०३५ सुमन्त्रकृतं कैकेयीगर्हणम्

पञ्चत्रिंशस्सर्गः

[कैकेयीगर्हणम्] ॥ २।३५।१ ॥

ततो निर्धूय सहसा शिरो निश्वस्य चासकृत्।

पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ॥ १ ॥

एवं सपरिकरस्य राज्ञः परमशोके प्राप्ते सुमन्त्रो महतन्याय्यमिति कैकेयीं प्रत्याहतत इत्यादि। शिरो निर्धूयेत्यादि कोपविकाराभिनयः। कटकटाप्येति। कटकटशब्दात्तत्करोतीति ण्यन्ताल्ल्यप् ॥ १ ॥

॥ २।३५।१ ॥ ॥ २।३५।२ ॥

लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।

कोपाभिभूतस्सहसा सन्तापमशुभं गतः ॥ २ ॥

लोचने कोपसंरक्ते कृत्वेति शेषः ॥ २ ॥

वर्णंदेहकान्तिं मुखकान्तिं वा जहत्परित्यजन्।

॥ २।३५।२ ॥ ॥ २।३५।३ ॥

मनस्समीक्षमाणश्च सूतो दशरथस्य सः।

कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥ ३ ॥

मनस्समीक्षमाणःकैकेयीविषये स्नेहाभावं जानन् ॥ ३ ॥

॥ २।३५।३ ॥ ॥ २।३५।४५ ॥

वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव १चाशुगैः।

कैकेय्यास्सर्व२मर्माणि सुमन्त्रः प्रत्यभाषत ॥ ४ ॥

यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्।

भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च ॥ ५ ॥

न ह्यकार्य ३ तमं किञ्चित्तव देवीह विद्यते।

यस्यास्तवेति। यया त्वयेत्यर्थः। अतिशयेन कर्तुमशक्यं अकार्यतमम्। इहसंसारे ॥ ५ ॥

१चाशुभैःङ।

२कर्माणिङ।

३मतःङ।

॥ २।३५।४५ ॥ ॥ २।३५।६७ ॥

पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥ ६ ॥

यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्।

महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ॥ ७ ॥

अन्ततःसर्वान्तेत्वत्कृत्यसाध्यफलविचार इत्यर्थः। अचलमिव दुष्प्रकम्प्यं सन्तापयसि। राजानमिति शेषः ॥ ७ ॥

॥ २।३५।६७ ॥ ॥ २।३५।८९ ॥

मा वमंश्ता दशरथं भर्तारं १वरदं पतिम्।

भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥ ८ ॥

यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये।

इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि ॥ ९ ॥

यथावय इति। वयःक्रममनतिक्रम्येति यावत्। लोपयितुमिच्छसीति। अनादिप्रवृत्तधर्मन्यायमिति शेषः ॥ ९ ॥

१परमंङ।

राजमरणानन्तरं वयःक्रममनुसृत्य पुत्रा राज्यं प्राप्नुवन्तीति मर्यादा। तादृशमर्यादापालके दशरथे सत्येव त्वं तां मर्यादां लोपयितुं इच्छसि। दशरथे सत्येव एवमुद्वेला भवसि चेत् अनन्तरं किं वा न कुर्या इत्याशयः।

॥ २।३५।८९ ॥ ॥ २।३५।१०११ ॥

राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम्।

वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥ १० ॥

न च ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति।

१तादृशं त्वममर्यादं अद्य कर्म चिकीर्षसि ॥ ११ ॥

तादृशमिति। ब्राह्मणवासानर्हमिति यावत्। अमर्यादंअतिकमितज्येष्ठराज्यादिव्यवहारम् ॥ ११ ॥

ब्राह्मणपदं सत्पुरुषसामान्यपरम्।

१एतदनन्तरंअयोध्यावासिनः पौरा ये च जानपदा जनाः। नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्। त्यक्ताया बान्धवैस्सर्वैर्ब्राह्मणैस्साधुभिस्तदा। का प्रीती राज्यलाभेन तव देवि भविष्यति। तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि। इत्यधिकम्ङ।

