एकचत्वारिंशस्सर्गः
[पौरव्यसनम्] ॥ २।४१।१ ॥
तस्मिंस्तु पुरुषव्याघ्रे १ विनिर्याते कृताञ्जलौ।
आर्तशब्दोऽथ सञ्जज्ञे स्त्रीणामन्तःपुरे महान् ॥ १ ॥
अथ रामवनप्रयाणनिमित्तः सर्वप्रजाशोकः। तस्मिंस्त्वित्यादि ॥
१ निष्क्रामतिङ।
॥ २।४१।१ ॥ ॥ २।४१।२ ॥
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।
यो गतिश्शरणं चासीत् स नाथः क्व नु गच्छति ॥ २ ॥
तपस्विनः शोच्यस्येति यावत्। यो गतिःसकलसुखावाप्तिहेतुः। शरणंसर्वापत्त्राता ॥ २ ॥
॥ २।४१।२ ॥ ॥ २।४१।३ ॥
न क्रुध्यत्य भिशप्तोऽपि क्रोधनीयानि वर्जयन्।
क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्वचिद्गतः ॥ ३ ॥
क्रोधनीयानिक्रोधकारणानि। क्वचिदिति। क्व नु गच्छतीति शेषः ॥ ३ ॥
अभिशप्तःमिथ्यादोषेण निन्दितः।
क्वचिदित्यस्य न क्रुध्यतीत्यनेन सम्बन्धःगो।
॥ २।४१।३ ॥ ॥ २।४१।४६ ॥
कौसल्यायां महातेजाः यथा मातरि वर्तते।
तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥ ४ ॥
कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम्।
परित्राता जनस्यास्य १जगतः क्व नु गच्छति ॥ ५ ॥
अहो निश्चेतनो राजा जीवलोकस्य २सम्प्रियम्।
धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ ६ ॥
प्रवत्स्यतीति। प्रवासयतीति यावत् ॥ ६ ॥
१ स इतःङ।
संक्षयंआधारत्वेन गृहभूतम्ति।
२ संक्षयंच।
॥ २।४१।४६ ॥ ॥ २।४१।७८ ॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।
रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ ७ ॥
स तमन्तःपुरे घोरं आर्तशब्दं महीपतिः।
पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत् सुदुःखितः ॥ ८ ॥
१ नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत।
व्यसृजन् कबलान् नागाः गावो वत्सान्न पाययन् ॥ ९ ॥
नाग्निहोत्राण्यहूयन्त अग्निहोत्रिभिः रामविरहदुःखादिति शेषः। सूर्यश्चान्तरधीयतेति। अकाले दुर्दिनमभूदित्यर्थः। व्यसृजन्त्यक्तवन्तः। नागाःगजाः। एवमादिकं सर्वं रामस्याशेषजाग्रत्प्रपञ्चोपादानश्रीहिरण्यगर्भावतारतया रामस्य सर्वात्मनामात्मभूतत्वात् तस्य दुःखे सर्वस्यापि दुःखं, सुखे सर्वस्यापि सुखं इतीह रामायणे सर्वतःप्रतिपाद्यमानं वास्तवमेवेत्यभिध्येयम्। न ४पाययन्ना ५पाययन्निति यावत् ॥ ९ ॥
१नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः। अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत ॥ व्यसृजन् कबलान् नागा गावो वत्सान्न पाययन्। पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ इति क्रमःङ।
२ पालयन्ट।
॥ २।४१।७९ ॥ ॥ २।४१।१० ॥
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।
दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ १० ॥
लोहिताङ्गःअङ्गारकः। सोममभ्येत्येति। रात्रौ सोमासक्तिं प्राप्य दारुणा व्यवस्थिताः। क्रूरार्चिरादिना दारुणत्वम् ॥ १० ॥
