०३७ रामादिभिः चीरपरिधानम्

सप्तत्रिंशस्सर्गः

[वसिष्ठाक्रोशः] ॥ २।३७।१ ॥

१महामात्रवचः श्रुत्वा रामो दशरथं तदा।

अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ १ ॥

एवं सह विभूत्या वनवासे मन्त्रिवृद्धेन समर्थिते रामस्तु शुद्धभावत्वात् जटावल्कलधारिणा वस्तव्यमित्युक्त्या अर्थात् भोगपरिकरत्यागो वृत एव, प्रयोजनञ्च ततो मम नास्तीति मन्यमानस्सन् राजोपदिष्टभोगपरिकरं प्रत्याख्यातिमहामात्रेत्यादि ॥ १ ॥

१महामात्यङ।

॥ २।३७।१ ॥ ॥ २।३७।२ ॥

त्यक्तभोगस्य मे, राजन् वने वन्येन जीवतः।

किं कार्य मनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ २ ॥

त्यक्तभोगस्येति। जटावल्कलधारिणाऽवश्यवस्तव्यत्वेन राजभोगत्यागस्यावश्यप्राप्तत्वादित्याशयः। अनुयात्रेणअनुयात्रावता। बलादिनेत्यर्थः ॥ २ ॥

अनुयात्रेणअनुगतबलेनगो। यापनोपायेन। यात्रा तु यापनोपायेऽ इति विश्वःसत्य।

॥ २।३७।२ ॥ ॥ २।३७।३ ॥

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।

रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ ३ ॥

असङ्गतश्चायमनुयात्राप्रस्थापनवाद इत्याहयो हीत्यादि। कक्ष्यायांपर्यङ्कबन्धनरज्जौ ॥ ३ ॥

कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धनेऽ इत्यमरः।

॥ २।३७।३ ॥ ॥ २।३७।४ ॥

तथा मम, सतां श्रेष्ठ किं ध्वजिन्या जगत्वते

सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ ४ ॥

तथा ममेति। उक्तदृष्टान्तवत् राज्यमेव त्यजतः राज्यावयवेन कक्ष्याकल्पेन ध्वजिन्यादिना किम्? न किमपि प्रयोजनमित्यर्थः। यदेवंअतस्सर्वाण्येव भरतायैवानुजानामि, मातुः प्रीतये। अतश्चीरादीन्वनोपयुक्तपदार्थानेवानयन्तु। भवन्त इति शेषः ॥ ४ ॥

॥ २।३७।४ ॥ ॥ २।३७।५६ ॥

खनित्रपिटके चोभे १समानयत गच्छत।

चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ५ ॥

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।

उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ ६ ॥

एवमुक्ते तत्साहसेऽपि कैकेय्येव प्रावर्ततअथेत्यादि। चीरे इति। अन्तरीयोत्तरीयरूपे ॥ ६ ॥

१ममानयत गच्छतःङ।

एतत्पर्यन्तं मन्थराप्रेरितं सिद्ध कृत्वा ब्राह्मणशापप्राप्तलोकासूयाविषयत्वसम्पादकं कर्म कैकेय्यारभतेअथेति। स च शापोऽध्यात्मरामायणे स्पष्टःति।

॥ २।३७।५६ ॥ ॥ २।३७।७ ॥

स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।

सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ ७ ॥

अवक्षिप्यपरित्यज्य। मुनिवस्त्राणिचीराणि। अवस्तवस आच्छादने, अस्माल्लङ् ॥ ७ ॥

॥ २।३७।७ ॥ ॥ २।३७।८९ ॥

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।

तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ ८ ॥

अथात्मपरिधानार्थं सीता कौशेयवासिनी।

सम्प्रेक्ष्य जीरं सन्त्रस्ता पृषती वागुरामिव ॥ ९ ॥

अथ सीता आत्मनःस्वस्या अपि परिधानार्थं प्राप्तं चीरं समीक्ष्य त्रस्ताऽभूत्। पृषतीमृगी ॥ ९ ॥

