चतुश्चत्वारिंशस्सर्गः
[सुमित्राश्वासनम्] ॥ २।४४।१ ॥
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्।
इदं १ धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १ ॥
अथ सीतायाः त्रिजटेव, सुमित्रा कौसल्याशोकमपनयति—-विलपन्तीमित्यादि ॥ १ ॥
धर्मेच।
॥ २।४४।१ ॥ ॥ २।४४।२ ॥
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः।
किं ते विलपितेनैव कृपणं रुदितेन वा ॥ २ ॥
कृपणं यथा तथा रुदितेन वा किम्? अयुक्तमेवेत्यर्थः। तत्र हेतुःसद्गुणैर्युक्त इति ॥ २ ॥
॥ २।४४।२ ॥ ॥ २।४४।३ ॥
यस्तवार्ये गतः पुत्रः त्यक्त्वा राज्यं महाबलः।
साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ ३ ॥
सद्गुणयुक्तस्य न क्वाप्यपाय इति प्रतिपादयतियस्तवेत्यादि। साधुसुष्ठु ॥ ३ ॥
य इत्यादि श्लोकद्वयमेकान्वयम्।
॥ २।४४।३ ॥ ॥ २।४४।४ ॥
शिष्टैराचरिते सम्यक् १ शश्वत्प्राप्यफलोदये।
रामो धर्मे स्थितः श्रेष्ठः न स शोच्यः कदाचन ॥ ४ ॥
शश्वत्प्राप्यः शुभफलस्यसुखस्य उदयः यस्मिन् स तथा ॥ ४ ॥
प्रेत्यफलोदयेआमुष्मिकफलकारणेगो।
१शश्वत्प्रेत्यङ।, च।
॥ २।४४।४ ॥ ॥ २।४४।५ ॥
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः।
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥
सुसहायसम्पत्तेश्च न शोच्य इत्याहपर्तत इत्यादि। उत्तमां वृत्तिमिति। पितृतुल्यप्रतिपत्त्या शुश्रूषाव्यापारं इत्यर्थः ॥ ५ ॥
अनेन सर्वभूतदयावत्वेन लक्ष्मणस्य सर्वभूताधारभूधारकशेषावतारत्वं, धर्मानुगत्या जानक्याः श्रीत्वं च ध्वनितम्ति।
॥ २।४४।५ ॥ ॥ २।४४।६ ॥
अरण्यवासे यद्दुःखं १ जानती वै सुखोचिता।
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ॥ ६ ॥
अरण्यवासे यद्दुःखमस्ति, तज्जानती भर्तुस्तदपनयनार्थं वैदेह्यप्यनुगच्छति। अतो न दुःखप्रसङ्ग इति शेषः ॥ ६ ॥
१ जानन्त्येवङ।
॥ २।४४।६ ॥ ॥ २।४४।७ ॥
कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः।
१दमसत्यव्रतपरः किं न प्राप्तस्तवात्मजः ॥ ७ ॥
कीर्तिभूतांकीर्त्यात्मना सम्भूतां पताकांध्वजं लोकेत्रैलोक्येऽपि यः प्रभू रामः भ्रामयतिनित्यं प्रवर्तयति, दमादिपरस्सोऽसौ तवात्मजः, किं न प्राप्तःकस्य श्रेयसे न योग्यः? अतो वनेऽपि तस्य श्रेयःप्राप्तिरेवेति न शोचनीयता तस्य ॥ ७ ॥
१ धर्मसत्यव्रतपरः, धर्मःसत्यव्रतपरः, धर्मसत्यव्रतधनः तपस्सत्यव्रतधनःङ।
॥ २।४४।७ ॥ ॥ २।४४।८ ॥
व्यक्तं रामस्य विज्ञाय १ शौचं माहात्म्यमुत्तमम्।
न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ॥ ८ ॥
तदेव प्रदर्श्यतेव्यक्तमित्यादि ॥ ८ ॥
सुमित्रा जन्मान्तरीयभगवदाराधनजनितसुकृतपरिपाकेन श्रीरामं परमात्मानं मत्वा मनसि निधाय वनेष्वातपादिषु सञ्चरतो रामस्य सूर्यादिबाधा नास्ति, अपि तु तत्सेवैव भविष्यतीति कौसल्यामाश्वासयतिव्यक्तं रामस्येत्यादिश्लोकत्रयेणती।
१ शौर्यंङ।
॥ २।४४।८ ॥ ॥ २।४४।९ ॥
शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः।