त्रिशङ्कुः इक्ष्वाकुकुलकूटस्थः। लोहिताङ्गः अङ्गारकः। बृहस्पतिबुधयोर्दारुणत्वं दारुणाङ्गारकसंयोगात् क्रूरस्थानगतत्वाद्वा। त्रिशङ्कोर्ग्रहत्वाभावेऽपि छत्रिणो गच्छन्तीतिवद्व्यपदेशः। त्रिशङ्कोः सोमप्राप्तिः ऋजुदेशत्वेन ज्ञेया। ननु पूर्णे चतुर्दशे वर्षे पञ्चम्यां भरताग्रजःऽ इति वक्ष्यमाणरीत्या तत्रैव कदाचित् पुष्ययोगसम्भावनया च पञ्चम्यामभिषेक इति सिद्धम्। तस्मिन्नेव च निर्गतः। तथा च कर्कटकस्थे चन्द्रे कथं बुधसमागमः। तस्य सूर्यसमीपवर्तित्वात् उच्यतेप्राप्तिरत्र नैकराशिस्थितिः। किन्तु, क्वचित् प्राप्तिः, क्वचित् दृष्टिरिति न दोषः। वक्रगस्या समागम इत्यप्याहुःगो। त्रिषु द्वादशाष्टमजन्मस्थानेषु शङ्कुरिव शङ्कुःशनैश्चरःस।
॥ २।४१।१० ॥ ॥ २।४१।११ ॥
नक्षत्राणि गतार्चीषि ग्रहाश्च गततेजसः।
विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे ॥ ११ ॥
ग्रहाश्चेति। शनिशुक्रादयः। विशाखाःविमार्गस्थाः। सधूमाःधूमोपेताश्च ॥ ११ ॥
॥ २।४१।११ ॥ ॥ २।४१।१२ ॥
कालिकानिलवेगेन महो १दधिमिवोद्धतम्।
रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥ १२ ॥
कालिकामेघपङ्क्तिः। अनिलवेगेनोद्धतं महोदधिं बभारेवेत्यध्याहारः ॥ १२ ॥
१दधिरिवोत्थितः,द्धतःङ।
॥ २।४१।१२ ॥ ॥ २।४१।१३१४ ॥
दिशः पर्याकुलास्सर्वाः तिमिरेणेव सवृताः।
न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ॥ १३ ॥
अकस्मान्नागरस्सर्वो जनो दैन्यमुपागमत्।
आरारे वा विहारे वा न कश्चिदकरोन्मनः ॥ १४ ॥
अकस्मादिति। प्रसिद्धदैन्यहेतुकिञ्चित्कारणान्तराभावेऽपीत्यर्थः ॥
॥ २।४१।१३१४ ॥ ॥ २।४१।१५ ॥
शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन्।
अयोध्यायां जनस्सर्वः १ शुशोच जगतीपतिम् ॥ १५ ॥
रामवियोगजशोकेन पर्यायतः सन्तप्तःपुनःपुनः तप्तस्तथा ॥
शोकपरम्परासन्तप्तःगो।
१चुकोपङ।
॥ २।४१।१५ ॥ ॥ २।४१।१६१८ ॥
बाष्पपर्याकुलमुखः राजमार्गगतो जनः।
न हृष्टो लक्ष्यते कश्चित् सर्वः शोकपरायणः ॥ १६ ॥
न वाति पवनः शीतः न शशी सौम्यदर्शनः।
न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ १७ ॥
अनर्थिनस्सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।
सर्वे सर्वं परित्यज्य राममेवा १ नुचिन्तयन् ॥ १८ ॥
अनर्थिनः सुता इति। मातापित्रोरिति शेषः। स्त्रीणां भर्तार इति। अनर्थिन इत्यनुकर्षः। भ्रातर इति। भ्रात्रन्तरमिति शेषः। अनुचिन्तयन्अन्वचिन्तयन्नित्यर्थः ॥ १८ ॥
सुताः स्त्रीणामनर्थिनः, मातृ़णां स्तन्यं नापेक्षन्त इत्यर्थः। भर्तारः स्त्रीणामनर्थिनः। भ्रातरः अनर्थिनः, अन्योन्यमिति शेषःगो।
१न्वचिन्तयन्ङ।
॥ २।४१।१६१८ ॥ ॥ २।४१।१९२० ॥
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।
शोकभारेण चाक्रान्ताः शयनं १न जहुस्तदा ॥ १९ ॥
ततस्त्वयोध्या रहिता महात्मना
पुरन्दरेणेव मही सपर्वता।
चचाल घोरं भयशोकपीडिता
सनागयोधाश्वगणा ननाद च ॥ २० ॥
इत्यार्षे श्रीद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकचत्वारिंशः सर्गः
पुरन्दरेण रहिता सपर्वता मही चचालेति। पुरन्दरस्य त्रिलोकीपतित्वात् समेरुसर्वभूचक्राधिष्ठातृत्वं सिद्धम्। अतस्तद्राहित्ये पालकाभावात् भूमेश्चलनं सिद्धमिति दृष्टान्तत्वम्। ननादेति। दुःखाच्चक्रन्देत्यर्थः। अरि (२०) मानः सर्गः ॥ २० ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकचत्वारिंशः सर्गः
शयनं मूर्छाशयनंगो। शयनं न जहुःउत्थातुमपि न शक्ता बभूवुरित्यर्थः।
१नैव भेजिरेच।
॥ २।४१।१९२० ॥