पञ्चचत्वारिंशः सर्गः
[पौरयाचनम्] ॥ २।४५।१ ॥
१अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।
अनुजग्मुः २ प्रयान्तं तं वनवासाय मानवाः ॥ १ ॥
एवं निवर्तितमातापितृवृत्तान्ते स्थिते, पुरमुत्सृज्य दूरमनुगच्छत्स्निग्धपौरनिवर्तनं सर्गाभ्याम्। अन्वित्यादि। वनवासाय प्रयान्तमिति योजना ॥ १ ॥
१अनुरक्तंङ।
२प्रयातंङ।
॥ २।४५।१ ॥ ॥ २।४५।२ ॥
निवर्तितेऽपि च बलात् १ सुहृद्वर्गे च राजनि।
नैव ते सन्न्यवर्तन्त रामस्यानुगता रथम् ॥ २ ॥
नैव त इति। ते अनुरक्ताःपरमभक्ता इत्यर्थः ॥ २ ॥
सुहृद्वर्गे राजनि दशरथे च बलान्निवर्तितेऽपि ते पौरा नैव सन्न्यवर्तन्त इत्यर्थः। तत्र हेतुरुत्तरश्लोकेनोच्यते ॥ सुहृद्धर्मेण यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत्ऽ इत्युक्तिरूपेणति।
१सुहृद्धर्मेणच।
॥ २।४५।२ ॥ ॥ २।४५।३४ ॥
अयोध्यानिलयानां हि पुरुषाणां महायशाः।
बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥ ३ ॥
स याच्यमानः काकुत्स्थः १ स्वाभिः प्रकृतिभिस्तदा।
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ ४ ॥
याच्यमान इति। प्रतिनिवृत्तिमिति शेषः। प्रकृतिभिरिति। परमानुरक्तभक्तप्रजाभिरित्यर्थः ॥ ४ ॥
१ताभिःच।
॥ २।४५।३४ ॥ ॥ २।४५।५६ ॥
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।
उवाच रामः १ सस्नेहं ताः प्रजाः स्वाः प्रजा इव ॥ ५ ॥
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।
मत्प्रियार्थं विशेषेण भरते सा २ निवेश्यताम् ॥ ६ ॥
अयोध्यानिवासिनामिति। युष्माकमिति शेषः ॥ ६ ॥
१ स्नेहेनङ।
स्वाः प्रजा इवस्वापत्यानीवगो।, ति। भरताय राज्यस्य दत्तत्वात् स्वस्य राज्यस्य च सम्बन्धाभावेन वा तथोक्तिः। अनन्तरश्लोक इममर्थं द्रढयति ॥
२विधीयताम्ङ।
॥ २।४५।५६ ॥ ॥ २।४५।७ ॥
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः।
करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ ७ ॥
प्रियाणिइहलोकसुखानि। हितानिपरलोकहितानि वर्णाश्रमव्यवस्थापरिपालनादिलक्षणानि ॥ ७ ॥
॥ २।४५।७ ॥ ॥ २।४५।८ ॥
ज्ञानवृद्धो वयोबालः मृदुर्वीर्यगुणान्वितः।
अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८ ॥
वयसा बालोऽपि ज्ञानादिना वृद्धः। मृदुरपि वीर्यगुणान्वितः ॥
॥ २।४५।८ ॥ ॥ २।४५।९ ॥
स हि राजगुणैर्युक्तो युवराजः समीक्षितः।
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ ९ ॥
समीक्षितःनिश्चितः। अतश्च स एव युवराज इत्युच्यते। अपि चेत्यादि। अस्मादपि हेतोरित्यर्थः। मया पितृशिष्टेन, युष्माभिरपि भर्त्रनुशिष्टैः। भर्तृशासनंराजनियोगः ॥ ९ ॥
मया शिष्टैःमत्तोऽधिकैरिति यावत्। ईदृशै राजगुणैर्युक्तःति। मया, शिष्टैः अवशिष्टैश्च लक्ष्मणशत्रुघ्नादिभिः सर्वैरपिगो।