राघवं शीतयुक्तोष्णः सेविष्यति सुखोऽनिलः ॥ ९ ॥
शीतयुक्तोष्ण इति। सुखस्पर्श इति यावत्। अत एव सुखःअदुःखकरः ॥ ९ ॥
॥ २।४४।९ ॥ ॥ २।४४।१० ॥
शयानमनघं रात्रौ पितेवाभिपरिष्वजन्।
रश्मिभिः संस्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥ १० ॥
चन्द्रमाः इति पदम् ॥ १० ॥
॥ २।४४।१० ॥ ॥ २।४४।११ ॥
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे।
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ ११ ॥
ब्रह्माब्रह्मवत् सृष्टिकर्ता विश्वामित्रः। तिमिध्वजसुतःसुबाहुः ॥ ११ ॥
तिमिध्वजसुतः सुबाहुरिति कतककृतः৷৷। तदयुक्तंताटकावधोत्तरं सुबाहुवधात् प्रागेव৷৷। अस्त्रोपदेशस्य प्रागुक्तत्वात्। सुबाहोर्मारीचभ्रातृत्वस्य पूर्वमुक्तत्वेन शम्बरसुतत्वानौचित्याच्चति। कदाचिद्रामो दण्डकारण्यं गत्वा वैजयन्तं पुरं निरुध्य दशरथविरोधिभूतशम्बरसुतं हतवान्। तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददौगो।, ती। तिमिः ध्वजे ययोस्तौसुन्दोपसुन्दौतयोस्सुतंसुबाहुं हतंहतप्रायं दृष्ट्वाज्ञात्वाइत्यपि केचित् ॥
॥ २।४४।११ ॥ ॥ २।४४।१२ ॥
॥ २।४४।१३ ॥
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः।
असन्त्रस्तो ह्यरण्योऽसौ वेश्मनीव निवत्स्यति ॥ १२ ॥
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः।
१कथने पृथिवी तस्य शासने स्थातुमर्हति ॥ १३ ॥
तस्य रामस्य कथने यः प्रवृत्तः, तस्य च शासने पृथिवी स्थातुमर्हति। तत् कुतस्तस्य कुत्रापि भीप्रसङ्ग इति शेषः ॥ १३ ॥
वने रामस्य सौख्यं भवतु, भरतस्य रुढमूलत्वात् रामस्य राज्यं न सिध्यतीत्याशंक्याहयस्येतिगो।
१कथं नसर्वत्र।
॥ २।४४।१२१३ ॥ ॥ २।४४।१४ ॥
या श्रीः शौर्यं च रामस्य या च कल्याणसत्वता ।
निवृत्तारण्यवासः सः क्षिप्रं राज्यमवाप्स्यति ॥ १४ ॥
स यदा निवृत्तवनवासो भवति तदा श्र्चादिः पुनस्तं क्षिप्रमवाप्स्यतीति योजना ॥ १४ ॥
एतैरसाधारणहेतुभिरिति शेषः।
॥ २।४४।१४ ॥ ॥ २।४४।१५ ॥
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः।
श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा ॥
सूर्यस्यापि सूर्य इत्यादिकं तथास्वभावब्रह्मावतारत्वात् वास्तवम्। प्रभोःइन्द्रादेश्च प्रभुः ॥ १५ ॥
षष्ठीतत्पुरुषः।
॥ २।४४।१५ ॥ ॥ २।४४।१६१८ ॥
दैवतं १दैवतानां च भूतानां भूतसत्तमः।
तस्य के ह्यगुणाः, देवि राष्ट्रे वाऽप्यथवा पुरे ॥ १६ ॥
पृथिव्या सह वैहेह्या श्रिया च पुरुषर्षभः।
क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १७ ॥
दुःखजं विसृजन्त्यश्रु निष्क्रामन्तमुदीक्ष्य यम्।
अयोध्यायां जनास्सर्वे शोकवेगसमाहताः ॥ १८ ॥
दुःखजमित्यादिना कालान्तरेऽपि राज्यार्हता जनानुरागप्रदर्शनेन प्रकाश्यते ॥ १८ ॥
१देवतानांच।
यतस्सर्वे जना अश्रु विसृजन्तिरामे सुतरामासक्ता वर्तन्त इति भावः। अतःस रामः पुनरभिषेक्ष्यत एवेति पूर्वश्लोकस्थेनान्वयः।
॥ २।४४।१६१८ ॥ ॥ २।४४।१९ ॥