॥ २।३७।८९ ॥ ॥ २।३७।१०११ ॥

सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः।

१कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा ॥ १० ॥

अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी।

गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ ११ ॥

३व्यपत्रमाणेवलज्जमानेव कैकेय्यास्सकाशात् प्रगृह्य ॥ ११ ॥

१कैकेयीङ।

धर्मस्य दर्शनं परेभ्यः तदनुष्ठानमेव। स्वयं धर्मं जानन्ती, अनुष्ठात्री चेत्यर्थः।

३व्यपत्रपमाणैवक।

॥ २।३७।१०११ ॥ ॥ २।३७।१२ ॥

कथं नु चीरं बध्नन्ति मुनयो वनवासिनः।

इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ १२ ॥

इति ह्यकुशलाचीरबन्धनाऽसमर्था अपरिचयात् ॥ १२ ॥

॥ २।३७।१२ ॥ ॥ २।३७।१३१४ ॥

कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना।

तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥ १३ ॥

तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः।

चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ १४ ॥

कौशेयस्योपरीति। तस्याः कौशेयपरित्यागादेः प्रसक्त्यभावात् ॥

॥ २।३७।१३१४ ॥ ॥ २।३७।१५१६ ॥

रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्।

अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ १५ ॥

ऊचुश्च १परमायत्ता रामं ज्वलितचेतसम्।

वत्स २नैवं नियुक्तेयं वनवासे मनस्विनी ॥ १६ ॥

परमायत्ताःपरमखिन्नाः, यती प्रयत्ने णौ, यत्तः खेदोपस्करयोःऽ ॥ १६ ॥

१परमायस्ताःङ।

२मैवंङ।

॥ २।३७।१५१६ ॥ ॥ २।३७।१७ ॥

पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्।

१तावद्दर्शनमस्या नः सफलं भवतु, प्रभो ॥ १७ ॥

अस्या नस्सफलमिति। अस्या दर्शनेन नःअस्माकं जीवितं सफलं भवतु। अत इयमिह तिष्ठत्वित्यग्रेण सम्बन्धः ॥ १७ ॥

वनं गतस्य तव सम्बन्धिन्याः अस्यास्सीताया दर्शनं तावत्त्वदागमनपर्यन्तं नःअस्माकं सफलंत्वद्दर्शनं यथाऽऽनन्दकरं तथा भवतु। अथवाअस्या दर्शनंदर्शनेन नःअस्माकं जीवितं सफलं भवत्वित्यर्थःती। वनं गतस्य तव दर्शनं अस्यां सफलं भवतुत्वामिवैनां द्रक्ष्याम इति भावःगो।

१तव दर्शनमस्यांङ।

॥ २।३७।१७ ॥ ॥ २।३७।१८२० ॥

लक्ष्मणेन सहायेन वनं गच्छस्व, पुत्रक

नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ १८ ॥

कुरु नो याजनां, पुत्र सीता तिष्ठतु भामिनी।

धर्मनित्यस्स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ १९ ॥

तासामेवंविधा वाचः शृण्वन् दशरथात्मजः।

बबन्धैव तदा चीरं सीतया तुल्यशीलया ॥ २० ॥

तासामेवंविधा वाचः शृण्वन्नपि तुल्यशीलया सीतया अनङ्गीकृतनगरस्थितिकया प्रेरितस्सन् तदा चीरं बबन्धैव ॥ २० ॥

षष्ठ्यर्थे दृतीयागो। अथवा एतत्पदद्वयस्योत्तरश्लोकेऽन्वयः।

॥ २।३७।१८२० ॥ ॥ २।३७।२१२२ ॥

चीरे गृहीते तु तया १समीक्ष्य नृपतेर्गृरुः।

निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ २१ ॥

२अतिवृत्ते सुदुर्मेधे कैकेयि कुलपांसनि

वञ्चयित्वा तु राजानं ३न प्रमाणेऽवतिष्ठसे ॥ २२ ॥

अतिवृत्तेअतिमर्यादे। प्रमाणेयावद्वृतं तावत्प्रामाणे नावतिष्ठसे ॥ २२ ॥

१सबाष्पोङ।

२अतिप्रवृत्ते दुर्मेधेङ।

सप्रमाणेवसद्वृत्तेवती।

३सप्रमाणेवङ।छ।

॥ २।३७।२१२२ ॥ ॥ २।३७।२३ ॥

न गन्तव्यं वनं देव्या सीतया, शीलवर्जिते

अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ २३ ॥

कुत इत्यतःन गन्तव्यमित्यादि। त्वद्वरानन्तर्भावादित्याशयः। यदेवमतःअनुष्ठास्यतीत्यादि। प्रकृतमासनंसिह्मासनं। अनुष्ठास्यतिराज्यं करिष्यति। यावद्रामागमनमित्यर्थः ॥ २३ ॥

