०४० जनाक्रोशः

चत्वारिंशस्सर्गः

[वनप्रस्थानम्] ॥ २।४०।१ ॥

अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।

उपसङ्गृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ १ ॥

एवं कृतसर्वानुमतिकस्य निर्याणम्अथेत्यादि। दीना इति राज्ञो दुःखदर्शनात् ॥ १ ॥

उपसङ्गृह्यवन्दित्वा।

वृद्धयोर्मातापित्रोः शुश्रूषा न लब्धेति दीनाःगो।

॥ २।४०।१ ॥ ॥ २।४०।२ ॥

तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह।

राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ २ ॥

तं चेति। उपसङ्ग्रहपूर्वं कृतप्रदक्षिणं राजानमित्यर्थः। शोकसम्मूढत्वं प्राग्वन्मातृदुःखदर्शनादेव ॥ २ ॥

॥ २।४०।२ ॥ ॥ २।४०।३ ॥

अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।

अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ ॥

अन्वक्षंअनुगंअनुपदम्। लक्ष्मणः रामेण कौसल्याभि १ वादनात्पश्चात् भ्रातुर्जननीं कौसल्यां अभ्यवादयत् ॥ ३ ॥

अत्र सर्वकोशेष्वेवमेव पाठो दृश्यते। परं तु जननीमभ्यवादयत्ऽ इति व्याख्यासम्मतः पाठ इति प्रतिभाति। यथाश्रुतपाठे भ्रातुरन्वक्षंभ्रातुरनुपदमेवेत्यर्थः। भ्रातुः, जननीमिति शेष इति तिलके।

॥ २।४०।३ ॥ ॥ २।४०।४५ ॥

तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।

हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥ ४ ॥

सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।

रामे प्रमादं मा कार्षीः, पुत्र भ्रातरि गच्छति ॥ ५ ॥

सृष्ट इति। अत्रत्ये सुहृज्जने स्वनुरक्तोऽपि मया त्वं वनवासाय सृष्टःअनुमतः। स त्वं रामेरामसेवायां प्रमादंअनवधानं मा कार्षीः ॥ ५ ॥

यथा कौसल्या लोकरक्षणार्थं पुत्रं प्रासूत, एवं मया सुहृज्जने रामे स्वनुरक्तस्त्वं वनवासाय सृष्टःगो।। अत्रत्यसुहृज्जने स्वनुरक्तेऽपि त्वं वनवासाय सृष्टःअनुमतःती।

यद्वारामे प्रमादं मा कार्षीःरामे वनं गच्छति त्वमत्रैव मा तिष्ठगो।

॥ २।४०।४५ ॥ ॥ २।४०।६७ ॥

व्यसनी वा दरिद्रो वा गतिरेष ताऽनघ

एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ ६ ॥

इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।

१दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ ७ ॥

इदं हिज्येष्ठानुवर्तनरूपं। क्षत्त्रकुलोचितधर्मान्तरमप्याहदानमित्यादि। मृधेषुयुद्धेषु ॥ ७ ॥

एतदनन्तरं ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्ष्मणम्ऽ इत्यधिकंङ।

॥ २।४०।६७ ॥ ॥ २।४०।८ ॥

लक्ष्मणं त्वेवमुक्त्वा सा १संसिद्धिं प्रियराघवम्।

२सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥ ८ ॥

संसिद्धिंसमीचीना भगवद्ब्रह्मरामसेवामयी सिद्धिर्यस्य स तथा। प्रियो राघवो यस्य स तथा। तंलक्ष्मणम् ॥ ८ ॥

१संसिद्धम्ङ।च।

२एतदनन्तरं गम्यतामर्थलाभाय क्षेमाय विजयाय च। शत्रुपक्षविनाशाय पुनः संदर्शनाय च ॥ ऽ इत्यधिकंङ।

