०३० वनगमनानुज्ञा

त्रिंशस्सर्गः

[सीतावनानुगमनाभ्यनुज्ञा] ॥ २।३०।१ ॥

सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा।

वनवास १निमित्तार्थं भर्तारमिदमब्रवीत् ॥ १ ॥

एवं न्यायतः प्रतिपाद्यमानानुगमनस्याननुमतिर्दौर्बल्यमूलेति मर्मोक्त्या प्रतिबुद्धानुव्रजनदार्ढ्यो भगवाननुव्रजनं अनुमन्यते सीतायाः। सान्त्व्यमानेत्यादि। वनवासनिमित्तार्थमिति। वनवासनिमित्तानुमतिसिद्ध्यर्थमित्यर्थः। अन्यस्तु वनवासनिमितत्तायऽ इति पठति। स पाठो नास्माभिर्दृश्यते ॥ १ ॥

१निमित्तायङ।

गोविन्दराजः।

॥ २।३०।१ ॥ ॥ २।३०।२ ॥

सा १तमुत्तमसंविग्ना सीता विपुलवक्षसम्।

प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २ ॥

उत्तमसंविग्नाअतिभीतेति यावत्। प्रणयात्स्नेहात्। अभिमानात्अत्यन्तमिष्टभर्तृत्वेन रहः सुखदुःखकोपप्रीत्यादिप्रयुक्तवचनार्ह इत्यभिमानात्। परिचिक्षेपपरिक्षेपवचनं कृतवती ॥ २ ॥

उत्तमंअत्यन्तं कंपमानागो।

१मुहूर्तङ।

प्रणयात्स्नेहात्, अभिमानात्मदीयोऽयमित्यभिमानात्, कोपाद्वा, प्रणयकोपादिति सम्पिण्डितोऽर्थःगो।

॥ २।३०।२ ॥ ॥ २।३०।३ ॥

किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः।

राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ ३ ॥

किन्तदित्यतःकिन्त्वेत्यादि। हे राम त्वात्वां पुरुषविग्रहं (वेष) विग्रहमात्रेण पुरुषं, क्रियायां तु स्त्रियमेव सन्तं जामातरं प्राप्य किममन्यततत्त्वं न ज्ञातवानित्यर्थः। यदि जानाति मां तुभ्यं न प्रयच्छेदित्याक्षेपशेषः ॥ ३ ॥

अथवा सहधर्मचरी तवऽ इत्युक्त्वा भवते मां ददत् मे पिता, इदानीं मम त्यागे त्वा जामातरं अमन्यत किंमन्येत किम्? भवन्तं आत्मनो जामातृत्वेन निर्देशायापि लज्जेत मे पितेति भावः।

॥ २।३०।३ ॥ ॥ २।३०।४ ॥

अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति।

तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ ४ ॥

अयं लोकः अज्ञानात्उक्तरीत्या दुर्निरूपत्वत्स्वरूपापरिज्ञानाद्धेतोर्यत् वक्ष्यतिवदति तध्द्यनृतं बत किं वदतीत्यतःतेज इति। रामे परंसर्वोत्तरं स्वं तेजः परिगृह्य तपति सति दिवाकरे तेजो नास्तीवनास्त्येव। दिवाकरतेजः रामतेजस्सदृशं न भवतीति यद्वदति तदनृतमित्यर्थः ॥ ४ ॥

अयं लोको यत् वक्ष्यतिवदति रामे परं तेजोऽस्तीतिऽ इत्यर्थसिद्धम् तत् अज्ञानात्। अतोऽनृतं बत तपति दिवाकर इव रामे परं तेजो नास्ति, व्यतिरेकदृष्टान्तःगो।

॥ २।३०।४ ॥ ॥ २।३०।५ ॥

किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते।

यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ ५ ॥

किं हि कृत्वेति। मनसि किं विचार्येत्यर्थः ॥ ५ ॥

भार्यायाः सहनयनं अकृत्यं किमिति पृच्छतिकिमित्यादि।

॥ २।३०।५ ॥ ॥ २।३०।६ ॥

द्युमत्सेनसुतं १ वीर सत्यवन्तमनुव्रताम्।

सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ६ ॥

द्युमत्सेन इति कश्चित् तस्य सुतं सत्यवान्नामकमनुव्रतां सावित्रींतस्य पत्नीमिव मां विद्धि। अयमर्थस्सावित्र्युपाख्यानेऽग्रे स्पष्टीभविष्यति ॥ ६ ॥