॥ २।४५।९ ॥ ॥ २।४५।१० ॥
१ न सन्तप्येद्यथा चासौ वनवासं गते मयि।
महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ १० ॥
न सन्तप्येदित्यादि। तथा कार्य इति। अनुकूलाचरणेन सदा समाश्वासनीय इत्यर्थः ॥ १० ॥
१ न च तप्येत्ङ।
॥ २।४५।१० ॥ ॥ २।४५।११ ॥
यथा यथा दाशरथिः १ धर्ममेवास्थितो भवेत्।
तथा तथा प्रकृतयः रामं २पतिमकारयन् ॥ ११ ॥
यथा यथा धर्ममेवास्थितो भवेत्धर्ममेव परिगृह्णाति पुनःपुनरुच्यमानोऽपि, तथा तथा भरतयौवराज्यं प्रति उच्यमाना अपि राममेव चित्ते पतिमकारयन्स्वीकृतवन्तः, चतुर्दशसमानन्तरमपि वा भवानेवास्माकं राजा भवत्विति प्रार्थितवन्त इत्यर्थः ॥ ११ ॥
१ धर्म एव स्थितोऽभवत्ङ।
२ पतिमकामयन्ङ।
॥ २।४५।११ ॥ ॥ २।४५।१२ ॥
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।
चकर्षेव १ गुणैर्बद्धं जनं पुरनिवासिनम् ॥ १२ ॥
एवं बाष्पेण पिहितंपिहितचक्षुषं गुणैः रज्जुभिरिव स्वगुणैर्बद्धं पुरवासिनं जनं चकर्षेव। तथा च कथञ्चित्तेषां प्रतिनिवृत्तिरभूदित्यक्तं भवति ॥ १२ ॥
१ गुणैर्बध्वाङ।
इदं वाक्यं नञुपश्लिष्टं स्यादिति भाति, उत्तरश्लोकेष्वपि पौरानुवर्तनस्य द्योतनात् ॥
॥ २।४५।१२ ॥ ॥ २।४५।१३ ॥
ते द्विजाः त्रिविधं वृद्धा ज्ञानेन वयसौजसा।
वयःप्रकम्पशिरसः दूरादूचुरिदं वचः ॥ १३ ॥
अथ तपस्साधनप्रियब्राह्मणानां रामेण सह वनविवासाय प्रवृत्तिःते द्विजा इत्यादि। ते पौराः ब्राह्मणाः। तेषां त्रिप्रकारवृद्धत्वं प्रतिपाद्यतेज्ञानेनेत्यादि। ओजःतपोबलम्। वयसावयःपरिपाकेनबार्धक्येन प्रकम्पं प्रचलत्दौर्बल्यादितस्ततो भुग्नं शिरो येषां ते तथा। एवमतिवृद्धत्वादेव आरादनुधावनाशक्त्या दूरादिदमूचुः ॥
॥ २।४५।१३ ॥ ॥ २।४५।१४ ॥
वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ १४ ॥
किमूचुरित्यतःवहन्त इत्यादि। रथेन प्रापयन्तः जात्याःउत्तमजातिजाः भर्तरिरामविषये हिता भवत, वनं न नयतेति यावत् ॥ १४ ॥
॥ २।४५।१४ ॥ ॥ २।४५।१५ ॥
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।
यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः ॥ १५ ॥
एवं क्रोशनेऽपि तेषां वेगगमनदुःखादाहुःकर्णवन्तीत्यादि। विशेषेण यूयं कर्णवन्त इत्यनुकर्षः। तस्मात् बधिरवन्न गन्तव्यं अपि तु याचनामस्मदीयां प्रतिवेदिताःज्ञातवन्तो निवर्तध्वम् ॥ १५ ॥
प्रतिवेदिताःज्ञापिताःगो।
॥ २।४५।१५ ॥ ॥ २।४५।१६ ॥
धर्मतस्स विशुद्धात्मा वीरः शुभदृढव्रतः।
उपवाह्यस्तु १ वो भर्ता नापवाह्यः पुराद्वनम् ॥ १६ ॥
उपवाह्यःपुरसमीपं प्राप्यः। न तु पुरात् दूरमपवाह्यःअपनीय प्रापणीयः ॥ १६ ॥
१ भर्ता नोङ।
॥ २।४५।१६ ॥ ॥ २।४५।१७१८ ॥
