द्वात्रिंशस्सर्गः
[यात्रादानम्] ॥ २।३२।१ ॥
ततश्शासन १माज्ञाय भ्रातुः २शुभकरं प्रियम्।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ १ ॥
एवं निश्चितसभ्रातृस्त्रीकवनगमनस्य रामस्य यात्रादानम्। तत इत्यादि ॥ १ ॥
आज्ञायज्ञात्वा।
१आदाय, आस्थायङ।
२प्रियकरं हितंङ।च।
॥ २।३२।१ ॥ ॥ २।३२।२ ॥
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्।
सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ २ ॥
अग्न्यागारंअग्निहोत्रगृहम्। हे सखे रामस्य वेश्माभ्यागच्छ। दुष्करकारिणो रामस्य कृत्यं च पश्य ॥ २ ॥
॥ २।३२।२ ॥ ॥ २।३२।३४ ॥
ततस्सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह।
जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ ३ ॥
तमागतं वेदविदं प्राञ्जलिस्सीतया सह।
सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ ४ ॥
अर्चितमग्निमिवेति। होमकाल इति शेषः ॥ ४ ॥
सन्ध्योपासनंमाध्याह्निकम्, अथवा सन्ध्यानियताग्निहोत्रं अग्न्यगारस्थमित्युक्तेःगो। रामवनप्रवासानन्तरमेव सूर्यास्तमनस्योत्तरत्र कथनात् एवं व्याख्यानम्।
॥ २।३२।३४ ॥ ॥ २।३२।६ ॥
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्।
सुयज्ञं च तदोवाच रामस्सीताप्रचोदितः ॥ ६ ॥
सीताप्रचोदित इति। सीतया सुयज्ञपत्न्यै दिव्याभरणदानाय सखीत्वात्प्रचोदित इत्यर्थः ॥ ६ ॥
॥ २।३२।६ ॥ ॥ २।३२।७ ॥
हारं च हेमसूत्रं च भार्यायै, सौम्य हारय।
रशनां चाधुना सीता दातुमिच्छति ते, १ सखे ॥ ७ ॥
हेमसूत्रमप्युरोभूषणविशेषः ॥ ७ ॥
हारयप्रापयति।
१सखीङ।च।
॥ २।३२।७ ॥ ॥ २।३२।८ ॥
अङ्गदानि विचित्राणि केयूराणि शुभानि च।
प्रयच्छति, सखे तुभ्यं भार्यायै गच्छती वनम् ॥ ८ ॥
गच्छतीति नुमभावश्छान्दसः ॥ ८ ॥
॥ २।३२।८ ॥ ॥ २।३२।९ ॥
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्।
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ ९ ॥
त्वयीति। त्वद्गृह इत्यर्थः ॥ ९ ॥
॥ २।३२।९ ॥ ॥ २।३२।१० ॥
नागः शत्रुञ्जयो नाम मातुलो यं ददौ मम।
तं ते १निष्कसहस्रेण ददामि, द्विजपुङ्गव ॥ १० ॥
शत्रुञ्जयो नाम प्रसिद्धं यं गजं मातुलो मम ददौ तं गजं ते ददामीति। तथा राममुद्राङ्कितानां निष्काणां सहस्रं च ददामि ॥ १० ॥
निष्कंरूप्यम्। तच्च तस्य गजस्य परिपालनार्थमिति भावः।
१गजसहस्रेणङ।
॥ २।३२।१० ॥ ॥ २।३२।११ ॥
इत्युक्तः स हि रामेण सुयज्ञः १प्रत्यगृह्णत।
रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ ११ ॥
प्रत्यगृह्णतेति। अगृह्णीतेति यावत् ॥ ११ ॥