१वीरंङ।

॥ २।३०।६ ॥ ॥ २।३०।७ ॥

न त्वहं मनसाऽप्यन्यं द्रष्टाऽस्मि त्वदृतेऽनघ

त्वया, राघव गच्छेयं यथाऽन्या कुलपांसिनी ॥ ७ ॥

न त्वित्यादि यथा कुलपांसिनी अन्यं पश्यति एवमहं त्वदृतेऽन्यं न द्रष्टाऽस्मि, लुट्। अतः ते तन्निमित्तभीत्यभावात्त्वया सह गच्छेयम् ॥ ७ ॥

मनसाऽपि अन्यं न द्रष्टाऽस्मीत्यन्वयः। न स्मरामीति यावत्

॥ २।३०।७ ॥ ॥ २।३०।८ ॥

स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्।

शैलूष इव मां, राम परेभ्यो दातुमिच्छसि ॥ ८ ॥

पुनर्मर्मवचानान्तरंस्वयन्त्वित्यादि। कौमारींयुवतीमिति यावत्। परेभ्यःअन्येभ्यो दातुमिच्छसि यथा शैलूषः। तस्य हि जायाजीवित्वात्सधर्मोऽस्ति, शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनःऽ इति ॥

परेभ्यो दातुमिच्छसीत्यस्योपपादकंकौमारीं,चिरमध्युषितामिति

॥ २।३०।८ ॥ ॥ २।३०।९ ॥

यस्य पथ्यंचरामात्थ यस्य चार्थेऽवरुध्यसे।

तस्य त्वं भव वश्यश्च १ विधेयश्च सदाऽनघ ॥ ९ ॥

कुत एवं प्रसङ्ग इत्यत्राहयस्येत्यादि। पथ्यञ्चरां इष्टानुवर्तिनीं मामात्थ। रात्रिंचर इतिवत्कृत्पूर्वपदमात्रस्य मुं छान्दसः। यस्य चार्थेयत्प्रयोजननिमित्तमवरुध्यसेअवरुद्धस्वप्रयोजनो भवसि सत्वमेव तस्य वश्यश्च भव। अत एव विधेयश्च भव। वश्यःइष्टानुवर्ती। विधेयःनियोज्यः। नाहं तदिष्टानुवर्तिनी तद्विधेया चेह वसामीत्यर्थः ॥

यस्य मातृजनस्य पथ्यंहितं आत्थ यस्य चार्थे मां निवारयसेतस्य त्वमेव वश्यो भव। यद्वा यस्यमद्गूपस्य जनस्य पथ्यमात्थतस्य त्वं वश्यो भव। त्वमेव मद्वचनं शृण्वित्यर्थः। यद्वा यस्य भरतस्य पथ्यमात्थ यस्य चार्थेअभिषेकरूपप्रयोजननिमित्ते अवरुध्यसेनिगृहीतोऽसि तस्य त्वं वश्यो भवगो।

१नियोज्यश्चङ।

॥ २।३०।९ ॥ ॥ २।३०।१०११ ॥

स मामनादाय वनं न त्वं प्रस्थातुमर्हसि।

तपो वा यदि वाऽरण्यं स्वर्गो वा मे सह त्वया ॥ १० ॥

न च मे भविता तत्र कश्चित्पथि परिश्रमः।

पृष्ठतस्तव गच्छन्त्या विहारशयने १ ष्विव ॥ ११ ॥

विहारशयनेष्विव पथि परिश्रमो नेति योजना ॥ ११ ॥

विहारार्थमृदुशयनस्थिताया इव तव पृष्ठतो गच्छन्त्याः मम परिश्रमो न भवितेत्यर्थः।

१ष्वपिङ।

॥ २।३०।१०११ ॥ ॥ २।३०।१२ ॥

कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः।

तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ १२ ॥

तूलैः, अजिनविशेषैः शीतमृदुस्पर्शवद्भिस्समास्तथा ॥ १२ ॥

तूलःपर्यङ्निर्माणोपयोगी मृदुतमः कार्पासविशेषः।

अजिनंकन्दल्याद्यजिनं कदली कन्दली च नचमूरुप्रियकावपि। समूरुश्चेति हरिणा अमी अजिनयोनयःऽ इत्यभिधानात्गो।

