एकोनचत्वारिंशस्सर्गः
[वनगमनाऽऽपृच्छा] ॥ २।३९।१ ॥
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्।
समीक्ष्य सह भार्याभिः राजा विगतचेतनः ॥ १ ॥
अथानुमतसभ्रातृभार्यवनगमनस्य रामस्य यावत्स्वजनपदं रथेन राज्ञा प्रस्थापनम्ृरामस्येत्यादि ॥ १ ॥
विगतचेतनः अभूदिति शेषःगो।
॥ २।३९।१ ॥ ॥ २।३९।२ ॥
नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम्।
न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ २ ॥
न प्रत्यवैक्षतेति। प्रत्यवेक्षितुं नाशक्नोत्तद्धोरमित्यर्थः ॥ २ ॥
॥ २।३९।२ ॥ ॥ २।३९।३४ ॥
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः।
विललाप महाबाहू राममेवानुचिन्तयन् ॥ ३ ॥
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः।
प्राणिनो हिंसिता वाऽपि तस्मादिदमुपस्थितम् ॥ ४ ॥
विवत्सा इति। धेनव इति शेषः ॥ ४ ॥
तन्मामिदंच।
॥ २।३९।३४ ॥ ॥ २।३९।५ ॥
न त्वेवानागते काले देहात्त्यजति जीवितम्।
कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ ५ ॥
कैकेय्या क्लिश्यमानस्यापि मम यतो मृत्युर्न विद्यतेतत्प्राप्तिर्न १विद्यते अतः काले अनागते देहाज्जीवितं तैव च्यवति ॥ ५ ॥
१दृश्यतेट
॥ २।३९।५ ॥ ॥ २।३९।६ ॥
योऽहं पावकसङ्काशं पश्यामि पुरतःस्थितम्।
विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ ६ ॥
आच्छाद्यते अनेनेति आच्छादः, तापसानामाच्छादो यस्य स तथा। एवंभूतमात्मजं योऽहं पश्यामि तस्य मे मृत्युर्न विद्यत इति पूर्वेणान्वयः ॥ ६ ॥
॥ २।३९।६ ॥ ॥ २।३९।७ ॥
एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः।
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ ७ ॥
क्लिश्यते जन इति। कैकेयीव्यतिरिक्तस्सर्वोऽपि जन इत्यर्थः। इमां निकृतिमिति। वरलक्षणशाठ्यमित्यर्थः। कुसृतिर्निकृतिश्शाठ्यम्ऽ ॥ ७ ॥
॥ २।३९।७ ॥ ॥ २।३९।८१० ॥
एवमुक्त्वा तु वचनं बाष्पेण १पिहितेन्द्रियः।
रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः ॥ ८ ॥
संज्ञां तु प्रतिलभ्यैव मूहूर्तात्स महीपतिः।
नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः।
प्रापयैनं महाभागं इतो जनपदात् २परम् ॥ १० ॥
औपवाह्यंउपवहनमात्रोपयुक्तंयुद्धानर्हमित्यर्थः। युक्त्वायोजयित्वा। परमिति। दक्षिणमिति शेषः ॥ १० ॥
१विहितेङ।
नेत्राभ्यामुपलक्षित इत्यर्थः।
३बहिःङ।
॥ २।३९।८१० ॥ ॥ २।३९।११ ॥
१एवं मन्ये गुणवतां गुणानां फलमुच्यते।
पित्रा मात्रा च यत्साधुः वीरो निर्वास्यते वनम् ॥ ११ ॥
एवमित्यादि। साधुर्वीरो रामः पित्रा मात्रा च वनं निर्वास्यत इति यत् एवमेवगुणवतां गुणानां फलमेवमेवोच्यते शास्त्रेणेति मन्ये इति दुःखातिशयादुक्तिः ॥ ११ ॥
