षट्त्रिंशः सर्गः
[सिद्धार्थवचनम्] ॥ २।३६।१ ॥
ततस्सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया।
सबाष्पमतिनिश्वस्य १जगादेदं पुनर्वचः ॥ १ ॥
एवं सुमन्त्रेण मिथ्याप्रतिज्ञाश्रयणेन रामाभिषेकस्यैव स्थापने राजा तु स्वकृतस्य वास्तवत्वमवगच्छन् राम २प्रवासं निश्चित्य रामस्य वनवास एव सुखवासोपायमादिशतितत इत्यादि। प्रतिज्ञयेति। वास्तव्येति यावत् ॥ १ ॥
ततःकैकेयीसम्मत्यभावानन्तरम्गो।
१जगादैनंङ।
२वनवासंट।
॥ २।३६।१ ॥ ॥ २।३६।२ ॥
सूत रत्नसुसम्पूर्णा १चतुर्विधबला चमूः।
राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २ ॥
चतुर्विधबलारथादिचतुर्विधबलवती चमूःसेना प्रतिविधीयतांनियुज्यतामिति यावत् ॥ २ ॥
पदातिसमुदायादीनामपि सेनाङ्गानां सेनात्वव्यवहारसत्त्वात् चतुरङ्गबला चमूरित्युक्तिः।
१चतुरङ्गङ।
॥ २।३६।२ ॥ ॥ २।३६।३ ॥
रूपाजीवाश्च १शालिन्यो वणिजश्च महाधनाः।
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिता ॥ ३ ॥
शालिन्य इति। रूपशालिन्य इत्यर्थः। सुप्रसारिताःसम्यक् प्रवर्तिताः ॥ ३ ॥
१वादिन्यः, नादिन्यःङ। च।
॥ २।३६।३ ॥ ॥ २।३६।४५ ॥
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः।
तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ४ ॥
आयुधानि च मुख्यानि नागराश्शकटानि च।
अनुगच्छन्तु काकुत्स्थं व्याधाश्चरण्य ३ गोचराः ॥ ५ ॥
नागराःनगरैकप्राप्याः पदार्थविशेषाः विचित्रवस्त्राभरणचन्दनादयः ॥ ५ ॥
एनंरामम्
नागराःनगरजाः श्रेष्ठिनःगो।
१कोविदाःङ।
॥ २।३६।४५ ॥ ॥ २।३६।६ ॥
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु।
नदीश्च विविधाः पश्यन् न १राज्यस्य स्मरिष्यति ॥ ६ ॥
न राज्यस्येति। न राज्यसुखं स्मरिष्यतीत्यर्थः ॥ ६ ॥
१राज्यं संस्मरिष्यतिङ।
॥ २।३६।६ ॥ ॥ २।३६।७९ ॥
धान्यकोशश्च यः कश्चित् धनकोशश्च मामकः।
तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ७ ॥
यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः।
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८ ॥
भरतश्च महाबाहुरयोध्यां पालयिष्यति।
सर्वकामैस्सह श्रीमान् रामस्संसाध्यतामिति ॥ ९ ॥
संसाध्यतांप्रस्थाप्यतामिति यावत् ॥ ९ ॥
अयोध्यां पालयिष्यतीति सोपालम्भोक्तिःगो।
इति जगादऽ इति पूर्वेणान्वयः।
॥ २।३६।७९ ॥ ॥ २।३६।१०१२ ॥
एवं ब्रुवति काकुत्स्थे १कैकेय्या भयमागतम्।
मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ १० ॥
सा २विषण्णा च संत्रस्ता मुखेन परिशुष्यता।
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ ॥
राज्यं ३गतधनं, साधो पीतमण्डां सुरामिव।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ १२ ॥
मण्डःसुरान्तर्गतसारांशः ॥ १२ ॥
१कैकेयी भयमागताङ।
२विवर्णाङ।
इति जगादऽ इति पूर्वेणान्वयः।
३गतजनंङ।
॥ २।३६।१०१२ ॥ ॥ २।३६।१३१४ ॥
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ १३ ॥
वहन्तं किं तुदसि मां नियुज्य धुरि १माऽहिते
अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ १४ ॥