१प्रतिगृह्य तत्ङ।
॥ २।३२।११ ॥ ॥ २।३२।१२ ॥
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः।
सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ १२ ॥
ब्रह्मा त्रिदशेश्वरमिवेति। नियोक्तृनियोज्ययोः १ परमावरप्रभुत्वे दृष्टान्तः ॥ १२ ॥
१परमचरमघ।
॥ २।३२।१२ ॥ ॥ २।३२।१३१४ ॥
१आगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ।
अर्चयाहूय, सौमित्रे रत्नैस्सस्यमिवाम्बुभिः ॥ १३ ॥
तर्पयस्व, महाबाहो गोसहस्रैश्च, मानद
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥ १४ ॥
कौशिकःविश्वामित्रः। आहूयार्चय। अन्तरं रत्नैस्तर्पयस्व ॥ १३१४ ॥
आगस्त्यंअगस्त्यपुत्रम्। कौशिकंविश्वामित्रपुत्रम्गो।
१अगस्त्यंङ। च।
॥ २।३२।१३१४ ॥ ॥ २।३२।१५१६ ॥
कौसल्यां च य आशीर्भिः भक्तः पर्युपतिष्ठति।
आचार्य स्तैत्तरीयाणामभिरूपश्च वेदवित् ॥ १५ ॥
तस्य यानं च दासीश्च, सौमित्रे सम्प्रदापय।
कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ १६ ॥
तैत्तरीयाणामाचार्य इति। तित्तिरिमहर्षिः कौसल्यायाः प्रत्येकपुरोहितः। अभिरूपःश्लाघनीयगुणः ॥ १५१६ ॥
तैत्तरीयशाखाध्येतृ़णामाचार्यःगो।ति। अभिरूपःबुधः। प्राप्तरूपसुरूपाभिरूपा बुधमनोज्ञयोःऽइति विश्वःगो।
॥ २।३२।१५१६ ॥ ॥ २।३२।१७ ॥
सूतश्चित्ररथश्चार्यः सचिवस्सुचिरोषितः।
तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥ १७ ॥
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च।
सुचिरोषितःचिरकालवृद्धः सुमन्त्रवत्। पशुकाःअजाव्यादयो यज्ञपशवः ॥ १७ ॥
आर्यः चित्ररथनामा सूतः। चित्ररथाचार्य इत्यपि पाठः।
॥ २।३२।१७ ॥ ॥ २।३२।१८२० ॥
१ये चेमे कठकालापा बहवो दण्डमाणवाः ॥ १८ ॥
नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किञ्चन।
अलसाः स्वादु २ कामाश्च महतां चापि सम्मताः ॥ १९ ॥
तेषामशीतियानानि रत्नपूर्णानि दापय।
शालिवाहसहस्रं च द्वे च ते भद्रकांस्तथा ॥ २० ॥
व्यञ्जनार्थं च, सौमित्रे गोसहस्रमुपाकुरु।
कठेन प्रोक्तमधीते, अण्, तस्य कठचरकाल्लुक्ऽ इति लुक्। कलापिना प्रोक्तं, कलापिनोऽण्। कठं कालापमधीयते तदधीतेऽ इत्यण्। प्रोक्ताल्लुक्ऽ इति लुक्। ये चेमे कठकालापाःतदध्येतारो दण्डमाणवाः दण्डप्रधाना माणवाःउपकुर्वाणब्रह्मचारिण इति यावत्। अन्यदितिव्रतोपवासादिकमिति यावत् आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः। अश्र्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्र्नताम्ऽ इति स्मृतेः। अन्यन्न कुर्वन्तीत्यत्र हेतुःनित्यस्वाध्यायशीलत्वादिति। अत