॥ २।४०।८ ॥ ॥ २।४०।९११ ॥

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।

१अयोध्यामटवीं विद्धि गच्छ, तात यथासुखम् ॥ ९ ॥

ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्।

विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ १० ॥

रथमारोह, भद्रं ते, राजपुत्र महायशः

क्षिप्रं त्वां प्रापयिष्यामि यत्र मां, राम वक्ष्यसि ॥ ११ ॥

यत्र मामिति। यद्देशप्रापणे मां वक्ष्यसिनियोक्ष्यसि तं देशं त्वां क्षिप्रं प्रापयिष्यामि। नेह रजन्यां वस्तव्यमिति शेषः ॥ ११ ॥

रामं दशरथं विद्धिपितरमवगच्छेत्यर्थः। जनकात्मजां मां विद्धिमातरं विद्धीत्यर्थः। अटवीमयोध्यां विद्धितद्वद्भोगस्थानं विद्धि। यद्वा रामं दशरथं৷৷। दशति৷৷। इति दशः पक्षी৷৷।स गरुडः रथो यस्य तं विष्णुं विद्धीत्यर्थः। जनकात्मजां मां लक्ष्मीं विद्धि। ৷৷। यद्वा रामं दशरथं च विद्धि उभयोस्तारतम्यं पश्येत्यर्थः। मां जनकात्मजां च विद्धि गुणत आलोचय। (एवं परिशीलनेदशरथमत्सेवापेक्षया रामसीतासेवैव तव ज्यायसी भवेदिति भावः) ৷৷। यद्वाअयोध्यामटवीं विद्धिनिर्जनेयं भविष्यतीत्यर्थःगो।ऽ

१एतच्छ्लोकानन्तरमेव कुत्रचित् लक्ष्मणं त्वेवमुक्त्वाऽ इति श्लोको दृश्यतेङ।

वनवासस्य दुरतिक्रमणीयत्वे सिद्धे तस्य शीघ्रनिर्यातनाय तथा सुमन्त्रोक्तिः।

॥ २।४०।९११ ॥ ॥ २।४०।१२ ॥

चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।

तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥ १२ ॥

कुत इत्यतःचतुर्दशेत्यादि। यानि चतुर्दशवर्षाणि त्वया वने वस्तव्यानि, तान्यद्यैवोपक्रमितव्यानीति देव्या कैकेय्या तथा चोदितोऽसि अद्यैव गच्छऽ इति ॥ १२ ॥

॥ २।४०।१२ ॥ ॥ २।४०।१३१६ ॥

तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा।

आरुरोह वरारोहा कृत्वाऽलङ्कारमात्मनः ॥ १३ ॥

वनवासं हि संख्याय वासांस्याभरणानि च।

भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १४ ॥

तथैवायुधजातानि भ्रातृभ्यां कवचानि च।

रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ १५ ॥

अथो ज्वलनसङ्काशं चामीकरविभूषितम्।

तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ॥ १६ ॥

कृत्वाऽलङ्कारमात्मनःऽ इत्युक्तम् तत्साधनसम्पत्तिः प्रागेव प्राप्तेति स्मार्यतेवनवासं हीत्यादि। श्वशुरो यानि ददौ तानि, आयुधजातादीनि च रथोपस्थे प्रतिन्यस्यप्रतिष्ठाप्य आरुरुहतुः ॥ १६ ॥

भ्रात्रोरित्यर्थःति। भ्रातृभ्यां दत्तानि৷৷। सचर्मचर्मपिनद्धं अल्पकण्डोलं, कठिनं खनित्रं चगो।

॥ २।४०।१३१६ ॥ ॥ २।४०।१७ ॥

सीतातृतीयानारूढान् दृष्ट्वा १धृष्टमचोदयत्।

सुमन्त्र २स्सम्मतानश्वान् वायुवेगसमान् जवे ॥ १७ ॥

सम्मतान्सम्मतसर्वलक्षणान् ॥ १७ ॥

धृष्टंविना सङ्कोचं, कारणान्तरेण प्रयाणविलम्बे वनवासात्प्रतिनिवर्तनकाले विलम्बापातादित्याशयः।

