०४२ दशरथविलापः

द्विचत्वारिंशस्सर्गः

[दशरथाक्रन्दः] ॥ २।४२।१ ॥

यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत।

नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी ॥ १ ॥

अथ दशरथस्य रामपथप्रतीक्षादिजदुःखवर्णनम्यावदित्यादि। १निर्यतःनिर्गच्छत इति षष्ठी। रजोरूपं२रथधूलीस्वरूपम् ॥ १ ॥

१निर्यतः इति षष्ठीक।

२रथ्याधूलीट।

॥ २।४२।१ ॥ ॥ २।४२।२ ॥

यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्।

१तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने ॥ २ ॥

यावत् प्रियं पुत्रं पश्यतीति। रथधूलीदर्शनद्वारेति शेषः। तावत् पुत्रदर्शनेतन्निमित्तं धरण्यांभुवि अस्य देहो व्यवर्धतेवविशिषेणाभिवृद्धम्। उत्थाय स्थित एवाभूदित्यर्थः ॥ २ ॥

पुत्रदर्शनेपुत्रदर्शननिमित्तं रजो व्यवर्धतेव। मन्निमित्तेन पुत्रदर्शनेन राजा कञ्चित्कालमप्यव्यथितो भवेदिति मत्वेव रजः व्यवर्धतगो।, ती। अथवा अस्य देहो व्यवर्धतपुत्रदर्शनायोत्थाय स्थितःगो। उत्तरश्लोकदर्शने अयं पक्षः समुचितः।

१ तावद्विवर्धते पांसुःङ।

॥ २।४२।२ ॥ ॥ २।४२।३ ॥

न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः।

तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले ॥ ३ ॥

रथरजसोऽप्यदर्शने तच्छरीरं पतितमभूदित्युच्यतेन पश्यतीत्यादि ॥ ३ ॥

॥ २।४२।३ ॥ ॥ २।४२।४ ॥

तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना।

वामं चास्यान्वगात् पार्श्वं कैकेयी १ भरतप्रिया ॥ ४ ॥

तस्येत्यादि। पतितं तमुद्धृत्य तस्य दक्षिणं बाहुं गृहीत्वा कौसल्याऽन्वगात्स्वपुरं प्रति गम्यमानमन्वगादित्यर्थः। कैकेयी त्वस्य वामं पार्श्वमेव केवलमन्वगात्। तथात्वं तु राज्ञोऽस्यां परमवैरस्यात् तत्स्पर्शासहनादेव ॥

तस्य दक्षिणमुद्धृत्यऽ इति पाठः। तस्य दक्षिणं बाहुं उद्धृत्य गृहीत्वा कौसल्याऽन्वगात्। ৷৷।कैकेयी त्वस्य वामपार्श्वमेव केवलमन्वगात् ॥ ती।

१सा सुमध्यमाच।

॥ २।४२।४ ॥ ॥ २।४२।५६ ॥

तां नयेन च सम्पन्नो धर्मेण विनयेन च।

उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ ५ ॥

कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी।

न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ ६ ॥

तदेवाहकैकेयि मा ममाङ्गानि स्प्राक्षीरिति। बान्धवीति। अण्णन्तत्वात् ङीप् ॥ ६ ॥

मामकाङ्गानि मा स्प्राक्षीः पापनिश्चयेच।

॥ २।४२।५६ ॥ ॥ २।४२।७ ॥

ये च त्वामनुजीवन्ति नाहं तेषां न ते मम।

केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥ ७ ॥

अगृह्णां यच्च ते पाणिं अग्निं पर्यणयं च यत्।

न केवलमैहिकव्यवहारस्य त्यागः, अपि तु पारलौकिकस्यापीत्याहअगृह्णामित्यादि। यच्च ते पाणिमगृह्णां यच्च त्वामग्निं पर्यणयं चअग्निहोत्रसम्बन्धमकार्षं तदप्यतः परं त्यक्ष्यामि ॥ ७ ॥