कुशचीरधरं १देवं गच्छन्तमपराजितम्।
सीतेवानुगता लक्ष्मीः तस्य किं नाम दुर्लभम् ॥ १९ ॥
सीतेवेति। सीतात्मना लक्ष्मीरेवानुगतेत्यर्थः ॥ १९ ॥
१ रामंङ।, वीरंच।
॥ २।४४।१९ ॥ ॥ २।४४।२० ॥
१ धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम्।
लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम् ॥ २० ॥
धनुः गृह्णन्तीति धनुर्ग्रहाःशूराः, तेषां वरः श्रेष्ठः ॥ २० ॥
१ धनुर्धरवरोङ।
॥ २।४४।२० ॥ ॥ २।४४।२१ ॥
निवृत्तवनवासं तं द्रष्टाऽसि पुनरागतम्।
जहि शोकं च मोहं च, देवि सत्यं ब्रवीमि ते ॥ २१ ॥
द्रष्टाऽसिइति लुट् ॥ २१ ॥
॥ २।४४।२१ ॥ ॥ २।४४।२२२४ ॥
शिरसा चरणावेतौ १ वन्दमानमनिन्दिते
पुनर्द्रक्ष्यसि, कल्याणि पुत्रं चन्द्रमिवोदितम् ॥ २२ ॥
पुनः प्रविष्टं दृष्ट्वा तं अभिषिक्तं महाश्रियम्।
समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः ॥ २३ ॥
मा शोकः, देवि दुःखं वा न रामे दृश्यते २ शिवम्।
क्षिप्रं द्रक्ष्यसि पुत्रं ३ तं ससीतं सहलक्ष्मणम् ॥ २४ ॥
रामेरामविषये दुःखादिकं मास्तु। कुत इत्यतःशिवं भद्रमेव तत्र दृश्यते, वनेऽपीति शेषः ॥ २४ ॥
१ वन्दमानं दिने दिनेङ।
२ ऽशुभम्ङ।
३ त्वंच।
॥ २।४४।२२२४ ॥ ॥ २।४४।२५ ॥
१ त्वयाऽशेषो जनश्चैव समाश्वास्यो यदाऽनघे
किमिदानी २ मिमं, देवि करोषि हृदि विक्लवम् ॥ २५ ॥
हे अनघे यदायस्मात् त्वया स्वामिन्या अशेषोऽयं त्वत्परिवारजनः समाश्वास्यः, सा त्वं किमिदानीं विक्लबं करोषि ॥ २५ ॥
शेषः परिवारजनः यदा त्वया समाश्वास्यो वर्तते, एवंस्थिते भवत्या विक्लबः अनुचित इति वा भावः।
१ त्वया शेषःच।
२ मिदंच।
॥ २।४४।२५ ॥ ॥ २।४४।२६२७ ॥
नार्हा त्वं शोचितुं, देवि यस्यास्ते राघवः सुतः।
न हि १ रामात् परो लोके विद्यते सत्पथे स्थितः ॥ २६ ॥
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्।
मुदाऽश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥ २७ ॥
मेघस्य लेखारेखा तथा ॥ २७ ॥
१ रामाद्वरोङ।
वार्षिकीवर्षाकालिकी।
॥ २।४४।२६२७ ॥ ॥ २।४४।२८२९ ॥
पुत्रस्ते वरदः क्षिप्रं अयोध्यां पुनरागतः।
पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २८ ॥
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्।
मुदाऽस्रैः १ प्रोक्षसे पुत्रं मेघराजिरिवाचलम् ॥ २९ ॥
मेघराजिरिति सजलत्वांशे दृष्टान्तः ॥ २९ ॥
१ प्रोक्षसि पुनःङ।
॥ २।४४।२८२९ ॥ ॥ २।४४।३० ॥
आश्वासयन्ती विविधैश्च वाक्यैः
वाक्योपचारे कुशलाऽनवद्या।
रामस्य तां मातरमेवमुक्त्वा
देवी सुमित्रा विरराम रामा ॥ ३० ॥
वाक्योपचारेवाक्यरचनायां। रामास्त्री ॥ ३० ॥
॥ २।४४।३० ॥ ॥ २।४४।३१ ॥
निशम्य तल्लक्ष्मणमातृवाक्यं
रामस्य मातुर्नरदेवपत्न्याः।
सद्यश्शरीरे विननाश शोकः
शरद्गतो मेघ इवाल्पतोयः ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः।
योगौ (३१) मानः सर्गः ॥ ३१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः।
॥ २।४४।३१ ॥