१रथंङ।

२स्संयतान्ङ।

॥ २।४०।१७ ॥ ॥ २।४०।१८ ॥

प्रयाते तु महारण्यं चिररात्राय राघवे।

बभूव नगरे मूर्छा बलमूर्छा जनस्य च ॥ १८ ॥

चिररात्रायेत्यव्ययम्, सत् फट् कत् चिररात्रायऽ इति चादौ पठ्यमानत्वात्, चिरपर्यायः, चिरं उक्तरूपविलम्बपूर्वं राघवेऽरण्यं प्रयाते तु सति नगरे विद्यमानस्य जनस्य मूर्छा बभूव मूर्छा मोहसमुच्छ्रयोःऽ। रात्रौ निर्गच्छतोऽपि रामस्य निर्गमनज्ञानं बभूव। तत एव बलस्यचतुरङ्गबलस्य च मूर्छासम्भ्रमो बभूव ॥ १८ ॥

चिरं मूर्छामोहः बभूवगो।। चिरकालावस्थित्यर्थमित्यर्थःति।। अथवा मृगयाद्यर्थं रामवनगमनसमयापेक्षया वैलक्षण्यद्योतनाय चिरकालं रामे वनं प्रतिप्रयाते इत्यर्थः।

॥ २।४०।१८ ॥ ॥ २।४०।१९ ॥

तत्समाकुलसम्भ्रान्तं मत्त १ सङ्कुपितद्विपम्।

हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ १९ ॥

अस्यैव प्रपञ्चःतदित्यादि। तत्पुरं समाकुलसम्भ्रान्तंसमाकुलंइतिकर्तव्यतामूढं सम्भ्रान्तं रामानुगमनत्वरायुक्तम्। मत्ताः अत एव सङ्कुपिताः द्विपाः यस्मिन् तत्तथा। हयानां पर्याकुलप्राणिभूषणशब्दानां च निर्घोषःध्वनिर्यस्मिन् तत्तथा। भूषणानां तु शिञ्जितम्ऽ ॥ १९ ॥

१सङ्कुलितङ।

समाकुलंअन्तःकरणक्षोभयुक्तंसम्भ्रान्तं बाह्येन्द्रियक्षोभयुक्तम्गो।। अत्र पूर्वश्लोकगतमूर्छापदस्य मोहपरत्वेरामचिरवियोगनिर्णयसमनन्तरं मूर्छास्तब्धता बभूव। तदनन्तरं च समाकुलमित्यादि ॥

॥ २।४०।१९ ॥ ॥ २।४०।२० ॥

ततस्सबालवृद्धा सा पुरी परमपीडिता।

राममेवाभिदुद्राव १ घर्मार्ता सलिलं यथा ॥ २० ॥

परमपीडितेति। रामवियोगदुःखेनेति शेषः ॥ २० ॥

१घर्मार्तःङ।

॥ २।४०।२० ॥ ॥ २।४०।२१ ॥

पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।

बाष्पपूर्णमुखास्सर्वे तमूचुर्भृशनिस्वनाः ॥ २१ ॥

तमिति। सुमन्त्रमिति यावत् ॥ २१ ॥

॥ २।४०।२१ ॥ ॥ २।४०।२२२३ ॥

संयच्छ वाजिनां रश्मीन्, सूत याहि शनैश्शनैः।

मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥ २२ ॥

आयसं हृदयं नूनं राममातुरसंशयम्।

१यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २३ ॥

देवगर्भःदेवनिधिः भगवान् हिरण्यगर्भः। तदंशत्वादेव तत्प्रतिमः, अनन्तकल्याणगुणैकतानस्वभावः ॥ २३ ॥