१पापंङ।
॥ २।३९।११ ॥ ॥ २।३९।१२ ॥
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः।
योजयित्वाऽऽययौ तत्र रथमश्वैरलङ्कृतम् ॥ १२ ॥
योजयित्वा आययौ इति पदम् ॥ १२ ॥
॥ २।३९।१२ ॥ ॥ २।३९।१३ ॥
तं रथं राजपुत्राय सूतः कनकभूषितम्।
आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥
रथमाचचक्ष इति। रथ उपस्थित इत्युक्तवानित्यर्थः ॥ १३ ॥
॥ २।३९।१३ ॥ ॥ २।३९।१४ ॥
राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये।
उवाच देश १कालज्ञो निश्चितं सर्वतः २शुचिः ॥ १४ ॥
अस्मिन् समये राजा वित्तसञ्चये व्यापृतंधनाध्यक्षं सत्वरमाहूय निश्चितं वच उवाच। सर्वतः शुचिरिति। इहामुत्रानृण इत्यर्थः ॥ १४ ॥
१कालज्ञंङ।
२शुचिङ।
॥ २।३९।१४ ॥ ॥ २।३९।१५ ॥
वासांसि च १महर्हाणि भूषणानि महान्ति च।
वर्षाण्येतानि संख्याय वैदेह्या क्षिप्रमानय ॥ १५ ॥
एतानि वर्षाणीति। चतुर्दशवर्षाणीति यावत् ॥ १५ ॥
१वरार्हाणिङ।
चतुर्दशवर्षपर्याप्तान्यानयेत्यर्थःगो। एतावानेव वनवासः, नाधिक इति दार्ढ्यायति।
॥ २।३९।१५ ॥ ॥ २।३९।१६ ॥
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः।
प्रायच्छत्सर्वमाहृत्य सीतायै १क्षिप्रमेव तत् ॥ १६ ॥
प्रायच्छदिति। कोशाध्यक्ष इति शेषः ॥ १६ ॥
१सममेवङ।
॥ २।३९।१६ ॥ ॥ २।३९।१७ ॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्।
भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ ॥
सुजातानि गात्राणीति योजना ॥ १७ ॥
॥ २।३९।१७ ॥ ॥ २।३९।१८ ॥
व्यराजयत वैदेही वेश्म तत्सुविभूषिता।
उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ॥ १८ ॥
उद्यत इति षष्ठी। कालेप्रातःकाले। प्रभेव स्थितां तामिति योजना ॥ १८ ॥
उत्तरश्लोके इति भावः। प्रातःकाले उद्यतः किरणवतो विवस्वतःसूर्यस्य प्रभा खंआकाशमिव सुविभूषिता वैदेही तत् वेश्म व्यराजयतप्रकाशयामासइति वाऽर्थः ॥
॥ २।३९।१८ ॥ ॥ २।३९।१९ ॥
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्।
१अत्याचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥ १९ ॥
अत्याचरन्तींशुश्रूषमाणां। भर्तारमिति शेषः ॥ १९ ॥
कृपणंक्षुद्रं अनाचरन्तींअकुर्वतींगो। ति।
१अनाचरन्तींसर्वत्र ॥
॥ २।३९।१९ ॥ ॥ २।३९।२० ॥
असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः।
भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ २० ॥
असत्यःकुलटाः प्रियैस्सततं सत्कृता अपि विनिपातगतंकृच्छ्रगतं तं भर्तारं शुश्रूषितुं नानुमन्यन्ते ॥ २० ॥
॥ २।३९।२० ॥ ॥ २।३९।२१ ॥
एष स्वभावो नारीणां अनुभूय पुरा सुखम्।
अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ २१ ॥