॥ २।३५।१०११ ॥ ॥ २।३५।१२ ॥

आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्।

आचरन्त्या न १विदृता सद्यो भवति मेदिनी ॥ १२ ॥

आश्चर्यमित्यादि। यस्यास्ते ईदृशममर्यादमतिघोरं वृत्तंचरित्रमस्ति इदमाश्चर्यमिति पश्यामि। लोक एतादृशस्याननुभूताश्रुतपूर्वत्वादत्याश्चर्यमेव पश्यामि। अपि चैवंविधं घोरमाचरन्त्या त्वया हेतुभूतया मही सद्यो न विदृताविदीर्णेतीदमप्याश्चर्यम्। एतादृशमहाऽन्याये मह्या तथा किल भाव्यम् ॥ १२ ॥

विवृताङ।

॥ २।३५।१२ ॥ ॥ २।३५।१३ ॥

महाब्रह्मर्षि १सृष्टा वा ज्वलन्तो भीमदर्शनाः।

२धिक् त्वां दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥

अपि च वसिष्ठादिमहाब्रह्मर्षिसृष्टाःनिर्मिताः ज्वलन्तो भीमदर्शनाः दण्डाःकृत्यालक्षणाः रामप्रव्राजने स्थितांकृतनिश्चयां त्वां न हिंसन्तीति यत्, अतो धिग्ब्राह्मण्यमिति शेषः ॥ १३ ॥

महाब्रह्मर्षिभिः वसिष्ठादिभिः जुष्टाः प्रयुक्ताः ज्वलन्तःतीव्राः धिग्वाग्दण्डाः रूपा वाग्दण्डा৷৷। त्वां न हिंसन्ति?गो। ॥ ति। ॥ इदमप्याश्चर्यमित्यनुकर्षःति।

१जूष्टाङ।

२धिग्वाग्दण्डाङ।

॥ २।३५।१३ ॥ ॥ २।३५।१४ ॥

आम्रं छित्वा कुठारेण निम्बं १परिहरेत्तु २यः।

यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ १४ ॥

अथान्यापदेशेन राजानमनुक्रोशतिआम्रमित्यादि। परिहरेदिति। निम्बोपरोधमिति शेषः। एनंनिम्बम्। नैवास्येति। एवं निम्बस्य दोहलं कुर्वतोऽपि पुरुषस्य प्रीतये न मधुरो भवेत्मधुररसो भवेत्। अतो वृथा श्रमोऽयं कैकेय्यनुवर्तनं राज्ञ इत्याशयः ॥ १४ ॥

निम्बं यः परिचरेत्आलवालादिकरणेन संरक्षेत्गो।

१परिचरेङ। च।

२कःच।

॥ २।३५।१४ ॥ ॥ २।३५।१५ ॥

१आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च।

न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥ १५ ॥

एवं कोपवचनान्युक्त्वा मर्मवचनमप्याहआभिजात्यमित्यादि। ते मातुराभिजात्यंप्रशस्तमातापितृजन्मोचितव्यवहारवत्त्वरूपं यथा, तथैव ते आभिजात्यमपीति। कारणानुसारेण हि कार्यम्। तदेव दर्शयतिन हीत्यादि। निम्बात् क्षौद्रं न स्रवेदिति वचो लोके निगदितंलोकप्रसिद्धमेव किलेत्यर्थः ॥ १५ ॥

अभिजातंअभिजननं, स्वभाव इति यावत्गो।

१अभिजातंङ।

॥ २।३५।१५ ॥ ॥ २।३५।१६१७ ॥

तव मातुरसद्ग्राहं विद्म पूर्वं यथाश्रुतम्।

ननु का मे मातुराभिजात्यक्षतिरित्यत्राहतवेत्यादि। असद्ग्राहंघोरपापकर्माभिनिवेशम्। पूर्वं यथायेन प्रकारेण श्रुतं तथा तत् सम्प्रति विद्मः, विदो लटो वाऽ इति मादेशः ॥

