एकत्रिंशस्सर्गः
[लक्ष्मणवनानुगमनाभ्यनुज्ञा] ॥ २।३१।१२ ॥
एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः।
बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ १ ॥
स भ्रातुश्चरणो गाढं निपीड्य रघुनन्दनः।
सीतामुवा चातियशां रघवं च महाव्रतम् ॥ २ ॥
एवं १दृढनिश्चितससीतारामगमनलक्ष्मणकृतानुगमनप्रार्थनेन रामेण लक्ष्मणानुगमनानुमतिः। एवमित्यादि। उक्तप्रकारं सीतारामसंवादं श्रुत्वेतितत्र हेतुःलक्ष्मणः पूर्वमागत इति। संवादप्रवृत्तेः पूर्वमेव रामेण सह मातृगृहमागत इत्यर्थः। अतियशांउत्कृष्टकीर्तिमतीं। महाव्रतंवनवासलक्षणमहाव्रतकृतनिश्चयमित्यर्थः ॥ २ ॥
अतियशाःइति प्रसिद्धस्स्वरसश्च पाठः। लक्ष्मणविशेषणं। को वा एवं स्वभार्यामपि परित्यज्यान्येन सपत्नीकेन साकं वनं गच्छेदित्याशयः।
महाव्रतं अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं ममऽ इत्युक्तगुरुतरव्रतयुक्तम्गो। युक्तञ्चैतदेव। व्रतशब्दस्वारस्यात्। चरणौ निपीड्येतिअत्रापि शरणागतेः स्पष्टत्वात्।
१दृष्टनिश्चितक।
॥ २।३१।१२ ॥ ॥ २।३१।३ ॥
यदि गन्तुं कृता बुद्धिः वनं मृगगजायुतम्।
अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ ३ ॥
गन्तुं बुद्धिः कृता यदीति। युवाभ्यामिति शेषः। अहन्त्वेति। हे प्रजावति त्वां, हे, राम त्वां चेत्यर्थः। वनमनुगमिष्यामिवनं गन्तारौ युवामनुगमिष्यामि। अपि च गमनकाले अग्रत एव धनुर्धरो गमिष्यामि ॥ ३ ॥
यदीत्यनेन रामवनगमने स्वानभिमतिस्सूच्यते लक्ष्मणेन।
॥ २।३१।३ ॥ ॥ २।३१।४ ॥
मया समेतोऽरण्यानि १रम्याणि विचरिष्यसि।
पक्षिभिर्मृगयूथैश्च सङ्घुष्टानि समन्ततः ॥ ४ ॥
समेतः समेतेति च परिणामः ॥ ४ ॥
१बहूनिङ।
॥ २।३१।४ ॥ ॥ २।३१।५ ॥
न देवलोकाक्रमणं नामरत्वमहं वृणे।
ऐश्वर्यं वाऽपि लोकानां कामये न त्वया विना ॥ ५ ॥
आक्रमणंआरोहः ॥ ५ ॥
देवलोकःउपनिषत्सु प्रतिपन्नो मोक्षः। अमरत्वंकैवल्यं। लोकानामैश्वर्यंऐहिकमामुष्मिकं चगो।
॥ २।३१।५ ॥ ॥ २।३१।६७ ॥
एवं ब्रुवाणस्सौमित्रिर्वनवासाय निश्चितः।
रामेण बहुभिस्सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ ६ ॥
अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम्।
किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥ ७ ॥
पूर्वमेव भवताऽनुज्ञात इति। तस्मादपरितापस्सन् त्वमप्यनुविधाय माम्। प्रतिसंहारय क्षिप्रमाभिषेचनकीं क्रियाम्ऽ (अयो। २३, २६) इत्यनुशासनादित्यर्थः ॥ ७ ॥
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः। त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ऽ इति भरतशत्रुघ्नयोरेवानुसरणीयत्वोक्तेश्चगो।
॥ २।३१।६७ ॥ ॥ २।३१।८ ॥
यदर्थं प्रतिषेधौ मे क्रियते गन्तुमिच्छतः।
एतदिच्छामि विज्ञातुं संशयो हि ममानघ ॥ ८ ॥
एतदिच्छामीति। एतत्मत्प्रतिषेधप्रयोजनमित्यर्थः। संशयो हीति। पूर्वं किमभिप्रायतोऽनुमतिः? इदानीं किमभिप्रायेण प्रतिषेधः? इति सन्देहो जायत इत्यर्थः ॥ ८ ॥
॥ २।३१।८ ॥ ॥ २।३१।९ ॥
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः।
स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ ९ ॥
