६।१ ॥
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।
सीतामुद्वीक्ष्य सौमित्रिं इदं वचनमब्रवीत् ॥ १ ॥
अथ अशक्यनिवर्तनान् एतान् अतिसन्धाय राघवस्य निर्गमःतत इत्यादि ॥ १ ॥
॥ २।४६।१ ॥ ॥ २।४६।२ ॥
१इयमद्य निशा पूर्वा, सौमित्रो २प्रहिता वनम्।
वनवासस्य, भद्रं ते, स नोत्कण्ठितुमर्हसि ॥ २ ॥
हे सौमित्रे वनवासस्यवनवासकालस्य सम्बन्धिनी अद्य प्रवृत्ता इयं निशा वनंवनवासं प्रति पूर्वा प्रहिताहि गतौ, प्राप्ता, वनवासकालः एतन्निशामारभ्य गणनीय इत्यर्थः। पूर्वनिशायाः पुरसम्बन्धस्य विद्यमानत्वात् न सा चतुर्दशसमावनवासकालेऽन्तर्भवतीत्यर्थः। स त्वं नोत्कण्ठितुंअद्यप्रभृति पुरौत्सुक्यस्मरणं कर्तुं नार्हसि ॥
वनवासस्य पूर्वा प्रथमा अद्येयं निशा इदानीमुपस्थिता रात्रिः प्रहितागतप्राया। अतः स त्वं नोत्कण्ठितुमर्हसि। सीतामुद्वीक्ष्य सौमित्रिमब्रवीदित्यस्य एवं वाऽभिप्रायः। अतिसुकुमारी सीता कथं पद्भ्यामेव वनं गच्छेदिति नोत्कण्ठितुमर्हसीतिगो। वनवासस्यवनवाससम्बन्धिनिशानां मध्ये अद्य प्रवृत्तेयं निशा वनंवनवासं प्रति पूर्वा प्रहिताप्राप्ताति। वनं प्रहितावने प्राप्ताती। अथवा वनवासस्य विषये नोत्कण्ठितुमर्हसीति वा अन्वयः।
१ प्रस्थिताङ।
॥ २।४६।२ ॥ ॥ २।४६।३ ॥
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः।
यथानिलयमायद्भिः निलीनानि मृगद्विजैः ॥ ३ ॥
यथानिलयंयथायोगं स्वस्वनिलयमायद्भिःआगच्छद्भिः मृगद्विजैर्निलीनानिअन्तर्निलीनतया व्याप्तानि, अत एव शून्यानि, रुदन्तीवखिन्नानीव चारण्यानि वर्तन्ते तानि पश्य ॥ ३ ॥
॥ २।४६।३ ॥ ॥ २।४६।४ ॥
अद्यायोध्या तु नगरी राजधानी पितुर्मम।
सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः ॥ ४ ॥
स्त्रीपुंसैस्सहिता सस्त्रीपुंसा, अचतुर৷৷।ऽ इत्यादिना निपातः ॥ ४ ॥
॥ २।४६।४ ॥ ॥ २।४६।५६ ॥
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः
त्वां च मां च, नरव्याघ्र शत्रुघ्नभरतौ तथा ॥ ५ ॥
पितरं चानुशोचामि मातरं च यशस्विनीम्।
अपि १ वान्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ ६ ॥
अभीक्ष्णशः रुदन्तौ तौ पितरौ, रोदनवशादन्धौ भविष्यतः ॥ ६ ॥
कुतः शोचिष्यतीत्यत्र हेतुमाहअनुरक्ता इत्यादि। बहुभिर्गुणैरिति, राजानं त्वां मां शत्रुघ्नभरतौ इति सर्वत्रान्वेति। मनुजाः अनेकगुणैः राजानं त्वां मां शत्रुघ्नभरतौ च प्रति यतोऽनुरक्ताः अतः शोचिष्यन्ति। स्वस्याहङ्काराभावसूचनाय, स्वप्रवासस्य सर्वानिष्टे पर्यवसानसूचनाय च जनानुरागस्य अविशेषेण सर्वविषयत्वमुक्तम्।
अपि वान्धौ न भवेतां, अपि तु भवेतामेवति।
१ नान्धौच।, चान्धौङ।
॥ २।४६।५६ ॥ ॥ २।४६।७ ॥
भरतः खलु धर्मात्मा पितरं मातरं च मे।
धर्मार्थकामसहितैः वाक्यैराश्वासयिष्यति ॥ ७ ॥
अथापि तदनुशोचने काचन प्रत्याशापीत्याहभरतः खल्वित्यादि ॥ ७ ॥
॥ २।४६।७ ॥ ॥ २।४६।८९ ॥
भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः।
नानुशोचामि पितरं मातरं चापि, लक्ष्मण ॥ ८ ॥
त्वया कार्यं, नरव्याघ्र मामनुव्रजता कृतम्।
अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ ९ ॥