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्।
अवेक्ष्य सहसा रामः रथादवततार १ ह ॥ १७ ॥
पद्भ्यामेव २ जगामाथ ससीतस्सहलक्ष्मणः।
सन्निकृष्टपदन्यासः रामो वनपरायणः ॥ १८ ॥
पद्भ्यामेव द्विजानामनुसङ्गमार्थं सन्निकृष्टपदन्यासो भूत्वा वनपरायण एव शनैश्शनैर्जगाम, न तु निवृत्तः, नापि स्थित इत्यर्थः ॥ १८ ॥
१ सःङ।
रथेन गमने ब्राह्मणक्लेशनेन दोषः, प्रतिनिवृत्त्य बाराह्मणाश्वासने व्रतभङ्गो भवतीति धिया पद्भ्यां मन्दगमनोऽभूत् यावद्वृद्धसन्निधानमित्यर्थःति।
२ जनान् सर्वान् उपातिष्ठत् सलक्ष्मणःङ।
॥ २।४५।१७१८ ॥ ॥ २।४५।१९ ॥
द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः।
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १९ ॥
रथेन परिमोक्तुमिति। रथवेगावलम्बनेन निवर्तयितुमित्यर्थः ॥
॥ २।४५।१९ ॥ ॥ २।४५।२० ॥
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः।
ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ॥ २० ॥
गच्छन्तमेवेति। न स्थितं, न निवृत्तं वेत्यर्थः ॥ २० ॥
॥ २।४५।२० ॥ ॥ २।४५।२१ ॥
ब्राह्मण्यं १ सर्वमेतत् त्वां ब्रह्मण्यमधिगच्छति।
द्विजस्कन्धाधिरूढास्त्वां अग्नयोऽप्यनुयान्त्यमी ॥ २१ ॥
ब्राह्मण्यंब्रह्मसम्बन्धिसकलतन्त्रमन्त्रज्ञानयोगानुष्ठानरूपं अस्मदीयं कर्म, ब्राह्मणादित्वात् कर्मणि ष्यञ्। २ द्विजस्कन्धाधिरूढा इति। पात्रारणिभरणद्वारेणेति शेषः ॥ २१ ॥
ब्राह्मण्यं ब्राह्मणसमूहः। ब्रह्मसु ब्राह्मणेषु साधुः ब्रह्मण्यः, तम्गो। ब्राह्मण्यं ब्राह्मणसम्बन्धिसकलमन्त्रतन्त्रज्ञानयोगानुष्ठानरूपमस्मदीयं कर्मब्राह्मणसमूहो वाती।
१ कृत्स्नमेतत्ङ।, च।
२ निजस्कक।
॥ २।४५।२१ ॥ ॥ २।४५।२२ ॥
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः।
पृष्ठतोऽनु १ प्रयातानि मेघानिव जलात्यये ॥ २२ ॥
वाजपेयसमुत्थानि नः छत्राणीति। तस्माद्वाजपेययाजी न कञ्चन प्रत्यवरोहतिऽ इति श्रुतेः वाजपेययाजिनो राजवच्छत्रादिसम्बन्धात्। जलात्यये मेघानिवेति। शरदि मेघा इव पाण्डराणीत्यर्थः ॥ २२ ॥
१ प्रयातान् हि हंसानिवङ।
॥ २।४५।२२ ॥ ॥ २।४५।२३ ॥
अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते।
एभिः छायां करिष्यामः १ स्वच्छत्रैर्वाजपेयिकैः ॥ २३ ॥
अनवाप्तातपत्रस्येति। अप्राप्तश्वेतच्छत्रस्येत्यर्थः। वाजपेययागप्राप्तानिवाजपेयिकानि ॥ २३ ॥
१ स्वैः छत्रैःङ।, च।
॥ २।४५।२३ ॥ ॥ २।४५।२४ ॥
या हि नः सततं बुद्धिः वेदमन्त्रानुसारिणी।
त्वत्कृता सा कृता, वत्स वनवासानुसारिणी ॥ २४ ॥
वेदमन्त्रानुसारिणीतदभ्यासानुसरणशीला। त्वत्कृते मन्त्राभ्यासादि परित्यज्य वनवासोन्मुखीकृतेत्यर्थः ॥ २४ ॥
॥ २।४५।२४ ॥ ॥ २।४५।२५ ॥
१ हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्।
२ वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ २५ ॥
स्वेषां वनवासे अनुपपत्त्यभाव इत्याहुःहृदयेष्वित्यादि। नः अस्माकं परं धनं ये वेदाः अस्माकं हृदय एवावतिष्ठन्तेअनुसन्धीयमाना वर्तन्ते, चारित्रंपातिव्रत्यं, तद्रक्षिता दाराश्च ॥ २५ ॥
ज्ञानस्यैव मुख्यवेदत्वात्तथोक्तिः। दाराः तत्पातिव्रत्यरक्षिता वत्स्यन्ति, एवञ्चास्माकं वनगमने न कश्च प्रतिरोध इति भावः।
१ हृदयेष्वेव तिष्ठन्तिङ।
२ वसन्त्यपिङ।
॥ २।४५।२५ ॥ ॥ २।४५।२६ ॥
न पुनर्निश्चयः कार्यः १ त्वत्कृते सुकृता मतिः।
त्वयि धर्मव्यपेक्षे तु किं २ स्याद्धर्ममपेक्षितुम् ॥ २६ ॥
एवं त्वत्कृतेत्वदनुयाननिमित्तं मतिः सुकृतासुष्ठु निश्चिता, न पुनरतःपरमस्माभिर्निश्चयः कार्यः। अथाप्यस्माकं सर्वेषां सुखार्थं निवर्तस्वेति प्रार्थयन्तेत्वयीत्यादि। धर्मव्यपेक्षेधर्मे नित्यापेक्षासहिते त्वयि इदानीं धर्ममपेक्षितुं नःअस्माकं चापेक्षितुं मतिः स्यात् किम्? अस्ति किम्? ॥ २६ ॥
त्वद्गतौत्वन्निवर्तनरूपगतौ मतिः सुकृतासुष्ठु कृता। निश्चयःवनवासनिश्चयः पुनः न कार्यः, त्वयेति शेषः, त्वयि धर्मसापेक्षे अस्माभिरपि धर्मः अपेक्षणीयः किम्? अथवा धार्मिके त्वय्यपि ब्राह्मणप्रार्थनारूपधर्मनिरपेक्षे किमन्यं धर्ममपेक्षितुं युक्तम्इत्यर्थः।
१ त्वद्गतौसर्वत्र।
२ स्याद्धर्मपथे स्थितम्ङ।, च।
॥ २।४५।२६ ॥ ॥ २।४५।२७ ॥
१याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।
२शिरोभिः, निभृताचार महीपतनपांसुलैः ॥ २७ ॥
तदस्माभिः हंसशुक्लशिरोरुहैःपलितकेशैः नः शिरोभिः साष्टाङ्गनमस्काराय महीपतनपांसुलैः देहैश्च याचितः निवर्तस्व। निभृताचारःनिश्चलधर्मानुष्ठानः। ननु कथं ब्राह्मणैः क्षत्रियस्य रामस्य नमस्कारः? इदानीमस्माभिर्वा कथं नमस्कारः? रामायणश्रवणतो रामे कुलदैवतबुद्ध्या क्षत्रियमातृत्वबुद्धेर्निवृत्तत्वादिति चेत्तर्ह्यपरोक्षानुभूयमानब्रह्मस्वभावसर्वप्रियत्वानवधिककल्याणगुणैकतानत्वलोकनाथभगवद्ब्रह्मैकसाध्यपुण्यलोकदानादिव्यापारैः अपरोक्षानुभूतप्राजापत्योपनीतवब्रह्मतेजोमूलपरिगृहीतलीलाविग्रहत्वतः स्ववगमब्रह्मत्वादेव ॥ २७ ॥
१याचितस्सन्निवर्तस्वङ।
वृद्धब्राह्मणानां क्षत्रियकुमारप्रणामः परत्वबुद्ध्यागो। भगवदवतारत्वदृष्ट्या नमस्कारेणादोषात्। यद्वा राज्ञो विष्ण्वंशत्वेन नतौ न दोष इत्याहुःति।
॥ २।४५।२७ ॥ ॥ २।४५।२८ ॥
बहूनां वितता यज्ञा द्विजानां य इहागताः।
तेषां समाप्तिरायत्ता तव, वत्स १ निवर्तते ॥ २८ ॥
बहूनामित्यादि। ये द्विजा इहागताः तेषां बहूनां बहवो यज्ञा इह काले वितताःप्रवृत्ताः तेषां समाप्तिः तवायत्ता त्वदधीना। सा तु त्वन्निवृत्त्यभावे निवर्ततेसमाप्तिर्न भविष्यतिमध्ये विघ्नो भवति, अतो निवर्तस्वेत्यर्थः ॥ २८ ॥