अग्रतस्स्थितंप्राग्गामिनंनिश्चितवनप्रथमगमनंतत्रानुमतिं याचमानम् ॥ ९ ॥
प्राग्गामिनंप्रागेव गन्तुमुद्युक्तम्गो। वनं प्रति प्रथमगमनाभिप्रायवन्तम्ति।
॥ २।३१।९ ॥ ॥ २।३१।१० ॥
स्निग्धो धर्मरतो वीरस्सततं सत्पथे स्थितः।
प्रियः प्राणसमो वश्यो १भ्राता चासि सखा च मे ॥ १० ॥
वश्यविधेयौ मुहुर्व्याकृतौ ॥ १० ॥
१विधेयश्चासिङ।च।
॥ २।३१।१० ॥ ॥ २।३१।११ ॥
मयाऽद्य सह, सौमित्रे त्वयि गच्छति तद्वनम्।
को १भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११ ॥
को भरिष्यतीति। एवञ्च मातृपरिरक्षणार्थमेव प्रतिषिध्यसे। पूर्वन्तु आभिषेचनिकालङ्कारप्रतिसंहारविषये मदनुविधानं मदिष्टत्वादुक्तम्। न तु वनानुगमने मदनुविधानमनुशिष्टमित्युक्तं भवति ॥ ११ ॥
१भजिष्यतिङ।च। हि रक्षतिङ।
॥ २।३१।११ ॥ ॥ २।३१।१२ ॥
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव।
स काम १ पाशपर्यस्तो महातेजा महीपतिः ॥ १२ ॥
कामैःइष्टान्नपानादिरूपैः। ननु भर्तैवास्ते रक्षकः इत्यत्राहस कामपाशेत्यादि ॥ १२ ॥
१वशङ।
॥ २।३१।१२ ॥ ॥ २।३१।१३१४ ॥
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेस्सुता।
दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३ ॥
न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्।
भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ १४ ॥
तर्हि भरतो वा पुत्रत्वाद्रक्षिष्यतीत्यत्राहन स्मरिष्यतीत्यादि। तत्र हेतुःराज्यमासाद्य कैकेय्यांतन्नियोगे सपत्नीतिरस्कारविषयके पर्यवस्थितःप्रतिष्ठितः ॥ १४ ॥
॥ २।३१।१३१४ ॥ ॥ २।३१।१५ ॥
तामार्यां स्वयमेवेह राजानुग्रहणेन वा।
सौमित्रे भर कौसल्यां उक्तमर्थमिमं चर ॥ १५ ॥
तर्हि मया वा रक्षणं कथं शक्यमित्यत्राहराजानुग्रहणेनेति। दशरथानुग्रहबलादित्यर्थः ॥ १५ ॥
॥ २।३१।१५ ॥ ॥ २।३१।१६ ॥
एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता।
धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ १६ ॥
एवं मयि चेति। मदाज्ञया मातृशुश्रूषणेनापीत्यर्थः ॥ १६ ॥
एवं कृत एव मद्विषयभक्तिस्त्वया सम्यग्दर्शिता भविष्यति इत्यर्थः।
॥ २।३१।१६ ॥ ॥ २।३१।१७ ॥
एवं कुरुष्व, सौमित्रे मत्कृते, रघुनन्दन
अस्माभिर्विप्रहीणाया मातुर्नौ न भवेत्सुखम् ॥ १७ ॥
विप्रहीणावियुक्ता। उपसर्गाद्बहुलम्ऽ इति बहुलग्रहणाण्णत्वम्। प्रहीणो ग्रामःऽ इत्यादौ प्रयोगः प्रसिद्धः ॥ १७ ॥
नःअस्माकं मातुः कौसल्यासुमित्रयोः। एकत्वं लोके प्रयोगरूढ्या।
॥ २।३१।१७ ॥ ॥ २।३१।१८१९ ॥
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ १८ ॥
तवैव तेजसा, वीर भरतः पूजयिष्यति।
कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ १९ ॥
अथ मातृरक्षायां भरत एवास्त इत्याहभरतः पूजयिष्यतीति। तत्र रामोक्तानुपपत्तिं परिहरतितवैव तेजसेति। अप्रमेयबलवैभवराममात्रुपेक्षायां ममानर्थो महान् भवितेति मत्वा सम्यक् पूजयिष्यतीत्यर्थः ॥ १९ ॥
॥ २।३१।१८१९ ॥ ॥ २।३१।२०२२ ॥
१यदि दुष्टो न रक्षेत भरतो राज्य मुत्तमम्।
प्राप्य दुर्मनसा, वीर गर्वेण च विशेषतः ॥ २० ॥