देवकुमारसदृशेगो।, ती। स्कन्दतुल्येति।

१यद्वेदगर्भङ।

॥ २।४०।२२२३ ॥ ॥ २।४०।२४ ॥

कृतकृत्या हि वैदेही छायेवानुगता पतिम्।

न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २४ ॥

मेरुमर्कप्रभा यथेति। नित्यं तत्प्रदक्षिणसञ्चारादेव ॥ २४ ॥

॥ २।४०।२४ ॥ ॥ २।४०।२५ ॥

अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।

भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥ २५ ॥

यस्त्वं भ्रातरं परिचरिष्यसि, स त्वं अहो सिद्धार्थःकृतार्थः ॥

॥ २।४०।२५ ॥ ॥ २।४०।२६ ॥

महत्येषा हि ते १सिद्धिः एष चाभ्युदयो महान्।

एष स्वर्गस्यं मार्गश्च यदेनमनुगच्छसि ॥ २६ ॥

तदेव प्रतिपाद्यतेमहतीत्यादि ॥ २६ ॥

१बुद्धिःङ।

॥ २।४०।२६ ॥ ॥ २।४०।२७३० ॥

एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।

नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥ २७ ॥

अथ राजा वृतस्स्त्रीभिः दीनाभिर्दीनचेतनः।

निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ २८ ॥

शुश्रुवे चाग्रतस्स्त्रीणां १रुदन्तीनां महास्वनः।

यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २९ ॥

पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाऽभवत्।

परिपूर्णः शशी काले ग्रहणोपप्लुतो यथा ॥ ३० ॥

सन्नःखिन्नः ॥ ३० ॥

१रुदतीनांङ।

॥ २।४०।२७३० ॥ ॥ २।४०।३१३२ ॥

स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।

सूतं सञ्चोदयामास त्वरितं वाह्यतामिति ॥ ३१ ॥

रामो याहीति सूतं तं तिष्ठेति स जनस्तदा।

उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ ३२ ॥

सूतं तमिति। आहेति शेषः। उभयं नाशकदिति। तथा च नातिमन्दं नातिवेगं वाहयति स्मेति यावत् ॥ ३२ ॥

॥ २।४०।३१३२ ॥ ॥ २।४०।३३ ॥

निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।

पतितै १ रभ्यवहितं प्रशशाम महीरजः ॥ ३३ ॥

अभ्यवहितंअवसिक्तमिति यावत् ॥ ३३ ॥

१रभ्युपहतंङ।

अभ्यवहितंरथनेम्युद्धतम्ति।

॥ २।४०।३३ ॥ ॥ २।४०।३४ ॥

रुदिताश्रुपरि १द्यूनं हाहाकृतमचेतनम्।

प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ॥ ३४ ॥

रुदिताश्रुपरिद्यूनंविजिगीषाशून्यं, दिवोऽविजिगीषायांऽ इति निष्ठातस्य नत्वम् ॥ ३४ ॥

रुदिताश्रुपरिद्यूनंअनुत्साहवत्ति।

१क्लिन्नंङ।

दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु इति धातुः। एतदर्थकधातोः क्तप्रत्यये द्यूतमिति रूपम्। परन्तु तत् विजिगीषारूपार्थे मात्रम्। इतरथा तु द्यूनं इति भवति। उपसर्गाणामनेकार्थत्वात्परिम्लानमिति वा प्रकृते अर्थः।

॥ २।४०।३४ ॥ ॥ २।४०।३५ ॥

सुस्राव नयनैस्स्रीणां अस्रमायाससम्भवम्।

मीनसङ्क्षोभचलितैः सलिलं पङ्कजैरिव ॥ ३५ ॥

नयनैरिति। प्रमुक्तमिति शेषः। अस्रंअश्रु। आयासःखेदः। मीनानां परस्परसंक्षोभेन चलितैःचलितेभ्यः पङ्कजेभ्यः सलिलमिवेत्यभूतोपमा। कादाचित्कवर्षवशसम्भृतोदकपद्मसम्भवात् सिद्धोपमा वा ॥ ३५ ॥

नयनैःनयनेभ्यःगो।

॥ २।४०।३५ ॥ ॥ २।४०।३६ ॥

दृष्ट्वा तु नृपतिः श्रीमान् एकचित्तगतं पुरम्।

निपपातैव दुःखेन हतमूल इव द्रुमः ॥ ३६ ॥

एकचित्ततां गतं तथा। स्वेनेति शेषः ॥ ३६ ॥

रामैकचित्ततां गतमिति वा।

॥ २।४०।३६ ॥ ॥ २।४०।३७३८ ॥

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।

नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३७ ॥

हा रामेति जनाः केचित् राममातेति चापरे।

अन्तः १ पुरसमृद्धं च क्रोशन्तः पर्यदेवयन् ॥ ३८ ॥

क्रोशन्त इति। उच्चैश्शब्देन सहेत्यर्थः ॥ ३८ ॥

सन्धिरार्षःहा राममातःइत्यर्थःगो।

समृद्धमन्तःपुरंअन्तःपुरजनःपर्यदेवयदिति विपरिणामःगो। अन्तःपुरसमृद्धंअन्तःपुरसहितम्ति।