अधिष्ठास्यतिङ।

॥ २।३७।२३ ॥ ॥ २।३७।२४ ॥

आत्मा हि दारास्सर्वेषां दारसङ्ग्रहवर्तिनाम्।

आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ २४ ॥

कथं स्त्रिया राज्याधिष्ठानमित्यतःआत्मेत्यादि। दारसङ्ग्रहवर्तिनांगृहस्थाश्रमनिष्ठानामित्यर्थः। अतो रामस्येयमात्मेति कृत्वा तस्य मेदिनीं ज्यैष्ठ्यादुभयविधात् प्राप्तां पालयिष्यति। अर्धो वा एष आत्मनो यत् पत्नीऽ इति श्रुतेरात्मत्वं चाविवादम् ॥ २४ ॥

॥ २।३७।२४ ॥

॥ २।३७।२५ ॥

अथ यास्यति वैदेही वनं रामेण सङ्गता।

१अत्रैनमनुयास्यामः पुरं चेदं गमिष्यति ॥ २५ ॥

अथ यास्यतीति। त्वन्निर्बन्धादिति शेषः। वयमिति। अस्मदाद्या ब्राह्मणा इत्यर्थः। अत्रेति। यत्र रामः अत्रैनमनुयास्याम इत्यर्थः ॥ २५ ॥

पत्न्याः पत्यर्धात्मत्वे, तर्हि रामवनवासवरणे तत्पत्न्या अपि वनवासः सिद्ध एवेति यदि कैकेयी ब्रूयादित्याहअथेति।

१वयमप्यनुङ। वयमत्रानुच।

॥ २।३७।२५ ॥ ॥ २।३७।२६ ॥

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः।

सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २६ ॥

अन्तपालाःशुद्धान्तरक्षकाः। अभ्यन्तरभृत्यवर्गा इत्यर्थः। सहोपजीव्यंउपजीव्यं जीवाजीवधनंतत्सहितं तथा। सपरिच्छदंदासीदासशकटादिपरिकरयुक्तम् ॥ २६ ॥

अन्तपालाःराष्ट्रान्तपरिपालकाः दण्डनायकाःगो।

॥ २।३७।२६ ॥ ॥ २।३७।२७ ॥

भरतश्च सशत्रुघ्नः चीरवासा वनेचरः।

वने वसन्तं काकुत्स्थ १ मनुयास्यति पूर्वजम् ॥ २७ ॥

भरतश्च पूर्वजमनुयास्यतीति। तत्स्वभावस्त्वस्माभिर्ज्ञायत इति शेषः ॥ २७ ॥

पितृ़न् समनुजायन्ते नरा मातरमङ्गनाःऽ इति खलु न्याय इति भावः ॥

१मनुवत्स्यतिङ।

॥ २।३७।२७ ॥ ॥ २।३७।२८ ॥

ततः शून्यां गतजनां वसुधां पादपैस्सह।

त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ २८ ॥

पादपैस्सहेत्यनेन अटवीभूतामिति द्योत्यते ॥ २८ ॥

॥ २।३७।२८ ॥ ॥ २।३७।२९३० ॥

न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः।

तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ २९ ॥

न ह्यदत्तां महीं पित्रा भरतः शास्तु १ मर्हति।

त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ ३० ॥

अपि च सर्वथैव ते भरतराज्यप्रयासो व्यर्थ इत्युच्यतेन हीत्यादि। पित्रा अदत्तामिति। रामाय न्यायेन ससन्तोषं पित्रा दत्तेति सर्वेषां नः प्रत्यक्षम्। तत्तु केवलं त्वया प्रतिबद्धम्। त्वयि वा पितृनाशिकायां अतः परं पुत्रवद्वस्तुं नार्हतिइत्यनुकर्षः। कुत एवमित्यतःयदीत्यादि। यदि महीपतेर्जातःयद्यसतीसुतो न स्यादित्यर्थः। पितृ़न् समनुजायन्ते नराःऽ इति खलु न्याय इत्याशयः। भरतस्य च देहग्रहो दशरथमहायागमूल इत्यविवादात् ॥ ३० ॥

