त्रिचत्वारिंशस्सर्गः
[कौसल्यापरिदेवनम्] ॥ २।४३।१ ॥
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्।
कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ १ ॥
अथ कौसल्याया अनुक्रोशःतत इत्यादि ॥ १ ॥
॥ २।४३।१ ॥ ॥ २।४३।२ ॥
राघवे, नरशार्दूल १विषमुप्त्वा विजिह्मगा।
विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २ ॥
विषं उप्त्वानिक्षिप्य विजिह्मगाकुटिलचरिता निर्मुक्तामुक्तकञ्चुकी पन्नगीसर्पपुत्री ॥ २ ॥
१विषमुप्त्वा विजिह्मताम्ङ।,
विजिह्मतांकौटिल्यरूपं विषंगो।, अहिजिह्मगासर्पवत् कुटिलगतिःति।
॥ २।४३।२ ॥ ॥ २।४३।३४ ॥
विवास्य रामं सुभगा लब्धकामा समाहिता।
त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ ३ ॥
अथास्मिन्नगरे रामः चरन् भैक्षं गृहे वसेत्।
कामकारो वरं दातुं अपि दासं ममात्मजम् ॥ ४ ॥
भवतु भरतराज्यवरणम् अथापि इहैव नगरे रामो भैक्षं चरन् गृहे वसन् भूयादिति यदि वृतं भवेत् तदा तद्वरं दातुं, मम च कामकार एवइष्टाचरणमेव। यथाकथञ्चिद्भवदानृण्यस्य ममापेक्षितत्वात्। इदानीमेवंवरणेऽपि ममात्मजं प्रति न मे शोकः। तदपि न कृतम्। ममातित्रासनार्थमिति शेषः ॥ ४ ॥
राज्याभावेऽपि ममात्मजं भरतस्य दासं दातुं कामकारःइच्छा वरंवनवासात् श्रेष्ठतमःगो।
॥ २।४३।३४ ॥ ॥ २।४३।५ ॥
पातयित्वा तु कैकेय्या रामं १स्थानाद्यथेष्टतः।
२प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना ॥ ५ ॥
रामं स्थानात्स्वगृहावस्थानात् यथेष्टतःस्वेच्छानुसारेण पातयित्वाप्रभ्रश्य पर्वण्याहिताग्निना इष्टो रक्षसां भाग इव प्रविद्धःनिरस्तः ॥ ५ ॥
१राज्यात्ङ।
२प्रदिष्टःङ।
आहिताग्निना पर्वणि देवेभ्यो देयः हविर्भागःपुरोडाशैकदेशः रक्षसामिव सर्वथाऽनुचितं त्वया कृतमिति भावःगो। पर्वण्याहिताग्निना रक्षसां भागस्तुषादिरूपः विप्रविद्धःप्रक्षिप्तः। इतःपरं तद्दर्शनमसम्भावितं, रक्षोभिर्नाशादिति व्यङ्ग्यम्ति। पर्वण्याहिताग्निना व्रीहिगततुषजालं यथा रक्षोभागत्वेन प्रदिष्टं तथा कैकेय्यापि रामो राक्षसभागत्वेन विनियुक्तःती।
॥ २।४३।५ ॥ ॥ २।४३।६७ ॥
गजराजगतिर्वीरः महाबाहुर्धनुर्धरः।
वनमाविशते नूनं सभार्यस्सह लक्ष्मणः ॥ ६ ॥
वने त्वदृष्टदुःखानां १कैकेय्यनुमते त्वया।
त्यक्तानां वनवासाय २काऽन्याऽवस्था भविष्यति ॥ ७ ॥
कैकेय्यनुमतेकैकेयीवरानुमतिनिमित्तम् ॥ ७ ॥
१कैकेय्यानुमतेङ।
२कान्ववस्थाङ।
॥ २।४३।६७ ॥ ॥ २।४३।८ ॥
ते रत्नहीनास्तरुणाः फलकाले विवासिताः।
कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ ८ ॥
रत्नहीनाःउत्तमवस्तुहीनाः। तरुणी च तरुणौ च तरुणाः, पुमान् स्त्रियाऽ इत्येकशेषः। फलकालेयुवावस्थत्वेन राजभोगानुभवकाले ॥ ८ ॥
॥ २।४३।८ ॥ ॥ २।४३।९ ॥
अपीदानीं स कालः स्यात् मम शोकक्षयः शिवः।
सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९ ॥
शोकस्य क्षयः यस्मिन् स काल इति योजना। यत्यस्मात्तादृशकालावगमात् ॥ ९ ॥
॥ २।४३।९ ॥ ॥ २।४३।१०१५ ॥
१सुप्त्वेवोपस्थितौ वीरौ कदाऽयोध्यां गमिष्यतः।
यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ १० ॥
कदा प्रेक्ष्य नरव्याघ्रौ अरण्यात् पुनरागतौ।
भविष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ ११ ॥
कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति।
पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ १२ ॥
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ।
लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ १३ ॥
प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ।
उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ १४ ॥
कदा सुमनसः कन्याद्विजातीनां फलानि च।
२प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ १५ ॥
कन्याश्च द्विजातयश्च द्वन्द्वः। तत्र कन्यानां सुमनसःपुष्पाणि, द्विजातीनां फलानीति विवेकः। प्रदिशन्तःप्रगृह्णन्तः हृष्टा भूत्वा पुरीं प्रदक्षिणं करिष्यन्ति, पौरजनोत्सवायेति शेषः ॥ १५ ॥
अथ रात्र्यां प्रपन्नायांऽ इत्युक्तत्वात् एवं चिन्तनम्।
१श्रुत्वेव–ङ।,च।
द्विजातीनां ब्राह्मणानां कन्याः, सुमनसःपुष्पाणि फलानि च प्रदिशन्त्यस्सत्यः पुरीं कदा प्रदक्षिणं करिष्यन्ति। अयमौत्तराणां मङ्गलाचारःगो।
२प्रविशन्त्यः, प्रदिशन्त्यःङ।
॥ २।४३।१०१५ ॥ ॥ २।४३।१६ ॥
कदा परिणतो बुद्ध्या वयसा चामरप्रभः।
अभ्युपैष्यति १ धर्मज्ञः २ सुवर्ष इव लालयन् ॥ १६ ॥
बुद्ध्या वयसा च परिणत इति। अतःपरमपि चतुर्दशवर्षाणामपगमिष्यमाणत्वात्। सुवर्षः समीचीनकालजलवर्षः। लालयन्निति। जनानिति शेषः ॥ १६ ॥
अमरप्रभः पञ्चविंशतिवर्षः। अमरा हि सदा पञ्चविंशतिवर्षाः।
१धर्मात्माङ।
त्रिवर्ष इति पाठेत्रिषु कालेषु वर्षः वर्षणं यस्य सः मेघः। प्रतिमासं वर्षत्रयस्य न्याय्यत्वात्तथोक्तिः।
२त्रिवर्षःङ।
॥ २।४३।१६ ॥ ॥ २।४३।१७ ॥
निस्संशयं मया मन्ये पुरा, वीर कदर्यया।
पातुकामेषु वत्सेषु मातृ़णां शातिताः स्तनाः ॥ १७ ॥
पातुं कामः येषां ते पातुकामाः, तेषु। लुप्येदवश्यमः कृत्येऽन्त्यं काममनसोस्तुमःऽ इति मकारलोपः। वत्सलापुत्रवत्सला ॥ १७ ॥
॥ २।४३।१७ ॥ ॥ २।४३।१८ ॥
साऽहं गौरिव सिह्मेन विवत्सा वत्सला कृता।
कैकेय्या, पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥ १८ ॥
साऽहं गौः सिह्मेनेव विवत्सा कृता। उक्तपातकेनेति शेषः ॥
॥ २।४३।१८ ॥ ॥ २।४३।१९ ॥
न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्
एकपुत्रा विना पुत्रं अहं जीवितुमुत्सहे ॥ १९ ॥
एवं कैकेय्या बालवत्सा गौरिव बलाद्विवत्सा कृताऽहं न जीवितुमुत्सह इति योजना ॥ १९ ॥
॥ २।४३।१९ ॥ ॥ २।४३।२०२१ ॥
न हि मे जीविते किञ्चित् सामर्थ्यमिह कल्प्यते।
अपश्यन्त्याः प्रियं पुत्रं १लक्ष्मणं च महाबलम् ॥ २० ॥
अयं हि मां २दीपयते समुत्थितः
तनूजशोकप्रभवो हुताशनः।
महीमिमां ३ रश्मिभिरुत्तम प्रभो
यथा निदाघे भगवान् दिवाकरः ॥ २१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः
उत्तम प्रभो इति द्विपदं, एकपदं वा। कारु (२१) मानः सर्गः ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः
कल्प्यते दैवेनेति शेषः। कल्पत इति पाठे विद्यत इत्यर्थःगो।
१महाबाहुं माहबलम्ङ।
२दीपयतेऽद्य वह्निः ৷৷। प्रभवो महाहितःच।
समुत्थितःअभिवृद्धः।
उद्धतप्रभःइति वह्निविशेषणंगो। प्रकृतव्याख्यानरीत्या सम्बुद्ध्यन्तम् ॥
३रश्मिभिरुद्धतप्रभःङ।,च।
॥ २।४३।२०२१ ॥