०३४ दशरथमूर्च्छा

चतुस्त्रिंशस्सर्गः

[दशरथसमाश्वासनम्] ॥ २।३४।१ ॥

ततः कमलपत्राक्षः श्यामो १निरुदरो महान्।

उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥ १ ॥

अथ सभार्यस्य सभ्रातृकस्य रामस्य वनवासानुमतिप्रार्थनम्। तत इत्यादि। श्यामःश्यामवर्णो युवाऽपि ॥ १ ॥

१निरुपमोङ।झ।

निवेदयस्वागमनं नृपाय मेऽ इति पूर्वस्मिन् श्लोके कथितेऽपि त्वरातिशयादभ्यासः। अथवा निरुत्सुकत्वात् तूष्णीं स्थितस्य सुमन्त्रस्य पुनः प्रतिबोधनाय वाऽभ्यासः।

॥ २।३४।१ ॥ ॥ २।३४।२४ ॥

स रामप्रेषितः क्षिप्रं सन्तापकलुषे १न्द्रियः।

प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥ २ ॥

उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।

तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ ३ ॥

आलोक्य तु महाप्राज्ञः परमाकुलचेतसम्।

राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥ ४ ॥

राममेवानुउद्दिश्य ॥ ४ ॥

न्द्रियंङ।

॥ २।३४।२४ ॥ ॥ २।३४।५ ॥

तं वर्धयित्वा राजानं सूतः पूर्वं जयाशिषा।

भयविक्लब्या वाचा मन्दया १ श्लक्ष्णमब्रवीत् ॥ ५ ॥

वर्धयित्वासम्पूज्य। भयविक्लबयेति। रामो वनप्रयाणोद्युक्त इतीदं परमानिष्टं कथं राज्ञे वदिष्यामीति भयेन विक्लबाकातरा तया ॥

१श्लक्ष्णयाब्रवीत्ङ।

॥ २।३४।५ ॥ ॥ २।३४।६ ॥

अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।

ब्राह्मण्येभ्यो धनं दत्त्वा सर्वञ्चैवोपजीविनाम् ॥ ६ ॥

सर्वं धनं दत्त्वेत्यनेन सर्वथैव तिष्ठासाभावो द्योत्यते ॥ ६ ॥

॥ २।३४।६ ॥ ॥ २।३४।७९ ॥

स त्वां पश्यतु, भद्रं ते, रामस्सत्यपराक्रमः।

सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते ॥ ७ ॥

१गमिष्यन्तं महारण्यं तं पश्य, जगतीपते

वृतं राजगुणैस्सर्वैरादित्यमिव रश्मिभिः ॥ ८ ॥

स २सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः।

आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥ ९ ॥

सः सत्यवादी दशरथः ॥ ९ ॥

१गमिष्यतिङ।

२सत्यवाक्योङ।

॥ २।३४।७९ ॥ ॥ २।३४।१० ॥

सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।

दारैः परिवृतस्सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ॥ १० ॥

सुमन्त्रेत्यादि। हे सुमन्त्र इहमद्वेश्मनि ये केचिन्मामका दाराःस्त्रियस्सन्ति तान्सर्वान्दारानिहानय ॥ १० ॥

मे दारान् कौसल्यां, ये केचिदन्ये मामका दारास्तांश्च। एवं ध्याख्याने कौसल्यां परिवार्यऽ इत्यानुरूप्यम्।

॥ २।३४।१० ॥ ॥ २।३४।११ ॥

सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।

१आर्याः ह्वयति २वो राजाऽऽगम्यतां तत्र मा चिरम् ॥

अतीत्यअतिवेगेन प्राप्येत्यर्थः। आगम्यतमिति पदम् ॥

१आर्योङ।

२वो राजा, अवैधव्यदत्त्वात् न तु प्रजानां, तासां दुःखदत्त्वात्ति।

॥ २।३४।११ ॥ ॥ २।३४।१२ ॥

एवमुक्ताः स्त्रियस्सर्वाः सुमन्त्रेण नृपाज्ञया।

प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ १२ ॥

प्रचक्रमुःगच्छन्ति स्म। तद्भवनंतस्य राज्ञो भवनम् ॥ १२ ॥

॥ २।३४।१२ ॥ ॥ २।३४।१३ ॥

अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः।

कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ १३ ॥

अर्धं सप्तशतस्येत्येकदेशिसमासः। ताम्रलोचना इति। रामप्रयाणश्रुतिजदुःखरोदनादिति शेषः। कौसल्यां परिवार्येतेन प्राग्लक्षणोक्तं सर्वधारणसमर्थसर्वप्रभ्वीत्वं द्योतितम् ॥ १३ ॥