तमहं दुर्मतिं क्रूरं विधिष्यामि न संशयः।
तत्पक्ष्यानपि तान् सर्वांस्त्रैलोक्यमपि, २किन्नु सा ॥ २१ ॥
कौसल्या बिभृयादार्या सहस्रमपि मद्विधान्।
यस्यास्सहस्रं ग्रामाणां सम्प्राप्त ३ मुपजीविनाम् ॥ २२ ॥
तदेव कालान्तरीयं तस्य भयं प्रदर्शयतियदीत्यादि। त्रैलोक्यमपीति। तत्पक्ष्यं वधिष्यामीत्यनुकर्षः। वध हिंसायामिति प्रकृत्यन्तरम्। इदानीं स्वात्मभरणेस्वसंरक्षणे कौसल्यायाः कस्याप्यपेक्षा नास्तीति दर्शयतिकिन्वित्यादि। या कौसल्या सहस्रं मद्विधानपि बिभृयात्, सा स्वात्मानं बिभृयादिति किन्नुकिमु। कुतस्तस्या एवं शक्तिरित्यत्राहयस्या इत्यादि। यस्याः प्रसादात् उपजीविनां ग्रामाणां सहस्रं प्राप्तमभूत् ॥ २२ ॥
१इदं श्लोकद्वयं कुत्रचिन्नोपलभ्यतेङ।
उत्तमं राज्यं प्राप्येत्यन्वयः।
२किन्तु साङ।
उपजीवनंस्वेष्टविनियोगाय दीयमानम्।
३मुपजीवनम्ङ।
अस्य प्राप्तमित्यत्रान्वयः। सम्बन्धसामान्ये षष्ठी। उपजीविभिः प्राप्तमिति यावत्। स्वोपजीविभ्यो
ग्रामसहस्रदानेऽपि यदि शक्तिर्वर्तते तर्हि स्वरक्षणे किमु वक्तव्यमित्याशयः।
॥ २।३१।२०२२ ॥ ॥ २।३१।२३ ॥
तदात्मभरणे चैव मम मातुस्तथैव च।
पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥ २३ ॥
यदेवं अतःतदित्यादि ॥ २३ ॥
॥ २।३१।२३ ॥ ॥ २।३१।२४ ॥
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते।
कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ॥ २४ ॥
यदेवं अतो मामनुचरं कुरुष्वस्वानुमतिं देहीति यावत्। इहमत्सेवानुमतौ वैधर्म्यंवैपरीत्यसाधकं न विद्यते। त्वदुक्तहेतोरन्यथासिद्धत्वस्य दर्शितत्वादित्याशयः। अर्थः प्रकल्पत इति। फलमूलाद्याहरणरूपप्रयोजनमपि स्वप्रयासं विना ते प्रसिध्यति। अहंअहं च तेन कृतार्थो भवामि, अत उभयहितं मदनुगमनमित्यर्थः ॥ २४ ॥
॥ २।३१।२४ ॥ ॥ २।३१।२५ ॥
धनुरादाय सशरं खनित्रपिटकाधरः।
अग्रतस्ते गमिष्यामि पन्थानं १तव दर्शयन् ॥ २५ ॥
तदेव प्रयोजनं दर्शयतिधनुरादायेत्यादि। श्वापदादिरक्षाप्रयोजनो धनुर्ग्रहः ॥ २५ ॥
१अनुदर्शयन्ङ।
॥ २।३१।२५ ॥ ॥ २।३१।२६ ॥
आहरिष्यामि ते नित्यं मूलानि च फलानि च।
वन्यानि यानि चान्यानि १स्वाहाराणि तपस्विनाम् ॥
तपस्विनां स्वाहाराणीति। स्वभूतान्याहाराणि, सुष्ठून्याहाराणि च ॥ २६ ॥
स्वाहार्हाणि तपस्विनाम्। स्वाहार्हाणिहोमयोग्यानीति यावत्ति।
१स्वहार्हाणिङ। च।
॥ २।३१।२६ ॥ ॥ २।३१।२७ ॥
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते।
अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ २७ ॥
स्वपतश्च करिष्यामीत्यनेन रात्रौ निर्निद्रत्वं प्रकाश्यते ॥ २७ ॥
॥ २।३१।२७ ॥ ॥ २।३१।२८३१ ॥
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्।
व्रजापृच्छस्व, सौमित्रे सर्वमेव सुहृज्जनम् ॥ २८ ॥
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २९ ॥
अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ।
आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ ३० ॥
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि।
स त्वमायुधमादाय क्षिप्रमाव्रज, लक्ष्मण ॥ ३१ ॥