एष त्वसतीनां नारीणां स्वभावः। ता इमाः पुरापूर्वं सुखमनुभूय पश्चादस्य भर्तुरल्पामप्यापदंदारिद्र्यरोगादिलक्षणां प्राप्यदृष्ट्वा तं दुष्यन्तिदूषयन्ति इति यावत्। न केवलमेतावत्, प्रजहत्यपि, अदभ्यस्तात्ऽ इति झस्य अदादेशः ॥ २१ ॥
॥ २।३९।२१ ॥ ॥ २।३९।२२ ॥
असत्यशीला विकृता १दुर्गा अहृदयास्सदा।
२असत्यः पापसङ्कल्पाः क्षण ३ मात्रविरागिणः ॥ २२ ॥
असत्यशीलाःअसत्यवचनशीलाः। विकृताःविकारोपेतेक्षणादिव्यापाराः। दुर्गाःदुष्टाभिसरणगमनवत्यः। स्वभर्तरि सदा अहृदयाःविरसाः। असत्यःकुलटाः। पापेपरपुरुषनानाविधप्रसङ्गलक्षणे सङ्कल्पःमानसव्यापारः यासां तास्तथा, सङ्कल्पः कर्म मानसम्ऽ। क्षणमात्रविरागिणःक्षणमात्रविरागिण्यःअल्पनिमित्ततः क्षणमात्रवैरस्याःअविश्वसनीयस्नेहा इति यावत् ॥ २२ ॥
विकृताःअसंस्कृताः विकृतो रोग्यसंस्कृतःऽ, सततविकारशीला इति वा। दुर्गाःदुर्ज्ञेयस्वभावाः। अहृदयाःदयादिरहिताः। असत्यःकुलटाः पापसङ्कल्पाःदुरभिसन्धयः ॥
१दुर्ग्राह्यहृदयाःङ।
२युवत्यःङ।
३मात्रात्ङ।
॥ २।३९।२२ ॥ ॥ २।३९।२३ ॥
न कुलं न कृतं १विद्या न दत्तं नापि २सङ्ग्रहः।
स्त्रीणां गृह्णाति हृदयं अनित्यहृदया हि ताः ॥ २३ ॥
कुलंप्रशस्तकुलजन्म। कृतंउपकारः। विद्यासद्गुरूपदिष्टधर्मविद्या। दत्तंवस्त्रादिदानम्। सङ्ग्रहःसङ्ग्रहणम्, न्यायतः स्वीकारः। सर्वमप्येतत् स्त्रीणामसतीनां हृदयं न गृह्णातितत्पापप्रवृत्तिं न प्रतिबध्नाति। कामातुराणां न भयं न लज्जाऽ इति कृत्वा कुलाद्युचितकृत्यं पृष्ठे कृत्वा कुलाद्यनुचितलोकगर्हितकृत्ये मोहात् प्रवर्तन्त इत्यर्थः। कुत एवमित्यतःअनित्यहृदया हि ता इति। अव्यवस्थितचित्ता इत्यर्थः ॥ २३ ॥
१विद्यांङ।
सङ्ग्रहःअग्निसाक्षिकपाणिग्रहणम्गो। दृष्टेऽपि दोषे स्वीकारःति। विद्यासङ्ग्रहादिशब्दानां द्वितीयान्तत्वेहृदयमिति प्रथमान्तं पदं कर्तृवाचकम्।
२सङ्ग्रहम्ङ।
अथवा ग्रहणं सङ्क्रमः, विकारात्प्रतिरोधो वा।
॥ २।३९।२३ ॥ ॥ २।३९।२४ ॥
साध्वीनां १ हि स्थितानां तु शीले सत्ये श्रुते २ स्थिते।
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ २४ ॥
एवं कैकेय्यादिवन्न वर्तितव्यमित्युपदिश्य कौसल्यादिवद्वर्तितव्यमित्युपदिशतिसाध्वीनामित्यादि। पतिव्रतानामिति यावत्। अत एव शीलेस्वकुलोचितचरित्रे, श्रुतेगुरुजनोपदेशे, स्थितेभावे निष्ठा, स्वकुलोचितमर्यादावस्थाने स्थितानां स्त्रीणां परमपवित्राणांपरमपुण्यसाधनानां मध्ये परमंपरमसुकृतसाधनं पतिरेक एव। अतोऽसौ स्त्रियाः सर्वसाधनेभ्यो विशिष्यते ॥ २४ ॥
१तुङ।
२शमेङ।
॥ २।३९।२४ ॥ ॥ २।३९।२५ ॥
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम।