एव व्रतान्तरानुष्ठाने अलसाः। स्वादुकामाश्चेति। ब्रह्मचारिणो भिक्षार्थित्वतः स्वाद्वन्नकामाः। तर्हि कथमेवंविधा दानीया इत्यत्रोक्तंमहतां चापि सम्मता इति। तप एव तत्तप्यते। तपो हि स्वाध्यायःऽ इति श्रुतेः नित्यतपस्वित्वेन महात्मनामपि सम्मताः। रत्नपूर्णानि धनपूर्णानि। अशीतियानानीति। अशीत्युष्ट्राणीति यावत्। शालीन् वहन्त इति शालिवाहाःबलीवर्दाः। तेषां सहस्रैः सह भद्रकान्धान्यविशेषान्चणकमुद्गादिरूपान् व्यञ्जनार्हान् दापयेत्यनुकर्षः। गवां सहस्रमुपाकुरुउपसेचनार्थं कुर्वित्यर्थः ॥ २० ॥
१ये च मेङ।च।
किञ्चनआहारार्थयत्नादिकम्। गोसहस्रप्रदानहेतुत्वेनाहस्वादुकामाश्चेति৷৷। रत्नपूर्णानि रत्नालङ्कारपूर्णानि৷৷। रत्नवाहानुष्ट्रानिति वागो।
२शीलाश्चङ।
भद्रकान्अल्पार्थे कन् प्रत्ययःकर्षणयोग्याननडुह इत्यर्थः। धान्यविशेषानित्यपरे। गोसहस्रं व्यञ्जनार्थंक्षीरदधिघृतार्धंगो।
॥ २।३२।१८२० ॥ ॥ २।३२।२१ ॥
१मेखलीनां महासङ्घः कौसल्यां समुपस्थितः ॥ २१ ॥
तेषां सहस्रं, सौमित्रे प्रत्येकं सम्प्रदापय।
मेखलीनांब्रह्मचारिणामिति यावत्। समुपस्थित इति। विवाहार्थमिति शेषः ॥ २१ ॥
मेखलानांअर्श आदित्वादच्ती।
१मेखलानांङ। छ।
॥ २।३२।२१ ॥ ॥ २।३२।२२ ॥
अम्बा १ यथा नो नन्देच्च कौसल्या मम दक्षिणा ॥
तथा द्विजातींस्तान् सर्वान् लक्ष्मणार्चय सर्वशः।
नःअस्माकं अम्बा यथा चेत् स्वाश्रितब्रह्मचारिवर्गस्य विवाहार्थभिक्षाप्रदानेन नन्देत् तथा दापय। दक्षिणासमर्था ॥ २२ ॥
नः अम्बा मम दक्षिणांमया दीयमानां दक्षिणां यथा नन्देत्इत्यन्वयः।
१यथा च सा नन्देत्, यदा नौ नन्देच्चङ।
॥ २।३२।२२ ॥ ॥ २।३२।२३ ॥
ततः पुरुषशार्दूलस्तद्धनं लक्ष्मणः स्वयम् ॥ २३ ॥
यथोक्तं ब्राह्मणेन्द्राणां अददाद्धनदो यथा।
तद्धनमिति। यथोक्तविभागकमित्यर्थः ॥ २३ ॥
कुबेरस्य दानशीलत्वं धनदेन समस्त्यागेऽ इत्यत्रैव सङ्क्षेपरामायणे उक्तम्।
॥ २।३२।२३ ॥ ॥ २।३२।२४ ॥
अथाब्रवी द्बाष्प १ कलांस्तिष्ठतश्चोपजीविनः ॥ २४ ॥
सम्प्रदाय बहुद्रव्यं एकैकस्योपजीवनम्।
बाष्प २ कलाःबाष्पगद्गदाः। उपजीवनंजीवनसाधनम् ॥ २४ ॥
बाष्पं कलन्तिमुञ्चन्तीति बाष्पकलाःगो।
१गलांङ।
२गलाःञ।
॥ २।३२।२४ ॥ ॥ २।३२।२५ ॥
लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ॥ २५ ॥
अशून्यं कार्यमेकैकं यावदागमनं मम।
अशून्यं कार्यमिति। यथापूर्वं युष्माभिरत्रोपविश्य रक्षणीयमित्यर्थः ॥ २५ ॥
॥ २।३२।२५ ॥ ॥ २।३२।२६२८ ॥
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ॥ २६ ॥
उवाचेदं धनाध्यक्षं धन १ मानीयतामिति।
