०३३ पितृदर्शनगमनम्

त्रयस्त्रिंशस्सर्गः

[दशरथसमाश्वासनम्] ॥ २।३३।१ ॥

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।

जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १ ॥

एवं कृतयात्रादानस्य पित्रनुमतये पितृसमीपगमनंगत्वेत्यादि।

॥ २।३३।१ ॥ ॥ २।३३।२ ॥

ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे।

मालादामभिराबद्धे सीतया समलङ्कृते ॥ २ ॥

ततो गृहीत इति। यथास्वमिति शेषः। तयोरायुधे तदायुधे ॥

सीतया सम्यक् अलङ्कृतेचन्दनादिभिरित्यर्थः।

॥ २।३३।२ ॥ ॥ २।३३।३ ॥

ततः प्रासादहर्म्याणि विमानशिखराणि च।

अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥

सप्तभूमिकः प्रासादो विमानम्। द्वित्रिभूमिकाःकेवलप्रासादाः। हर्म्यंबद्धगृहोपरिप्रदेशः। अधिरुह्य जन इति। अधिरुह्य स्थितो यो जनःतं जनं श्रीमानुदासीनो भूत्वाअरिरक्षयिषितत्वेन नीरागद्वेषतो व्यलोकयत्पश्यति स्म ॥ ३ ॥

उदासीनःनिरुत्सुकःनिर्विण्ण इति यावत्गो। कतकदृष्ट्या तु श्रीमान्, उदासीन इति पदद्वयं रामपरम्।

॥ २।३३।३ ॥ ॥ २।३३।४ ॥

न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः।

आरुह्य तस्मात् प्रासादाद्दीनाः पश्यन्ति राघवम् ॥ ४ ॥

तस्मादिति। बहुजनाकुलत्वेन रथ्यायां गन्तुमशक्यत्वादेवेत्यर्थः। प्रासादमारुह्य प्रासादात्प्रासादारोहणरूपोपायादेव पश्यति स्म। अभिषेकदर्शनाभावतो विपरीतवेषदर्शनतश्च दीनाः ॥ ४ ॥

प्रसादान्ऽपाप्रासादानारुह्येत्यन्वयःगो।

॥ २।३३।४ ॥ ॥ २।३३।५७ ॥

१पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा।

ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ ५ ॥

यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।

तमेकं सीतया सार्धं अनुयाति स्म लक्ष्मणः ॥ ६ ॥

ऐश्वर्यस्य रसज्ञः सन् २कामिनां चैव कामदः।

नेच्छत्येवानृतं कर्तुं ३ वचनं धर्मगौरवात् ॥ ७ ॥

रसज्ञ इति। परिग्रहसुखज्ञ इति यावत्। वचनंपितृवचनम् ॥

१पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाःऽझ।

बहुविधाः इत्येवं विविधा वाचःऽ इति पर्यन्तम्।

॥ २।३३।५७ ॥ ॥ २।३३।८ ॥

या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।

तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ ८ ॥

अद्येति। प्रयाणानुमत्यर्थदर्शनसमय इत्यर्थः ॥ ८ ॥

॥ २।३३।८ ॥ ॥ २।३३।९१२ ॥

अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।

वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥ ९ ॥

अद्य नूनं दशरथ स्सत्त्वमाविश्य भाषते।

न हि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ १० ॥

निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम्।

किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ ११ ॥

आनृशंस्यमनुक्रोशः श्रुतं शीलं दमश्शमः।

राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ १२ ॥

अनुक्रोशःदया ॥ १२ ॥

सत्त्वंपिशाचं आविश्यप्राप्यगो। सत्त्वंसत्त्वगुणं आविश्यप्राप्य भाषतेत्वया वनं न गन्तव्यमिति राजा रामं वदिष्यतीत्यर्थः। कुतः? न हि राजेतिती। दशरथं सत्त्वमाविश्यऽ इत्यपि पाठः झ। पुस्तके।

वृत्तेन केवलंचरित्रमात्रेण। वृत्तेन केवलमित्युक्तिर्दानमानादौ विद्यमानेऽपि चरित्रप्राधान्यात्गो।

दमःइन्द्रियनिग्रहः। शमःचित्तप्रशान्तिः शमश्चित्तप्रशान्तिः स्याद्दम इन्द्रियनिग्रहःऽ इति निर्वचनात्गो।