तव दैवतमस्त्वेषः निर्धनः सधनोऽपि वा ॥ २५ ॥
यदेवं अतःस इत्यादि ॥ २५ ॥
॥ २।३९।२५ ॥ ॥ २।३९।२६ ॥
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्।
कृताञ्जलिरुवाचेदं श्वश्रूमभि १मुखस्थिता ॥ २६ ॥
अभिमुखतया स्थिताअभिमुखस्थिता ॥ २६ ॥
१मुखे स्थिताम्ङ।
॥ २।३९।२६ ॥ ॥ २।३९।२७ ॥
करिष्ये सर्वमेवाहं आर्या यदनुशास्ति माम्।
अभिज्ञाऽस्मि यथा भर्तुः वर्तितव्यं श्रुतं च मे ॥ २७ ॥
यथा भर्तुरिति। विषय इति शेषः। श्रुतं च म इति। मन्मातापितृभ्यां चेति शेषः ॥ २७ ॥
॥ २।३९।२७ ॥ ॥ २।३९।२८ ॥
न मामसज्जनेनार्या समानयितुमर्हति।
धर्माद्विचलितुं नाहं अलं चन्द्रादिव प्रभा ॥ २८ ॥
असज्जनेन समानयितुंसमं विचारयितुम्। नाहमलमिति। असमर्थेति यावत् ॥ २८ ॥
समानयितुंसमानां कर्तुंगो। ति।
॥ २।३९।२८ ॥ ॥ २।३९।२९ ॥
नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः।
नापतिस्सुखमेधेत या स्यादपि शतात्मजा ॥ २९ ॥
अतन्त्रीतन्त्रीरहिता वीणा, सिरा तन्त्रीऽ। शतात्मजेति बहुव्रीहिः ॥ २९ ॥
॥ २।३९।२९ ॥ ॥ २।३९।३० ॥
मितं ददाति हि पिता मितं माता मितं सुतः
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ ३० ॥
अमितस्येति। ऐहिकामुष्मिकसकलसुखप्रद इत्यर्थः ॥ ३० ॥
॥ २।३९।३० ॥ ॥ २।३९।३१ ॥
साऽहमेवंगता श्रेष्ठाश्रुतधर्म १ परा वरा।
आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥ ३१ ॥
एवं गतेति। सर्वतस्सर्वदा सर्वलोकपरमसुखहेतुर्भर्ता परमपूज्य इति सम्यगवगतवतीत्यर्थः। श्रेष्ठाभ्यःपूज्याभ्यः श्वश्रूमातृप्रमुखाभ्यः श्रुतः धर्मःस्त्रीधर्मः परोऽपि यया सा तथा। किमवमन्य इति। स्वधर्मापरिज्ञाने किलावमतिप्रसङ्गः। ज्ञातस्वधर्मा कस्मादवमन्ये न कस्मादपीत्यर्थः ॥ ३१ ॥
श्रेष्ठाभ्यः मात्रादिपतिव्रताभ्यः सम्यक् श्रुतसामान्यविशेषरूपधर्मोत्कर्षागो। श्रेष्ठा इति पृथक्पदं वाति। गोविन्दराजीये सर्वं एकं पदम्।
१परायणाङ।
॥ २।३९।३१ ॥ ॥ २।३९।३२३३ ॥
सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्।
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ ३२ ॥
तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्ये १ ऽतिसत्कृताम्।
रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ३३ ॥
सत्कृतामिति। कैकेयीव्यतिरिक्तसर्वमातृभिरिति शेषः ॥ ३३ ॥
रामविप्रवासाद्दुःखं, सीतामनोदार्ढ्यपरिज्ञानात् हर्षः। अथवा रामविप्रवासप्रयुक्तदुःखमध्येऽपि हर्षः विवक्षितः।
१व्याख्यादृष्ट्या तु सत्कृताम्ऽ इति पाठः स्याद्वा।
॥ २।३९।३२३३ ॥ ॥ २।३९।३४ ॥
अम्ब मा दुःखिता १ भूस्त्वं पश्य त्वं पितरं मम।
क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ ३४ ॥