ततोऽस्य धनमाजह्नुः २ सर्वमेवोपजीविनः ॥ २७ ॥
स राशिस्सुमहांस्तत्र दर्शनीयो ह्यदृश्यत।
ततस्स पुरुषव्याघ्रस्तद्धनं सहलक्षणः ॥ २८ ॥
द्विजेभ्यो बालवृद्धेभ्यः ३ कृपणेभ्यो ह्यदापयत्।
कृपणेभ्यो ह्यदापयदिति। भूरिदानरूपतयेति शेषः ॥ २८ ॥
स्वोपजीविभ्यो विशिष्य धनदानमुक्तम्। अथेतरेभ्यो दानमुच्यते।
१मानीयतां ममङ।
२सर्व एवोङ।
३दरिद्रेभ्योङ।
॥ २।३२।२६२८ ॥ ॥ २।३२।२९ ॥
तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः ॥ २९ ॥
१उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली।
तत्रेति। तस्मिन् काले देशे चेत्यर्थः। फालंहलावयवविशेषःकार्। कुद्दालंकन्दखननसाधनविशेषःकुन्काली। लाङ्गलंहलं। वानप्रस्थत्वादिदं साधनं कन्दादिसम्पादनार्थं। उञ्छनंव्रीह्यर्थम् ॥ २९ ॥
पिङ्गलःपिङ्गलवर्ण इति दारिद्र्यलक्षणोक्तिः। पिङ्गलकेशो वा। ৷৷। आसीत्दैवात्तदानीं समीपे सङ्गतोऽभूदिति भावःगो।
क्षतवृत्तिःभूखननेन जीवनवान्। उञ्छवृत्तिरिति पाठो न स्वरसः। फालकुद्दालेत्यादेरवक्तव्यत्वात्तस्य। क्षतवृत्तिःक्षीणवृत्तिःति। उञ्छवृत्तिःशि। खलादौ परित्यक्तधान्यस्य सङ्ग्रहणंउञ्छः।
१क्षतवृत्तिःङ। च
॥ २।३२।२९ ॥ ॥ २।३२।३० ॥
तं वृद्धं तरुणी भार्या बालानादाय दारकान्।
अब्रवीद्ब्राह्मणं वाक्यं १दारिद्य्रेणाभिपीडिता ॥ ३० ॥
दारकाःपुत्राः ॥ ३० ॥
स्त्रीणां भर्ता हि देवताऽ इति पाठेन स्वातन्त्र्येण तया रामसमीपं गन्तुं युक्तम्, अतः भर्तारमब्रवीदिति भावः।
१स्त्रीणां भर्ता हि देवताङ। च।
॥ २।३२।३० ॥ ॥ २।३२।३१ ॥
अपास्य फालं कुद्दालं कुरुष्व वचनं मम।
रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसे ॥ ३१ ॥
दर्शयेति। सभार्यापुत्रमात्मानमिति शेषः। गतिबुद्धिऽ इत्यादिना द्विकर्मकत्वम्। यदि दर्शयसि तदा सर्वथा किञ्चिदवाप्स्यसे ॥
किञ्चिदिति स्वदौर्भाग्यस्मरणेन। सन्तुष्ट्या वा।
॥ २।३२।३१ ॥ ॥ २।३२।३२ ॥
स भार्यावचनं श्रुत्वा शीटीमाच्छाद्य दुश्छदाम्।
स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ॥ ३२ ॥
दुश्छदांअतिजीर्णत्वाच्छादयितुमशक्यां। यत्र रामनिवेशनंयस्मिन् पथ्याश्रिते रामनिवेशनं प्राप्यते तादृशं पन्थानमास्थाय प्रातिष्ठत ॥ ३२ ॥
॥ २।३२।३२ ॥ ॥ २।३२।३३ ॥
१भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि ॥ ३३ ॥
आपञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत्।
दीप्त्याब्रह्मवर्चसेन ॥ ३३ ॥
अकारान्तत्वमार्षम्गो।
१भृग्वङ्गिरसमंङ।च।
॥ २।३२।३३ ॥ ॥ २।३२।३४३५ ॥
स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ॥ ३४ ॥