॥ २।४२।७ ॥ ॥ २।४२।८९ ॥

अनुजानामि तत्सर्वं अस्मिन् लोके परत्र च ॥ ८ ॥

भरतश्चेत् प्रतीतः स्यात् राज्यं प्राप्येदमव्ययम्।

१यन्मे स दद्यात् पित्रर्थं मामतद्दत्तमागमत् ॥ ९ ॥

नन्वस्तु वा मम त्यागः मदुपजीविनो मत्पुत्रादेः कथं त्यागः? इत्यत्र, रामवत् पित्रनुवर्तनधर्माविरोधे सति नायं त्यज्यत इत्याहअनुजानामीत्यादि। भरतो यदा त्वया प्रापितं राज्यं प्राप्य प्रतीतः स्यात्, तदा पित्रर्थंअनादिस्वकुलधर्मपरिपालनाय गुणवज्ज्येष्ठपुत्राभिसिसृक्षुपितृप्रीतिसम्पादनाय स मे पुनर्दद्यात्त्यजेत्, तदा मां अतद्दत्तंतत्कृतदानव्यवहाररहितं सत् राज्यमागमत्प्राप्नुयाच्चेत्प्राप्तं चेत्पुनश्च मम राज्यं न्यायतः प्राप्तञ्चेदिति यावत्, तदा स्वकुलधर्मज्येष्ठाभिषेकधर्मसाधकत्वे सुपुत्रत्वात्तमिह लोकेऐहिकव्यवहारे विहारशय्यासनभोजनादिव्यवहारे परत्र चपारलौकिके पिण्डोदकादिव्यवहारे चानुजानाम्येवेत्यर्थः ॥ ९ ॥

१यन्मे स दद्यात्प्रीत्यर्थं मां मा तद्दत्तमागमत्ङ। एतदनन्तरं राज्यस्थो भरतो यन्मां तन्मां नाभ्युपगच्छतुऽ इत्यधिकंङ।

अत्र तिलके “कतकस्तु अनुजानामिऽ इत्यादिसार्धश्लोक एकं वाक्यम्। तत्पूर्वार्धे त्यजामीत्यनुकर्षः। तत्तृतीयार्धे यन्मे स दद्यात् पित्रर्थं मामतद्दत्तमागमत्ऽ इति पाठः। स दद्यादिति चावर्तते। भरतस्त्वया प्रापितं राज्यं प्राप्य प्रतीतो विवेकवान् सन् यत्प्राप्तं राज्यं तत् स पित्रर्थंपितुर्मम प्रीतिसम्पादनाय यदि दद्यात्त्यजेत्, मां चातद्दत्तं न कृतं तस्मै दत्तंदानं राज्यस्य येन तादृशं मां प्रीत्या पूर्ववदागमत्प्राप्नुयाच्चेत्, तदा यत्स मे दद्यादस्मिन् लोके विहारशय्याभोजनादि, परत्र चपरलोके पिण्डदानादि तत्सर्वमनुजानामिअङ्गीकरोमि, अन्यथा तं त्यजाम्येवेत्यर्थः” इत्याहइत्यनूदितम् ॥

गोविन्दराजीयादिरीत्या तुअनुजानामीत्यर्धं पूर्वेणान्वेति। ऐहिकामुष्मिकफलकः यः तव सम्बन्धः कृतः तं अनुजानामिपरिहरामि। भरतः इदं राज्यं प्राप्य प्रतीतःहृष्टः ख्याते हृष्टे प्रतीतःऽ इत्यमरः, स्याच्चेत् स मे प्रीत्यर्थं यत् दद्यात् तद्दत्तं मां मा गमत्मा प्राप्नुयात्इत्यर्थः ॥

