अष्टात्रिंशस्सर्गः
[दशरथाक्रोशः] ॥ २।३८।१ ॥
तस्यां चीरं वसानायां नाथवत्यां अनाथवत्।
प्रचुक्रोश जनस्सर्वो धिक् त्वां दशरथं त्विति ॥ १ ॥
एवं भर्त्रनुरोधेन चीरग्रहं सीताया गुरुवचोबलात् राजा वारयतितस्यामित्यादि। दशरथं धिगिति जनश्चुक्रोशेति। तद्वरानन्तर्गतानिष्टांशमपि अनिवारयन् तूष्णीं तिष्ठतीति जनाक्रोशः ॥ १ ॥
चीरपरिधानं विधवानामेव युक्तमित्यभिप्रेत्यअनाथवदित्युक्तम्।
त्वां धिगिति दशरथं प्रचुक्रोशइत्यन्वयः। एतस्सर्वस्यापि दशरथः खलु निदानमुत्याक्रोशः।
॥ २।३८।१ ॥ ॥ २।३८।२३ ॥
१तेन तत्र प्रणादेन दुःखितस्स महीपतिः।
२स निःश्वस्योष्णमैक्ष्वाकः तां भार्यामिदमब्रवीत् ॥ २ ॥
सुकुमारी च बाला च सततं च सुखोचिता।
नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ ३ ॥
एवं श्रुतजनाक्रोशो वारयितुमुपक्रमतेसुकुमारीत्यादि ॥ ३ ॥
१एतदनन्तरं चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनःऽ इत्यधिकंङ।
२एतदनन्तरं कैकेयि कुशचीरेण न सीता गन्तुमर्हतिऽ इत्यधिकंङ।
॥ २।३८।२३ ॥ ॥ २।३८।४ ॥
इयं हि १कस्यापकरोति किञ्चित्
तपस्विनी राजवरस्य पुत्री।
या चीरमासाद्य २जनस्य मध्ये
जाता विसंज्ञा श्रमणीव काचित् ॥ ४ ॥
विसंज्ञाअपरिचिताशक्यार्थानुष्ठानप्रसङ्गतः घूर्णितचित्ता। श्रमणीभिक्षुकीतापसी ॥ ४ ॥
१कस्यापि करोतिच।
२वनस्यच।
विसंज्ञानामजात्यादिपरिहीना, अनाथेति यावदिति वा।
॥ २।३८।४ ॥ ॥ २।३८।५ ॥
चीराण्यपाश्यात् जनकस्य कन्या
नेयं प्रतिज्ञा मम दत्तपूर्वा।
यथासुखं गच्छतु राजपुत्री
वनं समग्रा सह सर्वरत्नैः ॥ ५ ॥
चीराण्यपास्यात्त्यजतु। तत्र हेतुमाहनेयमित्यादि। सीतापि चीरवासिनी वनं यात्विति त्वया प्रतिज्ञाते सा प्रतिज्ञा मममया न दत्तपूर्वा, नानुमतपूर्वा यतःतस्मादेव यथासुखं गच्छतु ॥ ५ ॥
मम प्रतिज्ञेति वाऽन्वयः।
॥ २।३८।५ ॥ ॥ २।३८।६ ॥
अजीवनार्हेण मया नृशंसा
कृता प्रतिज्ञा १क्रियते न तावत्।
त्वया हि बाल्यात् प्रतिपन्नमेतत्
२तन्मा दहेद्वेणुमिवात्मपुष्पम् ॥ ६ ॥
अजीवनार्हेणेति। गले पादुकान्यायेन प्राप्तप्रियपुत्रवनवासानुमतिकेनजीवनक्षमदशारहितेन मया या नृशंसाअतिक्रूरा राम ३ विवासविषयिणी प्रितिज्ञा कृता, सा त्वत् क्रियते न? नञ् स्वरे, तावच्छब्दो वाक्यालङ्कारे, क्रियत एव किलेत्यर्थः। अतो यदेतदभ्यधिकं सीता वीरग्रहणमपि प्रतिपद्यसे तदेव त्वया बाल्यात्अज्ञानादेव प्रतिपन्नम्। नात्र ते सामर्थ्यम्। तत्तस्मात् वेणुमात्मपुष्पमिव त्वत्कृतातिप्रवृत्तिस्त्वां मा दहेत्मा नाशयतु। असाध्यव्यापाराद्विरमेत्यर्थः ॥ ६ ॥
१नियमेनसर्वत्रैवंपाठः।
बाल्यात् बालिशत्वात् एतत् प्रतिज्ञान त्वया प्रतिपन्नं, तत् मत्कृतप्रतिज्ञानं आत्मपुष्पं वेणुमिव मां दहेत्गो। वेणूनां पुष्पोद्गमने सति नाश इति प्रसिद्धम्।
२तन्मांङ।
३वनवासट।
॥ २।३८।६ ॥ ॥ २।३८।७ ॥
रामेण यदि ते, पापे किञ्चित्कृतमशोभनम्।
अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥ ७ ॥
क इहेति। चीरग्रहणपूर्वकवनवासप्रयोजनक इति शेषः। दर्शितःसम्पादितः ॥ ७ ॥
कोपे रामापराधमभ्युपेत्याहरामेणेतिगो।
॥ २।३८।७ ॥ ॥ २।३८।८९ ॥
मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी।