॥ २।३०।१२ ॥ ॥ २।३०।१३१४ ॥

महावातसमुद्धूतं यन्मा १मवकरिष्यति।

रजो, रमण तन्मन्ये पारार्ध्यमिव चन्दनम् ॥ १३ ॥

शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा।

२कुथास्तरणयुक्तेषु किं स्यात्सुखतरं ततः ॥ १४ ॥

यदा शिश्य इति। त्वया सहेति शेषः। कुथाःचित्रकम्बलविशेषाः। आस्तरणंकटादितल्पं मञ्चः ॥ १४ ॥

१मपकरिष्यतिङ।

२कुशाङ।

आस्तरणानिकौसुंभोत्तरच्छदाःगो

॥ २।३०।१३१४ ॥ ॥ २।३०।१५१६ ॥

पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु।

दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ १५ ॥

न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः।

आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १६ ॥

न मातुरित्यादौ अधीगर्थ৷৷।ऽ इति कर्मणि षष्ठी। आर्तवानितत्तदृतौ भवानि ॥ १६ ॥

॥ २।३०।१५१६ ॥ ॥ २।३०।१७१९ ॥

न च तत्र गतः किञ्चिद्द्रष्टुमर्हसि विप्रियम्।

१मत्कृते न चे ते शोको न भविष्यामि २दुर्भरा ॥ १७ ॥

यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना।

इति जानन् परां प्रीतिं गच्छ, राम मया सह ॥ १८ ॥

अथ मामव मव्यग्रां वनं नैव नयिष्यसे।

विषमद्यैव पास्यामि ३मा वशं द्विषतां गमम् ॥ १९ ॥

कैकेयीवन्मथितसिद्धान्तमाहअथेत्यादि। प्रश्नेऽथशब्दः। द्विषतां वशं मा गमम्। भरतादयो द्विषन्तः ॥ १९ ॥

मत्कृते विप्रियं न द्रष्टुमर्हसीति योजना। न च ते शोकः मत्कृते। नापि दुर्भरा भविष्यामि।

१त्वत्कृतेङ।

२दुर्मानाःङ।

अव्यग्रांवनगमने भीतिरहिताम्गो।

३माविशं द्विषतां वशंङ।

॥ २।३०।१७१९ ॥ ॥ २।३०।२० ॥

पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्।

उज्झितायास्त्वया, नाथ तदैव मरणं १ वरम् ॥ २० ॥

पश्चादपीति। किञ्चित्कालानन्तरमपीत्यर्थः। यदेवमतःतदैवत्वद्वियोगकाल एवेत्यर्थः ॥ २० ॥