मामनुव्रजता त्वया तु यत् कार्यंकर्तव्यं तत् कृतमेव। मयि वनं प्रयाते मदनुव्रजनस्यैव त्वत्सौभ्रात्रोचितकर्तव्यत्वात्। अतः परं हि मम वैदेह्या रक्षणार्थे सहायता अन्वेष्टव्या। अतस्तस्यै एतन्निशामारभ्य सदा सुखान्नपानादिकं सम्पादयेति शेषः ॥ ९ ॥
त्वया यत् कर्तव्यं तत् कृतमेव। हि यतः त्वदनुव्रजनाभावे वैदेहीरक्षणार्थं सहायतासहायसमूहः अन्वेष्टव्यः स्यात्। त्वमेको सहायसमूहस्थानीय इति भावःति।
॥ २।४६।८९ ॥ ॥ २।४६।१० ॥
अद्भिरेव तु, सौमित्रे १वत्स्याम्यद्य निशामिमाम्।
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥ १० ॥
अहन्तु अद्येमां निशामद्भिरेव कृतप्राणरक्षो वत्स्यामि वनवासवृतप्रथमसङ्कल्पाङ्गत्वेनेति शेषः। तमेवाभिप्रायं दर्शयतिएतद्धीत्यादि ॥ १० ॥
१ वत्स्याम्यत्रङ।
वनवासोपक्रमदिवसत्वात्, अस्य तमसातीरस्य पुण्यक्षेत्रत्वाच्च उपवासःगो।, ती।। अनुरक्तजनदुःखस्मरणाच्च तथा सीतालक्ष्मणयोस्तु स्वाभिलषितरामानुव्रजनप्राप्त्या न तावान् शोक इति भावः।
॥ २।४६।१० ॥ ॥ २।४६।१११२ ॥
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः।
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ ११ ॥
सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते।
प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः ॥ १२ ॥
प्रभूतः यवसःघासः येषां ते तथा। प्रत्यनन्तरःप्रत्यासन्नो बभूव ॥ १२ ॥
झटिति समयविशेषे प्रस्थानाय तथोक्तिः।
॥ २।४६।१११२ ॥ ॥ २।४६।१३ ॥
उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपास्थिताम्।
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥ १३ ॥
शयनंशयनस्थलं, चक्रेशर्करापांसूत्क्षेपणादिद्वारेण ॥ १३ ॥
वृक्षदलास्तरणरूपं शयनं वृभदलैः कृतांऽ इत्युत्तरश्लोकानुसारात्।
॥ २।४६।१३ ॥ ॥ २।४६।१४१५ ॥
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्।
रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह ॥ १४ ॥
सभार्यं सम्प्रसुप्तं तं १ भ्रातरं वीक्ष्य लक्ष्मणः।
कथयामास सूताय रामस्य विविधान् गुणान् ॥ १५ ॥
गुणान् कथयामासेति। जागरणप्रयोजनशेषतयेति शेषः ॥ १५ ॥
१ श्रान्तं सम्प्रेक्ष्यच।
॥ २।४६।१४१५ ॥ ॥ २।४६।१६ ॥
१ जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः।
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ १६ ॥
तां रात्रिमिति। अत्यन्तसंयोगे द्वितीया। उदितो रविरिति। अरुणोदयकालो जात इत्यर्थः ॥ १६ ॥
१ जाग्रतोरेवच। जाग्रतोरेव सा रात्रिः तयोस्सौमित्रिसूतयोः। जगाम तमसातीरे रामस्य ब्रुवतो गुणान् ॥ ङ।
॥ २।४६।१६ ॥ ॥ २।४६।१७ ॥
गोकुलाकुलतीरायास्तमसाया विदूरतः।
अवसत्तत्र तां रात्रिं रामः प्रकृतिभिस्सह ॥ १७ ॥
गोकुलैराकुलं तीरं यस्यास्सा तथा। विदूर इति। द्विजगणसंवेशदेशापेक्षयाऽतिविप्रकृष्टस्थले, अतिसन्धाय गमनसौकर्यार्थमिति शेषः ॥ १७ ॥
विदूरतः अदूरतःगो।
॥ २।४६।१७ ॥ ॥ २।४६।१८ ॥
उत्थाय तु महातेजाः प्रकृतीस्ता निशम्य च।
अब्रवीत् भ्रातरं रामः लक्ष्मणं पुण्यलक्षणम् ॥ १८ ॥
निशम्यअवलोक्य। निद्राणानिति शेषः ॥ १८ ॥
॥ २।४६।१८ ॥ ॥ २।४६।१९ ॥