अपकारं कमिव ते करोति जनकात्मजा ॥ ८ ॥
ननु पर्याप्त १ मेतत्ते, पापे रामविवासनम्।
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ ९ ॥
भूयः पातकैरिति। अभ्यधिकं पुनरप्यनुष्ठीयमानैरित्यर्थः ॥ ९ ॥
१मेवं तेच।
॥ २।३८।८९ ॥ ॥ २।३८।१० ॥
१प्रतिज्ञाता मया तावत् त्वयोक्तं, देवि शृण्वता।
रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ १० ॥
प्रतिज्ञातेत्यादि। अभिषेकाय मया कृतनिश्चयं पश्चात् तत्प्रतिबन्धे सति इहागतं रामं प्रति यदब्रवीः जटादिधरो वनं गच्छऽ इतितावदेव त्वयोक्तं शृण्वता मया तावदेव प्रतिज्ञातातथाऽस्त्वित्यनुमतेत्यर्थः ॥ १० ॥
१प्रतिज्ञातंङ।च।
पञ्चदशसर्गेसुमन्त्रं प्रति कैकेयी रामानयनाय सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकःऽ इत्याद्यभिहितवतीतदभिप्रायेणात्र अभिषेकायागतमित्युक्तम्।
॥ २।३८।१० ॥ ॥ २।३८।११ ॥
१न त्वेतत् समतिक्रम्य निरयं गन्तु २मर्हसि।
३मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ ११ ॥
एतत्समतिक्रम्यमत्प्रदत्तरामवनवासमप्यतिक्रम्यअधिकप्रवृत्त्या त्वं निरयं गन्तुं नार्हसि। कोऽसौ मदतिक्रम इत्यतःमैथिलीमित्यादि। या त्वं हियस्मान्मैथिलीमपि चीरवासिनीमीक्षसेचीरदानपूर्वकमपेक्षसे, अतोऽयमतिक्रमः। अतस्तन्मा कुरु। नात्र मयाऽनुमन्तव्यनिर्बन्ध इति शेषः ॥ ११ ॥
१तत्त्वेतत्इत्येव सर्वत्र।
२मिच्छसिङ।च।
३एतदनन्तरं इदीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किञ्चित्। भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः ॥ ऽ इत्यधिकंङ।
॥ २।३८।११ ॥ ॥ २।३८।१२ ॥
एवं ब्रुवन्तं पितरं रामस्सम्प्रस्थितो वनम्।
अवाक्छिरसमासीनं इदं वचनमब्रवीत् ॥ १२ ॥
एवं ब्रुवन्तमिति। सीता यथासुखं गच्छत्विति ब्रुवन्तम्। सम्प्रस्थित इति। एवंवादात् सीतया सह वनाय कृतानुमतिकः तया सह सम्प्रस्थितःसमुद्युक्तप्रस्थान इत्यर्थः ॥ १२ ॥
॥ २।३८।१२ ॥ ॥ २।३८।१३ ॥
इयं, धार्मिक कौसल्या मम माता यशस्विनी।
वृद्धा चाक्षुद्रशीला च न च त्वां, देव गर्हते ॥ १३ ॥
न च गर्हत इति। पिता ते सत्यव्रतो भवत्वित्येव तदनुशासनादिति शेषः ॥ १३ ॥
निजैकपुत्रप्रव्राजनेऽपीत्यभिप्रायः।
॥ २।३८।१३ ॥ ॥ २।३८।१४ ॥
मया विहीनां, वरद प्रपन्नां शोकसागरम्।
अदृष्टपूर्वव्यसनां भूयस्सम्मन्तुमर्हसि ॥ १४ ॥
भूयस्सम्मन्तुमिति। प्रधानपत्नीत्वेन सर्वतस्त्वया पुरस्क्रियमाणाऽपि अतोऽप्यधिकं सम्मानं कर्तुमर्हसि मत्प्रार्थनया ॥ १४ ॥
एतदनन्तरंपुत्रशोकं यथा नर्छेत् त्वया पूज्येन पूजिता। मां हि सञ्चिन्तयन्तीयमपि जीवेत्तपस्विनी ॥ इत्यधिकंङ।
॥ २।३८।१४ ॥ ॥ २।३८।१५ ॥
इमां, महेन्द्रोपम जातगर्धिनीं
तथा विधातुं जननीं ममार्हसि।
यथा वनस्थे मयि शोककर्शिता
न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ १५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टात्रिंशः सर्गः।
१मयिमत्समीपे। जातगर्धिनींजातो मत्पुनर्दर्शने गर्धःअभिलाषः यस्याऽस्तीति सा तथा। न्यस्यत्यक्त्वा। माया (१५) मानः सर्गः ॥ १५ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टात्रिंशस्सर्गः।
जातःपुत्रः, तस्मिन् प्रेमवतीमिति वाऽर्थः।
१त्वयित्वत्समीपेट।
॥ २।३८।१५ ॥