अनेनेति। स्वपतश्च करिष्यामीत्यन्तवाक्येनेत्यर्थः। व्रजअनुव्रजेति यावत्। आपृच्छस्वअनुजानीहि। ये च राज्ञ इति। सुहृज्जनं तं चापृच्छस्वेत्यनुकर्षः। अनन्तरं जनकस्य महायज्ञे महात्मा वरुणः स्वयमेवागत्य रौद्रदर्शनेभयङ्करदर्शने ये धनुषी आवयोर्ददौ तथाऽभेद्यकवचादिकं च यत्प्रत्येकमावयोर्ददौ तत्सर्वमाचार्यसद्मनि तत्पूजार्थमाचार्यं सत्कृत्य निहितंनिक्षिप्तम्। एवमनुवादादेव धनुरादिदानं तत्र सिद्धम्। आयुधमिति जात्या ॥ २८३१ ॥
सर्वं सुहृज्जनमापृच्छस्वतेभ्योऽनुमतिं गृहाणतदर्थं व्रजेति वाऽर्थः।
तिलकेगोविन्दराजीये चइदमुत्तरश्लोकान्विततया व्याख्यातम्। राज्ञ इति जनकविशेषणम्। ये इति द्वितीयाद्विवचनान्तं धनुषीत्यस्य विशेषणम्। एवञ्च जनकस्य राज्ञः महायज्ञे ये धनुषी वरुणो ददौइत्यन्वयः। परन्तु ते जनकस्य ददौ, तच्च जनकेन रामाय दत्तमित्यर्थ इति गोविन्दराजीये। बालकाण्डेऽनुक्तोऽयं वृत्तान्तोऽत्रानुवादात्सिद्धः। यथा सुन्दरकाण्डे मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मेऽ इति, यथा चायोध्याकाण्डेऽनभिहितोऽपि वायसवृत्तान्तः सुन्दरकाण्डेऽनूद्यतेइति चोक्तं गोविन्दराजीये।
॥ २।३१।२८३१ ॥ ॥ २।३१।३२ ॥
स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः।
इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ ३२ ॥
स इति। लक्ष्मण इति यावत् ॥ ३२ ॥
॥ २।३१।३२ ॥ ॥ २।३१।३३३५ ॥
तद्दिव्यं १रघुशार्दूलः सत्कृतं माल्यभूषितम्।
रामाय दर्शयामास सौमित्रिस्सर्वमायुधम् ॥ ३३ ॥
तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्।
काले त्वमागतः, सौम्य काङ्क्षिते मम, लक्ष्मण ॥
अहं प्रदातुमिच्छामि यदिदं मामकं धनम्।
ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह, परन्तप ॥ ३५ ॥
मम कांक्षितेमदभीष्टप्रयोजनसम्पादननिमित्तम्। कालेउचितकाले। आगतः ॥ ३४३५ ॥
१राजशार्दूलसत्कृतंङ।
प्रीत्या उवाचेत्यन्वयः।
॥ २।३१।३३३५ ॥ ॥ २।३१।३६ ॥
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः।
तेषामपि च मे भूयस्सर्वेषाञ्चोपजीविनाम् ॥ ३६ ॥
वसन्तीति। इहमत्समीपे। गुरुषु दृढं भक्त्योपेताः। एतेन पूर्णविद्यतया दानपात्रत्वं द्योतितम् ॥ ३६ ॥
॥ २।३१।३६ ॥ ॥ २।३१।३७ ॥
वसिष्ठपुत्रं तु सुयज्ञमार्यं
त्वमानयाशु प्रवरं द्विजानाम्।
अभिप्रयास्यामि वनं समस्तान्
अभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥ ३७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकत्रिंशः सर्गः
वसिष्ठपुत्रं तु सुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथस्य वसिष्ठपौरोहित्यं तत्पुत्रस्य तत्पुत्र इति न्यायेन स्वाचार्यस्य सुयज्ञस्य विशिष्यानयननियोगः। अस्यैव गृहे आयुधस्थापनञ्च। सर्ग (३७) मानः सर्गः ॥ ३७ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकत्रिंशः सर्गः
गोविन्दराजीये तु इक्ष्वाकुगुरुमागम्य जग्राहायुधंऽ इति कथनात् निहितं सर्वमेतदाचार्यसद्मनिऽ इत्यत्राचार्यः वसिष्ठ एव, स एव खलु इक्ष्वाकुकुलगुरुःइति वसिष्ठगृह एवायुधस्थापनमुक्तम्।
॥ २।३१।३७ ॥