१पुरंङ।

॥ २।४०।३७३८ ॥ ॥ २।४०।३९४० ॥

अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।

राजानं मातरं चैव ददर्शानुगतौ पथि ॥ ३९ ॥

स बद्ध इव पाशेन किशोरो मातरं यथा।

धर्मपाशेन १संयुक्तः प्रकाशं नाभ्युदैक्षत ॥ ४० ॥

किशोरःअश्वपोतः। प्रकाशं नाभ्युदैक्षतेति। सङ्कुचितदर्शनव्यापारोऽभूदित्यर्थः। तत्र हेतुःधर्मेत्यादि ॥ ४० ॥

राजानं मातरं उभावपि पथि अनुगतौ ददर्श इत्यन्वयः।

१संक्षिप्तःङ।

॥ २।४०।३९४० ॥ ॥ २।४०।४१४२ ॥

पदातिनौ च यानार्हौ अदुःखार्हौ सुखोचितौ।

दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम् ॥ ४१ ॥

न हि तत् पुरुषव्याघ्रः २दुःखजं दर्शनं पितुः।

मातुश्च सहितुं शक्तः तोत्रार्दित इव द्विपः ॥ ४२ ॥

सहितुमिति। तीषसहऽ इति पक्षे इट्। तोत्रंप्रतोदः ॥ ४२ ॥

यानार्हौ अदुःखार्हौ सुखोचितौ मातापितरौ पदातिनौ दृष्ट्वाइत्यन्वयः। अत्र हेतुरुत्तरश्लोके उच्यते।

दुःखदंङ।

॥ २।४०।४१४२ ॥ ॥ २।४०।४३ ॥

प्रत्यगारमिवायान्ती वत्सला वत्सकारणात्।

बद्धवत्सा यथा धेनू राममाताऽभ्यधावत ॥ ४३ ॥

प्रत्यगारं। वत्सावस्थितिमद्गृहमुद्दिश्येत्यर्थः ॥ ४३ ॥

अगारं प्रत्यायान्तीगो। वत्सलेत्यत्रोपपादकमिदम्।

॥ २।४०।४३ ॥ ॥ २।४०।४४४५ ॥

तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।

क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च ॥ ४४ ॥

रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।

असकृत् प्रैक्षत तदा नृत्यन्तीमिव मातरम् ॥ ४५ ॥

रामलक्ष्मणसीतार्थमिति। तद्वियोगशोकवशादित्यर्थः। स्रवन्तीमिति। मुञ्चन्तीमिति यावत्। नृत्यन्तीमिवेति। तद्वदितस्ततः परिभ्रमन्तीमिति यावत् ॥ ४५ ॥

॥ २।४०।४४४५ ॥ ॥ २।४०।४६ ॥

तिष्ठेति राजा चुक्रोश याहि याहीति राघवः।

सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥ ४६ ॥

परस्परविरुद्धव्यापारमध्यगत्वे दृष्टान्तःचक्रयोरित्यादि। युयुत्सुसेनयोरित्यर्थः। अन्तरामध्यप्रदेशः ॥ ४६ ॥

रथपूर्वपश्चाद्भागस्थितयोः चक्रयोर्मध्ये पतितः पुरुषः यथा उपरि गन्तुं पश्चान्निवर्तितुं च न शक्नुयात् तथा सुमन्त्रमनः स्तब्धा बभूवेत्यर्थः।