॥ २।३४।१३ ॥ ॥ २।३४।१४१६ ॥

आगतेषु च दारेषु समवेक्ष्य महीपतिः।

उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥ १४ ॥

स सूतो राममादाय लक्ष्मणं मैथिलीं तदा।

जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ १५ ॥

स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्।

उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥ १६ ॥

उत्पपातेत्येतदालिङ्गनार्थम् ॥ १६ ॥

॥ २।३४।१४१६ ॥ ॥ २।३४।१७ ॥

सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः।

तमप्राप्यैव दुःखार्तः पपात भुवि मूर्छितः ॥ १७ ॥

तमप्राप्यैवेति। आलिलिङ्गिषितपुत्रमसम्प्राप्य मध्येमार्गं दुःखमूर्छितः पपात ॥ १७ ॥

॥ २।३४।१७ ॥ ॥ २।३४।१८ ॥

तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महायशाः।

विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ १८ ॥

तं पतितं नृपतिं रामः क्षिप्रमभ्यपतत्अभ्यागतवान्। विसंज्ञमिवविसंज्ञमेव ॥ १८ ॥

॥ २।३४।१८ ॥ ॥ २।३४।१९ ॥

स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि।

हा हा रामेति सहसा भूषणध्वनिमिश्रितः ॥ १९ ॥

भूषणध्वनिमिश्रित इति। उरश्शिरस्ताडनादिप्रचलत्प्रभ्रश्यद्भूषणध्वनिभिर्मिश्रितस्तथा ॥ १९ ॥

स्त्रीणांदाराणां तथा इतरासां दास्यादीनां च। तेन पूर्वं सार्धत्रिशतत्वोक्तेरविरोधःसत्य।। सहस्रपदं अनेकपरं वा। अन्यथा तावन्निष्कर्षेण वचनासम्भवः, एकद्व्यादीनां न्यूनाधिक्यसम्भवात्।

॥ २।३४।१९ ॥ ॥ २।३४।२० ॥

तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।

पर्यङ्के सीतया सार्धं १रुदन्तः समवेशयन् ॥ २० ॥

सीतया सार्धं तं बाहुभ्यां परिष्वज्य पर्यङ्के समावेशयन् ॥ २० ॥

१रुदन्तंङ।

॥ २।३४।२० ॥ ॥ २।३४।२१२२ ॥

अथ रामो मुहूर्तेन लब्धसंज्ञ महीपतिम्।

उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ २१ ॥

आपृच्छे त्वां, महाराज सर्वेषामीश्वरोऽसि नः।

प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ २२ ॥

कुशलेन मां पश्येति। सौम्येन चक्षुषा मामनुगृहाणेत्यर्थः ॥ २२ ॥

॥ २।३४।२१२२ ॥ ॥ २।३४।२३ ॥

लक्ष्मणं चानुजानीहि सीता १चान्वेति मां वनम्।

कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ २३ ॥

ननु लक्ष्मणसीतयोः कुतो वनवासकष्टप्राप्तिः न ह्यसौ वरनिर्बन्धप्राप्त इत्यतःकारणैरित्यादि। हेतुभिरित्यर्थः। तथ्यैःपरमार्थतयोपन्यस्यमानैः। नेच्छत इति। इह स्थातुमिति शेषः ॥ २३ ॥