॥ २।४२।८९ ॥ ॥ २।४२।१० ॥

अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम्।

न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १० ॥

रेणुसमुध्वस्तम्, आहिताग्न्यादिः, समुध्वस्तरेणुंसम्मार्जितपांसुम् ॥ १० ॥

समुत्थाप्यङ।

॥ २।४२।१० ॥ ॥ २।४२।१११२ ॥

हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाऽग्निमिव पाणिना।

अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य १तापसम् ॥ ११ ॥

निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु।

राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ १२ ॥

रथवर्त्मसु सीदत इति। रामरथमार्गदर्शने क्लिश्यत इत्यर्थः ॥ १२ ॥

१राघवंङ।च।

निवृत्त्यैव निवृत्त्यैवपुनःपुनरित्यर्थः।

॥ २।४२।१११२ ॥ ॥ २।४२।१३ ॥

विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन्।

नगरान्तमनुप्राप्तं बुध्वा पुत्रमथाब्रवीत् ॥ १३ ॥

आत्मानं नगरान्तंनगरसमीपपर्यन्तं अनुप्राप्तं बुध्वा अथाब्रवीत् ॥ १३ ॥

पुत्रं नगरान्तंनरगरबाह्यदेशं प्राप्तं मत्वेत्यर्थःति।

पुत्रंपुत्रमधिकृत्य।

॥ २।४२।१३ ॥ ॥ २।४२।१४ ॥

वाहनानां च मुख्यानां वहतां तं ममात्मजम्।

पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ १४ ॥

किमब्रवीदित्यतःवाहनानामित्यादि ॥ १४ ॥

॥ २।४२।१४ ॥ ॥ २।४२।१५१६ ॥

यः १ सुखेनोपधानेषु शेते चन्दनरूषितः।

वीज्यमानो २ महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ १५ ॥

स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः।

काष्ठं वा यदि वाऽश्मानं उपधाय शयिष्यते ॥ १६ ॥

महार्हाभिःपरमालङ्कारपरमरूपवदुत्तमस्त्रीभिरित्यर्थः ॥ १६ ॥

१सुखेषूपङ।

१महाबाहुःङ।

॥ २।४२।१५१६ ॥ ॥ २।४२।१७ ॥

उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः।

विनिश्वसन् प्रस्रवणात् करेणूनामिवर्षभः ॥ १७ ॥

प्रस्रवणात्गिरिप्रस्थादिप्रदेशात्। करेणूनामृषभ इवेति। गजयूथप इवेति यावत् ॥ १७ ॥

॥ २।४२।१७ ॥ ॥ २।४२।१८१९ ॥

द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचरा।

राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ १८ ॥

सा नूनं जनकस्येष्टा सुता सुखसदोचिता।

कण्टका १ क्रमणक्लान्ता वनमद्य गमिष्यति ॥ १९ ॥

सुखस्य सदोचिता तथा। कण्टकेष्वाक्रमणंपदविक्षेपस्तथा ॥

उत्थास्यतीति पूर्वश्लोके कथनात् तदनुवादोऽत्र। अनाथवद्गच्छन्तमित्यन्वयः।

१क्रमणाक्रान्ताङ।

॥ २।४२।१८१९ ॥ ॥ २।४२।२० ॥

अनभिज्ञा वनानां सा नूनं भयमुपैष्यति।

श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥ २० ॥

आनर्दितंशब्दम् ॥ २० ॥

॥ २।४२।२० ॥ ॥ २।४२।२१ ॥

सकामा भव, कैकेयि विधवा राज्यमावस।

न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ २१ ॥

सकामा भवेति। एवं सीतादेरनपकारिप्राणिनो दुःखं कृत्वेति शेषः। विधवा राज्यमावस इति। कुत एवंवाद इत्यतःन हीत्यादि ॥

॥ २।४२।२१ ॥ ॥ २।४२।२२ ॥

इत्येवं विलपन् राजा जनौघेनाभिसंवृतः।

अपस्नात इवारिष्टं प्रविवेश १पुरोत्तमम् ॥ २२ ॥

अपस्नातो मृतस्नातःऽ। अरिष्टं सूतिकागृहम्ऽ, तद्वत्कश्मलम् ॥ २२ ॥

बहुकालानन्तरं प्राप्तस्य पुत्रस्य मरणे, यथा मृतस्नातः सुदुःखार्तः सूतिकागृहं प्रविशेत् तथेति भावः। प्राप्तपुत्रोऽपि हि दशरथः न पुत्रसुखं लब्धवान्, राज्याभिषेककाल एव स्वाभीष्टहानेः। एवञ्च दशरथः पुनः रामाधीनसुखं अप्रतीक्षमाणः उत्पन्नविनष्टपुत्रमिवात्मानं मेने। दशरथमनोभावस्य तथाऽवस्थितेर्नेयमश्लीलोक्तिः ॥

१गृहोत्तमम्ङ।

॥ २।४२।२२ ॥ ॥ २।४२।२३ ॥

शून्यचत्वरवेश्मान्तां संवृतापण १ वेदिकाम्।

क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ २३ ॥

तदेव प्रदर्श्यतेशून्येत्यादि। शून्यानिसम्मार्जनादिसंस्काररहितानि। चत्वरंचतुष्पथम्। वेश्मनां अन्ताःमध्यप्रदेशाः पर्यन्तप्रदेशाश्च। आपणानां वेदिकाःआपणवेदिकाः। क्लान्ताः, दुर्बलाः, दुःखार्ताश्च यस्यां सा तथा। नात्याकीर्णःअत्यन्तं प्राणिसम्मर्दरहितः महापथः यस्याम् ॥ २३ ॥

निर्व्यापारामित्यर्थः।

१देवताम्ङ।

अनेन सञ्चारक्षमास्सर्वे राममनुगता इति द्योत्यतेगो।

॥ २।४२।२३ ॥ ॥ २।४२।२४२५ ॥

तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्।

विलपन् प्राविशत् राजा गृहं सूर्य इवाम्बुदम् ॥ २४ ॥

महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्।

रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २५ ॥

सुपर्णेन हृतोरगं महाह्रदमति कुलालादिगृहवत् निर्भयप्रवेशमात्रे दृष्टान्तः ॥ २५ ॥

महोरगविशिष्टो महाह्रदः जन्तुभिरकलुषितोऽतिगंभीरः स्यात्। उरगाभावे च सर्वैः कलुषितः स्यादिति वा दृष्टान्तानुरूप्यम्।