१ध्रुवंङ।

॥ २।३०।२० ॥ ॥ २।३०।२१२२ ॥

इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे।

किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ २१ ॥

इति सा शोकसन्तप्ता विलप्य करुणं बहु।

चुक्रोश पात मायस्ता भृशमालिङ्ग्य सस्वरम् ॥ १२ ॥

सस्वरंसशब्दमिति यावत् ॥ २२ ॥

आयस्ताआयासं प्राप्ता।

॥ २।३०।२१२२ ॥ ॥ २।३०।२३ ॥

सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना।

चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥ २३ ॥

दिग्धैःविषलिप्तबाणैः। सन्नियतंसम्यङ्निरुद्धम् ॥ २३ ॥

॥ २।३०।२३ ॥ ॥ २।३०।२४२५ ॥

तस्याः स्फटिकसङ्काशं वारि सन्तापसम्भवम्।

नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ २४ ॥

१तच्चैवामलचन्द्राभं मुखमायतलोचनम्।

पर्यशुष्यत बाष्पेण जलोध्दृतमिवाम्बुजम् ॥ २५ ॥

जलादुध्दृतंविलूय गृहीतमिति यावत् ॥ २५ ॥

सितापूर्णमासी। तत्सम्बन्धी अमलः राह्वाद्यनुपरक्तः यश्चन्द्रः तत्सदृशंति।

१तत्सितामलचन्द्राभंतच्चैवामलसङ्काशंङ।

बाष्पेणसन्तापभवेनोष्णेन अम्बुजपक्षे ऊष्मणेत्यर्थः बाष्पमूष्माश्रुऽ इत्यमरःगो।

॥ २।३०।२४२५ ॥ ॥ २।३०।२६ ॥

तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्।

उवाच वचनं रामः परिविश्वासयंस्तदा २६ ॥

परिविश्वासयन्श्वसप्राणने, उज्जीवयन् ॥ २६ ॥

॥ २।३०।२६ ॥ ॥ २।३०।२७ ॥

न, देवि तव दुःखेन स्वर्गमप्यभिरोचये।

न हि मेऽस्ति भयं किञ्चित् स्वयंभोरिव सर्वतः ॥ २७ ॥

तव दुःखेनेति। तव वियोगदुःखेन, प्राप्यमिति शेषः। स्वयंभोर्भगवतो ब्रह्मणः सर्वतो भयाभावः स्वव्यतिरिक्ततत्त्ववस्त्वन्तराभावेन द्वितीयाद्वै भयम्ऽ इति श्रुतेः। अत्र तु सर्वतो भयाभावमात्रे दृष्टान्तः। अत्र निर्भयत्वं पूर्णबलप्रयुक्तम् ॥ २७ ॥

हेतौ वेयं तृतीया। तव दुःखसम्पादनेन मम यदि स्वर्गं वा भवेत्तदा स्वर्गं नाहं कामये इति भावः।

स्वयंभोःनारायणस्य, न चतुर्मुखस्य तस्य मधुकैटभादिभ्यो भयसम्भवात्। आर्षो डुप्रत्ययः। सर्वतःसर्वजन्तुभ्यःगो। सर्वतःयस्मात् कस्मादपि, सर्वावस्थां गतःऽ सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रतीऽ इत्यादाविव प्रातिस्विकतः सर्वापेक्षया।

॥ २।३०।२७ ॥ ॥ २।३०।२८ ॥

तव सर्वमभिप्रायमविज्ञाय, शुभानने

वासं न रोजयेऽरण्ये शक्तिमानपि रक्षणे ॥ २८ ॥

सर्वंसमग्रं आन्तरंअभिप्रायमविज्ञाय तत एव हेतोस्तव वनवासं न रोचयेनाङ्गीकृतवान्। इतः प्राक् इति शेषः ॥ २८ ॥

॥ २।३०।२८ ॥ ॥ २।३०।२९ ॥

यत्सृष्टाऽसि मया सार्धं वनवासाय, मैथिलि

न विहातुं मया शक्या १कीर्तिरात्मवता यथा ॥ २९ ॥

यत् सृष्टाऽसि निश्चिताऽसि। इदानीमिति शेषः ॥ २९ ॥

सृष्टादैवेनेति शेषःगो।

१प्रीतिङ। च।

मुक्तनिर्मितयोः प्राज्ये त्रिषु सृष्टं तु निश्चितेऽ इति रुद्रः।

॥ २।३०।२९ ॥ ॥ २।३०।३० ॥

धर्मस्तु, गजनासोरु सद्भिराचरितः पुरा।

तं चाहमनुवर्तिष्ये यथा सूर्यं सुवर्चला ॥ ३० ॥

सर्वात्मना सहृदयायास्ते सह नयनं धर्मश्चेत्याहधर्म इत्यादि। तं चपूर्वाचरितधर्ममित्यर्थः। त्वञ्च यथा सूर्यं सुवर्चलाऽन्ववर्तत तथा मामनुवर्तस्व ॥ ३० ॥