१चान्वेतुङ।

तथ्यैर्बहुभिः कारणैः मामन्वेति, अत एव वार्यमाणावपि न चेच्छतः इति वा।

॥ २।३४।२३ ॥ ॥ २।३४।२४२५ ॥

अनुजानीहि सर्वान्नः शोकमुत्सृज्य, मानद

लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ २४ ॥

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।

उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ॥ २५ ॥

वनवासायानुज्ञां प्रतीक्षमाणंअनुमतिं प्रार्थयमानम् ॥ २५ ॥

॥ २।३४।२४२५ ॥ ॥ २।३४।२६ ॥

अहं, राघव कैकेय्या वरदानेन मोहितः।

अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ २६ ॥

हे राघव अहं कैकेय्या वरदानेन हेतुना मोहितःनिरुतरतया शोकपरवशो जातः अतो राज्यव्यापारानर्हः।

अतो मां निगृह्यनिरुध्यराज्यशासनं कृत्वा अयोध्यायां त्वमेव स्वभुजवैभवेन राजा भव। प्रवृत्तमभिषेकं समापयेति यावत् ॥ २६ ॥

मोहितःवञ्चितःगो।

॥ २।३४।२६ ॥ ॥ २।३४।२७२८ ॥

एवमुक्तो नृपतिना रामो धर्मभृतां वरः।

प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २७ ॥

भवान् वर्ष १सहस्राय पृथिव्याः, नृपते पतिः।

अहं त्वरण्ये वत्स्यामि न मे २कार्यं त्वयाऽनृतम् ॥ २८ ॥

वर्षसहस्राय पतिर्भवइतः परमप्यनेककालं पतिर्भवेत्यर्थः। न मे कार्यं त्वयाऽनृतमिति। त्वया दत्तं यत् वरद्वयं तन्मेमया अनृतंअसत्यं न कार्यंकर्तुं न योग्यं। तव नरकपातप्रसङ्गादित्याशयः ॥

१सहस्रायुःङ।

मेमह्यं, मत्कृते इति यावत्, त्वया अनृतं न कार्यमित्यर्थः। न मे कार्यस्त्वमानृत इति तीर्थसम्मतपाठः। त्वं आनृतःईषदनृत युक्तोऽपि न कार्यः इति व्याख्यातम्।

२कार्यस्त्वमानृतःङ।

॥ २।३४।२७२८ ॥ ॥ २।३४।२९ ॥

नव पञ्च च वर्षाणि वनवासे विहृत्य ते।

पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते, नराधिप ॥ २९ ॥

यदेवमतोनवेत्यादि। हे नराधिप पुनरागम्य ते पादौ ग्रहीष्यामीति। प्रतिज्ञान्ते सतीति योजना ॥ २९ ॥

प्रतिज्ञान्तेचतुर्दशवर्षानन्तरं, स्वर्गादागत्य स्थितस्य ते पादौ ग्रहीष्यामीत्यभिप्रायःसत्य।

॥ २।३४।२९ ॥ ॥ २।३४।३० ॥

रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः।

कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ ३० ॥

चोद्यमान इति अद्यैव गमनमनुमन्यस्वेति कैकेय्या मिथःरहसि चोद्यमान इत्यर्थः ॥ ३० ॥

॥ २।३४।३० ॥ ॥ २।३४।३१ ॥

श्रेयसे वृद्धये, तात पुनरागमनाय च।

गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ ३१ ॥

श्रेयसेपरलोकहिताय वृद्धयेइहलोकाभ्युदयाय च। रिष्टंपापंदुःखं च, अरिष्टंस्वस्त्ययनं अस्तु ते। अव्यग्रस्सन् अकुतोभयं पन्थानं गच्छस्व ॥ ३१ ॥

गच्छस्वगच्छ। अरिष्टंशुभं। अरिष्टे तु शुभाशुभेऽ इत्यमरःगो।

॥ २।३४।३१ ॥ ॥ २।३४।३२ ॥

न हि सत्यात्मनः, तात धर्माभिमनसस्तव।

विनिवर्तयितुं बुद्धिः शक्यते, रघुनन्दन ॥ ३२ ॥

सत्यात्मनःसत्यप्रतिष्ठितस्वभावस्य। अत एव धर्माभिमनसःधर्मसम्पादनाभिगतमनस्कस्य ॥ ३२ ॥