पितुस्ते वरदः कश्चित् ददौ वरमनुत्तमम् ॥ १६ ॥

सर्वभूतरुतं तस्मात् सञ्जज्ञे वसुधाधिपः।

तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ १७ ॥

वेदनं कीदृशमित्यतस्तत्प्रतिपादयतिपितुरित्यादि। वरदःकश्चिदृषिरिति यावत्। अनुत्तमं वरंअव्यक्तवाग १ वर्ण्यसर्वभूतरुतपरस्परबोधनीयार्थज्ञानविषयकम्। तस्मात्उक्तलक्षणवरदानबलादेव। स वसुधाधिपः सर्वभूतरुतंतत्प्रतिपाद्यभावजातं सञ्जज्ञेजानीते स्म। तिर्यग्गतानामिति। तिर्यक्स्रोतोगतपशुपक्ष्यादीनामित्यर्थः ॥ १७ ॥

कश्चित्योगी गन्धर्व इति श्रुतम्गो।

१परिचरेङ।च।

॥ २।३५।१६१७ ॥ ॥ २।३५।१८ ॥

ततो जृम्भस्य शयने विरुताद्भूरिवर्चसः।

पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥ १८ ॥

ततःतत एव हेतोः कदाचिच्छयने शयानो राजा जृम्भस्यतदाख्यस्य पक्षिणो विरुतान् श्रुत्वा भूरिवर्चसस्ते पितुस्तस्य पक्षिणो भावःअभिप्रायः विदितःअवगतः। अतः तत्रशयने शयान एव बहुधाऽहसत्भावपरिज्ञानजसन्तोषेण द्विस्त्रिरहसत् ॥ १८ ॥

जृम्भस्यपिपीलिकाविशेषस्यगो।

॥ २।३५।१८ ॥ ॥ २।३५।१९ ॥

तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती।

१वरं ते, नृपते सौम्य जिज्ञासामीति चाब्रवीत् ॥ १९ ॥

अथ तत्र शयने शयाना ते जननी क्रुद्वाऽभवत्मामयं परिहसतीति। अथ राज्ञा तु, हासस्त्वद्विषयको न भवति, कश्चन वरोऽस्ति, तेन मे भूतान्तरभावज्ञानसामर्थ्यमस्ति, अतस्तज्ज्ञानादहासिषमित्युक्ते, हे नृपते तं वरं जिज्ञासामि। कीदृशोऽसौ। केन प्रोक्तमिति जिज्ञासामीत्यब्रवीत् ॥ १९ ॥

१हासंङ।

ते हासंहासकारणंगो।

॥ २।३५।१९ ॥ ॥ २।३५।२० ॥

नृपश्चोवाच तां देवीं, देवि शंसामि ते यदि।

ततो मे मरणं सद्यो भविष्यति न संशयः ॥ २० ॥

एवमुक्तो नृपश्च तां प्रत्युवाचहे देवि यदि ते शंसामि वरस्वरूपं तत्प्रदातारं च, ततो मे अनन्तरमेव सद्यो मरणं भविष्यति ॥

॥ २।३५।२० ॥ ॥ २।३५।२१ ॥

माता ते पितरं, देवि पुनः केकयमब्रवीत्।

शंस मे जीव वा मा वा न मामपहसिष्यसि ॥ २१ ॥

एवमुक्ते ते माताऽऽहत्वं जीव वा म्रियस्व वा। सर्वथा शंस। तस्मिन्नवगते मां नापहसिष्यतीति ज्ञास्य इति ॥ २१ ॥