॥ २।३०।३० ॥ ॥ २।३०।३१ ॥

न खल्वहं न गच्छेयं वनं, जनकनन्दिनि

वचनं तन्नयति मां पितुस्सत्योपबृंहितम् ॥ ३१ ॥

मम तु गमनं निश्चितमेवेत्याह न खल्वित्यादि। न गच्छेयमिति न खलु गच्छेयमेव सर्वथेत्यर्थः। कुत इत्यतःवचनमित्यादि ॥

॥ २।३०।३१ ॥ ॥ २।३०।३२ ॥

एष धर्मश्च, सुश्रोणि पितुर्मातुश्च वश्यता।

१अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ ३२ ॥

एष इत्येतच्छब्दार्थः पितुर्मातुश्च वश्यतेति। वश्याताइष्टानुवर्तिता ॥ ३२ ॥

१आज्ञां चाहंङ।

॥ २।३०।३२ ॥ ॥ २।३०।३३ ॥

अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते।

स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ ३३ ॥

अस्वाधीनमिति अप्रत्यक्षात्वादेव। प्रकारैःभावनामात्रसाध्याराधनप्रकारैः ॥ ३३ ॥

प्रत्यक्षदैवाराधनं विहायाप्रत्यक्षदैवस्याराधनं कथं युक्तं स्यादिति भावः।

॥ २।३०।३३ ॥ ॥ २।३०।३४ ॥

१यत्र त्रयं त्रयो लोकाः पवित्रं तत्समं भुवि।

नान्यदस्ति, शुभापाङ्गे तेनेदमभिराध्यते ॥ ३४ ॥

यत्र त्रयमिति। पितृमातृगुरुरूपमिति यावत् ॥ ३४ ॥

यत्र पित्राराधने सति त्रयं धर्मार्थकामरूपं भवति त्रयो लोकाश्च साधिता भवन्ति तत्समं पवित्रं भुवि नास्तिति। यत्त्रयं तत्त्रयो लोकाः यत्गुर्वादित्रयं तत् त्रयो लोकाः। लोकत्रयमपि तदाराधनसाध्यमित्यर्थःगो।

१यत्त्रयं तत्त्रयो लोकाःङ।

॥ २।३०।३४ ॥ ॥ २।३०।३५ ॥

न सत्यं दान मानौ वा न यज्ञाश्चाप्तदक्षिणाः।

तथा बलकराः, सीते यथा सेवा पितुर्हिता ॥ ३५ ॥

बलकराःपरलोकबलकरा इति यावत्। हिताहितावहा पितुस्सेवा यथा न तथेति व्यतिरेके ॥ ३५ ॥

मानःदेवपूजा। आप्तदक्षिणाःइष्टदक्षिणाःयथेष्टदक्षिणाःसर्वस्वदक्षिणा इति यावत्।

॥ २।३०।३५ ॥ ॥ २।३०।३६ ॥

स्वर्गो धनं वा धान्यं वा विद्याः पुत्रास्सुखानि च।

गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम् ॥ ३६ ॥

गुरुवृत्तिःगुरूचितवृत्तिः ॥ ३६ ॥

गुरौ वृत्तिःगुरुवृत्तिः गुरुशुश्रूषेति यावत्।

॥ २।३०।३६ ॥ ॥ २।३०।३७ ॥

देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा १ ऽपरान्।

प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥ ३७ ॥

गवां लोकाःगोलोकाः ॥ ३७ ॥

१नरःङ।

॥ २।३०।३७ ॥ ॥ २।३०।३८ ॥

१स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः।

तथा वर्तितुमिच्छामि स हि धर्मस्सनातनः ॥ ३८ ॥

मामामिति यावत् ॥ ३८ ॥

१स मांङ।

॥ २।३०।३८ ॥ ॥ २।३०।३९ ॥

मम सन्ना मतिः, सीते नेतुं त्वां दण्डकावनम्।

वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ ३९ ॥

नेतुं मतिस्सन्नेति। त्वद्भावापरिज्ञानादिति शेषः। सुनिश्चितासुनिश्चितेति ज्ञाता। इदानीमिति शेषः ॥ ३९ ॥