वनवासस्येति। वनवासकालस्येत्यर्थः ॥ ३४ ॥
१भूत्वा पश्येस्त्वंच।
॥ २।३९।३४ ॥ ॥ २।३९।३५ ॥
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च।
१सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ ३५ ॥
सुप्ताया इति। सुप्ताया इव नव वर्षाणि पञ्च च चतुर्दशघटिकावद्गमिष्यन्ति। चक्षुषी निमील्य स्वस्वकालदुःखमविगणय्य तिष्ठेत्यर्थः। सा त्वं समग्रंसमग्रश्रेयस्कं भ्रातृभार्यासमग्रं, पुनरिव सुहृद्वृतम् ॥ ३५ ॥
१सा समक्षङ।
समग्रं निर्वर्तितपितृवचनं सम्पूर्णमनोरथं वागो। समग्रंसीतासहितम्सत्य। सुहृद्वृतमित्युक्त्या एवं वाऽर्थःइह प्राप्तंवनवासात्प्रत्यागतं समग्रंइदानीमुपक्रन्ताभिषेकं प्राप्तवन्तं अत एव सुहृद्वृतमिति।
॥ २।३९।३५ ॥ ॥ २।३९।३६ ॥
एतावदभिनीतार्थं उक्त्वा स जननीं वचः।
त्रयश्शतशतार्धाश्च ददर्शा वेक्ष्य मातरः ॥ ३६ ॥
अभिनीतार्थंनिर्णीतार्थं। अवेक्ष्य ददर्शेति। प्रत्येकं विविच्यावेक्ष्य ददर्श स्नेहवशात्। मातरमिति विपरिणामः। तथा मातरश्चापि तं ददृशुरिति विपरिणामः ॥ ३६ ॥
अभिनीतार्थं क्रोडीकृतसर्वार्थंगो।
मातरःमातृ़ः अवेक्ष्यवक्तव्यमालोच्यगो।
अथवा श्लोकद्वयमेकान्वयम्। जननीमेतावदुक्त्वा त्रयश्शतशतार्धाश्चापि व्यावृत्त्य ददर्श। ताश्चापि मातरः रामं ददृशुः। तथा राममवेक्ष्यप्रस्थितप्रयाणं ज्ञात्वा दुःखार्ता मातृ़ः स दशरथात्मजो वाक्यं जगादेत्यर्थः।ऀ
॥ २।३९।३६ ॥ ॥ २।३९।३७ ॥
ताश्चापि स तथैवार्ता मातृ़र्दशरथात्मजः।
धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ ३७ ॥
अथ स दशरथात्मज इदं वाक्यं निजगाद। मातृ़ः प्रतीति शेषः ॥ ३७ ॥
॥ २।३९।३७ ॥ ॥ २।३९।३८ ॥
संवासात्परुषं किञ्चित् अज्ञानाद्वापि यत्कृतम्।
तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ ३८ ॥
संवासःसहवासः ॥ ३८ ॥
संवासात्चिरपरिचयवशादिति यावत्। समनुजानीतक्षान्तमित्यनुजानीतेत्यर्थः।
॥ २।३९।३८ ॥ ॥ २।३९।३९४१ ॥
वचनं राघवस्यैतत् १धर्मयुक्तं समाहितम्।
शुश्रुवुस्ताः स्त्रियस्सर्वाः शोकोपहतचेतसः ॥ ३९ ॥
जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः।
मानवेन्द्रस्य भार्याणां एवं वदति राघवे ॥ ४० ॥
मुरजपणवमेघघोषवत्
दशरथवेश्म बभूव यत्पुरा।
विलपितपरिदेवनाकुलं
व्यसनगतं तदभूत्सुदुःखितम् ॥ ४१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः
१तत्त्वयुक्तंङ।
समाहितंसमीचीनार्थयुक्तंगो। धीरंति।
यद्वा मुरजादिसहपाठात् मेघोऽपि वाद्यविशेषःगो।
विलपितंविविधं लपितं वाक्यं यत्र भाषितं लपितं वचःऽ इत्यमरः। रामगुणकैकेयीदुर्गुणादिपरं वाक्यमित्यर्थः। परिदेवनं विलापः।
॥ २।३९।३९४१ ॥