निर्धनो बहुपुत्रोऽस्मि, राजपुत्र महायशाः
१उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ ३५ ॥
मां प्रत्यवेक्षस्वेति। मयि कृपां कुर्वित्यर्थः ॥ ३५ ॥
१क्षतवृत्तिङ।च।
॥ २।३२।३४३५ ॥ ॥ २।३२।३६ ॥
तमुवाच ततो रामः परिहास १ समन्वितम्।
गवां सहस्र २मप्येकं न च विश्राणितं मया ॥ ३६ ॥
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि।
परिहाससमन्वितंलीलास्मितसमन्वितं। क्रीडाप्रयोजनव्यवहारविशेषसमन्वितं चेत्यर्थः। मया तु गवामेकं सहस्रमपि विश्राणितं न नञ् स्वरे। तर्हि इह स्थित्वा दण्डेन यावद्दूरं परिक्षिपसिपरिगृह्णासि तावद्देशवर्तिनीः गाः अवाप्स्यस इति। ब्राह्मणस्य गोश्रद्धाप्रवृत्तिकौतुकदर्शनार्थं भगवद्वचनम् ॥ ३६ ॥
१समन्वितःङ।
असङ्ख्यातानां गवां मध्ये एकमपि सहस्रं मया न विश्राणितम्৷৷। एकं गोसहस्रमात्रं न दत्तं, अन्यत्सर्वं दत्तमिति नार्थः बहुसाहस्रेऽ इत्यादिवक्ष्यमाणेन विरोधात्, अपिशब्दस्वारस्याच्चगो।
२मस्त्येकंङ।
॥ २।३२।३६ ॥ ॥ २।३२।३७ ॥
स शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम् ॥ ३७ ॥
आविध्य दण्डं चिक्षेप सर्वप्राणेन १वेगतः।
कट्यां परिवेष्ट्य सम्भ्रान्तःत्वरितस्सन्। सर्वप्राणेनसर्वबलेन ॥ ३७ ॥
कट्यां शाटीपरिवेष्टनं बलोत्तंभनायगो।
१वेगितःङ।
॥ २।३२।३७ ॥ ॥ २।३२।३८ ॥
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः ॥ ३८ ॥
गोव्रजे बहुसाहस्रे पपातो १क्षाणसन्निधौ।
स दण्डः सरयूपारंसरयूतीरं तीर्त्वाप्राप्य बहुसाहस्रे गोव्रजे उक्षाणसन्निधौवृषसन्निधाविति यावत्। आनङ् छान्दसः ॥ ३८ ॥
उक्षणसन्निधौउक्षसन्निधौ वष्टि भागुरिःऽ इत्यादिरीत्या अकारान्तत्वम्गो।
२क्षण, क्ष्णां चङ।
॥ २।३२।३८ ॥ ॥ २।३२।३९ ॥
तं परिष्वज्य धर्मात्मा आ तस्मात्सरयूतटात् ॥ ३९ ॥
आनयामास ता गोपैः १त्रिजटायाश्रमं प्रति।
आ तस्मात्सरयूतटात्, आङ् मर्यादायां। अथवा ब्राह्मणस्तृप्तो भवात्वे त्यभिविधावित्येवास्तु। ताःगाः आनयामास। तास्त्रिजटाश्रमं प्रति नाययामासेति च शेषः ॥ ३९ ॥
१त्रिजटस्याश्रमंङ।
अन्यथा हि सरयूतटगतानां गवां परित्यागः स्यादिति भावः।
त्रिजटायतदर्थं आनयामास, आश्रमंत्रिजटाश्रमं प्रति नाययामास चेति वाक्यद्वयमिति भावः महेश्वरतीर्थस्तु त्रिजटायत्रिटस्यऽ इति व्याचख्यौ। परन्तु तदा आनयामासऽ इत्यनन्वितम्।
॥ २।३२।३९ ॥ ॥ २।३२।४०४१ ॥
उवाच च ततो रामस्तं गार्ग्यमभि १सान्त्वयन् ॥ ४० ॥
मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ ४१ ॥