अस्मद्व्यपेक्षान्, सौमित्रे १ निर्व्यपेक्षान् गृहेष्वपि।
वृक्षमूलेषु संसुप्तान् पश्य, लक्ष्मण साम्प्रतम् ॥ १९ ॥
अस्मद्व्यपेक्षान्अस्मास्वेव विशेषेण अपेक्षावतः, अत एव गृहेषु निर्व्यपेक्षान् ॥ २९ ॥
१ निरपेक्षान् गृहेष्विमान्ङ।
॥ २।४६।१९ ॥ ॥ २।४६।२० ॥
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने।
१ अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥ २० ॥
यथेत्यादि। यथा वयमनिवृत्तौ नियमं कुर्मः, तथैते अस्मन्निवर्तने नियमं कुर्वन्ति (स्म)। अत एवेमे प्राणानप्यसिष्यन्तित्यक्ष्यन्ति, न तु निवर्तननिश्चयं त्यक्ष्यन्ति ॥ २० ॥
अस्मन्निवर्तने यथा नियमं कुर्वन्ति तथा प्राणानप्यसिष्यन्तिगो।, ति।
१ अपि प्राणान्न रक्षन्तिङ।
एतेनरामेण प्रतिज्ञायाः प्रथममेव कृतत्वात् तद्विरोधी नियमः उपेक्ष्य एव। अत एवोत्तरत्र पौरमोहनं युज्यते। किञ्च न हि रामवियोगे एतेषां प्राणसंशयःयेन रामवञ्चनानन्तरमप्यजीवन्नेव। इदं सर्वं पश्यन्नेव रामः पौरान् वञ्चयामासइति सूचितम्।
॥ २।४६।२० ॥ ॥ २।४६।२१ ॥
यावदेव तु संसुप्तास्तावदेव वयं लघु।
रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥ २१ ॥
यदेवं अतःयावदित्यादि ॥ २१ ॥
॥ २।४६।२१ ॥ ॥ २।४६।२२ ॥
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः।
स्वपेयुरनुरक्ता मां वृक्ष १ मूलानि संश्रिताः ॥ २२ ॥
अतो भूयोऽपि स्वपेयुरिति। पूर्वदिने अन्नपानाद्यभावात्, पूर्वरात्रे च शोक २ वशेन जागरणाच्चेत्याशयः ॥ २२ ॥
मामनुरक्ता इक्ष्वाकुपुरवासिन इदानीमिव भूयःपुनः वृक्षमूलानि संश्रिताः न स्वपेयुः, अपि तु स्वगृहं गच्छेयुः। अतो यावन्नोत्तिष्ठन्ति तावत् लघुःशीघ्रं रथमारुह्य गच्छाम इत्येव नञुपश्लिष्टतया व्याख्या सर्वत्र दृश्यते। एतद्व्याख्यारीत्या तु नेदानींऽ इत्यत्र नञ्रहितः पाठ इति भाति।
१ मूलेषुङ।
२ वेगेनग।
॥ २।४६।२२ ॥ ॥ २।४६।२३ ॥
पौरा ह्मात्मकृताद्दुःखात् विप्रमोक्ष्या नृपात्मजैः।
न ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ २३ ॥
आत्मकृतात्आत्मनिमित्तात्। आत्मनेति आत्मनिमित्तेनेति यावत् ॥ २३ ॥
आत्मकृतात्स्वकृतात्। आत्मनास्वेनगो।
॥ २।४६।२३ ॥ ॥ २।४६।२४ ॥
अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम्।
रोचते मे तथा, प्राज्ञ क्षिप्रमारुह्यतामिति ॥ २४ ॥
आरुह्यतामिति। रथ इति शेषः ॥ २४ ॥
महाप्राज्ञङ।
॥ २।४६।२४ ॥ ॥ २।४६।२५ ॥
अथ रामोऽब्रवीत् १श्रीमान् सुमन्त्रं युज्यतां रथः।
गमिष्यामि ततोऽरण्यं गच्छ शीघ्र २ मितः, प्रभो ॥ २५ ।
तत इति। रथसंयोजनानन्तरं तेन रथेनेत्यर्थः। शीघ्रं गच्छेति। रथसंयोजनायेति शेषः। प्रभोसमर्थः ॥ २५ ॥
१धीमान्ङ।
२मतःङ।
॥ २।४६।२५ ॥ ॥ २।४६।२६२७ ॥
सूतस्ततः सन्त्वरितः स्यन्दनं तैर्हयोत्तमैः।
योजयित्वाऽथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ २६ ॥
अयं युक्तः, महाबाहो रथस्ते, रथिनां वर
१त्वमारोहस्व, भद्रं ते, ससीतस्सहलक्ष्मणः ॥ २७ ॥
आरोहस्वेति। आरोहेति यावत् ॥ २७ ॥
१ तमारोह सुभद्रं तेङ।, त्वरयाऽऽरोह भद्रं तेच।
॥ २।४६।२६२७ ॥ ॥ २।४६।२८ ॥
तं स्यन्दनमधिष्ठाय राघवस्सपरिच्छदः।
शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ॥ २८ ॥
परिच्छदःधनुःकवचादिलक्षणः। आकुलाःनिबिडाः आवर्ताः यस्यास्सा तथा। अतरदिति पदम् ॥ २८ ॥
॥ २।४६।२८ ॥ ॥ २।४६।२९ ॥
स सन्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम्।
प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २९ ॥
भयदर्शिनामप्यभयंभीतिप्रसङ्गरहितं महामार्गमित्यर्थः ॥ २९ ॥
जलस्थितरथादवतीर्य पद्भ्यामेव महामार्गं प्रापदित्यर्थः। भयदर्शिनां श्वापदादीनां अभयंतत्सम्बन्धिभयरहितंगो। महामार्गंराजमार्गंति।
॥ २।४६।२९ ॥ ॥ २।४६।३० ॥
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः।
उदङ्मुखः प्रयाहि त्वं १ रथमास्थाय, सारथे ॥ ३० ॥
त्वं रथमास्थायेति। त्वमेव, न तु वयम्। मोहनार्थंजनमोहाय ॥ ३० ॥
वनं प्रस्थितस्य स्वस्योदङ्मुखगमने नियमभङ्गः स्यादिति मत्वा स्वयं रथादवरुह्य त्वं प्रयाहिऽ इति सुमन्त्रं प्रत्युक्तिः। इममर्थं ३४ श्लोकोऽपि द्रढयति ॥
ननु सदयस्य रामस्य स्वविरहासहिष्णूनां स्वस्मिन्निरतिशयप्रेमभाजां वञ्चनमनुचितम्उच्यतेनेदं वञ्चनम्। व्रणचिकित्सान्यायेन नागरिकाणां उन्मस्तकानन्देन सत्ता न भवेदिति सुसात्म्यानुभवप्रदानार्थं वनवासव्याजेन विश्लेषस्य संकल्पिततया हितव्यापारत्वेन वञ्चनत्वासम्भवात्। यदि रामस्य तथा सङ्कल्पो न भवेत्तर्हि कथं निश्शेषसर्वजननिद्राकरणं? सुमन्त्रलक्ष्मणवत्तेष्वेकस्यापि निर्निद्रत्वापत्तेःगो। महामायाधिष्ठातुर्भगवत इयत्या क्रियया पौरमोहनं नाश्चर्यायति। शिष्टं तु २० श्लोकटिप्पण्यां द्रष्टव्यम् ॥
१ रथमारुह्यच।
॥ २।४६।३० ॥ ॥ २।४६।३१ ॥
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः।
यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ ३१ ॥
तदेवाहमुहूर्तमित्यादि। रथं पुनरिति। इहेति शेषः। न विद्युःन जानीयुः ॥ ३१ ॥
॥ २।४६।३१ ॥ ॥ २।४६।३२ ॥
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः।
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ ३२ ॥
तथा चक्र इति। उदङ्मुखतया गत्वा प्रतिनिवृत्तःमार्गान्तरेणागत इति यावत्। एवमुदङ्मुखरथमार्गदर्शने रामः पुरं प्रतिनिवृत्तवानिति पौराणां भ्रमः सिध्यति ॥ ३२ ॥
॥ २।४६।३२ ॥ ॥ २।४६।३३ ॥
तौ सम्प्रयुक्तं तु रथं समास्थितौ
तदा ससीतौ रघुवंशवर्धनौ।
प्रचोदयामास ततस्तुरङ्गमान्
स सारथिर्येन पथा तपोवनम् ॥ ३३ ॥
समास्थितौसमास्थितावभूतामिति यौजना। तपोवनमिति। येन पथा प्राप्यते, दाक्षिणमिति शेषः ॥ ३३ ॥
॥ २।४६।३३ ॥ ॥ २।४६।३४ ॥
ततः समास्थाय रथं महारथः
ससारथिर्दाशरथिर्वनं ययौ।
उदङ्मुखं तं तु रथं चकार
प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ ३४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्चत्वारिंशस्सर्गः।
सारथिसहितः ससारथिः। प्रयाणेति। प्रयाणापेक्षितशुभनिमित्तानुभवार्थं, तं रथं उदङ्मुखं उदङ्मुखतयाऽवस्थापितं समीक्ष्य पश्चादधिरुह्य दक्षिणाभिमुखो ययावित्यर्थः। गर्भ (३८) मानः सर्गः ॥ ३४ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षट्चत्वारिंशस्सर्गः।
॥ २।४६।३४ ॥