वहन्तमिति। दासवत् त्वया भरताभिषेके रामविवासने च नियुज्य नियुक्तधुरञ्च वहन्तमपि मां किं तुदसिव्यथयसि? हे अनार्ये इदानीमारब्धं सर्वसौभाग्योपेततयाऽस्मत्प्रस्थापनं किमिति नोपारुधः? पूर्वंरामवनवासप्रार्थनकाल एव सर्वं त्यक्त्वा केवलं यात्विति किमिति न प्रार्थितम्? अत एतन्निरोधे तव सामर्थ्यं नास्तीत्यर्थः ॥ १४ ॥
मामां, धुरि नियुज्य तं वहन्तमेव मां तुदसि।
१वाऽहितेङ।
हे अनार्थे आरब्धं किं कृत्यं नोपारुद्यः? सर्वमुपरुद्ववत्येव। पूर्वमभिषेककृत्यं इदानीं आनुयात्रिकप्रदानमारब्धं, तदप्युपारुध इत्यर्थःती। शेषं १६ श्लोकटिप्पण्यां द्रष्टव्यम्।
॥ २।३६।१३१४ ॥ ॥ २।३६।१५ ॥
तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना।
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ १५ ॥
द्विगुणं क्रुद्धेति। प्रकारान्तरेण मत्प्रयोजनं नाशयतीति ॥
॥ २।३६।१५ ॥ ॥ २।३६।१६ ॥
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्।
असमञ्ज इति ख्यातं, तथाऽयं गन्तुमर्हति ॥ १६ ॥
अवृतस्यापि दृष्टान्तावष्टम्भेनार्थसिद्धं वनप्रस्थानस्य कैवल्यमित्याशयेनाहतवैवेत्यादि ॥ १६ ॥
उपारुधत्राज्यभोगेभ्य इति शेषःति। अत्र ज्येष्ठपुत्रमुपारुधत्ऽ रामः किमकरोत्पापं येनैवमुपरुध्यतेऽ (श्लो।२६) इति वाक्यद्वयपर्यालोचनायां अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधःऽ इत्यत्रापि पुरुष एवोपरोथकर्मीभूत इति युज्यते।
॥ २।३६।१६ ॥ ॥ २।३६।१७ ॥
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्।
व्रीडितश्च जनः सर्वः सा च तं १नावबुध्यत ॥ १७ ॥
एवमुक्त इति। असमञ्जवद्गमनेऽभिहित इति यावत्। स्वप्रतिश्रुतार्थातिरिक्तस्य दुराशया प्रलापतो राज्ञो धिक्कृतिः। तंकृतधिक्कारमित्यर्थः ॥ १७ ॥
१नावबुध्यतिङ।
॥ २।३६।१७ ॥ ॥ २।३६।१८ ॥
तत्र वृद्धो १महामात्रः सिद्धार्थो नाम नामतः।
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १८ ॥
अथासमञ्जवत् प्रस्थापनं त्वद्दुराशा २मात्रत एव केवलम्। नात्र तदवतारप्रसङ्ग इति सिद्धार्थाख्यो मन्त्रिवृद्ध आहतत्रेत्यादि। महामात्रप्रधानः ॥ १८ ॥
१महामात्यःङ।
२मात्रमेवट।
॥ २।३६।१८ ॥ ॥ २।३६।१९२३ ॥
असमञ्जो गृहीत्वा हि क्रीडतः पथि दारकान्।
सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ १९ ॥
तं दृष्ट्वा नागरास्सर्वे क्रुद्धा राजानमब्रुवन्।
असमञ्जं वृणीष्वैकमस्मान् वा, राष्ट्रवर्धन ॥ २० ॥
तानुवाच ततो राजा किन्निमित्तमिदं भयम्।
ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ २१ ॥
क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्त १ चेतनः।
सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते ॥ २२ ॥
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः।
तं तत्त्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ २३ ॥
तं पुत्रं तत्याज हीति योजना ॥ २३ ॥
तेनप्रक्षेपेण रमते स्मेति शेषः। तिलके तु तेनकारणेन दुर्मतिः इति ॥
१चेतसःङ।
॥ २।३६।१९२३ ॥ ॥ २।३६।२४ ॥
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्।
यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता ॥ २४ ॥
अन्वशात्अनुशिष्टवान् ॥ २४ ॥
॥ २।३६।२४ ॥ ॥ २।३६।२५ ॥
स फालपिटकं गृह्य गिरि १दुर्गाण्यलोकयन्।
२सर्वा दिशस्त्वनुचरन् ३ अतिष्ठत् पापकर्मकृत् ॥ २५ ॥
इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः।
गिरिदुर्गाण्यलोकयन्गिरिदुर्गाणि परिभ्रममाणः कन्दादिकमलोकयन् सर्वा दिशश्च कन्दाद्यर्थमनुचरन् अतिष्ठत्यावज्जीवं पितुराज्ञाया निजापराधात् ॥ २५ ॥
फालंकन्दमूलादिखननसाधनं, पिटकंतद्धारणपात्रम्गो
१दुर्गाण्यलोलयत्, दुर्गाणि लोकयन्ङ।
२दिशस्सर्वाङ।च।
३स यथाङ।च।
॥ २।३६।२५ ॥ ॥ २।३६।२६ ॥
रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २६ ॥
प्रकृते कुत एतत्प्रसङ्ग इत्याहरामः किमित्यादि ॥ २६ ॥
॥ २।३६।२६ ॥ ॥ २।३६।२७२८ ॥
न हि कञ्चन पश्यामो राघवस्यागुणं वयम्।
दुर्लभो ह्यस्य निरयः, शशाङ्कस्येव कल्मषम् ॥
अथवा, देवि दोषं त्वं कञ्चित्पश्यसि राघवे।
तमद्य ब्रूहि तत्वेन १तदा रामो २विवास्यते ॥ २८ ॥
अगुणंदोषम्। दुर्लभःअप्रापणीय एव, अस्य निरयःवनवासदुःखम्। अथवा शशाङ्कस्यापि कल्मषमिव राघवे यदि किञ्चिद्दोषं पश्यसि तदद्य ब्रूहि। तदा असमञ्जवत् त्यागो भविष्यतीति शेषः ॥ २८ ॥
दोषपदमुञ्चरितुमप्यसहमान आहअगुणमिति ॥ उत्तरत्र तु कैकेयीदृष्ट्या दोषपदप्रयोगः। यथा असमञ्जो निरयहेतुपापकर्मकृत्, न तथा रामः पापकृत् इत्याशयः। तादृशपापाभावेऽपि अल्पं वा यदि पापं स्यादित्याशङ्कायामाहशशाङ्कस्येत्यादि। इमं पादं पूर्वेणैवान्वीयशशाङ्कस्येति व्यतिरेक दृष्टान्तः। (इति केचित्सत्य।) शशाङ्कस्यद्वितीयाचन्द्रस्यऽ इति च केचिद्व्याचख्युःशि। कतकव्याख्यानमेव स्वरसम् ॥
१तदाङ।
२विवास्यताम्ङ।
॥ २।३६।२७२८ ॥ ॥ २।३६।२९३० ॥
१अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च।
निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ २९ ॥
तदलं, देवि रामस्य श्रिया विहतया त्वया।
लोकतोऽपि हि ते रक्ष्यः परिवादश्शुभानने ॥ ३० ।
त्वया विहतया रामस्य श्रिया ते न किञ्चित्। तदलं वृथा श्रमेण। हियस्मात् लोकतः प्राप्तः परिवादश्च रक्ष्यःपरिहार्यः। ततोऽप्यलम् ॥ ३० ॥
१एतदनन्तरं अप्राप्तस्य विवासोऽयं वनेषु सुयशस्विनःऽङ।
॥ २।३६।२९३० ॥ ॥ २।३६।३१३२ ॥
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः।
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ ॥
एतद्वचो नेच्छसि, १पापवृत्ते
हितं न २जानासि ममात्मनो वा।
आस्थाय मार्गं कृपणं कुचेष्टा
चेष्टा हि ते साधुपथादपेता ॥ ३२ ॥
एतद्वच इति। सिद्धार्थवच इत्यर्थः। मम हितं न जानासि, आत्मनःतवापि हितं न जानासि। कृपणं मार्गमास्थाय येयं कुचेष्टा कृता सेयं चेष्टा साधुपथादपेता हि ॥ ३२ ॥
१पापरूपेङ।
२जानामिङ।
कुचेष्टा त्वं कृपणं मार्गमास्थाय ममात्मनो वा हितं न जानासीति वा अन्वयः। कुचेष्टात्वमेवोपपादयतिचेष्टा हीति ॥
॥ २।३६।३१३२ ॥ ॥ २।३६।३३ ॥
अनुव्रजिष्याम्यहमद्य रामं
राज्यं परित्यज्य सुखं धनं च।
१सहैव राज्ञा भरतेन च त्वं
यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥ ३३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्त्रिंशस्सर्गः।
लीला (३३) मानस्सर्गः ॥ ३३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षट्त्रिंशस्सर्गः।
धनधान्यादिनयने कैकेय्या प्रतिरुद्धे तत्सर्वं परित्यज्य अहमेव राममनुगमिष्यामीत्याह दशरथः।
१सर्वे चङ।
॥ २।३६।३३ ॥