॥ २।४२।२४२५ ॥ ॥ २।४२।२६ ॥

अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः।

उवाच मृदु १मन्दार्तं वचनं दीनमस्वरम् ॥ २६ ॥

गद्गदः शब्दः, यस्य स तथा। मन्दं च तत् आर्तं च तथा। दीनंशोच्यम्। अस्वरंशुद्धकण्ठध्वनिरहितम् ॥ २६ ॥

१मन्दार्थंसर्वत्र। (मन्दार्थंअल्पार्थंगो।

॥ २।४२।२६ ॥ ॥ २।४२।२७ ॥

कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्।

न ह्यन्यत्र ममाश्वासः हृदयस्य भविष्यति ॥ २७ ॥

नयन्त्विति। शबिकावाहका इति शेषः। अन्यत्रेति। तद्व्यतिरिक्तस्त्रीगृह इत्यर्थः। आश्वासः चित्तखेदापगमः ॥ २७ ॥

॥ २।४२।२७ ॥ ॥ २।४२।२८ ॥

इति ब्रुवन्तं राजानं अनयन् द्वारदर्शिनः।

कौसल्याया गृहं यत्र न्यवेश्यत विनीतवत् ॥ २८ ॥

द्वारदर्शिनःवेत्रिणः। विनीतवत्विनीतास्सन्तः कौसल्याया गृहमनयन् ॥ २८ ॥

तैः न्यवेश्यत। राजेति शेषःति

॥ २।४२।२८ ॥ ॥ २।४२।२९ ॥

१ततस्तत्र निविष्टस्य कौसल्याया निवेशनम्।

अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २९ ॥

तत्र तैर्न्यवेश्य ततस्तत्र निविष्टस्य राज्ञः कौसल्याया निवेशनं, अन्ततस्तस्याश्शयनमधिरुह्यापि मनः लुलितंकलुषितमेव बभूव ॥ २९ ॥

१ ततस्तस्यङ।

॥ २।४२।२९ ॥ ॥ २।४२।३०३२ ॥

पुत्रद्वयविहीनं च स्नुषयाऽपि विवर्जितम्।

अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ ३० ॥

तच्च दृष्ट्वा महाराजः भुजमुद्यम्य वीर्यवान्।

उच्चैःस्वरेण चुक्रोश १हा हा राम जहासि २माम् ॥ ३१ ॥

३सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः।

परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ ३२ ॥

सुखिता इत्यादि। ये पुनरागतं रामं परिष्वजन्तःपरिष्वजमाना द्रक्ष्यन्ति, ये नरोत्तमाः तं कालंतावत्कालपर्यन्तं जीविष्यन्ति ते किल सुखिता भविष्यन्ति नाहं जीर्णो बत ॥ ३२ ॥

१हा राघवङ।

२नौङ।

३सुखिनः सततंसुखितास्सततंङ।

तं कालंतस्मिन् काले, तावत्कालमिति वागो।

॥ २।४२।३०३२ ॥ ॥ २।४२।३३ ॥

अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः।

अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ ३३ ॥

अथरामं रजन्यां प्रस्थाप्य पुनः रजन्यां स्वगृहप्रवेशानन्तरमित्यर्थः। रात्र्यां आत्मनः कालरात्र्यां संहाररात्र्यामिव प्रपन्नायाम् ॥

॥ २।४२।३३ ॥ ॥ २।४२।३४ ॥

न १त्वा पश्यामि, कौसल्ये साधु२ मा पाणिना स्पृश।

रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥ ३४ ॥

हे कौसल्ये त्वात्वां न पश्यामिन वीक्षये। अतो मामां त्वदासत्तिपरिज्ञानाय पाणिना स्पृश। कुत एवमित्यतःराममित्यादि। दृष्टेः दर्शनशक्तेः रामविषये समनस्काया विलीनत्वात्, इहत्यपदार्थो मदक्ष्णोर्न स्फुरतीत्यर्थः ॥ ३४ ॥

१त्वांङ।

२मांङ।

राममातृत्वात् त्वत्स्पर्शः किञ्चिदिवाप्यायकः स्यादिति वा।

॥ २।४२।३४ ॥ ॥ २।४२।३५ ॥

तं रामेवानुविचिन्तयन्तं

समीक्ष्य देवी शयने नरेन्द्रम्।

उपोपविश्याधिकमार्तरूपा

१विनिश्वसन्ती विललाप कृच्छ्रम् ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विचत्वारिंशस्सर्गः

मृग (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विचत्वारिंशस्सर्गः

१विनिश्वसन्तंङ।

॥ २।४२।३५ ॥