॥ २।३३।९१२ ॥ ॥ २।३३।१३ ॥

तस्मात्तस्योपघातेन प्रजाः परमपीडिताः।

औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात् ॥ १३ ॥

औदकानिउदकजीवनानि ॥ १३ ॥

॥ २।३३।१३ ॥ ॥ २।३३।१४ ॥

पीडया पीडितं सर्वं जगदस्य जगत्पतेः।

मूलस्येवोपघातेन वृक्षः पुष्प १ फलोपगः ॥ १४ ॥

पुष्पफलैः उपगःउपगमो यस्य ॥ १४ ॥

१फलागमःङ।

॥ २।३३।१४ ॥ ॥ २।३३।१५१६ ॥

मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।

पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ॥ १५ ॥

ते लक्ष्मण इव क्षिप्रं १ सपत्न्यस्सहबान्धवाः।

गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १६ ॥

सयत्न्य इति। सपत्नीका इति यावत्। येनेति। मार्गेणति शेषः। राघवःरघुकुलजः ॥

१सपत्नीकास्सबान्धवाःङ।

॥ २।३३।१५१६ ॥ ॥ २।३३।१७ ॥

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।

१एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १७ ॥

एकदुःखसुखाःसमानसुखदुःखा इति यावत् ॥ १७ ॥

१समङ।

॥ २।३३।१७ ॥ ॥ २।३३।१८ ॥

१समुद्धृतनिधानानि परिध्वस्ताजिराणि च।

उपात्तधनधान्यानि २हृत साराणि सर्वशः ॥ १८ ॥

समुद्धृतनिधानत्वादिधर्मकानि वेश्मानि प्रतिपद्यतामित्यन्वयः ॥

१समुद्धतङ।

२दत्तसाराणि, हृतभाराणिङ।

साराणिशय्यासनादीनिगो।

॥ २।३३।१८ ॥ ॥ २।३३।१९ ॥

रजसाऽभ्यवकीर्णानि परित्यक्तानि देवतैः।

मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥ १९ ॥

उद्बिलैःउत्सृष्टबिलैः ॥ १९ ॥

मूषिकैःङ।

॥ २।३३।१९ ॥ ॥ २।३३।२०२१ ॥

अपेतोदकधूमानि हीनसम्मार्जनानि च।

प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च ॥ २० ॥

दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।

अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ २१ ॥

दुष्कालःराजिकदैविकक्षोभकालः ॥ २१ ॥

॥ २।३३।२०२१ ॥ ॥ २।३३।२२२३ ॥

वनं नगरमेवास्तु येन गच्छति राघवः।

अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ॥ २२ ॥

बिलानि दंष्ट्रिणस्सर्वे सानूनि मृगपक्षिणः।

त्यजन्त्वस्मद्भयाद्भीता गजास्सिह्मा वनान्यपि ॥ २३ ॥

१अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च।

दंष्ट्रिणःसर्पाः। सानूनिपर्वतप्रस्थाः। अस्मत्त्यक्तमिति। पुरमिति शेषः। सेव्यमानंअस्माभिराश्रियमाणं। वनमिति शेषः ॥

१अस्मद्युक्तंङ।

॥ २।३३।२२२३ ॥ ॥ २।३३।२४२५ ॥

तृणमास १ फलादानं देशं व्यालमृगद्विजम् ॥ २४ ॥

प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।

राघवेण वने सर्वे सह वत्स्याम निर्वृताः ॥ २५ ॥

तृणादीनामादानं येभ्यो वनदेशेभ्यस्तथा। व्यालादयश्च येषु तथा ॥ २५ ॥

व्यालमृगद्विजमिति बहुव्रीहिः। व्यालमृगद्विजैर्विशिष्टं तृणमांसफलादानां देशंकाननीभूतं देशमिति यावत्। अर्थात् तृणादाःमृगाः, मांसादाःव्यालाः, फलादाःपक्षिणः।

१फलादानांङ।

॥ २।३३।२४२५ ॥ ॥ २।३३।२६ ॥

इत्येवं विविधा वाचो नानाजनसमीरिताः।

शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ २६ ॥

न विचक्रेविकारं न प्राप ॥ २६ ॥

॥ २।३३।२६ ॥ ॥ २।३।२७२९ ॥

स तु वेश्म १पितुर्दूरात् कैलासशिखरप्रभम्।

अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ २७ ॥

विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।

ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ २८ ॥

प्रतीक्षमाणोऽपि जनं तदाऽऽर्तं

अनार्तरूपः प्रहसन्निवाथ।

जगाम रामः पितरं दिदृक्षुः

पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २९ ॥

आर्तंखिन्नम् ॥ २९ ॥

१पुनर्मातुःङ।

प्रतीक्षमाणःपश्यन्।

॥ २।३३।२७२९ ॥ ॥ २।३३।३० ॥

तत्पूर्वमैक्ष्वाकसुतो महात्मा

रामो गमिष्यन् वनमार्तरूपम्।

व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं

पितुर्महात्मा प्रतिहारणार्थम् ॥ ३० ॥

तत्पूर्वंतदारभ्येति यावत्। आर्तरूपंदुःखरूपं। पितुः प्रतिहारणार्थंनिवेदनार्थं सुमन्त्रं प्रेक्ष्य तत्प्रतीक्षां कृत्वा व्यतिष्ठत ॥

॥ २।३३।३० ॥ ॥ २।३३।३१ ॥

पितुर्निदेशेन तु धर्मवत्सलो

वनप्रवेशे कृतबुद्धिनिश्चयः।

स राघवः प्रेक्ष्य सुमन्त्रमब्रवीत्

निवेदयस्वागमनं नृपाय मे ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः

कलि (३१) मानः सर्गः ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रयस्त्रिंशस्सर्गः

॥ २।३३।३१ ॥