परिहासो ह्ययमिति। दण्डपरिक्षेपवचनरूपोऽयं विनोदार्थ एवेत्यर्थः ॥ ४१ ॥
१हर्षयन्ङ।
॥ २।३२।४०४१ ॥ ॥ २।३२।४२ ॥
इदं हि तेजस्तव यद्दुरत्ययं
तदेव जिज्ञासितुमिच्छता मया।
इमं भवानर्थमभि प्रचोदितः
वृणीष्व किञ्चेदपरं १ व्यवस्यसि ॥ ४२ ॥
अयमितीदंशब्दार्थमुक्तरूपं भगवान् दर्शयतिइदं हीत्यादि। तेजःअतिदूरपरिक्षेपणशक्तिं, वृद्धस्यापि सत इत्यर्थः, अर्थमभिअर्थमुद्दिश्य इदंविक्षेपणं प्रवोदितोऽसि। अपरमपिगोभ्योऽन्यमपि वरितुं व्यवस्यसि चेद्वृणीष्व ॥ ४२ ॥
१ व्यवस्यतिङ।
॥ २।३२।४२ ॥ ॥ २।३२।४३ ॥
ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा
धनं १ यदन्यन्मम विप्रकारणात्।
भवत्सु सम्यक्प्रतिपादनेन तत्
मयार्जितं प्रीतियशस्करं भवेत् ॥ ४३ ॥
इदं वचनमुपचारमात्रमिति न मन्तव्यमित्याहब्रवीमीत्यादि। यन्त्रणाइतोऽभ्यधिकवरवरणसङ्कोच इत्यर्थः। कथमेवमित्यतःधनमित्यादि। अन्यदिति। दत्तावशिष्टजीवाजीवधनमित्यर्थः। विप्रकारणात् विप्रप्रयोजनसम्पादनार्थमित्यर्थः। कथं विप्रप्रयोजनकत्वं धनस्येत्यतःभवत्स्वित्यादि। भवत्सुविप्रेषु सम्यक् यथाशास्त्रं प्रतिपादनेन हेतुना मयार्जितं तद्धनं मे प्रीतियशस्करं भवेत्, न तु किञ्चिद्भूमिनिक्षिप्तेन ॥ ४३ ॥
१यद्यन्ममङ।
॥ २।३२।४३ ॥ ॥ २।३२।४४ ॥
ततस्सभार्यस्त्रिजटो महामुनिः
गवामनीकं प्रतिगृह्य मोदितः।
यशोबलप्रीतिसुखोप १ बृह्मणीः
तदाशिषः प्रत्यवदन्महात्मनः ॥ ४४ ॥
तदाशिषःतस्य रामस्याशिषः २ ॥ ४४ ॥
मोदित इत्यनेन गोभ्योऽन्यन्नापेक्षितवानिति गम्यते।
१बृह्मिणीःङ।
तदा आशिष इति वा पदच्छेदः।
॥ २।३२।४४ ॥ ॥ २।३२।४५ ॥
स चापि रामः प्रतिपूर्णपौरुषः
महाधनं धर्मबलैरुपार्जितम्।
नियोजयामास सुहृज्जने चिरात्
यथार्हसम्मानवचःप्रचोदितः ॥ ४५ ॥
चिरात् यथार्हसम्मानवचोभिः सुहृज्जनैः प्रचोदितःप्रचोदितप्रीतिदानव्यापारः ॥ ४५ ॥
आहिताग्न्यादित्वान्निष्ठायाः परनिपातः, तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थःगो। अत्रोत्तरश्लोकानुरूप्यञ्च।
॥ २।३२।४५ ॥ ॥ २।३२।४६ ॥
द्विजः सुहृद्भृत्यजनोऽथवा तदा
दरिद्रभिक्षाचरणश्च १यो भवेत्।
न तत्र कश्चिन्न बभूव तर्पितः
यथार्हसम्माननदान सम्भ्रमैः ॥ ४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वात्रिंशः सर्गः
भिक्षां चरतीति वा सरूपविधिना कृत्यल्युटो बहुलम्ऽ इति कर्तरि ल्युट्। दरिद्रस्सन् भिक्षाचरणस्तथा। सुप्सुपेति समासः। चर्व (४६) मानः सर्गः ॥ ४६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वात्रिंशस्सर्गः
१आदरःति।
सम्भ्रमःत्वरागो।
॥ २।३२।४६ ॥