तवानिवर्तने त्वयैव सर्वे यज्ञा विघ्निताः स्युरिति भावः।
१ निवर्तनेसर्वत्र।
॥ २।४५।२८ ॥ ॥ २।४५।२९ ॥
१भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च।
याचमानेषु, २ राम त्वं भक्तिं भक्तेषु दर्शय ॥ २९ ॥
न केवलमस्मत्प्रार्थना अपि तु सर्वभूतप्रार्थनापीत्याहुःभक्तिमन्तीत्यादि। जङ्गमाजङ्गमानि सर्वाण्यपि भूतानि भक्तिमन्ति। भक्तिःस्नेहः। तथा सर्वेषां स्नेहकारणं प्रागेवोक्तम्। त्वन्निवृत्तिं याचमानेषु भक्तेषु त्वमपि भक्तिंस्नेहं प्रदर्शय, निवृत्त्येति शेषः ॥ २९ ॥
१ भक्तिमन्तीहङ।, च।
त्वं भक्तेषु विद्यमानां भक्तिं दर्शयसफलयेत्यर्थःगो।
२ तेषु त्वंच।, भूतेषुङ।
॥ २।४५।२९ ॥ ॥ २।४५।३० ॥
अनुगन्तुमशक्तास्त्वां मूलै १ रुन्नतवेगिनः।
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ ३० ॥
मूलैःअवाक्शिरोभिः, स्थावरत्वादनुगन्तुमशक्ताःसेवितुमशक्ताः वायुवेगेनोपाधिना उन्नतवेगिनः उन्नताःउच्छ्रिताः पादपाः विक्रोशन्तीववायुवेगजशाखाचलनशब्दैरिति शेषः ॥ ३० ॥
मूलैः पादस्थानीयैः त्वामनुगन्तुमशक्ताः৷৷। उन्नताः ऊर्ध्वबाहव इव स्थिताःगो।
१ उद्धतङ।
॥ २।४५।३० ॥ ॥ २।४५।३१ ॥
निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः।
पक्षिणोऽपि प्रयाचन्ते सर्वभूतानु कम्पिनम् ॥ ३१ ॥
निर्गताः चेष्टादयो येषां ते तथा। वृक्षरूपे एकस्मिन्नेव स्थाने विष्ठिताः। न तु भुवमवरोहन्ति आहारायापीत्यर्थः। प्रयाचन्त इति। निवृत्तिमिति शेषः ॥ ३१ ॥
कम्पनम्च।
॥ २।४५।३१ ॥ ॥ २।४५।३२ ॥
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने।
ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३२ ॥
निवर्तनेनिवर्तननिमित्तं विक्रोशतां तेषामनुग्रहाय राघवं वारयन्तीवमार्गे तिर्यक्प्रवाहत्वाद्वारयन्तीव स्थिता तमसा ददृशे ॥ ३२ ॥
द्विजातीनामिति सम्बन्धसामान्ये षष्ठी। द्विजातिभिः प्रार्थ्यमानरामनिवर्तन इत्यर्थःगो।, ती।
॥ २।४५।३२ ॥ ॥ २।४५।३३ ॥
ततः सुमन्त्रोऽपि रथाद्विमुच्य
श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्।
पीतोदकांस्तोयपरिप्लुताङ्गान्
अचारयद्वै तमसाऽविदूरे ॥ ३३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः
श्रान्तान्आसायं रथवहनेन। सम्परिवर्त्य कृतश्रमानुत्पत्तिहेतुपरिवर्तनात् कृतविलुण्ठनान्विधायेत्यर्थः। तोयपरिप्लुताङ्गान्स्नापितानिति यावत्। तमसाया अविदूरे अचारयत्भक्षितोलपानकरोत्। गङ्गा (३३) मानः सर्गः ॥ ३३ ॥
इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः।
कृतश्रमापनुत्तिहेतु इति स्यात् ॥
॥ २।४५।३३ ॥