॥ २।४०।४६ ॥ ॥ २।४०।४७ ॥

नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि।

चिरं दुःखस्य पापिष्ठं इति रामस्तमब्रवीत् ॥ ४७ ॥

उपालब्धोऽपीति। पुनर्गमनानन्तरं राज्ञा कृतोपालम्भोऽपीत्यर्थः। दुःखस्य हेतुभूतं पापं चिरंविलम्बो मा भूत्। अत उपालब्धोऽपि नाश्रौषमित्येव वक्ष्यसि। ततः शीघ्रं गच्छेति तमब्रवीत् ॥ ४७ ॥

एवं स्तब्धं सुमन्त्रं प्रति रामो वदतिनाश्रौषमित्यादि। इदानीं तिष्ठेति राज्ञाऽभिहितेऽपि त्वं उपरि गच्छयदि च राज्ञा अनन्तरं प्रतिनिवृत्तः भवान् किं मदाज्ञा न परिपालिताऽ इत्युपालब्धोऽपि तदहं नाश्रौषंऽ इति राजानं प्रति समाधानं वक्ष्यसिएवं समाधानं वदेति यावत्। किमर्थमेवमित्यत्राहचिरमित्यादि। दुःखस्य चिरंविलम्बः पापिष्ठंअसह्यं यतः। मातापितृदुःखदर्शनमितः परं सोढुमहं न शक्नोमि, अतः शीघ्रं गच्छइति रामः सुमन्त्रमब्रवीदित्यर्थः।

॥ २।४०।४७ ॥ ॥ २।४०।४८ ॥

स रामस्य वचः १कुर्वन् अनुज्ञाप्य च तं जनम्।

व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः ॥ ४८ ॥

तं जनमनुज्ञाप्येति। अनुव्रजत्पौरजनं रामेण कृतानुज्ञं कृत्वा स्वतो व्रजतोऽपि हयान् पुनश्च शीघ्रंशीघ्रगमनार्थं चोदयामास ॥

१श्रुत्वाङ।

तं जनंअवरोधजनमिति वाऽर्थः। उत्तरत्र आगङ्गं पौरजनानामनुगमनस्य वचनात्। न्यवर्तत जनो राज्ञःऽ इत्युत्तरश्लोकपाठान्तरं अत्रानुकूलम्।

॥ २।४०।४८ ॥ ॥ २।४०।४९ ॥

न्यवर्तत जनो १राज्ञा रामं कृत्वा प्रदक्षिणम्।

मनसाऽप्यश्रुवेगैश्च न न्यवर्तत मानुषम् ॥ ४९ ॥

राज्ञा। सहेति शेषः। रामं प्रदक्षिणं कृत्वेति। मनसेति शेषः। न्यवर्ततेति। देहमात्रेणेति शेषः। अपि तु मनसा अश्रुवेगैश्च न्यवर्तत। मानुषंमानुषसमूहः, जनसमूह इत्यर्थः, तस्य समूहःऽ इति मानुषशब्दात् अण् ॥ ४९ ॥

राज्ञोङ।

॥ २।४०।४९ ॥ ॥ २।४०।५० ॥

यमिच्छेत् पुन १ रायान्तं नैनं दूरमनुव्रजेत्।

इत्यमात्या महाराजं ऊचुर्दशरथं वचः ॥ ५० ॥

अथ उत्कटदिदृक्षस्य च राज्ञः प्रकृतीनां हितवचनान्निवृत्तिरित्युच्यतेयमित्यादि ॥ ५० ॥

१रायातंङ।

॥ २।४०।५० ॥ ॥ २।४०।५१ ॥

तेषां वचः सर्व १गुणोपपन्नं

प्रस्विन्नगात्रः प्रविषण्णरूपः।

निशम्य राजा कृपणः सभार्यः

व्यवस्थितस्तं सुतमीक्षमाणः ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चत्वारिंशस्सर्गः

व्यवस्थितःस्थितवानित्यर्थः। आशा (५०) मानः सर्गः ॥ ५१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चत्वारिंशस्सर्गः

१गुणोपपन्नःङ।

व्याख्यादृष्ट्या अस्मिन् सर्गे एकः श्लोकः अधिकः। स क इति न ज्ञायते ॥

॥ २।४०।५१ ॥