अन्यथा हि मामेवापहसितवान् भवानिति अवधारयामीत्यर्थः।

॥ २।३५।२१ ॥ ॥ २।३५।२२ ॥

प्रियया च तथोक्तः स केकयः पृथिवीपतिः।

तस्मै तं वरदायार्थं कथयामास तत्त्वतः ॥ २२ ॥

एवं तयोक्तस्ते पिता, यः स्वस्य वरदः, तस्मै महर्षये तमर्थंतदुक्तकथननिर्बन्धं तत्त्वतः कथयामास ॥ २२ ॥

स्वस्मै येन वरो दत्तः तं प्रति स्वपत्नीनिर्बन्ध कथयामास।

॥ २।३५।२२ ॥ ॥ २।३५।२३ ॥

१ततः स वरदस्साधू राजानं प्रत्यभाषत।

म्रियतां ध्वंसतां वेयं मा २कृथास्त्वं, महीपते ॥ २३ ॥

ततः साधुस्स वरदः राजानं प्रत्यभाषतम्रियतामियम्। ध्वंसतांप्रच्युतस्वाधिपत्या वा भवतु। तस्या वचो मा कृथा इति ॥

१एतदर्धानन्तरं यदि त्वं शंससे राजन् मरणं ते ध्रुवं भवेत्ऽ इत्यधिकंङ।

मरणं विषादिना, ध्वंसः विशरणं भृगुपातादिना। अथवा ध्वंसु गतावित्यपि सत्त्वात् यत्रकुत्रचिद्गच्छत्वित्यर्थः।

२शंसीस्त्वंङ।

॥ २।३५।२३ ॥ ॥ २।३५।२४ ॥

स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः।

मातरं ते निरस्याशु विजहार कुबेरवत् ॥ २४ ॥

अथ स तस्य वचः श्रुत्वाऽऽगतः पश्चात् वचनाय निर्बध्नन्तीं, भद्रे त्वमितो गच्छेति ते मातरं निरस्यपरित्यज्य १निर्वास्य कुबेरवद्विजहार ॥ २४ ॥

१विवास्यट।

॥ २।३५।२४ ॥ ॥ २।३५।२५ ॥

तथा त्वमपि राजानं दुर्जनाचरिते पथि।

असद्ग्राहमिमं मोहात् कुरुषे, पापदर्शिनि ॥ २५ ॥

प्रकृते यथोक्तमर्थमुपनयतितथेत्यादि। ॥ २५ ॥

॥ २।३५।२५ ॥ ॥ २।३५।२६ ॥

सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा।

पितृ़न् समनुजायन्ते नरा मातरमङ्गनाः ॥ २६ ॥

मात्रीयासद्ग्राहस्य न्यायप्राप्तत्वमस्या दर्शयतिसत्य इत्यादि। मामामिति यावत्। समनुजायन्तेपितृस्वभावं समनुकुर्वाणा जायन्त इत्यर्थः ॥ २६ ॥

॥ २।३५।२६ ॥ ॥ २।३५।२७ ॥

नैवं भव गृहाणेदं यदाह वसुधाधिपः।

भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ २७ ॥

नैवं भवेति। मातृवदसद्ग्रहाभिनिवेशिनी मा भव। जनस्यास्येति। अस्मदादेरित्यर्थः। गतिर्भवेति। शरणं भवेति यावत् ॥ २७ ॥

नेयाङ। (विधेया इत्यर्थः)

॥ २।३५।२७ ॥ ॥ २।३५।२८ ॥

मा त्वं प्रोत्साहिता पापैः देवराजसमप्रभम्।

भर्तारं लोकभर्तारं असद्धर्ममुपादधाः ॥ २८ ॥

भर्तारं प्रति असद्धर्मंमिथ्याक्लृप्तधर्ममेवोपादधाःउपाधिं कृतवत्यसि ॥ २८ ॥

असद्धर्मंकनिष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपं मोपादधाःमा ग्राहयगो।