॥ २।३४।३२ ॥ ॥ २।३४।३३ ॥

अद्य त्विदानीं रजनीं, पुत्र मा गच्छ सर्वथा।

एकाहदर्शनेनापि साधु तावच्चराम्यहम् ॥ ३३ ॥

प्रातरेव कैकेय्या प्रस्थापितस्य मात्रद्यनुनययात्रादानादिना आसायं व्यापृतस्य सायं राजानुमत्यर्थमागतस्य राज्ञा प्रवृत्तरजनीसहवासः प्रार्थ्यतेअद्येत्यादि। अद्यअस्मिन् दिवसे इदानीं सम्प्रवृत्तां रजनीं इह वस, सर्वथा मा गच्छ। किमर्थमित्यतःएकाहेत्यादि। चरामिवर्तेभोक्ष्यामि च ॥ ३३ ॥

साधुसुखंगो।

॥ २।३४।३३ ॥ ॥ २।३४।३४ ॥

मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीं।

तर्पितः सर्वकामैस्त्वं श्वः १ काले साधयिष्यसि ॥ ३४ ॥

साधयिष्यसिगमिष्यसि ॥ ३४ ॥

१काल्येङ।

॥ २।३४।३४ ॥ ॥ २।३४।३५ ॥

दुष्करं क्रियते, पुत्र सर्वथा, राघव त्वया।

मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ ३५ ॥

मत्प्रियार्थंमम परलोकसौख्यार्थमित्यर्थः ॥ ३५ ॥

॥ २।३४।३५ ॥ ॥ २।३४।३६ ॥

न चैतन्मे प्रियं, पुत्र शपे सत्येन, राघव

छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया ॥ ३६ ॥

तदेव दर्शयतिन चैतदित्यादि। इहेति शेषः। चलित इत्यादि। भ्रंशितत्वदभिषेकमनोरथ इत्यर्थः ॥ ३६ ॥

॥ २।३४।३६ ॥ ॥ २।३४।३७३८ ॥

वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।

अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥ ३७ ॥

न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठस्सुतो मम।

अपानृतकथं, पुत्र पितरं कर्तुमिच्छसि ॥ ३८ ॥

या तु वञ्चना मेमत्सकाशात् लब्धा वनप्रस्थानलक्ष्णा। वृत्तसादिन्याकुलोचितचरितनाशिन्या चोदितोऽपि सन् पितरं मां अपानृतकथंअपगतानृतकथनं कर्तुमिच्छसिइति यत्नैतदाश्चर्यं। यत्यस्मात् त्वं ज्येष्ठः ज्येष्ठगुणः प्रथमस्सुतश्चासि तस्मात्तथा ॥ ३८ ॥

॥ २।३४।३७३८ ॥ ॥ २।३४।३९ ॥

अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम्।

लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ ३९ ॥

आर्तस्य भाषितं श्रुत्वेति। एकाहदर्शनेनापिऽ इत्याद्युक्तरूपं श्रुत्वेत्यर्थः। दीन इति। एकरात्रमपि पितृसुखायकैकेय्या अद्यैव गच्छेति नियोगात्स्थातुमशक्यमभूदिति प्राप्तशोक इत्यर्थः ॥ ३९ ॥

अदीन इति पदम्शि।

॥ २।३४।३९ ॥ ॥ २।३४।४० ॥

प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।

अपक्रमणमेवातः सर्वकामैरहं वृणे ॥ ४० ॥

प्राप्स्यामीत्यादि। अद्यअस्मिन्नेव दिवसे प्रयाणे सति यान् गुणान्अद्यैव गच्छेति नियोगे अद्यैव गच्छामीत्याश्रुतपरिपालनजान् गुणान्धर्मान् श्वः प्रस्थाने सति कः प्रदास्यति। प्रत्युत केवलमसत्यदोष एवावशिष्यते। अतोऽद्यैवापक्रमणंइतो गमनं सर्वकामैःसर्वात्मना उत्कटप्रवृत्तजिगमिषया वृणे ॥ ४० ॥

तर्पितस्सर्वकामैस्त्वं, इत्यस्योत्तरं इदं। सर्वकामैरपि अपक्रमणमेव वृणे इत्युक्तेसर्वकामानां वरणापेक्षया अपक्रमणमेव वृणे इत्यर्थः।ऽ