अदत्तांप्रीतिपूर्वकमदत्तांगो

१मिच्छतिच।

॥ २।३७।२९३० ॥ ॥ २।३७।३१ ॥

यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि।

पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ ३१ ॥

सर्वथाऽसौ पितृवंशे तत्प्राधान्येन स्थितस्सन् चरित्रज्ञःपितृपितामहपरम्पराप्राप्तस्वकुलोचिताचारज्ञस्सन् अन्यथा न करिष्यति। ज्येष्ठे जाग्रति स्वयं राज्यं न करिष्यतीत्यर्थः ॥ ३१ ॥

॥ २।३७।३१ ॥ ॥ २।३७।३२ ॥

तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्।

१लोको न हि स विद्येत यो न राममनुव्रतः ॥ ३२ ॥

पुत्रगर्धिन्यापुत्रराज्याभिलाषवत्या। यो रामं नानुव्रतः स लोकःप्राणी दैवहतां त्वां विना न विद्येतन सम्भवेत् ॥ ३२ ॥

रामविप्रवासस्य त्वत्पुत्रविप्रवासे पर्यवसानात् पुत्रस्याप्रियं कृतमिति।

१लोकेङ।

॥ २।३७।३२ ॥ ॥ २।३७।३३ ॥

द्रक्ष्यस्यद्यैव, कैकेयि पशुव्यालमृगद्विजान्।

गच्छतस्सह रामेण पादपांश्च तदुन्मुखान् ॥ ३३ ॥

किमिह प्रमाणमित्यत्र प्रत्यक्षमेवेत्युच्यतेद्रक्ष्यस्यद्यैवेत्यादि। पादपांश्च तदुन्मुखान्, किमु मनुष्यानिति शेषः ॥ ३३ ॥

तथोपरिष्टात् स्पष्टीभविष्यति अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाःऽ इति गो।

॥ २।३७।३३ ॥ ॥ २।३७।३४ ॥

अथोत्तमान्याभरणानि, देवि

देहि स्नुषायै व्यपनीय चीरम्।

न चीरमस्याः प्रविधीयतेति

न्यवारयत्तद्वसनं वसिष्ठः ॥ ३४ ॥

एवं सर्वज्ञत्वाद्भगवान् वसिष्ठः भाव्यर्थजातमनुगृह्य प्रकृतानुष्ठेयमुपदिशतिअथोत्तमानीत्यादि। यथोचितानि उत्तमानि च तथा ॥

अस्याःजीवत्पतिकायाः सीतायाः

॥ २।३७।३४ ॥ ॥ २।३७।३५ ॥

एकस्य रामस्य वने निवासः

त्वया वृतः, केकयराजपुत्रि

विभूषितेयं प्रतिकर्मनित्या

वसत्वरण्ये सह राघवेण ॥ ३५ ॥

चीरं न प्रविधीयतेऽ इत्युक्तमेवार्थं बोधयतिएकस्येत्यादि। प्रतिकर्मप्रसाधनव्यापारः, स नित्यो यस्यास्सा तथा। अत एव विभूषिता सतीयं रामेण सहारण्ये स्वभर्तृशुश्रूषाप्रयुक्ता सती वसतु ॥ ३५ ॥

॥ २।३७।३५ ॥ ॥ २।३७।३६३७ ॥

यानैश्च मुख्यैः परिचारकैश्च

सुसंवृता गच्छतु राजपुत्री।

वस्त्रैश्च सर्वैस्सहितैर्विधानैः

नेयं वृता ते वरसम्प्रदाने ॥ ३६ ॥

तस्मिंस्तथा जल्पति विप्रमुख्ये

गुरौ नृपस्याप्रतिमप्रभावे।

नैव स्म सीता विनिवृत्तभावा

प्रियस्य भर्तुः १प्रतिकारकामा ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तत्रिंशस्सर्गः

एवं गुरौ जल्पत्यपि प्रियस्य भर्तुः प्रतिकारकामाप्रतिच्छन्दाकारसम्पादनकामा सती चीरपरिग्रहाद्विनिवृत्तभावा नैव स्मनैवाऽभूत्। स्थाली (३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तत्रिंशस्सर्गः

१प्रियकारकामाङ।

॥ २।३७।३६३७ ॥