॥ २।३५।२८ ॥ ॥ २।३५।२९ ॥

न हि मिथ्याप्रतिज्ञातं करिष्यति तवानघः।

श्रीमान् दशरथो राजा, देवि राजीवलोचनः ॥ २९ ॥

मिथ्याप्रतिज्ञातमिति। लीलयैव केवलमुक्तमित्यर्थः। अतो राजीवलोचनो राजा न करिष्यति ॥ २९ ॥

“৷৷৷৷।मम वरस्य का गतिरित्याशंक्य प्रकारान्तरेण गतिर्भविष्यतीत्याहन हीति। प्रतिज्ञातं प्रतिश्रुतं वरद्वयं मिथ्या न करिष्यति। राज्यादप्यधिकमूल्यरत्नभूषणसम्मानादिभिः सफलं करिष्यतीत्यर्थः।“गो। वस्तुतस्तुकनिष्ठाभिषेचनपूर्वकज्येष्ठविवासनरूपमधर्मं मा ग्राहयेत्युक्तेयद्ययमधर्मः तर्हि कथं राजानुमेने इत्याशङ्कायां आहन हीति। यतोऽयमनघो राजा ततः प्रतिज्ञातं मिथ्या न करिष्यतीत्यर्थः। नायं प्रतिज्ञात्यागापेक्षयाऽधर्म इति भावः।

॥ २।३५।२९ ॥ ॥ २।३५।३० ॥

ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता।

रक्षिता जीवलोकस्य, देवि रामोऽभिषिच्यताम् ॥ ३० ॥

अतो ज्येष्ठत्वादिगुणको रामोऽभिषिच्यताम्। अभिषेकानुमतिस्त्वया क्रियतामित्यर्थः ॥ ३० ॥

॥ २।३५।३० ॥ ॥ २।३५।३१ ॥

परिवादो हि ते, देवि महान् लोके चरिष्यति।

यदि रामो वनं याति विहाय पितरं नृपम् ॥ ३१ ॥

विपक्षे बाधमाहपरिवाद इत्यादि। चरिष्यति। प्रचरिष्यतीति यावत् ॥ ३१ ॥

॥ २।३५।३१ ॥ ॥ २।३५।३२ ॥

१स राज्यं राघवः पातु भव त्वं विगतज्वरा।

न हि ते राघवादन्यः क्षमः पुरवरे २वसन् ॥ ३२ ॥

यदेवमतःस राघवो राज्यं पातु, त्वं च विगतज्वरा भव। राघवात्रामादन्यः इह पुरे वसन् भवेद्यदि तदा ते न हि क्षमःन युक्तः ॥ ३२ ॥

१स्वराज्यंङ।च।

ते पुरवरे वसन् राघवादन्यः न क्षमो वसेत्। यद्वा क्षितिक्षान्त्योः क्षमा, युक्ते क्षमं, शक्ते हिते त्रिषुऽ इति कोशात् क्षमःहितः इत्यर्थः। राघवादन्यःभरतः अत्र वसन्नपि ते क्षमःहितः न भवेत् इत्यर्थः।

२वसेत्ङ।

॥ २।३५।३२ ॥ ॥ २।३५।३३ ॥

रामे हि यौवराज्यस्थे राजा दशरथो वनम्।

प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ ३३ ॥

यदेवमतःराम इत्यादि। पूर्ववृत्तमिति। पुत्रं राज्ये प्रतिष्ठाप्य वनं प्रतिष्ठमानानां पूर्वराजर्षीणां वृत्तमनुस्मरन्नित्यर्थः ॥ ३३ ॥

॥ २।३५।३३ ॥ ॥ २।३५।३४३५ ॥

इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं १ राजसंसदि।

सुमन्त्रः क्षौभयामास भूय एव कृताञ्जलिः ॥ ३४ ॥

नैव सा क्षुभ्यते देवी न च स्म परिदूयते।

न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः

न परिदूयत इति। दूङ् खेदे। मार्ग (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चत्रिंशस्सर्गः

१जनसंसदिङ।

॥ २।३५।३४३५ ॥