कैकेय्या चोद्यमानस्तु मिथःऽ इति पूर्वं कथनात् कैकेय्याः प्रियसम्पादनरूपगुणोऽपि विवक्षितः।

॥ २।३४।४० ॥ ॥ २।३४।४१ ॥

इयं सराष्ट्रा सजना धनधान्यसमाकुला।

मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ४१ ॥

वनवासकृता बुद्धिर्न च मेऽद्य १ विलीष्यति।

तस्मात् मया विसृष्टा वसुधा भरताय प्रदीयतां, अद्यैव मत्सन्निधाविति शेषः। अद्य वनवासकृतेति। अद्यैव वनवासे निश्चिता मे बुद्धिः न विलीष्यति। अतः श्वो गमिष्यसीति मा ब्रूहीत्यर्थः ॥ ४१ ॥

१चलिष्यतिङ।

॥ २।३४।४१ ॥ ॥ २।३४।४२ ॥

१यस्तुष्टेन वरो दत्तः कैकेय्यै, वरद त्वया ॥ ४२ ॥

दीयतां निखिलेनैव सत्यस्त्वं भव, पार्थिव

निखिलेनैवेति। अद्यैव मद्वनप्रस्थापनेनेति शेषः। तदा किल निखिलेनसर्वात्मना सत्यःसत्यप्रतिज्ञः भविष्यसि। अतोऽद्यैव मां वनं प्रस्थाप्य त्वं सत्यो भव ॥ ४२ ॥

१यस्तु युद्धेङ।

॥ २।३४।४२ ॥ ॥ २।३४।४३४४ ॥

अहं निदेशं भवतो यथोक्तमनुपालयन् ॥ ४३ ॥

चतुर्दशसमा वत्स्ये वने वनचरैः सह।

मा विमर्शो वसुमती भरताय प्रदीयताम् ॥ ४४ ॥

न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम्।

विमर्शःभरताय दानविचारः मास्तु। कथमेवमित्यतःन हीत्यादि। आत्मनि सुखंस्वसौख्यमित्यर्थः ॥ ४४ ॥

॥ २।३४।४३४४ ॥ ॥ २।३४।४५४८ ॥

यथानिदेशं कर्तुं वै तवैव, रघुनन्दन ॥ ४५ ॥

अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः।

न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितांपतिः ॥ ४६ ॥

नैवाहं राज्यमिच्छामि न सुखं न च १मैथिलीम्।

नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ॥ ४७ ॥

त्वामहं सत्यमिच्छामि नानृतं, पुरुषर्षभ

प्रत्यक्षं तव सत्येन सुकृतेन च २ते शपे ॥ ४८ ॥

प्रत्यक्षं तवेति। तव सन्निधावित्यर्थः ॥ ४८ ॥

१मेदिनीम्ङ।

२तेतुभ्यं।

॥ २।३४।४५४८ ॥ न च शक्यं मया, तात स्थातुं क्षणमपि, प्रभो

१स शोकं धारयस्वैनं, न हि मेऽस्ति विपर्ययः ॥ ४९ ॥

क्षणमपीति। इह पुर इति शेषः। विपर्ययःविपरीतानुष्ठानंइहाद्य स्थितिरूपम् ॥ ४९ ॥

१न शोकंङ।च।

॥ २।३४।४९ ॥ ॥ २।३४।५० ॥

अर्थितो ह्यस्मि केकैय्या वनं गच्छेति, राघव

मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ५० ॥

वनं गच्छेति। अद्यैवेति शेषः ॥ ५० ॥

हे राघवराम वनं गच्छ इति कैकेय्या अर्थितोऽस्मि इत्यन्वयः।

॥ २।३४।५० ॥ ॥ २।३४।५१ ॥

मा चोत्कण्ठां कृथाः, देव वने रंस्यामहे वयम्।

प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ ५१ ॥

उत्कण्ठाशोकातुरतया स्मरणम्। रंस्यामह इति सीतासौमित्रिसम्बन्धात् ॥ ५१ ॥

॥ २।३४।५१ ॥ ॥ २।३४।५२५३ ॥

पिता हि दैवतं, तात देवतानामपि स्मृतम्।

तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ ५२ ॥

चतुर्दशसु वर्षेषु गतेषु, नरसत्तम

पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥ ५३ ॥

विमुच्यतामिति। इदानीमिति शेषः ॥ ५४ ॥

भव राजा निगृह्य माम्ऽ इति वचनमपि पितुरेव। अथापि स्वस्य वनवासो महाक्लेशप्रद इति व्यथया राजा तथा वदतीति ज्ञात्वा रामः वनवासे स्वस्य क्लेशाभावमाह।