यतो वने वसिष्यामीति दृढनिश्चयेन त्वं मामनुयातुं सुनिश्चिता, अतस्त्वां दण्डकावनं नेतुं मम या मतिःतद्विरुद्धाऽऽसीत्सेदानीं सन्नाविशीर्णाति।

॥ २।३०।३९ ॥ ॥ २।३०।४० ॥

सा हि दिष्ट्या नवद्याङ्गि वनाय, मदिरेक्षणे

अनुगच्छस्व मां, भीरु सहधर्मचरी भव ॥ ४० ॥

दिष्ट्या वनायवनं गन्तुं निश्चिता सा त्वमनुगच्छस्व ॥ ४० ॥

दिष्टाङ। च। सृष्टाच। दिष्टाअनुज्ञाताति। सृष्टादैवेनेति शेषःगो।

॥ २।३०।४० ॥ ॥ २।३०।४१ ॥

सर्वथा सदृशं, सीते मम स्वस्य कुलस्य च।

व्यवसाय १ मनुक्रान्ता, कान्ते त्वमतिशोभनम् ॥ ४१ ॥

व्यवसायंनिश्चयं। अनुक्रान्ताअनुप्राप्ता ॥ ४१ ॥

व्यवसायंभर्त्रनुसरणाध्यवसायं अतिक्रान्ताप्रकर्षेण प्राप्तागो।

१मतिक्रान्ता, मनुप्राप्ताङ।

॥ २।३०।४१ ॥ ॥ २।३०।४२ ॥

आरभस्व, शुभश्रोणि वनवासक्षमाः क्रियाः।

नेदानीं त्वदृते, सीते स्वर्गोऽपि मम रोचते ॥ ४२ ॥

इदानीमिति। एवं दृढनिश्चये सतीत्यर्थः ॥ ४२ ॥

वनवासक्षमाःवनवासयोग्याः क्रियाःदानादिक्रियाःगो।

॥ २।३०।४२ ॥ ॥ २।३०।४३ ॥

ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्।

देहि चाशंसमानेभ्यः सन्त्वरस्व च मा चिरम् ॥ ४३ ॥

रत्नानिउत्तमवस्तूनि। भिक्षुकाःतापसादयः। भोजनमाशंसमानेभ्यःप्रार्थयमानेभ्य इत्यर्थः ॥ ४३ ॥

॥ २।३०।४३ ॥ ॥ २।३०।४४ ॥

भूषणानि महार्हाणि वरवस्त्राणि यानि च।

रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः ॥ ४४ ॥

उपस्कराःपरिकराः ॥ ४४ ॥

क्रीडार्था उपस्कराःस्वर्णमयपुत्रिकाद्युपकरणानिति।

॥ २।३०।४४ ॥ ॥ २।३०।४५४६ ॥

शयनीयानि यानानि मम चान्यानि यानि च।

देहि स्वभृत्य १ वर्गस्य ब्राह्मणानामनन्तरम् ॥ ४५ ॥

अनुकूलं तु सा भर्तुर्ज्ञात्वाऽऽगमनमात्मनः।

२क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिंशस्सर्गः

आत्मनः आगमनंअनुगमनमिति यावत्। ऋताभि (४६) मानः सर्गः ॥ ४६ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे त्रिंशस्सर्गः

१वर्गेभ्यःङ।

ब्राह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति सम्बन्धःगो। ब्राह्मणानां ब्राह्मणसम्प्रदानकदानानामनन्तरम्शि। अथवा शयनादीनां रामोपभुक्तत्वेन तेषां ब्राह्मणेभ्यो दानस्यानुचितत्वात् तानि भृत्यवर्गाय देहि, ब्राह्मणानां तु अनन्तरंसमनन्तरोक्तं रत्नादि देहीति वाऽर्थः। अत एव पर्यङ्कमग्र्यास्तरणंप्रतिष्ठापयितुंऽ इति व्यङ्ग्यमर्यादयोच्यते। न तु स्पष्टं दानम् इति केचित् ॥

२एतदनन्तरंततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरपेक्ष्य भाषितम्। धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥ ऽ इत्यधिकम्ङ। झ।

॥ २।३०।४५४६ ॥