॥ २।३४।५२५३ ॥ ॥ २।३४।५४ ॥

येन संस्तंभनीयोऽयं सर्वो बाष्पकलो जनः।

स त्वं, पुरुषशार्दूल किमर्थं विक्रियां गतः ॥ ५४ ॥

येनेति। त्वयेत्यर्थः ॥ ५४ ॥

॥ २।३४।५४ ॥ ॥ २।३४।५५ ॥

पुरं च राष्ट्रं च मही १च केवला

मया विसृष्टा भरताय दीयताम्।

अहं निदेशं भवतोऽनुपालयन्

वनं गमिष्यामि चिराय सेवितुम् ॥ ५५ ॥

केवलाकृत्स्नेति यावत् ॥ ५५ ॥

१सकाननाङ।

चतुर्दशसमा इत्यर्थः पितृवाक्यपरिपालननिमित्तं यावज्जीवमपि वने वसेयं, किं चतुर्दंशवर्षमात्रेणेति द्योतयितुं चिरायेत्युक्तिः।

॥ २।३४।५५ ॥ ॥ २।३४।५६ ॥

मया विसृष्टां भरतो महीमिमां

सशैलषण्डां सपुरां सकाननाम्।

१शिवां सुसीमामनुशास्तु केवलं

त्वया यदुक्तं, नृपते तथाऽस्तु तत् ॥ ५६ ॥

त्वया यदुक्तमिति। कैकेयीमिति यावत् ॥ ५६ ॥

शिवामित्यनेन राज्यस्य दुर्भरत्वान्न त्यजामीति गम्यतेगो।

१शिवासु सीमास्वनुङ।

॥ २।३४।५६ ॥ ॥ २।३४।५७६१ ॥

न मे तथा, पार्थिव १धीयते मनः

महत्सु कामेषु न चात्मनः प्रिये।

यथा निदेशे तव शिष्टसम्मते

व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ ५७ ॥

तदद्य नैवानघ राज्यमव्ययं

न सर्वकामान्न सुखं न मैथिलीम्।

न २ जीवितं त्वामनृतेन योजयन्

वृणीय सत्यं व्रतमस्तु ते तथा ॥ ५८ ॥

फलानि मूलानि च भक्षयन् वने

गिरींश्च पश्यन् सरितः सरांसि च।

वनं प्रविश्यैव विचित्रपादपं

सुखीभविष्यामि तवास्तु निर्वृतिः ॥ ५९ ॥

एवं स राजा व्यसनाभिपन्नः

३शोकेन दुःखेन च ताम्यमानः।

आलिङ्ग्य पुत्रं सुविनष्टसंज्ञः

४मोहं गतो नैव ५ चिचेष्ट किञ्चित् ॥ ६० ॥

देव्यस्ततो संरुरुदुस्समेताः

तां वर्जयित्वा नरदेवपत्नीम्।

रुदन् सुमन्त्रोऽपि जगाम मूर्छां

हाहाकृतं तत्र बभूव सर्वम् ॥ ६१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुस्त्रिंशस्सर्गः

हाहाशब्दस्य कृतंकरणं यस्मिन् तत्तथा। कृत (६१) मानः सर्गः ॥ ६१ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे चतुस्त्रिंशस्सर्गः

१दीयतेङ।

२चिन्तितंङ।

उक्तवन्तमिति शेषः। एवमुक्तवन्तं पुत्रमालिङ्ग्येत्यन्वयः।

शोकःत्वग्दाहोत्पादकः, दुःखंअन्तर्व्यथोत्पादकम्गो।

३तापेनङ।

४भूमिंङ।

५विवेदङ।

तां वर्जयित्वाकैकेयीं विना।

॥ २।३४।५७६१ ॥